| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया । दहन्दीप्त इवाङ्गारस्तमुवाचान्तरिक्षगः ॥१॥
तस्य कण्ठम् अनुप्राप्तः ब्राह्मणः सह भार्यया । दहन् दीप्तः इव अङ्गारः तम् उवाच अन्तरिक्ष-गः ॥१॥
tasya kaṇṭham anuprāptaḥ brāhmaṇaḥ saha bhāryayā . dahan dīptaḥ iva aṅgāraḥ tam uvāca antarikṣa-gaḥ ..1..
द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात् । न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा ॥२॥
द्विजोत्तम विनिर्गच्छ तूर्णम् आस्यात् अपावृतात् । न हि मे ब्राह्मणः वध्यः पापेषु अपि रतः सदा ॥२॥
dvijottama vinirgaccha tūrṇam āsyāt apāvṛtāt . na hi me brāhmaṇaḥ vadhyaḥ pāpeṣu api rataḥ sadā ..2..
ब्रुवाणमेवं गरुडं ब्राह्मणः समभाषत । निषादी मम भार्येयं निर्गच्छतु मया सह ॥३॥
ब्रुवाणम् एवम् गरुडम् ब्राह्मणः समभाषत । निषादी मम भार्या इयम् निर्गच्छतु मया सह ॥३॥
bruvāṇam evam garuḍam brāhmaṇaḥ samabhāṣata . niṣādī mama bhāryā iyam nirgacchatu mayā saha ..3..
गरुड उवाच॥
एतामपि निषादीं त्वं परिगृह्याशु निष्पत । तूर्णं सम्भावयात्मानमजीर्णं मम तेजसा ॥४॥
एताम् अपि निषादीम् त्वम् परिगृह्य आशु निष्पत । तूर्णम् सम्भावय आत्मानम् अजीर्णम् मम तेजसा ॥४॥
etām api niṣādīm tvam parigṛhya āśu niṣpata . tūrṇam sambhāvaya ātmānam ajīrṇam mama tejasā ..4..
सूत उवाच॥
ततः स विप्रो निष्क्रान्तो निषादीसहितस्तदा । वर्धयित्वा च गरुडमिष्टं देशं जगाम ह ॥५॥
ततस् स विप्रः निष्क्रान्तः निषादी-सहितः तदा । वर्धयित्वा च गरुडम् इष्टम् देशम् जगाम ह ॥५॥
tatas sa vipraḥ niṣkrāntaḥ niṣādī-sahitaḥ tadā . vardhayitvā ca garuḍam iṣṭam deśam jagāma ha ..5..
सहभार्ये विनिष्क्रान्ते तस्मिन्विप्रे स पक्षिराट् । वितत्य पक्षावाकाशमुत्पपात मनोजवः ॥६॥
सहभार्ये विनिष्क्रान्ते तस्मिन् विप्रे स पक्षिराज् । वितत्य पक्षौ आकाशम् उत्पपात मनोजवः ॥६॥
sahabhārye viniṣkrānte tasmin vipre sa pakṣirāj . vitatya pakṣau ākāśam utpapāta manojavaḥ ..6..
ततोऽपश्यत्स पितरं पृष्टश्चाख्यातवान्पितुः । अहं हि सर्पैः प्रहितः सोममाहर्तुमुद्यतः ॥७॥ ( मातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै ॥७॥ )
ततस् अपश्यत् स पितरम् पृष्टः च आख्यातवान् पितुः । अहम् हि सर्पैः प्रहितः सोमम् आहर्तुम् उद्यतः ॥७॥ ( मातुः दास्य-विमोक्ष-अर्थम् आहरिष्ये तम् अद्य वै ॥७॥ )
tatas apaśyat sa pitaram pṛṣṭaḥ ca ākhyātavān pituḥ . aham hi sarpaiḥ prahitaḥ somam āhartum udyataḥ ..7.. ( mātuḥ dāsya-vimokṣa-artham āhariṣye tam adya vai ..7.. )
मात्रा चास्मि समादिष्टो निषादान्भक्षयेति वै । न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः ॥८॥
मात्रा च अस्मि समादिष्टः निषादान् भक्षय इति वै । न च मे तृप्तिः अभवत् भक्षयित्वा सहस्रशस् ॥८॥
mātrā ca asmi samādiṣṭaḥ niṣādān bhakṣaya iti vai . na ca me tṛptiḥ abhavat bhakṣayitvā sahasraśas ..8..
