| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

पौष्यपर्व
pauṣyaparva
pauṣyaparva
सूत उवाच॥
जनमेजयः पारिक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमुपास्ते । तस्य भ्रातरस्त्रयः श्रुतसेन उग्रसेनो भीमसेन इति । ००१ ।
जनमेजयः पारिक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घ-सत्रम् उपास्ते । तस्य भ्रातरः त्रयः श्रुतसेनः उग्रसेनः भीमसेनः इति । ००१ ।
janamejayaḥ pārikṣitaḥ saha bhrātṛbhiḥ kurukṣetre dīrgha-satram upāste . tasya bhrātaraḥ trayaḥ śrutasenaḥ ugrasenaḥ bhīmasenaḥ iti . 001 .
तेषु तत्सत्रमुपासीनेषु तत्र श्वाभ्यागच्छत्सारमेयः । स जनमेजयस्य भ्रातृभिरभिहतो रोरूयमाणो मातुः समीपमुपागच्छत् । ००२ ।
तेषु तत् सत्रम् उपासीनेषु तत्र श्वा अभ्यागच्छत् सारमेयः । स जनमेजयस्य भ्रातृभिः अभिहतः रोरूयमाणः मातुः समीपम् उपागच्छत् । ००२ ।
teṣu tat satram upāsīneṣu tatra śvā abhyāgacchat sārameyaḥ . sa janamejayasya bhrātṛbhiḥ abhihataḥ rorūyamāṇaḥ mātuḥ samīpam upāgacchat . 002 .
तं माता रोरूयमाणमुवाच । किं रोदिषि । केनास्यभिहत इति । ००३ ।
तम् माता रोरूयमाणम् उवाच । किम् रोदिषि । केन असि अभिहतः इति । ००३ ।
tam mātā rorūyamāṇam uvāca . kim rodiṣi . kena asi abhihataḥ iti . 003 .
स एवमुक्तो मातरं प्रत्युवाच । जनमेजयस्य भ्रातृभिरभिहतोऽस्मीति । ००४ ।
सः एवम् उक्तः मातरम् प्रत्युवाच । जनमेजयस्य भ्रातृभिः अभिहतः अस्मि इति । ००४ ।
saḥ evam uktaḥ mātaram pratyuvāca . janamejayasya bhrātṛbhiḥ abhihataḥ asmi iti . 004 .
तं माता प्रत्युवाच । व्यक्तं त्वया तत्रापराद्धं येनास्यभिहत इति । ००५ ।
तम् माता प्रत्युवाच । व्यक्तम् त्वया तत्र अपराद्धम् येन असि अभिहतः इति । ००५ ।
tam mātā pratyuvāca . vyaktam tvayā tatra aparāddham yena asi abhihataḥ iti . 005 .
स तां पुनरुवाच । नापराध्यामि किञ्चित् । नावेक्षे हवींषि नावलिह इति । ००६ ।
स ताम् पुनर् उवाच । न अपराध्यामि किञ्चिद् । न अवेक्षे हवींषि न अवलिहे इति । ००६ ।
sa tām punar uvāca . na aparādhyāmi kiñcid . na avekṣe havīṃṣi na avalihe iti . 006 .
तच्छ्रुत्वा तस्य माता सरमा पुत्रशोकार्ता तत्सत्रमुपागच्छद्यत्र स जनमेजयः सह भ्रातृभिर्दीर्घसत्रमुपास्ते । ००७ ।
तत् श्रुत्वा तस्य माता सरमा पुत्र-शोक-आर्ता तत् सत्रम् उपागच्छत् यत्र स जनमेजयः सह भ्रातृभिः दीर्घ-सत्रम् उपास्ते । ००७ ।
tat śrutvā tasya mātā saramā putra-śoka-ārtā tat satram upāgacchat yatra sa janamejayaḥ saha bhrātṛbhiḥ dīrgha-satram upāste . 007 .
स तया क्रुद्धया तत्रोक्तः । अयं मे पुत्रो न किञ्चिदपराध्यति । किमर्थमभिहत इति । यस्माच्चायमभिहतोऽनपकारी तस्माददृष्टं त्वां भयमागमिष्यतीति । ००८ ।
स तया क्रुद्धया तत्र उक्तः । अयम् मे पुत्रः न किञ्चिद् अपराध्यति । किमर्थम् अभिहतः इति । यस्मात् च अयम् अभिहतः अनपकारी तस्मात् अदृष्टम् त्वाम् भयम् आगमिष्यति इति । ००८ ।
sa tayā kruddhayā tatra uktaḥ . ayam me putraḥ na kiñcid aparādhyati . kimartham abhihataḥ iti . yasmāt ca ayam abhihataḥ anapakārī tasmāt adṛṣṭam tvām bhayam āgamiṣyati iti . 008 .
स जनमेजय एवमुक्तो देवशुन्या सरमया दृढं सम्भ्रान्तो विषण्णश्चासीत् । ००९ ।
स जनमेजयः एवम् उक्तः देवशुन्या सरमया दृढम् सम्भ्रान्तः विषण्णः च आसीत् । ००९ ।
sa janamejayaḥ evam uktaḥ devaśunyā saramayā dṛḍham sambhrāntaḥ viṣaṇṇaḥ ca āsīt . 009 .
