| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
जाम्बूनदमयो भूत्वा मरीचिविकचोज्ज्वलः । प्रविवेश बलात्पक्षी वारिवेग इवार्णवम् ॥१॥
जाम्बूनद-मयः भूत्वा मरीचि-विकच-उज्ज्वलः । प्रविवेश बलात् पक्षी वारि-वेगः इव अर्णवम् ॥१॥
jāmbūnada-mayaḥ bhūtvā marīci-vikaca-ujjvalaḥ . praviveśa balāt pakṣī vāri-vegaḥ iva arṇavam ..1..
स चक्रं क्षुरपर्यन्तमपश्यदमृतान्तिके । परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम् ॥२॥
स चक्रम् क्षुर-पर्यन्तम् अपश्यत् अमृत-अन्तिके । परिभ्रमन्तम् अनिशम् तीक्ष्ण-धारम् अयस्मयम् ॥२॥
sa cakram kṣura-paryantam apaśyat amṛta-antike . paribhramantam aniśam tīkṣṇa-dhāram ayasmayam ..2..
ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम् । घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितम् ॥३॥
ज्वलन-अर्क-प्रभम् घोरम् छेदनम् सोम-हारिणाम् । घोर-रूपम् तत् अत्यर्थम् यन्त्रम् देवैः सु निर्मितम् ॥३॥
jvalana-arka-prabham ghoram chedanam soma-hāriṇām . ghora-rūpam tat atyartham yantram devaiḥ su nirmitam ..3..
तस्यान्तरं स दृष्ट्वैव पर्यवर्तत खेचरः । अरान्तरेणाभ्यपतत्सङ्क्षिप्याङ्गं क्षणेन ह ॥४॥
तस्य अन्तरम् स दृष्ट्वा एव पर्यवर्तत खेचरः । अर-अन्तरेण अभ्यपतत् सङ्क्षिप्य अङ्गम् क्षणेन ह ॥४॥
tasya antaram sa dṛṣṭvā eva paryavartata khecaraḥ . ara-antareṇa abhyapatat saṅkṣipya aṅgam kṣaṇena ha ..4..
अधश्चक्रस्य चैवात्र दीप्तानलसमद्युती । विद्युज्जिह्वौ महाघोरौ दीप्तास्यौ दीप्तलोचनौ ॥५॥
अधस् चक्रस्य च एव अत्र दीप्त-अनल-सम-द्युती । विद्युत्-जिह्वौ महा-घोरौ दीप्त-आस्यौ दीप्त-लोचनौ ॥५॥
adhas cakrasya ca eva atra dīpta-anala-sama-dyutī . vidyut-jihvau mahā-ghorau dīpta-āsyau dīpta-locanau ..5..
चक्षुर्विषौ महावीर्यौ नित्यक्रुद्धौ तरस्विनौ । रक्षार्थमेवामृतस्य ददर्श भुजगोत्तमौ ॥६॥
चक्षुः-विषौ महा-वीर्यौ नित्य-क्रुद्धौ तरस्विनौ । रक्षा-अर्थम् एव अमृतस्य ददर्श भुजग-उत्तमौ ॥६॥
cakṣuḥ-viṣau mahā-vīryau nitya-kruddhau tarasvinau . rakṣā-artham eva amṛtasya dadarśa bhujaga-uttamau ..6..
सदा संरब्धनयनौ सदा चानिमिषेक्षणौ । तयोरेकोऽपि यं पश्येत्स तूर्णं भस्मसाद्भवेत् ॥७॥
सदा संरब्ध-नयनौ सदा च अनिमिष-ईक्षणौ । तयोः एकः अपि यम् पश्येत् स तूर्णम् भस्मसात् भवेत् ॥७॥
sadā saṃrabdha-nayanau sadā ca animiṣa-īkṣaṇau . tayoḥ ekaḥ api yam paśyet sa tūrṇam bhasmasāt bhavet ..7..