तस्माद्भोक्तव्यमपरं भगवन्प्रदिशस्व मे । यद्भुक्त्वामृतमाहर्तुं समर्थः स्यामहं प्रभो ॥९॥
तस्मात् भोक्तव्यम् अपरम् भगवन् प्रदिशस्व मे । यत् भुक्त्वा अमृतम् आहर्तुम् समर्थः स्याम् अहम् प्रभो ॥९॥
tasmāt bhoktavyam aparam bhagavan pradiśasva me . yat bhuktvā amṛtam āhartum samarthaḥ syām aham prabho ..9..
कश्यप उवाच॥
आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम् । भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः ॥१०॥
आसीत् विभावसुः नाम महा-ऋषिः कोपनः भृशम् । भ्राता तस्य अनुजः च आसीत् सुप्रतीकः महा-तपाः ॥१०॥
āsīt vibhāvasuḥ nāma mahā-ṛṣiḥ kopanaḥ bhṛśam . bhrātā tasya anujaḥ ca āsīt supratīkaḥ mahā-tapāḥ ..10..
स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः । विभागं कीर्तयत्येव सुप्रतीकोऽथ नित्यशः ॥११॥
स ना इच्छति धनम् भ्रात्रा सह एकस्थम् महा-मुनिः । विभागम् कीर्तयति एव सुप्रतीकः अथ नित्यशस् ॥११॥
sa nā icchati dhanam bhrātrā saha ekastham mahā-muniḥ . vibhāgam kīrtayati eva supratīkaḥ atha nityaśas ..11..
अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः । विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यदा ॥१२॥ ( ततो विभक्ता अन्योन्यं नाद्रियन्तेऽर्थमोहिताः ॥१२॥ )
अथा अब्रवीत् च तम् भ्राता सुप्रतीकम् विभावसुः । विभागम् बहवः मोहात् कर्तुम् इच्छन्ति नित्यदा ॥१२॥ ( ततस् विभक्ताः अन्योन्यम् न आद्रियन्ते अर्थ-मोहिताः ॥१२॥ )
athā abravīt ca tam bhrātā supratīkam vibhāvasuḥ . vibhāgam bahavaḥ mohāt kartum icchanti nityadā ..12.. ( tatas vibhaktāḥ anyonyam na ādriyante artha-mohitāḥ ..12.. )
ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः । विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः ॥१३॥
ततस् स्व-अर्थ-परान् मूढान् पृथक् भूतान् स्वकैः धनैः । विदित्वा भेदयन्ति एतान् अमित्राः मित्र-रूपिणः ॥१३॥
tatas sva-artha-parān mūḍhān pṛthak bhūtān svakaiḥ dhanaiḥ . viditvā bhedayanti etān amitrāḥ mitra-rūpiṇaḥ ..13..
विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ । भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते ॥१४॥
विदित्वा च अपरे भिन्न-अनन्तरेषु पतन्ति अथ । भिन्नानाम् अतुलः नाशः क्षिप्रम् एव प्रवर्तते ॥१४॥
viditvā ca apare bhinna-anantareṣu patanti atha . bhinnānām atulaḥ nāśaḥ kṣipram eva pravartate ..14..
तस्माच्चैव विभागार्थं न प्रशंसन्ति पण्डिताः । गुरुशास्त्रे निबद्धानामन्योन्यमभिशङ्किनाम् ॥१५॥
तस्मात् च एव विभाग-अर्थम् न प्रशंसन्ति पण्डिताः । गुरु-शास्त्रे निबद्धानाम् अन्योन्यम् अभिशङ्किनाम् ॥१५॥
tasmāt ca eva vibhāga-artham na praśaṃsanti paṇḍitāḥ . guru-śāstre nibaddhānām anyonyam abhiśaṅkinām ..15..
नियन्तुं न हि शक्यस्त्वं भेदतो धनमिच्छसि । यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि ॥१६॥
नियन्तुम् न हि शक्यः त्वम् भेदतः धनम् इच्छसि । यस्मात् तस्मात् सुप्रतीक हस्ति-त्वम् समवाप्स्यसि ॥१६॥
niyantum na hi śakyaḥ tvam bhedataḥ dhanam icchasi . yasmāt tasmāt supratīka hasti-tvam samavāpsyasi ..16..
शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत् । त्वमप्यन्तर्जलचरः कच्छपः सम्भविष्यसि ॥१७॥
शप्तः तु एवम् सुप्रतीकः विभावसुम् अथ अब्रवीत् । त्वम् अपि अन्तर् जलचरः कच्छपः सम्भविष्यसि ॥१७॥
śaptaḥ tu evam supratīkaḥ vibhāvasum atha abravīt . tvam api antar jalacaraḥ kacchapaḥ sambhaviṣyasi ..17..
