| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
स्पृष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा । अभज्यत तरोः शाखा भग्नां चैनामधारयत् ॥१॥
स्पृष्ट-मात्रा तु पद्भ्याम् सा गरुडेन बलीयसा । अभज्यत तरोः शाखा भग्नाम् च एनाम् अधारयत् ॥१॥
spṛṣṭa-mātrā tu padbhyām sā garuḍena balīyasā . abhajyata taroḥ śākhā bhagnām ca enām adhārayat ..1..
तां भग्नां स महाशाखां स्मयन्समवलोकयन् । अथात्र लम्बतोऽपश्यद्वालखिल्यानधोमुखान् ॥२॥
ताम् भग्नाम् स महा-शाखाम् स्मयन् समवलोकयन् । अथ अत्र लम्बतः अपश्यत् वालखिल्यान् अधोमुखान् ॥२॥
tām bhagnām sa mahā-śākhām smayan samavalokayan . atha atra lambataḥ apaśyat vālakhilyān adhomukhān ..2..
स तद्विनाशसन्त्रासादनुपत्य खगाधिपः । शाखामास्येन जग्राह तेषामेवान्ववेक्षया ॥३॥ ( शनैः पर्यपतत्पक्षी पर्वतान्प्रविशातयन् ॥३॥ )
स तद्-विनाश-सन्त्रासात् अनुपत्य खगाधिपः । शाखाम् आस्येन जग्राह तेषाम् एव अन्ववेक्षया ॥३॥ ( शनैस् पर्यपतत् पक्षी पर्वतान् प्रविशातयन् ॥३॥ )
sa tad-vināśa-santrāsāt anupatya khagādhipaḥ . śākhām āsyena jagrāha teṣām eva anvavekṣayā ..3.. ( śanais paryapatat pakṣī parvatān praviśātayan ..3.. )
एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः । दयार्थं वालखिल्यानां न च स्थानमविन्दत ॥४॥
एवम् सः अभ्यपतत् देशान् बहून् स गज-कच्छपः । दया-अर्थम् वालखिल्यानाम् न च स्थानम् अविन्दत ॥४॥
evam saḥ abhyapatat deśān bahūn sa gaja-kacchapaḥ . dayā-artham vālakhilyānām na ca sthānam avindata ..4..
स गत्वा पर्वतश्रेष्ठं गन्धमादनमव्ययम् । ददर्श कश्यपं तत्र पितरं तपसि स्थितम् ॥५॥
स गत्वा पर्वत-श्रेष्ठम् गन्धमादनम् अव्ययम् । ददर्श कश्यपम् तत्र पितरम् तपसि स्थितम् ॥५॥
sa gatvā parvata-śreṣṭham gandhamādanam avyayam . dadarśa kaśyapam tatra pitaram tapasi sthitam ..5..
ददर्श तं पिता चापि दिव्यरूपं विहङ्गमम् । तेजोवीर्यबलोपेतं मनोमारुतरंहसम् ॥६॥
ददर्श तम् पिता च अपि दिव्य-रूपम् विहङ्गमम् । तेजः-वीर्य-बल-उपेतम् मनः-मारुत-रंहसम् ॥६॥
dadarśa tam pitā ca api divya-rūpam vihaṅgamam . tejaḥ-vīrya-bala-upetam manaḥ-māruta-raṃhasam ..6..
शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम् । अचिन्त्यमनभिज्ञेयं सर्वभूतभयङ्करम् ॥७॥
शैल-शृङ्ग-प्रतीकाशम् ब्रह्मदण्डम् इव उद्यन्तम् । अचिन्त्यम् अन् अभिज्ञेयम् सर्व-भूत-भयङ्करम् ॥७॥
śaila-śṛṅga-pratīkāśam brahmadaṇḍam iva udyantam . acintyam an abhijñeyam sarva-bhūta-bhayaṅkaram ..7..
मायावीर्यधरं साक्षादग्निमिद्धमिवोद्यतम् । अप्रधृष्यमजेयं च देवदानवराक्षसैः ॥८॥
माया-वीर्य-धरम् साक्षात् अग्निम् इद्धम् इव उद्यतम् । अप्रधृष्यम् अजेयम् च देव-दानव-राक्षसैः ॥८॥
māyā-vīrya-dharam sākṣāt agnim iddham iva udyatam . apradhṛṣyam ajeyam ca deva-dānava-rākṣasaiḥ ..8..