तयोश्चक्षूंषि रजसा सुपर्णस्तूर्णमावृणोत् । अदृष्टरूपस्तौ चापि सर्वतः पर्यकालयत् ॥८॥
तयोः चक्षूंषि रजसा सुपर्णः तूर्णम् आवृणोत् । अदृष्ट-रूपः तौ च अपि सर्वतस् पर्यकालयत् ॥८॥
tayoḥ cakṣūṃṣi rajasā suparṇaḥ tūrṇam āvṛṇot . adṛṣṭa-rūpaḥ tau ca api sarvatas paryakālayat ..8..
तयोरङ्गे समाक्रम्य वैनतेयोऽन्तरिक्षगः । आच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः ॥९॥
तयोः अङ्गे समाक्रम्य वैनतेयः अन्तरिक्ष-गः । आच्छिनत् तरसा मध्ये सोमम् अभ्यद्रवत् ततस् ॥९॥
tayoḥ aṅge samākramya vainateyaḥ antarikṣa-gaḥ . ācchinat tarasā madhye somam abhyadravat tatas ..9..
समुत्पाट्यामृतं तत्तु वैनतेयस्ततो बली । उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्यवान् ॥१०॥
समुत्पाट्य अमृतम् तत् तु वैनतेयः ततस् बली । उत्पपात जवेन एव यन्त्रम् उन्मथ्य वीर्यवान् ॥१०॥
samutpāṭya amṛtam tat tu vainateyaḥ tatas balī . utpapāta javena eva yantram unmathya vīryavān ..10..
अपीत्वैवामृतं पक्षी परिगृह्याशु वीर्यवान् । अगच्छदपरिश्रान्त आवार्यार्कप्रभां खगः ॥११॥
अ पीत्वा एव अमृतम् पक्षी परिगृह्य आशु वीर्यवान् । अगच्छत् अपरिश्रान्तः आवार्य अर्क-प्रभाम् खगः ॥११॥
a pītvā eva amṛtam pakṣī parigṛhya āśu vīryavān . agacchat apariśrāntaḥ āvārya arka-prabhām khagaḥ ..11..
विष्णुना तु तदाकाशे वैनतेयः समेयिवान् । तस्य नारायणस्तुष्टस्तेनालौल्येन कर्मणा ॥१२॥
विष्णुना तु तद्-आकाशे वैनतेयः समेयिवान् । तस्य नारायणः तुष्टः तेन अ लौल्येन कर्मणा ॥१२॥
viṣṇunā tu tad-ākāśe vainateyaḥ sameyivān . tasya nārāyaṇaḥ tuṣṭaḥ tena a laulyena karmaṇā ..12..
तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम् । स वव्रे तव तिष्ठेयमुपरीत्यन्तरिक्षगः ॥१३॥
तम् उवाच अव्ययः देवः वर-दः अस्मि इति खेचरम् । स वव्रे तव तिष्ठेयम् उपरि इति अन्तरिक्ष-गः ॥१३॥
tam uvāca avyayaḥ devaḥ vara-daḥ asmi iti khecaram . sa vavre tava tiṣṭheyam upari iti antarikṣa-gaḥ ..13..
उवाच चैनं भूयोऽपि नारायणमिदं वचः । अजरश्चामरश्च स्याममृतेन विनाप्यहम् ॥१४॥
उवाच च एनम् भूयस् अपि नारायणम् इदम् वचः । अजरः च अमरः च स्याम् अमृतेन विना अपि अहम् ॥१४॥
uvāca ca enam bhūyas api nārāyaṇam idam vacaḥ . ajaraḥ ca amaraḥ ca syām amṛtena vinā api aham ..14..
प्रतिगृह्य वरौ तौ च गरुडो विष्णुमब्रवीत् । भवतेऽपि वरं दद्मि वृणीतां भगवानपि ॥१५॥
प्रतिगृह्य वरौ तौ च गरुडः विष्णुम् अब्रवीत् । भवते अपि वरम् दद्मि वृणीताम् भगवान् अपि ॥१५॥
pratigṛhya varau tau ca garuḍaḥ viṣṇum abravīt . bhavate api varam dadmi vṛṇītām bhagavān api ..15..
