| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत् । गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम् ॥१॥
इति उक्तः गरुडः सर्पैः ततस् मातरम् अब्रवीत् । गच्छामि अमृतम् आहर्तुम् भक्ष्यम् इच्छामि वेदितुम् ॥१॥
iti uktaḥ garuḍaḥ sarpaiḥ tatas mātaram abravīt . gacchāmi amṛtam āhartum bhakṣyam icchāmi veditum ..1..
विनतोवाच॥
समुद्रकुक्षावेकान्ते निषादालयमुत्तमम् । सहस्राणामनेकानां तान्भुक्त्वामृतमानय ॥२॥
समुद्र-कुक्षौ एकान्ते निषाद-आलयम् उत्तमम् । सहस्राणाम् अनेकानाम् तान् भुक्त्वा अमृतम् आनय ॥२॥
samudra-kukṣau ekānte niṣāda-ālayam uttamam . sahasrāṇām anekānām tān bhuktvā amṛtam ānaya ..2..
न तु ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथञ्चन । अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः ॥३॥
न तु ते ब्राह्मणम् हन्तुम् कार्या बुद्धिः कथञ्चन । अवध्यः सर्व-भूतानाम् ब्राह्मणः हि अनल-उपमः ॥३॥
na tu te brāhmaṇam hantum kāryā buddhiḥ kathañcana . avadhyaḥ sarva-bhūtānām brāhmaṇaḥ hi anala-upamaḥ ..3..
अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः । भूतानामग्रभुग्विप्रो वर्णश्रेष्ठः पिता गुरुः ॥४॥
अग्निः अर्कः विषम् शस्त्रम् विप्रः भवति कोपितः । भूतानाम् अग्र-भुज् विप्रः वर्ण-श्रेष्ठः पिता गुरुः ॥४॥
agniḥ arkaḥ viṣam śastram vipraḥ bhavati kopitaḥ . bhūtānām agra-bhuj vipraḥ varṇa-śreṣṭhaḥ pitā guruḥ ..4..
गरुड उवाच॥
यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः । तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि ॥५॥
यथा अहम् अभिजानीयाम् ब्राह्मणम् लक्षणैः शुभैः । तत् मे कारणतः मातर् पृच्छतः वक्तुम् अर्हसि ॥५॥
yathā aham abhijānīyām brāhmaṇam lakṣaṇaiḥ śubhaiḥ . tat me kāraṇataḥ mātar pṛcchataḥ vaktum arhasi ..5..
विनतोवाच॥
यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा । दहेदङ्गारवत्पुत्र तं विद्याद्बाह्मणर्षभम् ॥६॥
यः ते कण्ठम् अनुप्राप्तः निगीर्णम् बडिशम् यथा । दहेत् अङ्गार-वत् पुत्र तम् विद्यात् बाह्मण-ऋषभम् ॥६॥
yaḥ te kaṇṭham anuprāptaḥ nigīrṇam baḍiśam yathā . dahet aṅgāra-vat putra tam vidyāt bāhmaṇa-ṛṣabham ..6..
सूत उवाच॥
प्रोवाच चैनं विनता पुत्रहार्दादिदं वचः । जानन्त्यप्यतुलं वीर्यमाशीर्वादसमन्वितम् ॥७॥
प्रोवाच च एनम् विनता पुत्र-हार्दात् इदम् वचः । जानन्ति अपि अतुलम् वीर्यम् आशीर्वाद-समन्वितम् ॥७॥
provāca ca enam vinatā putra-hārdāt idam vacaḥ . jānanti api atulam vīryam āśīrvāda-samanvitam ..7..
पक्षौ ते मारुतः पातु चन्द्रः पृष्ठं तु पुत्रक । शिरस्तु पातु ते वह्निर्भास्करः सर्वमेव तु ॥८॥
पक्षौ ते मारुतः पातु चन्द्रः पृष्ठम् तु पुत्रक । शिरः तु पातु ते वह्निः भास्करः सर्वम् एव तु ॥८॥
pakṣau te mārutaḥ pātu candraḥ pṛṣṭham tu putraka . śiraḥ tu pātu te vahniḥ bhāskaraḥ sarvam eva tu ..8..
अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा । अरिष्टं व्रज पन्थानं वत्स कार्यार्थसिद्धये ॥९॥
अहम् च ते सदा पुत्र शान्ति-स्वस्ति-परायणा । अरिष्टम् व्रज पन्थानम् वत्स कार्य-अर्थ-सिद्धये ॥९॥
aham ca te sadā putra śānti-svasti-parāyaṇā . ariṣṭam vraja panthānam vatsa kārya-artha-siddhaye ..9..
ततः स मातुर्वचनं निशम्य; वितत्य पक्षौ नभ उत्पपात । ततो निषादान्बलवानुपागम; द्बुभुक्षितः काल इवान्तको महान् ॥१०॥ 1.28.17
ततस् स मातुः वचनम् निशम्य; वितत्य पक्षौ नभः उत्पपात । ततस् निषादान् बलवान् उपागम; द्बुभुक्षितः कालः इव अन्तकः महान् ॥१०॥ १।२८।१७
tatas sa mātuḥ vacanam niśamya; vitatya pakṣau nabhaḥ utpapāta . tatas niṣādān balavān upāgama; dbubhukṣitaḥ kālaḥ iva antakaḥ mahān ..10.. 1.28.17
स तान्निषादानुपसंहरंस्तदा; रजः समुद्धूय नभःस्पृशं महत् । समुद्रकुक्षौ च विशोषयन्पयः; समीपगान्भूमिधरान्विचालयन् ॥११॥
स तान् निषादान् उपसंहरन् तदा; रजः समुद्धूय नभः-स्पृशम् महत् । समुद्र-कुक्षौ च विशोषयन् पयः; समीप-गान् भूमिधरान् विचालयन् ॥११॥
sa tān niṣādān upasaṃharan tadā; rajaḥ samuddhūya nabhaḥ-spṛśam mahat . samudra-kukṣau ca viśoṣayan payaḥ; samīpa-gān bhūmidharān vicālayan ..11..
ततः स चक्रे महदाननं तदा; निषादमार्गं प्रतिरुध्य पक्षिराट् । ततो निषादास्त्वरिताः प्रवव्रजु; र्यतो मुखं तस्य भुजङ्गभोजिनः ॥१२॥
ततस् स चक्रे महत् आननम् तदा; निषाद-मार्गम् प्रतिरुध्य पक्षिराज् । ततस् निषादाः त्वरिताः प्रवव्रजु; मुखम् तस्य भुजङ्गभोजिनः ॥१२॥
tatas sa cakre mahat ānanam tadā; niṣāda-mārgam pratirudhya pakṣirāj . tatas niṣādāḥ tvaritāḥ pravavraju; mukham tasya bhujaṅgabhojinaḥ ..12..
तदाननं विवृतमतिप्रमाणव; त्समभ्ययुर्गगनमिवार्दिताः खगाः । सहस्रशः पवनरजोभ्रमोहिता; महानिलप्रचलितपादपे वने ॥१३॥
तद्-आननम् विवृत-मति-प्रमाणव; त्समभ्ययुः गगनम् इव अर्दिताः खगाः । सहस्रशस् पवन-रजः-भ्रम-उहिता; महा-अनिल-प्रचलित-पादपे वने ॥१३॥
tad-ānanam vivṛta-mati-pramāṇava; tsamabhyayuḥ gaganam iva arditāḥ khagāḥ . sahasraśas pavana-rajaḥ-bhrama-uhitā; mahā-anila-pracalita-pādape vane ..13..
ततः खगो वदनममित्रतापनः; समाहरत्परिचपलो महाबलः । निषूदयन्बहुविधमत्स्यभक्षिणो; बुभुक्षितो गगनचरेश्वरस्तदा ॥१४॥ 1.28.21
ततस् खगः वदनम् अमित्र-तापनः; समाहरत् परिचपलः महा-बलः । निषूदयन् बहुविध-मत्स्य-भक्षिणः; बुभुक्षितः गगनचर-ईश्वरः तदा ॥१४॥ १।२८।२१
tatas khagaḥ vadanam amitra-tāpanaḥ; samāharat paricapalaḥ mahā-balaḥ . niṣūdayan bahuvidha-matsya-bhakṣiṇaḥ; bubhukṣitaḥ gaganacara-īśvaraḥ tadā ..14.. 1.28.21

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In