भेत्तारं गिरिशृङ्गाणां नदीजलविशोषणम् । लोकसंलोडनं घोरं कृतान्तसमदर्शनम् ॥९॥
भेत्तारम् गिरि-शृङ्गाणाम् नदी-जल-विशोषणम् । लोक-संलोडनम् घोरम् कृतान्त-सम-दर्शनम् ॥९॥
bhettāram giri-śṛṅgāṇām nadī-jala-viśoṣaṇam . loka-saṃloḍanam ghoram kṛtānta-sama-darśanam ..9..
तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा । विदित्वा चास्य सङ्कल्पमिदं वचनमब्रवीत् ॥१०॥
तम् आगतम् अभिप्रेक्ष्य भगवान् कश्यपः तदा । विदित्वा च अस्य सङ्कल्पम् इदम् वचनम् अब्रवीत् ॥१०॥
tam āgatam abhiprekṣya bhagavān kaśyapaḥ tadā . viditvā ca asya saṅkalpam idam vacanam abravīt ..10..
पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम् । मा त्वा दहेयुः सङ्क्रुद्धा वालखिल्या मरीचिपाः ॥११॥
पुत्र मा साहसम् कार्षीः मा सद्यस् लप्स्यसे व्यथाम् । मा त्वा दहेयुः सङ्क्रुद्धाः वालखिल्याः मरीचिपाः ॥११॥
putra mā sāhasam kārṣīḥ mā sadyas lapsyase vyathām . mā tvā daheyuḥ saṅkruddhāḥ vālakhilyāḥ marīcipāḥ ..11..
प्रसादयामास स तान्कश्यपः पुत्रकारणात् । वालखिल्यांस्तपःसिद्धानिदमुद्दिश्य कारणम् ॥१२॥
प्रसादयामास स तान् कश्यपः पुत्र-कारणात् । वालखिल्यान् तपः-सिद्धान् इदम् उद्दिश्य कारणम् ॥१२॥
prasādayāmāsa sa tān kaśyapaḥ putra-kāraṇāt . vālakhilyān tapaḥ-siddhān idam uddiśya kāraṇam ..12..
प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः । चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ ॥१३॥
प्रजा-हित-अर्थम् आरम्भः गरुडस्य तपोधनाः । चिकीर्षति महत् कर्म तत् अनुज्ञातुम् अर्हथ ॥१३॥
prajā-hita-artham ārambhaḥ garuḍasya tapodhanāḥ . cikīrṣati mahat karma tat anujñātum arhatha ..13..
एवमुक्ता भगवता मुनयस्ते समभ्ययुः । मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपोर्थिनः ॥१४॥
एवम् उक्ताः भगवता मुनयः ते समभ्ययुः । मुक्त्वा शाखाम् गिरिम् पुण्यम् हिमवन्तम् तपः-ऋथिनः ॥१४॥
evam uktāḥ bhagavatā munayaḥ te samabhyayuḥ . muktvā śākhām girim puṇyam himavantam tapaḥ-ṛthinaḥ ..14..
ततस्तेष्वपयातेषु पितरं विनतात्मजः । शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम् ॥१५॥
ततस् तेषु अपयातेषु पितरम् विनता-आत्मजः । शाखा-व्याक्षिप्त-वदनः पर्यपृच्छत कश्यपम् ॥१५॥
tatas teṣu apayāteṣu pitaram vinatā-ātmajaḥ . śākhā-vyākṣipta-vadanaḥ paryapṛcchata kaśyapam ..15..
भगवन्क्व विमुञ्चामि तरुशाखामिमामहम् । वर्जितं ब्राह्मणैर्देशमाख्यातु भगवान्मम ॥१६॥
भगवन् क्व विमुञ्चामि तरु-शाखाम् इमाम् अहम् । वर्जितम् ब्राह्मणैः देशम् आख्यातु भगवान् मम ॥१६॥
bhagavan kva vimuñcāmi taru-śākhām imām aham . varjitam brāhmaṇaiḥ deśam ākhyātu bhagavān mama ..16..