तं वव्रे वाहनं कृष्णो गरुत्मन्तं महाबलम् । ध्वजं च चक्रे भगवानुपरि स्थास्यसीति तम् ॥१६॥
तम् वव्रे वाहनम् कृष्णः गरुत्मन्तम् महा-बलम् । ध्वजम् च चक्रे भगवान् उपरि स्थास्यसि इति तम् ॥१६॥
tam vavre vāhanam kṛṣṇaḥ garutmantam mahā-balam . dhvajam ca cakre bhagavān upari sthāsyasi iti tam ..16..
अनुपत्य खगं त्विन्द्रो वज्रेणाङ्गेऽभ्यताडयत् । विहङ्गमं सुरामित्रं हरन्तममृतं बलात् ॥१७॥
अनुपत्य खगम् तु इन्द्रः वज्रेण अङ्गे अभ्यताडयत् । विहङ्गमम् सुरा-मित्रम् हरन्तम् अमृतम् बलात् ॥१७॥
anupatya khagam tu indraḥ vajreṇa aṅge abhyatāḍayat . vihaṅgamam surā-mitram harantam amṛtam balāt ..17..
तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः । प्रहसञ्श्लक्ष्णया वाचा तथा वज्रसमाहतः ॥१८॥
तम् उवाच इन्द्रम् आक्रन्दे गरुडः पतताम् वरः । प्रहसन् श्लक्ष्णया वाचा तथा वज्र-समाहतः ॥१८॥
tam uvāca indram ākrande garuḍaḥ patatām varaḥ . prahasan ślakṣṇayā vācā tathā vajra-samāhataḥ ..18..
ऋषेर्मानं करिष्यामि वज्रं यस्यास्थिसम्भवम् । वज्रस्य च करिष्यामि तव चैव शतक्रतो ॥१९॥
ऋषेः मानम् करिष्यामि वज्रम् यस्य अस्थि-सम्भवम् । वज्रस्य च करिष्यामि तव च एव शतक्रतो ॥१९॥
ṛṣeḥ mānam kariṣyāmi vajram yasya asthi-sambhavam . vajrasya ca kariṣyāmi tava ca eva śatakrato ..19..
एष पत्रं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे । न हि वज्रनिपातेन रुजा मेऽस्ति कदाचन ॥२०॥
एष पत्रम् त्यजामि एकम् यस्य अन्तम् न उपलप्स्यसे । न हि वज्र-निपातेन रुजा मे अस्ति कदाचन ॥२०॥
eṣa patram tyajāmi ekam yasya antam na upalapsyase . na hi vajra-nipātena rujā me asti kadācana ..20..
तत्र तं सर्वभूतानि विस्मितान्यब्रुवंस्तदा । सुरूपं पत्रमालक्ष्य सुपर्णोऽयं भवत्विति ॥२१॥
तत्र तम् सर्व-भूतानि विस्मितानि अब्रुवन् तदा । सुरूपम् पत्रम् आलक्ष्य सुपर्णः अयम् भवतु इति ॥२१॥
tatra tam sarva-bhūtāni vismitāni abruvan tadā . surūpam patram ālakṣya suparṇaḥ ayam bhavatu iti ..21..
दृष्ट्वा तदद्भुतं चापि सहस्राक्षः पुरंदरः । खगो महदिदं भूतमिति मत्वाभ्यभाषत ॥२२॥
दृष्ट्वा तत् अद्भुतम् च अपि सहस्राक्षः पुरंदरः । खगः महत् इदम् भूतम् इति मत्वा अभ्यभाषत ॥२२॥
dṛṣṭvā tat adbhutam ca api sahasrākṣaḥ puraṃdaraḥ . khagaḥ mahat idam bhūtam iti matvā abhyabhāṣata ..22..
बलं विज्ञातुमिच्छामि यत्ते परमनुत्तमम् । सख्यं चानन्तमिच्छामि त्वया सह खगोत्तम ॥२३॥ 1.33.25
बलम् विज्ञातुम् इच्छामि यत् ते परम् अनुत्तमम् । सख्यम् च अनन्तम् इच्छामि त्वया सह खग-उत्तम ॥२३॥ १।३३।२५
balam vijñātum icchāmi yat te param anuttamam . sakhyam ca anantam icchāmi tvayā saha khaga-uttama ..23.. 1.33.25

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In