| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
सुपर्णेनोह्यमानास्ते जग्मुस्तं देशमाशु वै । सागराम्बुपरिक्षिप्तं पक्षिसङ्घनिनादितम् ॥१॥
सुपर्णेन उह्यमानाः ते जग्मुः तम् देशम् आशु वै । सागर-अम्बु-परिक्षिप्तम् पक्षि-सङ्घ-निनादितम् ॥१॥
suparṇena uhyamānāḥ te jagmuḥ tam deśam āśu vai . sāgara-ambu-parikṣiptam pakṣi-saṅgha-nināditam ..1..
विचित्रफलपुष्पाभिर्वनराजिभिरावृतम् । भवनैरावृतं रम्यैस्तथा पद्माकरैरपि ॥२॥
विचित्र-फल-पुष्पाभिः वन-राजिभिः आवृतम् । भवनैः आवृतम् रम्यैः तथा पद्म-आकरैः अपि ॥२॥
vicitra-phala-puṣpābhiḥ vana-rājibhiḥ āvṛtam . bhavanaiḥ āvṛtam ramyaiḥ tathā padma-ākaraiḥ api ..2..
प्रसन्नसलिलैश्चापि ह्रदैश्चित्रैर्विभूषितम् । दिव्यगन्धवहैः पुण्यैर्मारुतैरुपवीजितम् ॥३॥
प्रसन्न-सलिलैः च अपि ह्रदैः चित्रैः विभूषितम् । दिव्य-गन्ध-वहैः पुण्यैः मारुतैः उपवीजितम् ॥३॥
prasanna-salilaiḥ ca api hradaiḥ citraiḥ vibhūṣitam . divya-gandha-vahaiḥ puṇyaiḥ mārutaiḥ upavījitam ..3..
उपजिघ्रद्भिराकाशं वृक्षैर्मलयजैरपि । शोभितं पुष्पवर्षाणि मुञ्चद्भिर्मारुतोद्धुतैः ॥४॥
उपजिघ्रद्भिः आकाशम् वृक्षैः मलयजैः अपि । शोभितम् पुष्प-वर्षाणि मुञ्चद्भिः मारुत-उद्धुतैः ॥४॥
upajighradbhiḥ ākāśam vṛkṣaiḥ malayajaiḥ api . śobhitam puṣpa-varṣāṇi muñcadbhiḥ māruta-uddhutaiḥ ..4..
किरद्भिरिव तत्रस्थान्नागान्पुष्पाम्बुवृष्टिभिः । मनःसंहर्षणं पुण्यं गन्धर्वाप्सरसां प्रियम् ॥५॥ ( नानापक्षिरुतं रम्यं कद्रूपुत्रप्रहर्षणम् ॥५॥ )
किरद्भिः इव तत्रस्थान् नागान् पुष्प-अम्बु-वृष्टिभिः । मनः-संहर्षणम् पुण्यम् गन्धर्व-अप्सरसाम् प्रियम् ॥५॥ ( नाना पक्षि-रुतम् रम्यम् कद्रु-पुत्र-प्रहर्षणम् ॥५॥ )
kiradbhiḥ iva tatrasthān nāgān puṣpa-ambu-vṛṣṭibhiḥ . manaḥ-saṃharṣaṇam puṇyam gandharva-apsarasām priyam ..5.. ( nānā pakṣi-rutam ramyam kadru-putra-praharṣaṇam ..5.. )
तत्ते वनं समासाद्य विजह्रुः पन्नगा मुदा । अब्रुवंश्च महावीर्यं सुपर्णं पतगोत्तमम् ॥६॥
तत् ते वनम् समासाद्य विजह्रुः पन्नगाः मुदा । अब्रुवन् च महा-वीर्यम् सुपर्णम् पतग-उत्तमम् ॥६॥
tat te vanam samāsādya vijahruḥ pannagāḥ mudā . abruvan ca mahā-vīryam suparṇam pataga-uttamam ..6..
वहास्मानपरं द्वीपं सुरम्यं विपुलोदकम् । त्वं हि देशान्बहून्रम्यान्पतन्पश्यसि खेचर ॥७॥
वह अस्मान् अपरम् द्वीपम् सु रम्यम् विपुल-उदकम् । त्वम् हि देशान् बहून् रम्यान् पतन् पश्यसि खेचर ॥७॥
vaha asmān aparam dvīpam su ramyam vipula-udakam . tvam hi deśān bahūn ramyān patan paśyasi khecara ..7..
स विचिन्त्याब्रवीत्पक्षी मातरं विनतां तदा । किं कारणं मया मातः कर्तव्यं सर्पभाषितम् ॥८॥
स विचिन्त्य अब्रवीत् पक्षी मातरम् विनताम् तदा । किम् कारणम् मया मातर् कर्तव्यम् सर्प-भाषितम् ॥८॥
sa vicintya abravīt pakṣī mātaram vinatām tadā . kim kāraṇam mayā mātar kartavyam sarpa-bhāṣitam ..8..
विनतोवाच॥
दासीभूतास्म्यनार्याया भगिन्याः पतगोत्तम । पणं वितथमास्थाय सर्पैरुपधिना कृतम् ॥९॥
दासी-भूता अस्मि अनार्यायाः भगिन्याः पतग-उत्तम । पणम् वितथम् आस्थाय सर्पैः उपधिना कृतम् ॥९॥
dāsī-bhūtā asmi anāryāyāḥ bhaginyāḥ pataga-uttama . paṇam vitatham āsthāya sarpaiḥ upadhinā kṛtam ..9..
सूत उवाच॥
तस्मिंस्तु कथिते मात्रा कारणे गगनेचरः । उवाच वचनं सर्पांस्तेन दुःखेन दुःखितः ॥१०॥
तस्मिन् तु कथिते मात्रा कारणे गगनेचरः । उवाच वचनम् सर्पान् तेन दुःखेन दुःखितः ॥१०॥
tasmin tu kathite mātrā kāraṇe gaganecaraḥ . uvāca vacanam sarpān tena duḥkhena duḥkhitaḥ ..10..
किमाहृत्य विदित्वा वा किं वा कृत्वेह पौरुषम् । दास्याद्वो विप्रमुच्येयं सत्यं शंसत लेलिहाः ॥११॥
किम् आहृत्य विदित्वा वा किम् वा कृत्वा इह पौरुषम् । दास्यात् वः विप्रमुच्येयम् सत्यम् शंसत लेलिहाः ॥११॥
kim āhṛtya viditvā vā kim vā kṛtvā iha pauruṣam . dāsyāt vaḥ vipramucyeyam satyam śaṃsata lelihāḥ ..11..
श्रुत्वा तमब्रुवन्सर्पा आहरामृतमोजसा । ततो दास्याद्विप्रमोक्षो भविता तव खेचर ॥१२॥ 1.27.16
श्रुत्वा तम् अब्रुवन् सर्पाः आहर अमृतम् ओजसा । ततस् दास्यात् विप्रमोक्षः भविता तव खेचर ॥१२॥ १।२७।१६
śrutvā tam abruvan sarpāḥ āhara amṛtam ojasā . tatas dāsyāt vipramokṣaḥ bhavitā tava khecara ..12.. 1.27.16

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In