स तस्मिन्सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितमनुरूपमन्विच्छमानः परं यत्नमकरोद्यो मे पापकृत्यां शमयेदिति । ०१० ।
स तस्मिन् सत्रे समाप्ते हास्तिनपुरम् प्रत्येत्य पुरोहितम् अनुरूपम् अन्विच्छमानः परम् यत्नम् अकरोत् यः मे पाप-कृत्याम् शमयेत् इति । ०१० ।
sa tasmin satre samāpte hāstinapuram pratyetya purohitam anurūpam anvicchamānaḥ param yatnam akarot yaḥ me pāpa-kṛtyām śamayet iti . 010 .
स कदाचिन्मृगयां यातः पारिक्षितो जनमेजयः कस्मिंश्चित्स्वविषयोद्देशे आश्रममपश्यत् । ०११ ।
स कदाचिद् मृगयाम् यातः पारिक्षितः जनमेजयः कस्मिंश्चिद् स्व-विषय-उद्देशे आश्रमम् अपश्यत् । ०११ ।
sa kadācid mṛgayām yātaḥ pārikṣitaḥ janamejayaḥ kasmiṃścid sva-viṣaya-uddeśe āśramam apaśyat . 011 .
तत्र कश्चिदृषिरासां चक्रे श्रुतश्रवा नाम । तस्याभिमतः पुत्र आस्ते सोमश्रवा नाम । ०१२ ।
तत्र कश्चिद् ऋषिः आसाम् चक्रे श्रुतश्रवाः नाम । तस्य अभिमतः पुत्रः आस्ते सोमश्रवाः नाम । ०१२ ।
tatra kaścid ṛṣiḥ āsām cakre śrutaśravāḥ nāma . tasya abhimataḥ putraḥ āste somaśravāḥ nāma . 012 .
तस्य तं पुत्रमभिगम्य जनमेजयः पारिक्षितः पौरोहित्याय वव्रे । ०१३ ।
तस्य तम् पुत्रम् अभिगम्य जनमेजयः पारिक्षितः पौरोहित्याय वव्रे । ०१३ ।
tasya tam putram abhigamya janamejayaḥ pārikṣitaḥ paurohityāya vavre . 013 .
स नमस्कृत्य तमृषिमुवाच । भगवन्नयं तव पुत्रो मम पुरोहितोऽस्त्विति । ०१४ ।
स नमस्कृत्य तम् ऋषिम् उवाच । भगवन् अयम् तव पुत्रः मम पुरोहितः अस्तु इति । ०१४ ।
sa namaskṛtya tam ṛṣim uvāca . bhagavan ayam tava putraḥ mama purohitaḥ astu iti . 014 .
स एवमुक्तः प्रत्युवाच । भो जनमेजय पुत्रोऽयं मम सर्प्यां जातः । महातपस्वी स्वाध्यायसम्पन्नो मत्तपोवीर्यसम्भृतो मच्छुक्रं पीतवत्यास्तस्याः कुक्षौ संवृद्धः । समर्थोऽयं भवतः सर्वाः पापकृत्याः शमयितुमन्तरेण महादेवकृत्याम् । अस्य त्वेकमुपांशुव्रतम् । यदेनं कश्चिद्ब्राह्मणः कञ्चिदर्थमभियाचेत्तं तस्मै दद्यादयम् । यद्येतदुत्सहसे ततो नयस्वैनमिति । ०१५ ।
सः एवम् उक्तः प्रत्युवाच । भो जनमेजय पुत्रः अयम् मम सर्प्याम् जातः । महा-तपस्वी स्वाध्याय-सम्पन्नः मद्-तपः-वीर्य-सम्भृतः मद्-शुक्रम् पीतवत्याः तस्याः कुक्षौ संवृद्धः । समर्थः अयम् भवतः सर्वाः पाप-कृत्याः शमयितुम् अन्तरेण महादेव-कृत्याम् । अस्य तु एकम् उपांशु-व्रतम् । यत् एनम् कश्चिद् ब्राह्मणः कञ्चिद् अर्थम् अभियाचेत् तम् तस्मै दद्यात् अयम् । यदि एतत् उत्सहसे ततस् नयस्व एनम् इति । ०१५ ।
saḥ evam uktaḥ pratyuvāca . bho janamejaya putraḥ ayam mama sarpyām jātaḥ . mahā-tapasvī svādhyāya-sampannaḥ mad-tapaḥ-vīrya-sambhṛtaḥ mad-śukram pītavatyāḥ tasyāḥ kukṣau saṃvṛddhaḥ . samarthaḥ ayam bhavataḥ sarvāḥ pāpa-kṛtyāḥ śamayitum antareṇa mahādeva-kṛtyām . asya tu ekam upāṃśu-vratam . yat enam kaścid brāhmaṇaḥ kañcid artham abhiyācet tam tasmai dadyāt ayam . yadi etat utsahase tatas nayasva enam iti . 015 .
तेनैवमुत्को जनमेजयस्तं प्रत्युवाच । भगवंस्तथा भविष्यतीति । ०१६ ।
तेन एवम् उत्कः जनमेजयः तम् प्रत्युवाच । भगवन् तथा भविष्यति इति । ०१६ ।
tena evam utkaḥ janamejayaḥ tam pratyuvāca . bhagavan tathā bhaviṣyati iti . 016 .
स तं पुरोहितमुपादायोपावृत्तो भ्रातृनुवाच । मयायं वृत उपाध्यायः । यदयं ब्रूयात्तत्कार्यमविचारयद्भिरिति । ०१७ ।
स तम् पुरोहितम् उपादाय उपावृत्तः भ्रातृन् उवाच । मया अयम् वृतः उपाध्यायः । यत् अयम् ब्रूयात् तत् कार्यम् अ विचारयद्भिः इति । ०१७ ।
sa tam purohitam upādāya upāvṛttaḥ bhrātṛn uvāca . mayā ayam vṛtaḥ upādhyāyaḥ . yat ayam brūyāt tat kāryam a vicārayadbhiḥ iti . 017 .
तेनैवमुक्ता भ्रातरस्तस्य तथा चक्रुः । स तथा भ्रातृन्संदिश्य तक्षशिलां प्रत्यभिप्रतस्थे ।
तेन एवम् उक्ताः भ्रातरः तस्य तथा चक्रुः । स तथा भ्रातृन् संदिश्य तक्षशिलाम् प्रत्यभिप्रतस्थे ।
tena evam uktāḥ bhrātaraḥ tasya tathā cakruḥ . sa tathā bhrātṛn saṃdiśya takṣaśilām pratyabhipratasthe .
एतस्मिन्नन्तरे कश्चिदृषिर्धौम्यो नामायोदः । तस्य शिष्यास्त्रयो बभूवुरुपमन्युरारुणिर्वेदश्चेति । ०१९ ।
एतस्मिन् अन्तरे कश्चिद् ऋषिः धौम्यः नाम आयोदः । तस्य शिष्याः त्रयः बभूवुः उपमन्युः आरुणिः वेदः च इति । ०१९ ।
etasmin antare kaścid ṛṣiḥ dhaumyaḥ nāma āyodaḥ . tasya śiṣyāḥ trayaḥ babhūvuḥ upamanyuḥ āruṇiḥ vedaḥ ca iti . 019 .
स एकं शिष्यमारुणिं पाञ्चाल्यं प्रेषयामास । गच्छ केदारखण्डं बधानेति । ०२० ।
सः एकम् शिष्यम् आरुणिम् पाञ्चाल्यम् प्रेषयामास । गच्छ केदारखण्डम् बधान इति । ०२० ।
saḥ ekam śiṣyam āruṇim pāñcālyam preṣayāmāsa . gaccha kedārakhaṇḍam badhāna iti . 020 .
स क्लिश्यमानोऽपश्यदुपायम् । भवत्वेवं करिष्यामीति । ०२२ ।
स क्लिश्यमानः अपश्यत् उपायम् । भवतु एवम् करिष्यामि इति । ०२२ ।
sa kliśyamānaḥ apaśyat upāyam . bhavatu evam kariṣyāmi iti . 022 .
स तत्र संविवेश केदारखण्डे । शयाने तस्मिंस्तदुदकं तस्थौ । ०२३ ।
स तत्र संविवेश केदारखण्डे । शयाने तस्मिन् तत् उदकम् तस्थौ । ०२३ ।
sa tatra saṃviveśa kedārakhaṇḍe . śayāne tasmin tat udakam tasthau . 023 .
ततः कदाचिदुपाध्याय आयोदो धौम्यः शिष्यानपृच्छत् । क्व आरुणिः पाञ्चाल्यो गत इति । ०२४ ।
ततस् कदाचिद् उपाध्यायः आयोदः धौम्यः शिष्यान् अपृच्छत् । क्व आरुणिः पाञ्चाल्यः गतः इति । ०२४ ।
tatas kadācid upādhyāyaḥ āyodaḥ dhaumyaḥ śiṣyān apṛcchat . kva āruṇiḥ pāñcālyaḥ gataḥ iti . 024 .
ते प्रत्यूचुः । भगवतैव प्रेषितो गच्छ केदारखण्डं बधानेति । ०२५ ।
ते प्रत्यूचुः । भगवता एव प्रेषितः गच्छ केदारखण्डम् बधान इति । ०२५ ।
te pratyūcuḥ . bhagavatā eva preṣitaḥ gaccha kedārakhaṇḍam badhāna iti . 025 .
स एवमुक्तस्ताञ्शिष्यान्प्रत्युवाच । तस्मात्सर्वे तत्र गच्छामो यत्र स इति । ०२६ ।
सः एवम् उक्तः तान् शिष्यान् प्रत्युवाच । तस्मात् सर्वे तत्र गच्छामः यत्र सः इति । ०२६ ।
saḥ evam uktaḥ tān śiṣyān pratyuvāca . tasmāt sarve tatra gacchāmaḥ yatra saḥ iti . 026 .
स तत्र गत्वा तस्याह्वानाय शब्दं चकार । भो आरुणे पाञ्चाल्य क्वासि । वत्सैहीति । ०२७ ।
स तत्र गत्वा तस्य आह्वानाय शब्दम् चकार । भो आरुणे पाञ्चाल्य क्व असि । वत्स एहि इति । ०२७ ।
sa tatra gatvā tasya āhvānāya śabdam cakāra . bho āruṇe pāñcālya kva asi . vatsa ehi iti . 027 .
स तच्छ्रुत्वा आरुणिरुपाध्यायवाक्यं तस्मात्केदारखण्डात्सहसोत्थाय तमुपाध्यायमुपतस्थे । प्रोवाच चैनम् । अयमस्म्यत्र केदारखण्डे निःसरमाणमुदकमवारणीयं संरोद्धुं संविष्टो भगवच्छब्दं श्रुत्वैव सहसा विदार्य केदारखण्डं भवन्तमुपस्थितः । तदभिवादये भगवन्तम् । आज्ञापयतु भवान् । किं करवाणीति । ०२८ ।
स तत् श्रुत्वा आरुणिः उपाध्याय-वाक्यम् तस्मात् केदारखण्डात् सहसा उत्थाय तम् उपाध्यायम् उपतस्थे । प्रोवाच च एनम् । अयम् अस्मि अत्र केदारखण्डे निःसरमाणम् उदकम् अवारणीयम् संरोद्धुम् संविष्टः भगवत्-शब्दम् श्रुत्वा एव सहसा विदार्य केदारखण्डम् भवन्तम् उपस्थितः । तत् अभिवादये भगवन्तम् । आज्ञापयतु भवान् । किम् करवाणि इति । ०२८ ।
sa tat śrutvā āruṇiḥ upādhyāya-vākyam tasmāt kedārakhaṇḍāt sahasā utthāya tam upādhyāyam upatasthe . provāca ca enam . ayam asmi atra kedārakhaṇḍe niḥsaramāṇam udakam avāraṇīyam saṃroddhum saṃviṣṭaḥ bhagavat-śabdam śrutvā eva sahasā vidārya kedārakhaṇḍam bhavantam upasthitaḥ . tat abhivādaye bhagavantam . ājñāpayatu bhavān . kim karavāṇi iti . 028 .
तमुपाध्यायोऽब्रवीत् । यस्माद्भवान्केदारखण्डमवदार्योत्थितस्तस्माद्भवानुद्दालक एव नाम्ना भविष्यतीति । ०२९ ।
तम् उपाध्यायः अब्रवीत् । यस्मात् भवान् केदारखण्डम् अवदार्य उत्थितः तस्मात् भवान् उद्दालकः एव नाम्ना भविष्यति इति । ०२९ ।
tam upādhyāyaḥ abravīt . yasmāt bhavān kedārakhaṇḍam avadārya utthitaḥ tasmāt bhavān uddālakaḥ eva nāmnā bhaviṣyati iti . 029 .
स उपाध्यायेनानुगृहीतः । यस्मात्त्वया मद्वचोऽनुष्ठितं तस्माच्छ्रेयोऽवाप्स्यसीति । सर्वे च ते वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति । ०३० ।
सः उपाध्यायेन अनुगृहीतः । यस्मात् त्वया मद्-वचः अनुष्ठितम् तस्मात् श्रेयः अवाप्स्यसि इति । सर्वे च ते वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणि इति । ०३० ।
saḥ upādhyāyena anugṛhītaḥ . yasmāt tvayā mad-vacaḥ anuṣṭhitam tasmāt śreyaḥ avāpsyasi iti . sarve ca te vedāḥ pratibhāsyanti sarvāṇi ca dharmaśāstrāṇi iti . 030 .
स एवमुक्त उपाध्यायेनेष्टं देशं जगाम । ०३१ ।
सः एवम् उक्तः उपाध्यायेन इष्टम् देशम् जगाम । ०३१ ।
saḥ evam uktaḥ upādhyāyena iṣṭam deśam jagāma . 031 .
अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्योपमन्युर्नाम । ०३२ ।
अथ अपरः शिष्यः तस्य एव आयोदस्य धौम्यस्य उपमन्युः नाम । ०३२ ।
atha aparaḥ śiṣyaḥ tasya eva āyodasya dhaumyasya upamanyuḥ nāma . 032 .
तमुपाध्यायः प्रेषयामास । वत्सोपमन्यो गा रक्षस्वेति । ०३३ ।
तम् उपाध्यायः प्रेषयामास । वत्स उपमन्यो गाः रक्षस्व इति । ०३३ ।
tam upādhyāyaḥ preṣayāmāsa . vatsa upamanyo gāḥ rakṣasva iti . 033 .
स उपाध्यायवचनादरक्षद्गाः । स चाहनि गा रक्षित्वा दिवसक्षयेऽभ्यागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे । ०३४ ।
सः उपाध्याय-वचनात् अरक्षत् गाः । स च अहनि गाः रक्षित्वा दिवस-क्षये अभ्यागम्य उपाध्यायस्य अग्रतस् स्थित्वा नमश्चक्रे । ०३४ ।
saḥ upādhyāya-vacanāt arakṣat gāḥ . sa ca ahani gāḥ rakṣitvā divasa-kṣaye abhyāgamya upādhyāyasya agratas sthitvā namaścakre . 034 .
तमुपाध्यायः पीवानमपश्यत् । उवाच चैनम् । वत्सोपमन्यो केन वृत्तिं कल्पयसि । पीवानसि दृढमिति । ०३५ ।
तम् उपाध्यायः पीवानम् अपश्यत् । उवाच च एनम् । वत्स उपमन्यो केन वृत्तिम् कल्पयसि । पीवान् असि दृढम् इति । ०३५ ।
tam upādhyāyaḥ pīvānam apaśyat . uvāca ca enam . vatsa upamanyo kena vṛttim kalpayasi . pīvān asi dṛḍham iti . 035 .
स उपाध्यायं प्रत्युवाच । भैक्षेण वृत्तिं कल्पयामीति । ०३६ ।
सः उपाध्यायम् प्रत्युवाच । भैक्षेण वृत्तिम् कल्पयामि इति । ०३६ ।
saḥ upādhyāyam pratyuvāca . bhaikṣeṇa vṛttim kalpayāmi iti . 036 .
तमुपाध्यायः प्रत्युवाच । ममानिवेद्य भैक्षं नोपयोक्तव्यमिति । ०३७ ।
तम् उपाध्यायः प्रत्युवाच । मम अ निवेद्य भैक्षम् न उपयोक्तव्यम् इति । ०३७ ।
tam upādhyāyaḥ pratyuvāca . mama a nivedya bhaikṣam na upayoktavyam iti . 037 .
स तथेत्युक्त्वा पुनररक्षद्गाः । रक्षित्वा चागम्य तथैवोपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे । ०३८ ।
स तथा इति उक्त्वा पुनर् अरक्षत् गाः । रक्षित्वा च आगम्य तथा एव उपाध्यायस्य अग्रतस् स्थित्वा नमश्चक्रे । ०३८ ।
sa tathā iti uktvā punar arakṣat gāḥ . rakṣitvā ca āgamya tathā eva upādhyāyasya agratas sthitvā namaścakre . 038 .
तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वोवाच । वत्सोपमन्यो सर्वमशेषतस्ते भैक्षं गृह्णामि । केनेदानीं वृत्तिं कल्पयसीति । ०३९ ।
तम् उपाध्यायः तथा अपि पीवानम् एव दृष्ट्वा उवाच । वत्स उपमन्यो सर्वम् अशेषतस् ते भैक्षम् गृह्णामि । केन इदानीम् वृत्तिम् कल्पयसि इति । ०३९ ।
tam upādhyāyaḥ tathā api pīvānam eva dṛṣṭvā uvāca . vatsa upamanyo sarvam aśeṣatas te bhaikṣam gṛhṇāmi . kena idānīm vṛttim kalpayasi iti . 039 .
स एवमुक्त उपाध्यायेन प्रत्युवाच । भगवते निवेद्य पूर्वमपरं चरामि । तेन वृत्तिं कल्पयामीति । ०४० ।
सः एवम् उक्तः उपाध्यायेन प्रत्युवाच । भगवते निवेद्य पूर्वम् अपरम् चरामि । तेन वृत्तिम् कल्पयामि इति । ०४० ।
saḥ evam uktaḥ upādhyāyena pratyuvāca . bhagavate nivedya pūrvam aparam carāmi . tena vṛttim kalpayāmi iti . 040 .
तमुपाध्यायः प्रत्युवाच । नैषा न्याय्या गुरुवृत्तिः । अन्येषामपि वृत्त्युपरोधं करोष्येवं वर्तमानः । लुब्धोऽसीति । ०४१ ।
तम् उपाध्यायः प्रत्युवाच । न एषा न्याय्या गुरु-वृत्तिः । अन्येषाम् अपि वृत्ति-उपरोधम् करोषि एवम् वर्तमानः । लुब्धः असि इति । ०४१ ।
tam upādhyāyaḥ pratyuvāca . na eṣā nyāyyā guru-vṛttiḥ . anyeṣām api vṛtti-uparodham karoṣi evam vartamānaḥ . lubdhaḥ asi iti . 041 .
स तथेत्युक्त्वा गा अरक्षत् । रक्षित्वा च पुनरुपाध्यायगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे । ०४२ ।
स तथा इति उक्त्वा गाः अरक्षत् । रक्षित्वा च पुनर् उपाध्याय-गृहम् आगम्य उपाध्यायस्य अग्रतस् स्थित्वा नमश्चक्रे । ०४२ ।
sa tathā iti uktvā gāḥ arakṣat . rakṣitvā ca punar upādhyāya-gṛham āgamya upādhyāyasya agratas sthitvā namaścakre . 042 .
तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच । अहं ते सर्वं भैक्षं गृह्णामि न चान्यच्चरसि । पीवानसि । केन वृत्तिं कल्पयसीति । ०४३ ।
तम् उपाध्यायः तथा अपि पीवानम् एव दृष्ट्वा पुनर् उवाच । अहम् ते सर्वम् भैक्षम् गृह्णामि न च अन्यत् चरसि । पीवान् असि । केन वृत्तिम् कल्पयसि इति । ०४३ ।
tam upādhyāyaḥ tathā api pīvānam eva dṛṣṭvā punar uvāca . aham te sarvam bhaikṣam gṛhṇāmi na ca anyat carasi . pīvān asi . kena vṛttim kalpayasi iti . 043 .
स उपाध्यायं प्रत्युवाच । भो एतासां गवां पयसा वृत्तिं कल्पयामीति । ०४४ ।
सः उपाध्यायम् प्रत्युवाच । भो एतासाम् गवाम् पयसा वृत्तिम् कल्पयामि इति । ०४४ ।
saḥ upādhyāyam pratyuvāca . bho etāsām gavām payasā vṛttim kalpayāmi iti . 044 .
तमुपाध्यायः प्रत्युवाच । नैतन्न्याय्यं पय उपयोक्तुं भवतो मयाननुज्ञातमिति । ०४५ ।
तम् उपाध्यायः प्रत्युवाच । न एतत् न्याय्यम् पयः उपयोक्तुम् भवतः मया अननुज्ञातम् इति । ०४५ ।
tam upādhyāyaḥ pratyuvāca . na etat nyāyyam payaḥ upayoktum bhavataḥ mayā ananujñātam iti . 045 .
स तथेति प्रतिज्ञाय गा रक्षित्वा पुनरुपाध्यायगृहानेत्य गुरोरग्रतः स्थित्वा नमश्चक्रे । ०४६ ।
स तथा इति प्रतिज्ञाय गाः रक्षित्वा पुनर् उपाध्याय-गृहान् एत्य गुरोः अग्रतस् स्थित्वा नमश्चक्रे । ०४६ ।
sa tathā iti pratijñāya gāḥ rakṣitvā punar upādhyāya-gṛhān etya guroḥ agratas sthitvā namaścakre . 046 .
तमुपाध्यायः पीवानमेवापश्यत् । उवाच चैनम् । भैक्षं नाश्नासि न चान्यच्चरसि । पयो न पिबसि । पीवानसि । केन वृत्तिं कल्पयसीति । ०४७ ।
तम् उपाध्यायः पीवानम् एव अपश्यत् । उवाच च एनम् । भैक्षम् न अश्नासि न च अन्यत् चरसि । पयः न पिबसि । पीवान् असि । केन वृत्तिम् कल्पयसि इति । ०४७ ।
tam upādhyāyaḥ pīvānam eva apaśyat . uvāca ca enam . bhaikṣam na aśnāsi na ca anyat carasi . payaḥ na pibasi . pīvān asi . kena vṛttim kalpayasi iti . 047 .
स एवमुक्त उपाध्यायं प्रत्युवाच । भोः फेनं पिबामि यमिमे वत्सा मातृणां स्तनं पिबन्त उद्गिरन्तीति । ०४८ ।
सः एवम् उक्तः उपाध्यायम् प्रत्युवाच । भोः फेनम् पिबामि यम् इमे वत्साः मातृणाम् स्तनम् पिबन्तः उद्गिरन्ति इति । ०४८ ।
saḥ evam uktaḥ upādhyāyam pratyuvāca . bhoḥ phenam pibāmi yam ime vatsāḥ mātṛṇām stanam pibantaḥ udgiranti iti . 048 .
तमुपाध्यायः प्रत्युवाच । एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनमुद्गिरन्ति । तदेवमपि वत्सानां वृत्त्युपरोधं करोष्येवं वर्तमानः । फेनमपि भवान्न पातुमर्हतीति । ०४९ ।
तम् उपाध्यायः प्रत्युवाच । एते त्वद्-अनुकम्पया गुणवन्तः वत्साः प्रभूततरम् फेनम् उद्गिरन्ति । तत् एवम् अपि वत्सानाम् वृत्ति-उपरोधम् करोषि एवम् वर्तमानः । फेनम् अपि भवान् न पातुम् अर्हति इति । ०४९ ।
tam upādhyāyaḥ pratyuvāca . ete tvad-anukampayā guṇavantaḥ vatsāḥ prabhūtataram phenam udgiranti . tat evam api vatsānām vṛtti-uparodham karoṣi evam vartamānaḥ . phenam api bhavān na pātum arhati iti . 049 .
स तथेति प्रतिज्ञाय निराहारस्ता गा अरक्षत् । तथा प्रतिषिद्धो भैक्षं नाश्नाति न चान्यच्चरति । पयो न पिबति । फेनं नोपयुङ्क्ते । ०५० ।
स तथा इति प्रतिज्ञाय निराहारः ताः गाः अरक्षत् । तथा प्रतिषिद्धः भैक्षम् न अश्नाति न च अन्यत् चरति । पयः न पिबति । फेनम् न उपयुङ्क्ते । ०५० ।
sa tathā iti pratijñāya nirāhāraḥ tāḥ gāḥ arakṣat . tathā pratiṣiddhaḥ bhaikṣam na aśnāti na ca anyat carati . payaḥ na pibati . phenam na upayuṅkte . 050 .
स कदाचिदरण्ये क्षुधार्तोऽर्कपत्राण्यभक्षयत् । ०५१ ।
स कदाचिद् अरण्ये क्षुधा-आर्तः अर्क-पत्राणि अभक्षयत् । ०५१ ।
sa kadācid araṇye kṣudhā-ārtaḥ arka-patrāṇi abhakṣayat . 051 .
स तैरर्कपत्रैर्भक्षितैः क्षारकटूष्णविपाकिभिश्चक्षुष्युपहतोऽन्धोऽभवत् । सोऽन्धोऽपि चङ्क्रम्यमाणः कूपेऽपतत् । ०५२ ।
स तैः अर्क-पत्रैः भक्षितैः क्षार-कटु-उष्ण-विपाकिभिः चक्षुषि उपहतः अन्धः अभवत् । सः अन्धः अपि चङ्क्रम्यमाणः कूपे अपतत् । ०५२ ।
sa taiḥ arka-patraiḥ bhakṣitaiḥ kṣāra-kaṭu-uṣṇa-vipākibhiḥ cakṣuṣi upahataḥ andhaḥ abhavat . saḥ andhaḥ api caṅkramyamāṇaḥ kūpe apatat . 052 .
अथ तस्मिन्ननागच्छत्युपाध्यायः शिष्यानवोचत् । मयोपमन्युः सर्वतः प्रतिषिद्धः । स नियतं कुपितः । ततो नागच्छति चिरगतश्चेति । ०५३ ।
अथ तस्मिन् अन् आगच्छति उपाध्यायः शिष्यान् अवोचत् । मया उपमन्युः सर्वतस् प्रतिषिद्धः । स नियतम् कुपितः । ततस् न आगच्छति चिर-गतः च इति । ०५३ ।
atha tasmin an āgacchati upādhyāyaḥ śiṣyān avocat . mayā upamanyuḥ sarvatas pratiṣiddhaḥ . sa niyatam kupitaḥ . tatas na āgacchati cira-gataḥ ca iti . 053 .
स एवमुक्त्वा गत्वारण्यमुपमन्योराह्वानं चक्रे । भो उपमन्यो क्वासि । वत्सैहीति । ०५४ ।
सः एवम् उक्त्वा गत्वा अरण्यम् उपमन्योः आह्वानम् चक्रे । भो उपमन्यो क्व असि । वत्स एहि इति । ०५४ ।
saḥ evam uktvā gatvā araṇyam upamanyoḥ āhvānam cakre . bho upamanyo kva asi . vatsa ehi iti . 054 .
स तदाह्वानमुपाध्यायाच्छ्रुत्वा प्रत्युवाचोच्चैः । अयमस्मि भो उपाध्याय कूपे पतित इति । ०५५ ।
स तद्-आह्वानम् उपाध्यायात् श्रुत्वा प्रत्युवाच उच्चैस् । अयम् अस्मि भो उपाध्याय कूपे पतितः इति । ०५५ ।
sa tad-āhvānam upādhyāyāt śrutvā pratyuvāca uccais . ayam asmi bho upādhyāya kūpe patitaḥ iti . 055 .
तमुपाध्यायः प्रत्युवाच । कथमसि कूपे पतित इति । ०५६ ।
तम् उपाध्यायः प्रत्युवाच । कथम् असि कूपे पतितः इति । ०५६ ।
tam upādhyāyaḥ pratyuvāca . katham asi kūpe patitaḥ iti . 056 .
स तं प्रत्युवाच । अर्कपत्राणि भक्षयित्वान्धीभूतोऽस्मि । अतः कूपे पतित इति । ०५७ ।
स तम् प्रत्युवाच । अर्क-पत्राणि भक्षयित्वा अन्धीभूतः अस्मि । अतस् कूपे पतितः इति । ०५७ ।
sa tam pratyuvāca . arka-patrāṇi bhakṣayitvā andhībhūtaḥ asmi . atas kūpe patitaḥ iti . 057 .
तमुपाध्यायः प्रत्युवाच । अश्विनौ स्तुहि । तौ त्वां चक्षुष्मन्तं करिष्यतो देवभिषजाविति । ०५८ ।
तम् उपाध्यायः प्रत्युवाच । अश्विनौ स्तुहि । तौ त्वाम् चक्षुष्मन्तम् करिष्यतः देवभिषजौ इति । ०५८ ।
tam upādhyāyaḥ pratyuvāca . aśvinau stuhi . tau tvām cakṣuṣmantam kariṣyataḥ devabhiṣajau iti . 058 .
स एवमुक्त उपाध्यायेन स्तोतुं प्रचक्रमे देवावश्विनौ वाग्भिरृग्भिः । ०५९ ।
सः एवम् उक्तः उपाध्यायेन स्तोतुम् प्रचक्रमे देवौ अश्विनौ वाग्भिः ऋग्भिः । ०५९ ।
saḥ evam uktaḥ upādhyāyena stotum pracakrame devau aśvinau vāgbhiḥ ṛgbhiḥ . 059 .
प्र पूर्वगौ पूर्वजौ चित्रभानू; गिरा वा शंसामि तपनावनन्तौ । दिव्यौ सुपर्णौ विरजौ विमाना; वधिक्षियन्तौ भुवनानि विश्वा ॥६०॥
प्र पूर्व-गौ पूर्व-जौ चित्र-भानू; गिरा वा शंसामि तपनौ अनन्तौ । दिव्यौ सुपर्णौ विरजौ विमाना; वधिक्षियन्तौ भुवनानि विश्वा ॥६०॥
pra pūrva-gau pūrva-jau citra-bhānū; girā vā śaṃsāmi tapanau anantau . divyau suparṇau virajau vimānā; vadhikṣiyantau bhuvanāni viśvā ..60..
हिरण्मयौ शकुनी साम्परायौ; नासत्यदस्रौ सुनसौ वैजयन्तौ । शुक्रं वयन्तौ तरसा सुवेमा; वभि व्ययन्तावसितं विवस्वत् ॥६१॥
हिरण्मयौ शकुनी साम्परायौ; नासत्य-दस्रौ सु नसौ वैजयन्तौ । शुक्रम् वयन्तौ तरसा सुवेमा; वभि व्ययन्ता अवसितम् विवस्वत् ॥६१॥
hiraṇmayau śakunī sāmparāyau; nāsatya-dasrau su nasau vaijayantau . śukram vayantau tarasā suvemā; vabhi vyayantā avasitam vivasvat ..61..
ग्रस्तां सुपर्णस्य बलेन वर्तिका; ममुञ्चतामश्विनौ सौभगाय । तावत्सुवृत्तावनमन्त मायया; सत्तमा गा अरुणा उदावहन् ॥६२॥
ग्रस्ताम् सुपर्णस्य बलेन वर्तिका; ममुञ्चताम् अश्विनौ सौभगाय । तावत् सु वृत्तौ अनमन्त मायया; सत्तमाः गाः अरुणाः उदावहन् ॥६२॥
grastām suparṇasya balena vartikā; mamuñcatām aśvinau saubhagāya . tāvat su vṛttau anamanta māyayā; sattamāḥ gāḥ aruṇāḥ udāvahan ..62..
षष्टिश्च गावस्त्रिशताश्च धेनव; एकं वत्सं सुवते तं दुहन्ति । नानागोष्ठा विहिता एकदोहना; स्तावश्विनौ दुहतो घर्ममुक्थ्यम् ॥६३॥
षष्टिः च गावः त्रि-शताः च धेनव; एकम् वत्सम् सुवते तम् दुहन्ति । नाना गोष्ठा विहिता एक-दोहना; स्तौ अश्विनौ दुहतः घर्मम् उक्थ्यम् ॥६३॥
ṣaṣṭiḥ ca gāvaḥ tri-śatāḥ ca dhenava; ekam vatsam suvate tam duhanti . nānā goṣṭhā vihitā eka-dohanā; stau aśvinau duhataḥ gharmam ukthyam ..63..
एकां नाभिं सप्तशता अराः श्रिताः; प्रधिष्वन्या विंशतिरर्पिता अराः । अनेमि चक्रं परिवर्ततेऽजरं; मायाश्विनौ समनक्ति चर्षणी ॥६४॥
एकाम् नाभिम् सप्त-शताः अराः श्रिताः; प्रधिषु अन्याः विंशतिः अर्पिताः अराः । अ नेमि चक्रम् परिवर्तते अजरम्; माया अश्विनौ समनक्ति चर्षणी ॥६४॥
ekām nābhim sapta-śatāḥ arāḥ śritāḥ; pradhiṣu anyāḥ viṃśatiḥ arpitāḥ arāḥ . a nemi cakram parivartate ajaram; māyā aśvinau samanakti carṣaṇī ..64..
एकं चक्रं वर्तते द्वादशारं प्रधि; षण्णाभिमेकाक्षममृतस्य धारणम् । यस्मिन्देवा अधि विश्वे विषक्ता; स्तावश्विनौ मुञ्चतो मा विषीदतम् ॥६५॥
एकम् चक्रम् वर्तते द्वादश-अरम् प्रधि; षण्णाभिम् एक-अक्षम् अमृतस्य धारणम् । यस्मिन् देवाः अधि विश्वे विषक्ता; स्तौ अश्विनौ मुञ्चतः मा विषीदतम् ॥६५॥
ekam cakram vartate dvādaśa-aram pradhi; ṣaṇṇābhim eka-akṣam amṛtasya dhāraṇam . yasmin devāḥ adhi viśve viṣaktā; stau aśvinau muñcataḥ mā viṣīdatam ..65..
अश्विनाविन्द्रममृतं वृत्तभूयौ; तिरोधत्तामश्विनौ दासपत्नी । भित्त्वा गिरिमश्विनौ गामुदाचरन्तौ; तद्वृष्टमह्ना प्रथिता वलस्य ॥६६॥
अश्विनौ इन्द्रम् अमृतम् वृत्त-भूयौ; तिरोधत्ताम् अश्विनौ दास-पत्नी । भित्त्वा गिरिम् अश्विनौ गाम् उदाचरन्तौ; तद्-वृष्ट-मह्ना प्रथिताः वलस्य ॥६६॥
aśvinau indram amṛtam vṛtta-bhūyau; tirodhattām aśvinau dāsa-patnī . bhittvā girim aśvinau gām udācarantau; tad-vṛṣṭa-mahnā prathitāḥ valasya ..66..
युवां दिशो जनयथो दशाग्रे; समानं मूर्ध्नि रथया वियन्ति । तासां यातमृषयोऽनुप्रयान्ति; देवा मनुष्याः क्षितिमाचरन्ति ॥६७॥
युवाम् दिशः जनयथः दश अग्रे; समानम् मूर्ध्नि रथयाः वियन्ति । तासाम् यातम् ऋषयः अनुप्रयान्ति; देवाः मनुष्याः क्षितिम् आचरन्ति ॥६७॥
yuvām diśaḥ janayathaḥ daśa agre; samānam mūrdhni rathayāḥ viyanti . tāsām yātam ṛṣayaḥ anuprayānti; devāḥ manuṣyāḥ kṣitim ācaranti ..67..
युवां वर्णान्विकुरुथो विश्वरूपां; स्तेऽधिक्षियन्ति भुवनानि विश्वा । ते भानवोऽप्यनुसृताश्चरन्ति; देवा मनुष्याः क्षितिमाचरन्ति ॥६८॥
युवाम् वर्णान् विकुरुथः विश्व-रूपाम्; स्ते अधिक्षियन्ति भुवनानि विश्वा । ते भानवः अपि अनुसृताः चरन्ति; देवाः मनुष्याः क्षितिम् आचरन्ति ॥६८॥
yuvām varṇān vikuruthaḥ viśva-rūpām; ste adhikṣiyanti bhuvanāni viśvā . te bhānavaḥ api anusṛtāḥ caranti; devāḥ manuṣyāḥ kṣitim ācaranti ..68..
तौ नासत्यावश्विनावामहे वां; स्रजं च यां बिभृथः पुष्करस्य । तौ नासत्यावमृतावृतावृधा; वृते देवास्तत्प्रपदेन सूते ॥६९॥
तौ नासत्यौ अश्विनौ आमहे वाम्; स्रजम् च याम् बिभृथः पुष्करस्य । तौ नासत्यौ अमृतौ ऋतावृधा; वृते देवाः तत् प्रपदेन सूते ॥६९॥
tau nāsatyau aśvinau āmahe vām; srajam ca yām bibhṛthaḥ puṣkarasya . tau nāsatyau amṛtau ṛtāvṛdhā; vṛte devāḥ tat prapadena sūte ..69..
मुखेन गर्भं लभतां युवानौ; गतासुरेतत्प्रपदेन सूते । सद्यो जातो मातरमत्ति गर्भ; स्तावश्विनौ मुञ्चथो जीवसे गाः ॥७०॥
मुखेन गर्भम् लभताम् युवानौ; गतासुः एतत् प्रपदेन सूते । सद्यस् जातः मातरम् अत्ति गर्भ; स्तौ अश्विनौ मुञ्चथः जीवसे गाः ॥७०॥
mukhena garbham labhatām yuvānau; gatāsuḥ etat prapadena sūte . sadyas jātaḥ mātaram atti garbha; stau aśvinau muñcathaḥ jīvase gāḥ ..70..
एवं तेनाभिष्टुतावश्विनावाजग्मतुः । आहतुश्चैनम् । प्रीतौ स्वः । एष तेऽपूपः । अशानैनमिति । ०७१ ।
एवम् तेन अभिष्टुतौ अश्विनौ आजग्मतुः । आहतुः च एनम् । प्रीतौ स्वः । एष ते अपूपः । अशान एनम् इति । ०७१ ।
evam tena abhiