| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

शौनक उवाच॥
कोऽपराधो महेन्द्रस्य कः प्रमादश्च सूतज । तपसा वालखिल्यानां सम्भूतो गरुडः कथम् ॥१॥
कः अपराधः महा-इन्द्रस्य कः प्रमादः च सूतज । तपसा वालखिल्यानाम् सम्भूतः गरुडः कथम् ॥१॥
kaḥ aparādhaḥ mahā-indrasya kaḥ pramādaḥ ca sūtaja . tapasā vālakhilyānām sambhūtaḥ garuḍaḥ katham ..1..
कश्यपस्य द्विजातेश्च कथं वै पक्षिराट्सुतः । अधृष्यः सर्वभूतानामवध्यश्चाभवत्कथम् ॥२॥
कश्यपस्य द्विजातेः च कथम् वै पक्षिराज्-सुतः । अधृष्यः सर्व-भूतानाम् अवध्यः च अभवत् कथम् ॥२॥
kaśyapasya dvijāteḥ ca katham vai pakṣirāj-sutaḥ . adhṛṣyaḥ sarva-bhūtānām avadhyaḥ ca abhavat katham ..2..
कथं च कामचारी स कामवीर्यश्च खेचरः । एतदिच्छाम्यहं श्रोतुं पुराणे यदि पठ्यते ॥३॥
कथम् च कामचारी स कामवीर्यः च खेचरः । एतत् इच्छामि अहम् श्रोतुम् पुराणे यदि पठ्यते ॥३॥
katham ca kāmacārī sa kāmavīryaḥ ca khecaraḥ . etat icchāmi aham śrotum purāṇe yadi paṭhyate ..3..
सूत उवाच॥
विषयोऽयं पुराणस्य यन्मां त्वं परिपृच्छसि । शृणु मे वदतः सर्वमेतत्सङ्क्षेपतो द्विज ॥४॥
विषयः अयम् पुराणस्य यत् माम् त्वम् परिपृच्छसि । शृणु मे वदतः सर्वम् एतत् सङ्क्षेपतः द्विज ॥४॥
viṣayaḥ ayam purāṇasya yat mām tvam paripṛcchasi . śṛṇu me vadataḥ sarvam etat saṅkṣepataḥ dvija ..4..
यजतः पुत्रकामस्य कश्यपस्य प्रजापतेः । साहाय्यमृषयो देवा गन्धर्वाश्च ददुः किल ॥५॥
यजतः पुत्र-कामस्य कश्यपस्य प्रजापतेः । साहाय्यम् ऋषयः देवाः गन्धर्वाः च ददुः किल ॥५॥
yajataḥ putra-kāmasya kaśyapasya prajāpateḥ . sāhāyyam ṛṣayaḥ devāḥ gandharvāḥ ca daduḥ kila ..5..
तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह । मुनयो वालखिल्याश्च ये चान्ये देवतागणाः ॥६॥
तत्र इध्म-आनयने शक्रः नियुक्तः कश्यपेन ह । मुनयः वालखिल्याः च ये च अन्ये देवता-गणाः ॥६॥
tatra idhma-ānayane śakraḥ niyuktaḥ kaśyapena ha . munayaḥ vālakhilyāḥ ca ye ca anye devatā-gaṇāḥ ..6..
शक्रस्तु वीर्यसदृशमिध्मभारं गिरिप्रभम् । समुद्यम्यानयामास नातिकृच्छ्रादिव प्रभुः ॥७॥
शक्रः तु वीर्य-सदृशम् इध्म-भारम् गिरि-प्रभम् । समुद्यम्य आनयामास न अतिकृच्छ्रात् इव प्रभुः ॥७॥
śakraḥ tu vīrya-sadṛśam idhma-bhāram giri-prabham . samudyamya ānayāmāsa na atikṛcchrāt iva prabhuḥ ..7..
अथापश्यदृषीन्ह्रस्वानङ्गुष्ठोदरपर्वणः । पलाशवृन्तिकामेकां सहितान्वहतः पथि ॥८॥
अथ अपश्यत् ऋषीन् ह्रस्वान् अङ्गुष्ठ-उदर-पर्वणः । पलाश-वृन्तिकाम् एकाम् सहित-अन्वहतः पथि ॥८॥
atha apaśyat ṛṣīn hrasvān aṅguṣṭha-udara-parvaṇaḥ . palāśa-vṛntikām ekām sahita-anvahataḥ pathi ..8..
प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान् । क्लिश्यमानान्मन्दबलान्गोष्पदे सम्प्लुतोदके ॥९॥
प्रलीनान् स्वेषु इव अङ्गेषु निराहारान् तपोधनान् । क्लिश्यमानान् मन्द-बलान् गोष्पदे सम्प्लुत-उदके ॥९॥
pralīnān sveṣu iva aṅgeṣu nirāhārān tapodhanān . kliśyamānān manda-balān goṣpade sampluta-udake ..9..
तांश्च सर्वान्स्मयाविष्टो वीर्योन्मत्तः पुरंदरः । अवहस्यात्यगाच्छीघ्रं लङ्घयित्वावमन्य च ॥१०॥
तान् च सर्वान् स्मय-आविष्टः वीर्य-उन्मत्तः पुरंदरः । अवहस्य अत्यगात् शीघ्रम् लङ्घयित्वा अवमन्य च ॥१०॥
tān ca sarvān smaya-āviṣṭaḥ vīrya-unmattaḥ puraṃdaraḥ . avahasya atyagāt śīghram laṅghayitvā avamanya ca ..10..
तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः । आरेभिरे महत्कर्म तदा शक्रभयङ्करम् ॥११॥
ते अथ रोष-समाविष्टाः सु भृशम् जात-मन्यवः । आरेभिरे महत् कर्म तदा शक्र-भयङ्करम् ॥११॥
te atha roṣa-samāviṣṭāḥ su bhṛśam jāta-manyavaḥ . ārebhire mahat karma tadā śakra-bhayaṅkaram ..11..
जुहुवुस्ते सुतपसो विधिवज्जातवेदसम् । मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु ॥१२॥
जुहुवुः ते सु तपसः विधिवत् जातवेदसम् । मन्त्रैः उच्चावचैः विप्राः येन कामेन तत् शृणु ॥१२॥
juhuvuḥ te su tapasaḥ vidhivat jātavedasam . mantraiḥ uccāvacaiḥ viprāḥ yena kāmena tat śṛṇu ..12..
कामवीर्यः कामगमो देवराजभयप्रदः । इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः ॥१३॥
। इन्द्रः अन्यः सर्व-देवानाम् भवेत् इति यत-व्रताः ॥१३॥
. indraḥ anyaḥ sarva-devānām bhavet iti yata-vratāḥ ..13..
इन्द्राच्छतगुणः शौर्ये वीर्ये चैव मनोजवः । तपसो नः फलेनाद्य दारुणः सम्भवत्विति ॥१४॥
इन्द्रात् शत-गुणः शौर्ये वीर्ये च एव मनः-जवः । तपसः नः फलेन अद्य दारुणः सम्भवतु इति ॥१४॥
indrāt śata-guṇaḥ śaurye vīrye ca eva manaḥ-javaḥ . tapasaḥ naḥ phalena adya dāruṇaḥ sambhavatu iti ..14..
तद्बुद्ध्वा भृशसन्तप्तो देवराजः शतक्रतुः । जगाम शरणं तत्र कश्यपं संशितव्रतम् ॥१५॥
तत् बुद्ध्वा भृश-सन्तप्तः देवराजः शतक्रतुः । जगाम शरणम् तत्र कश्यपम् संशित-व्रतम् ॥१५॥
tat buddhvā bhṛśa-santaptaḥ devarājaḥ śatakratuḥ . jagāma śaraṇam tatra kaśyapam saṃśita-vratam ..15..
तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः । वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत ॥१६॥
तत् श्रुत्वा देवराजस्य कश्यपः अथ प्रजापतिः । वालखिल्यान् उपागम्य कर्म-सिद्धिम् अपृच्छत ॥१६॥
tat śrutvā devarājasya kaśyapaḥ atha prajāpatiḥ . vālakhilyān upāgamya karma-siddhim apṛcchata ..16..
एवमस्त्विति तं चापि प्रत्यूचुः सत्यवादिनः । तान्कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः ॥१७॥
एवम् अस्तु इति तम् च अपि प्रत्यूचुः सत्य-वादिनः । तान् कश्यपः उवाच इदम् सान्त्व-पूर्वम् प्रजापतिः ॥१७॥
evam astu iti tam ca api pratyūcuḥ satya-vādinaḥ . tān kaśyapaḥ uvāca idam sāntva-pūrvam prajāpatiḥ ..17..
अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः । इन्द्रार्थं च भवन्तोऽपि यत्नवन्तस्तपोधनाः ॥१८॥
अयम् इन्द्रः त्रिभुवने नियोगात् ब्रह्मणः कृतः । इन्द्र-अर्थम् च भवन्तः अपि यत्नवन्तः तपोधनाः ॥१८॥
ayam indraḥ tribhuvane niyogāt brahmaṇaḥ kṛtaḥ . indra-artham ca bhavantaḥ api yatnavantaḥ tapodhanāḥ ..18..
न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः । भवतां च न मिथ्यायं सङ्कल्पो मे चिकीर्षितः ॥१९॥
न मिथ्या ब्रह्मणः वाक्यम् कर्तुम् अर्हथ सत्तमाः । भवताम् च न मिथ्या अयम् सङ्कल्पः मे चिकीर्षितः ॥१९॥
na mithyā brahmaṇaḥ vākyam kartum arhatha sattamāḥ . bhavatām ca na mithyā ayam saṅkalpaḥ me cikīrṣitaḥ ..19..
भवत्वेष पतत्रीणामिन्द्रोऽतिबलसत्त्ववान् । प्रसादः क्रियतां चैव देवराजस्य याचतः ॥२०॥
भवतु एष पतत्रीणाम् इन्द्रः अतिबल-सत्त्ववान् । प्रसादः क्रियताम् च एव देवराजस्य याचतः ॥२०॥
bhavatu eṣa patatrīṇām indraḥ atibala-sattvavān . prasādaḥ kriyatām ca eva devarājasya yācataḥ ..20..
एवमुक्ताः कश्यपेन वालखिल्यास्तपोधनाः । प्रत्यूचुरभिसम्पूज्य मुनिश्रेष्ठं प्रजापतिम् ॥२१॥
एवम् उक्ताः कश्यपेन वालखिल्याः तपोधनाः । प्रत्यूचुः अभिसम्पूज्य मुनि-श्रेष्ठम् प्रजापतिम् ॥२१॥
evam uktāḥ kaśyapena vālakhilyāḥ tapodhanāḥ . pratyūcuḥ abhisampūjya muni-śreṣṭham prajāpatim ..21..
इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते । अपत्यार्थं समारम्भो भवतश्चायमीप्सितः ॥२२॥
इन्द्र-अर्थः अयम् समारम्भः सर्वेषाम् नः प्रजापते । अपत्य-अर्थम् समारम्भः भवतः च अयम् ईप्सितः ॥२२॥
indra-arthaḥ ayam samārambhaḥ sarveṣām naḥ prajāpate . apatya-artham samārambhaḥ bhavataḥ ca ayam īpsitaḥ ..22..
तदिदं सफलं कर्म त्वया वै प्रतिगृह्यताम् । तथा चैव विधत्स्वात्र यथा श्रेयोऽनुपश्यसि ॥२३॥
तत् इदम् सफलम् कर्म त्वया वै प्रतिगृह्यताम् । तथा च एव विधत्स्व अत्र यथा श्रेयः अनुपश्यसि ॥२३॥
tat idam saphalam karma tvayā vai pratigṛhyatām . tathā ca eva vidhatsva atra yathā śreyaḥ anupaśyasi ..23..
एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा । विनता नाम कल्याणी पुत्रकामा यशस्विनी ॥२४॥
एतस्मिन् एव काले तु देवी दाक्षायणी शुभा । विनता नाम कल्याणी पुत्र-कामा यशस्विनी ॥२४॥
etasmin eva kāle tu devī dākṣāyaṇī śubhā . vinatā nāma kalyāṇī putra-kāmā yaśasvinī ..24..
तपस्तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः । उपचक्राम भर्तारं तामुवाचाथ कश्यपः ॥२५॥
तपः तप्त्वा व्रत-परा स्नाता पुंसवने शुचिः । उपचक्राम भर्तारम् ताम् उवाच अथ कश्यपः ॥२५॥
tapaḥ taptvā vrata-parā snātā puṃsavane śuciḥ . upacakrāma bhartāram tām uvāca atha kaśyapaḥ ..25..
आरम्भः सफलो देवि भवितायं तवेप्सितः । जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ ॥२६॥
आरम्भः सफलः देवि भविता अयम् तव ईप्सितः । जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवन-ईश्वरौ ॥२६॥
ārambhaḥ saphalaḥ devi bhavitā ayam tava īpsitaḥ . janayiṣyasi putrau dvau vīrau tribhuvana-īśvarau ..26..
तपसा वालखिल्यानां मम सङ्कल्पजौ तथा । भविष्यतो महाभागौ पुत्रौ ते लोकपूजितौ ॥२७॥
तपसा वालखिल्यानाम् मम सङ्कल्प-जौ तथा । भविष्यतः महाभागौ पुत्रौ ते लोक-पूजितौ ॥२७॥
tapasā vālakhilyānām mama saṅkalpa-jau tathā . bhaviṣyataḥ mahābhāgau putrau te loka-pūjitau ..27..
उवाच चैनां भगवान्मारीचः पुनरेव ह । धार्यतामप्रमादेन गर्भोऽयं सुमहोदयः ॥२८॥
उवाच च एनाम् भगवान् मारीचः पुनर् एव ह । धार्यताम् अप्रमादेन गर्भः अयम् सु महा-उदयः ॥२८॥
uvāca ca enām bhagavān mārīcaḥ punar eva ha . dhāryatām apramādena garbhaḥ ayam su mahā-udayaḥ ..28..
एकः सर्वपतत्रीणामिन्द्रत्वं कारयिष्यति । लोकसम्भावितो वीरः कामवीर्यो विहङ्गमः ॥२९॥
एकः सर्व-पतत्रीणाम् इन्द्र-त्वम् कारयिष्यति । लोक-सम्भावितः वीरः काम-वीर्यः विहङ्गमः ॥२९॥
ekaḥ sarva-patatrīṇām indra-tvam kārayiṣyati . loka-sambhāvitaḥ vīraḥ kāma-vīryaḥ vihaṅgamaḥ ..29..
शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः । त्वत्सहायौ खगावेतौ भ्रातरौ ते भविष्यतः ॥३०॥
शतक्रतुम् अथ उवाच प्रीयमाणः प्रजापतिः । त्वद्-सहायौ खगौ एतौ भ्रातरौ ते भविष्यतः ॥३०॥
śatakratum atha uvāca prīyamāṇaḥ prajāpatiḥ . tvad-sahāyau khagau etau bhrātarau te bhaviṣyataḥ ..30..
नैताभ्यां भविता दोषः सकाशात्ते पुरंदर । व्येतु ते शक्र सन्तापस्त्वमेवेन्द्रो भविष्यसि ॥३१॥
न एताभ्याम् भविता दोषः सकाशात् ते पुरंदर । व्येतु ते शक्र सन्तापः त्वम् एव इन्द्रः भविष्यसि ॥३१॥
na etābhyām bhavitā doṣaḥ sakāśāt te puraṃdara . vyetu te śakra santāpaḥ tvam eva indraḥ bhaviṣyasi ..31..
न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः । न चावमान्या दर्पात्ते वाग्विषा भृशकोपनाः ॥३२॥
न च अपि एवम् त्वया भूयस् क्षेप्तव्याः ब्रह्म-वादिनः । न च अवमान्याः दर्पात् ते वाच्-विषाः भृश-कोपनाः ॥३२॥
na ca api evam tvayā bhūyas kṣeptavyāḥ brahma-vādinaḥ . na ca avamānyāḥ darpāt te vāc-viṣāḥ bhṛśa-kopanāḥ ..32..
एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम् । विनता चापि सिद्धार्था बभूव मुदिता तदा ॥३३॥
एवम् उक्तः जगाम इन्द्रः निर्विशङ्कः त्रिविष्टपम् । विनता च अपि सिद्धार्था बभूव मुदिता तदा ॥३३॥
evam uktaḥ jagāma indraḥ nirviśaṅkaḥ triviṣṭapam . vinatā ca api siddhārthā babhūva muditā tadā ..33..
जनयामास पुत्रौ द्वावरुणं गरुडं तथा । अरुणस्तयोस्तु विकल आदित्यस्य पुरःसरः ॥३४॥
जनयामास पुत्रौ द्वौ अरुणम् गरुडम् तथा । अरुणः तयोः तु विकलः आदित्यस्य पुरःसरः ॥३४॥
janayāmāsa putrau dvau aruṇam garuḍam tathā . aruṇaḥ tayoḥ tu vikalaḥ ādityasya puraḥsaraḥ ..34..
पतत्रीणां तु गरुड इन्द्रत्वेनाभ्यषिच्यत । तस्यैतत्कर्म सुमहच्छ्रूयतां भृगुनन्दन ॥३५॥1.31.35
पतत्रीणाम् तु गरुडः इन्द्र-त्वेन अभ्यषिच्यत । तस्य एतत् कर्म सु महत् श्रूयताम् भृगुनन्दन ॥३५॥१।३१।३५
patatrīṇām tu garuḍaḥ indra-tvena abhyaṣicyata . tasya etat karma su mahat śrūyatām bhṛgunandana ..35..1.31.35

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In