एवमन्योन्यशापात्तौ सुप्रतीकविभावसू । गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ ॥१८॥
एवम् अन्योन्य-शापात् तौ सुप्रतीक-विभावसू । गज-कच्छपताम् प्राप्तौ अर्थ-अर्थम् मूढ-चेतसौ ॥१८॥
evam anyonya-śāpāt tau supratīka-vibhāvasū . gaja-kacchapatām prāptau artha-artham mūḍha-cetasau ..18..
रोषदोषानुषङ्गेण तिर्यग्योनिगतावपि । परस्परद्वेषरतौ प्रमाणबलदर्पितौ ॥१९॥
रोष-दोष-अनुषङ्गेण तिर्यग्योनि-गतौ अपि । परस्पर-द्वेष-रतौ प्रमाण-बल-दर्पितौ ॥१९॥
roṣa-doṣa-anuṣaṅgeṇa tiryagyoni-gatau api . paraspara-dveṣa-ratau pramāṇa-bala-darpitau ..19..
सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ । तयोरेकतरः श्रीमान्समुपैति महागजः ॥२०॥
सरसि अस्मिन् महा-कायौ पूर्व-वैर-अनुसारिणौ । तयोः एकतरः श्रीमान् समुपैति महा-गजः ॥२०॥
sarasi asmin mahā-kāyau pūrva-vaira-anusāriṇau . tayoḥ ekataraḥ śrīmān samupaiti mahā-gajaḥ ..20..
तस्य बृंहितशब्देन कूर्मोऽप्यन्तर्जलेशयः । उत्थितोऽसौ महाकायः कृत्स्नं सङ्क्षोभयन्सरः ॥२१॥
तस्य बृंहित-शब्देन कूर्मः अपि अन्तर् जलेशयः । उत्थितः असौ महा-कायः कृत्स्नम् सङ्क्षोभयन् सरः ॥२१॥
tasya bṛṃhita-śabdena kūrmaḥ api antar jaleśayaḥ . utthitaḥ asau mahā-kāyaḥ kṛtsnam saṅkṣobhayan saraḥ ..21..
तं दृष्ट्वावेष्टितकरः पतत्येष गजो जलम् । दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान् ॥२२॥
तम् दृष्ट्वा आवेष्टित-करः पतति एष गजः जलम् । दन्त-हस्त-अग्र-लाङ्गूल-पाद-वेगेन वीर्यवान् ॥२२॥
tam dṛṣṭvā āveṣṭita-karaḥ patati eṣa gajaḥ jalam . danta-hasta-agra-lāṅgūla-pāda-vegena vīryavān ..22..
तं विक्षोभयमाणं तु सरो बहुझषाकुलम् । कूर्मोऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान् ॥२३॥
तम् विक्षोभयमाणम् तु सरः बहु-झष-आकुलम् । कूर्मः अपि अभ्युद्यत-शिराः युद्धाय अभ्येति वीर्यवान् ॥२३॥
tam vikṣobhayamāṇam tu saraḥ bahu-jhaṣa-ākulam . kūrmaḥ api abhyudyata-śirāḥ yuddhāya abhyeti vīryavān ..23..
षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः । कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः ॥२४॥
षष् उच्छ्रितः योजनानि गजः तद्-द्विगुण-आयतः । कूर्मः त्रि-योजन-उत्सेधः दश-योजन-मण्डलः ॥२४॥
ṣaṣ ucchritaḥ yojanāni gajaḥ tad-dviguṇa-āyataḥ . kūrmaḥ tri-yojana-utsedhaḥ daśa-yojana-maṇḍalaḥ ..24..
तावेतौ युद्धसंमत्तौ परस्परजयैषिणौ । उपयुज्याशु कर्मेदं साधयेप्सितमात्मनः ॥२५॥
तौ एतौ युद्ध-संमत्तौ परस्पर-जय-एषिणौ । उपयुज्य आशु कर्म इदम् साधय ईप्सितम् आत्मनः ॥२५॥
tau etau yuddha-saṃmattau paraspara-jaya-eṣiṇau . upayujya āśu karma idam sādhaya īpsitam ātmanaḥ ..25..
सूत उवाच॥
स तच्छ्रुत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः । नखेन गजमेकेन कूर्ममेकेन चाक्षिपत् ॥२६॥
स तत् श्रुत्वा पितुः वाक्यम् भीम-वेगः अन्तरिक्ष-गः । नखेन गजम् एकेन कूर्मम् एकेन च अक्षिपत् ॥२६॥
sa tat śrutvā pituḥ vākyam bhīma-vegaḥ antarikṣa-gaḥ . nakhena gajam ekena kūrmam ekena ca akṣipat ..26..
समुत्पपात चाकाशं तत उच्चैर्विहङ्गमः । सोऽलम्बतीर्थमासाद्य देववृक्षानुपागमत् ॥२७॥
समुत्पपात च आकाशम् ततस् उच्चैस् विहङ्गमः । सः अलम्बतीर्थम् आसाद्य देववृक्षान् उपागमत् ॥२७॥
samutpapāta ca ākāśam tatas uccais vihaṅgamaḥ . saḥ alambatīrtham āsādya devavṛkṣān upāgamat ..27..
ते भीताः समकम्पन्त तस्य पक्षानिलाहताः । न नो भञ्ज्यादिति तदा दिव्याः कनकशाखिनः ॥२८॥
ते भीताः समकम्पन्त तस्य पक्ष-अनिल-आहताः । न नः भञ्ज्यात् इति तदा दिव्याः कनक-शाखिनः ॥२८॥
te bhītāḥ samakampanta tasya pakṣa-anila-āhatāḥ . na naḥ bhañjyāt iti tadā divyāḥ kanaka-śākhinaḥ ..28..
प्रचलाङ्गान्स तान्दृष्ट्वा मनोरथफलाङ्कुरान् । अन्यानतुलरूपाङ्गानुपचक्राम खेचरः ॥२९॥
प्रचल-अङ्गान् स तान् दृष्ट्वा मनोरथ-फल-अङ्कुरान् । अन्यान् अतुल-रूप-अङ्गान् उपचक्राम खेचरः ॥२९॥
pracala-aṅgān sa tān dṛṣṭvā manoratha-phala-aṅkurān . anyān atula-rūpa-aṅgān upacakrāma khecaraḥ ..29..
काञ्चनै राजतैश्चैव फलैर्वैडूर्यशाखिनः । सागराम्बुपरिक्षिप्तान्भ्राजमानान्महाद्रुमान् ॥३०॥
काञ्चनैः राजतैः च एव फलैः वैडूर्य-शाखिनः । सागर-अम्बु-परिक्षिप्तान् भ्राजमानान् महा-द्रुमान् ॥३०॥
kāñcanaiḥ rājataiḥ ca eva phalaiḥ vaiḍūrya-śākhinaḥ . sāgara-ambu-parikṣiptān bhrājamānān mahā-drumān ..30..
तमुवाच खगश्रेष्ठं तत्र रोहिणपादपः । अतिप्रवृद्धः सुमहानापतन्तं मनोजवम् ॥३१॥
तम् उवाच खग-श्रेष्ठम् तत्र रोहिण-पादपः । अतिप्रवृद्धः सु महान् आपतन्तम् मनोजवम् ॥३१॥
tam uvāca khaga-śreṣṭham tatra rohiṇa-pādapaḥ . atipravṛddhaḥ su mahān āpatantam manojavam ..31..
यैषा मम महाशाखा शतयोजनमायता । एतामास्थाय शाखां त्वं खादेमौ गजकच्छपौ ॥३२॥
या एषा मम महा-शाखा शत-योजनम् आयता । एताम् आस्थाय शाखाम् त्वम् खाद इमौ गज-कच्छपौ ॥३२॥
yā eṣā mama mahā-śākhā śata-yojanam āyatā . etām āsthāya śākhām tvam khāda imau gaja-kacchapau ..32..
ततो द्रुमं पतगसहस्रसेवितं; महीधरप्रतिमवपुः प्रकम्पयन् । खगोत्तमो द्रुतमभिपत्य वेगवा; न्बभञ्ज तामविरलपत्रसंवृताम् ॥३३॥ 1.29.44
ततस् द्रुमम् पतग-सहस्र-सेवितम्; महीधर-प्रतिम-वपुः प्रकम्पयन् । खग-उत्तमः द्रुतम् अभिपत्य वेगवा; न्बभञ्ज ताम् अविरल-पत्र-संवृताम् ॥३३॥ १।२९।४४
tatas drumam pataga-sahasra-sevitam; mahīdhara-pratima-vapuḥ prakampayan . khaga-uttamaḥ drutam abhipatya vegavā; nbabhañja tām avirala-patra-saṃvṛtām ..33.. 1.29.44

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In