ततो निष्पुरुषं शैलं हिमसंरुद्धकन्दरम् । अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः ॥१७॥
ततस् निष्पुरुषम् शैलम् हिम-संरुद्ध-कन्दरम् । अगम्यम् मनसा अपि अन्यैः तस्य आचख्यौ स कश्यपः ॥१७॥
tatas niṣpuruṣam śailam hima-saṃruddha-kandaram . agamyam manasā api anyaiḥ tasya ācakhyau sa kaśyapaḥ ..17..
तं पर्वतमहाकुक्षिमाविश्य मनसा खगः । जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः ॥१८॥
तम् पर्वत-महा-कुक्षिम् आविश्य मनसा खगः । जवेन अभ्यपतत् तार्क्ष्यः स शाखा-गज-कच्छपः ॥१८॥
tam parvata-mahā-kukṣim āviśya manasā khagaḥ . javena abhyapatat tārkṣyaḥ sa śākhā-gaja-kacchapaḥ ..18..
न तां वध्रः परिणहेच्छतचर्मा महानणुः । शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः ॥१९॥
न ताम् वध्रः परिणहेत् शत-चर्मा महान् अणुः । शाखिनः महतीम् शाखाम् याम् प्रगृह्य ययौ खगः ॥१९॥
na tām vadhraḥ pariṇahet śata-carmā mahān aṇuḥ . śākhinaḥ mahatīm śākhām yām pragṛhya yayau khagaḥ ..19..
ततः स शतसाहस्रं योजनान्तरमागतः । कालेन नातिमहता गरुडः पततां वरः ॥२०॥
ततस् स शत-साहस्रम् योजन-अन्तरम् आगतः । कालेन न अति महता गरुडः पतताम् वरः ॥२०॥
tatas sa śata-sāhasram yojana-antaram āgataḥ . kālena na ati mahatā garuḍaḥ patatām varaḥ ..20..
स तं गत्वा क्षणेनैव पर्वतं वचनात्पितुः । अमुञ्चन्महतीं शाखां सस्वनां तत्र खेचरः ॥२१॥
स तम् गत्वा क्षणेन एव पर्वतम् वचनात् पितुः । अमुञ्चत् महतीम् शाखाम् स स्वनाम् तत्र खेचरः ॥२१॥
sa tam gatvā kṣaṇena eva parvatam vacanāt pituḥ . amuñcat mahatīm śākhām sa svanām tatra khecaraḥ ..21..
पक्षानिलहतश्चास्य प्राकम्पत स शैलराट् । मुमोच पुष्पवर्षं च समागलितपादपः ॥२२॥
पक्ष-अनिल-हतः च अस्य प्राकम्पत स शैलराज् । मुमोच पुष्प-वर्षम् च समागलित-पादपः ॥२२॥
pakṣa-anila-hataḥ ca asya prākampata sa śailarāj . mumoca puṣpa-varṣam ca samāgalita-pādapaḥ ..22..
शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः । मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम् ॥२३॥
शृङ्गाणि च व्यशीर्यन्त गिरेः तस्य समन्ततः । मणि-काञ्चन-चित्राणि शोभयन्ति महा-गिरिम् ॥२३॥
śṛṅgāṇi ca vyaśīryanta gireḥ tasya samantataḥ . maṇi-kāñcana-citrāṇi śobhayanti mahā-girim ..23..
शाखिनो बहवश्चापि शाखयाभिहतास्तया । काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः ॥२४॥
शाखिनः बहवः च अपि शाखया अभिहताः तया । काञ्चनैः कुसुमैः भान्ति विद्युत्वन्तः इव अम्बुदाः ॥२४॥
śākhinaḥ bahavaḥ ca api śākhayā abhihatāḥ tayā . kāñcanaiḥ kusumaiḥ bhānti vidyutvantaḥ iva ambudāḥ ..24..
ते हेमविकचा भूयो युक्ताः पर्वतधातुभिः । व्यराजञ्शाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः ॥२५॥
ते हेम-विकचाः भूयस् युक्ताः पर्वत-धातुभिः । व्यराजन् शाखिनः तत्र सूर्य-अंशु-प्रतिरञ्जिताः ॥२५॥
te hema-vikacāḥ bhūyas yuktāḥ parvata-dhātubhiḥ . vyarājan śākhinaḥ tatra sūrya-aṃśu-pratirañjitāḥ ..25..
ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः । भक्षयामास गरुडस्तावुभौ गजकच्छपौ ॥२६॥
ततस् तस्य गिरेः शृङ्गम् आस्थाय स खग-उत्तमः । भक्षयामास गरुडः तौ उभौ गज-कच्छपौ ॥२६॥
tatas tasya gireḥ śṛṅgam āsthāya sa khaga-uttamaḥ . bhakṣayāmāsa garuḍaḥ tau ubhau gaja-kacchapau ..26..
ततः पर्वतकूटाग्रादुत्पपात मनोजवः । प्रावर्तन्ताथ देवानामुत्पाता भयवेदिनः ॥२७॥
ततस् पर्वत-कूट-अग्रात् उत्पपात मनोजवः । प्रावर्तन्त अथ देवानाम् उत्पाताः भय-वेदिनः ॥२७॥
tatas parvata-kūṭa-agrāt utpapāta manojavaḥ . prāvartanta atha devānām utpātāḥ bhaya-vedinaḥ ..27..
इन्द्रस्य वज्रं दयितं प्रजज्वाल व्यथान्वितम् । सधूमा चापतत्सार्चिर्दिवोल्का नभसश्च्युता ॥२८॥
इन्द्रस्य वज्रम् दयितम् प्रजज्वाल व्यथा-अन्वितम् । स धूमा च अपतत् स अर्चिः दिव-उल्का नभसः च्युता ॥२८॥
indrasya vajram dayitam prajajvāla vyathā-anvitam . sa dhūmā ca apatat sa arciḥ diva-ulkā nabhasaḥ cyutā ..28..
तथा वसूनां रुद्राणामादित्यानां च सर्वशः । साध्यानां मरुतां चैव ये चान्ये देवतागणाः ॥२९॥ ( स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत् ॥२९॥ )
तथा वसूनाम् रुद्राणाम् आदित्यानाम् च सर्वशस् । साध्यानाम् मरुताम् च एव ये च अन्ये देवता-गणाः ॥२९॥ ( स्वम् स्वम् प्रहरणम् तेषाम् परस्परम् उपाद्रवत् ॥२९॥ )
tathā vasūnām rudrāṇām ādityānām ca sarvaśas . sādhyānām marutām ca eva ye ca anye devatā-gaṇāḥ ..29.. ( svam svam praharaṇam teṣām parasparam upādravat ..29.. )
अभूतपूर्वं सङ्ग्रामे तदा देवासुरेऽपि च । ववुर्वाताः सनिर्घाताः पेतुरुल्काः समन्ततः ॥३०॥
अभूत-पूर्वम् सङ्ग्रामे तदा देवासुरे अपि च । ववुः वाताः स निर्घाताः पेतुः उल्काः समन्ततः ॥३०॥
abhūta-pūrvam saṅgrāme tadā devāsure api ca . vavuḥ vātāḥ sa nirghātāḥ petuḥ ulkāḥ samantataḥ ..30..
निरभ्रमपि चाकाशं प्रजगर्ज महास्वनम् । देवानामपि यो देवः सोऽप्यवर्षदसृक्तदा ॥३१॥
निरभ्रम् अपि च आकाशम् प्रजगर्ज महा-स्वनम् । देवानाम् अपि यः देवः सः अपि अवर्षत् असृज् तदा ॥३१॥
nirabhram api ca ākāśam prajagarja mahā-svanam . devānām api yaḥ devaḥ saḥ api avarṣat asṛj tadā ..31..
मम्लुर्माल्यानि देवानां शेमुस्तेजांसि चैव हि । उत्पातमेघा रौद्राश्च ववर्षुः शोणितं बहु ॥३२॥ ( रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन् ॥३२॥ )
मम्लुः माल्यानि देवानाम् शेमुः तेजांसि च एव हि । उत्पात-मेघाः रौद्राः च ववर्षुः शोणितम् बहु ॥३२॥ ( रजांसि मुकुटानि एषाम् उत्थितानि व्यधर्षयन् ॥३२॥ )
mamluḥ mālyāni devānām śemuḥ tejāṃsi ca eva hi . utpāta-meghāḥ raudrāḥ ca vavarṣuḥ śoṇitam bahu ..32.. ( rajāṃsi mukuṭāni eṣām utthitāni vyadharṣayan ..32.. )
ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः । उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम् ॥३३॥
ततस् त्रास-समुद्विग्नः सह देवैः शतक्रतुः । उत्पातान् दारुणान् पश्यन् इति उवाच बृहस्पतिम् ॥३३॥
tatas trāsa-samudvignaḥ saha devaiḥ śatakratuḥ . utpātān dāruṇān paśyan iti uvāca bṛhaspatim ..33..
किमर्थं भगवन्घोरा महोत्पाताः समुत्थिताः । न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत् ॥३४॥
किमर्थम् भगवन् घोराः महा-उत्पाताः समुत्थिताः । न च शत्रुम् प्रपश्यामि युधि यः नः प्रधर्षयेत् ॥३४॥
kimartham bhagavan ghorāḥ mahā-utpātāḥ samutthitāḥ . na ca śatrum prapaśyāmi yudhi yaḥ naḥ pradharṣayet ..34..
बृहस्पतिरुवाच॥
तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो । तपसा वालखिल्यानां भूतमुत्पन्नमद्भुतम् ॥३५॥
तव अपराधात् देवेन्द्र प्रमादात् च शतक्रतो । तपसा वालखिल्यानाम् भूतम् उत्पन्नम् अद्भुतम् ॥३५॥
tava aparādhāt devendra pramādāt ca śatakrato . tapasā vālakhilyānām bhūtam utpannam adbhutam ..35..
कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः । हर्तुं सोममनुप्राप्तो बलवान्कामरूपवान् ॥३६॥
कश्यपस्य मुनेः पुत्रः विनतायाः च खेचरः । हर्तुम् सोमम् अनुप्राप्तः बलवान् काम-रूपवान् ॥३६॥
kaśyapasya muneḥ putraḥ vinatāyāḥ ca khecaraḥ . hartum somam anuprāptaḥ balavān kāma-rūpavān ..36..
समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहङ्गमः । सर्वं सम्भावयाम्यस्मिन्नसाध्यमपि साधयेत् ॥३७॥
समर्थः बलिनाम् श्रेष्ठः हर्तुम् सोमम् विहङ्गमः । सर्वम् सम्भावयामि अस्मिन् असाध्यम् अपि साधयेत् ॥३७॥
samarthaḥ balinām śreṣṭhaḥ hartum somam vihaṅgamaḥ . sarvam sambhāvayāmi asmin asādhyam api sādhayet ..37..
सूत उवाच॥
श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः । महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः ॥३८॥
श्रुत्वा एतत् वचनम् शक्रः प्रोवाच अमृत-रक्षिणः । महा-वीर्य-बलः पक्षी हर्तुम् सोमम् इह उद्यतः ॥३८॥
śrutvā etat vacanam śakraḥ provāca amṛta-rakṣiṇaḥ . mahā-vīrya-balaḥ pakṣī hartum somam iha udyataḥ ..38..
युष्मान्सम्बोधयाम्येष यथा स न हरेद्बलात् । अतुलं हि बलं तस्य बृहस्पतिरुवाच मे ॥३९॥
युष्मान् सम्बोधयामि एष यथा स न हरेत् बलात् । अतुलम् हि बलम् तस्य बृहस्पतिः उवाच मे ॥३९॥
yuṣmān sambodhayāmi eṣa yathā sa na haret balāt . atulam hi balam tasya bṛhaspatiḥ uvāca me ..39..
तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः । परिवार्यामृतं तस्थुर्वज्री चेन्द्रः शतक्रतुः ॥४०॥
तत् श्रुत्वा विबुधाः वाक्यम् विस्मिताः यत्नम् आस्थिताः । परिवार्य अमृतम् तस्थुः वज्री च इन्द्रः शतक्रतुः ॥४०॥
tat śrutvā vibudhāḥ vākyam vismitāḥ yatnam āsthitāḥ . parivārya amṛtam tasthuḥ vajrī ca indraḥ śatakratuḥ ..40..
धारयन्तो महार्हाणि कवचानि मनस्विनः । काञ्चनानि विचित्राणि वैडूर्यविकृतानि च ॥४१॥
धारयन्तः महार्हाणि कवचानि मनस्विनः । काञ्चनानि विचित्राणि वैडूर्य-विकृतानि च ॥४१॥
dhārayantaḥ mahārhāṇi kavacāni manasvinaḥ . kāñcanāni vicitrāṇi vaiḍūrya-vikṛtāni ca ..41..
विविधानि च शस्त्राणि घोररूपाण्यनेकशः । शिततीक्ष्णाग्रधाराणि समुद्यम्य सहस्रशः ॥४२॥
विविधानि च शस्त्राणि घोर-रूपाणि अनेकशस् । शित-तीक्ष्ण-अग्र-धाराणि समुद्यम्य सहस्रशस् ॥४२॥
vividhāni ca śastrāṇi ghora-rūpāṇi anekaśas . śita-tīkṣṇa-agra-dhārāṇi samudyamya sahasraśas ..42..
सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः । चक्राणि परिघांश्चैव त्रिशूलानि परश्वधान् ॥४३॥
स विस्फुलिङ्ग-ज्वालानि स धूमानि च सर्वशस् । चक्राणि परिघान् च एव त्रिशूलानि परश्वधान् ॥४३॥
sa visphuliṅga-jvālāni sa dhūmāni ca sarvaśas . cakrāṇi parighān ca eva triśūlāni paraśvadhān ..43..
शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान् । स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः ॥४४॥
शक्तीः च विविधाः तीक्ष्णाः करवालान् च निर्मलान् । स्व-देह-रूपाणि आदाय गदाः च उग्र-प्रदर्शनाः ॥४४॥
śaktīḥ ca vividhāḥ tīkṣṇāḥ karavālān ca nirmalān . sva-deha-rūpāṇi ādāya gadāḥ ca ugra-pradarśanāḥ ..44..
तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः । भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः ॥४५॥
तैः शस्त्रैः भानुमद्भिः ते दिव्य-आभरण-भूषिताः । भानुमन्तः सुर-गणाः तस्थुः विगत-कल्मषाः ॥४५॥
taiḥ śastraiḥ bhānumadbhiḥ te divya-ābharaṇa-bhūṣitāḥ . bhānumantaḥ sura-gaṇāḥ tasthuḥ vigata-kalmaṣāḥ ..45..
अनुपमबलवीर्यतेजसो; धृतमनसः परिरक्षणेऽमृतस्य । असुरपुरविदारणाः सुरा; ज्वलनसमिद्धवपुःप्रकाशिनः ॥४६॥
अनुपम-बल-वीर्य-तेजसः; धृत-मनसः परिरक्षणे अमृतस्य । ; ज्वलन-समिद्ध-वपुः-प्रकाशिनः ॥४६॥
anupama-bala-vīrya-tejasaḥ; dhṛta-manasaḥ parirakṣaṇe amṛtasya . ; jvalana-samiddha-vapuḥ-prakāśinaḥ ..46..
इति समरवरं सुरास्थितं; परिघसहस्रशतैः समाकुलम् । विगलितमिव चाम्बरान्तरे; तपनमरीचिविभासितं बभौ ॥४७॥ 1.30.52
इति समर-वरम् सुर-आस्थितम्; परिघ-सहस्र-शतैः समाकुलम् । विगलितम् इव च अम्बर-अन्तरे; तपन-मरीचि-विभासितम् बभौ ॥४७॥ १।३०।५२
iti samara-varam sura-āsthitam; parigha-sahasra-śataiḥ samākulam . vigalitam iva ca ambara-antare; tapana-marīci-vibhāsitam babhau ..47.. 1.30.52

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In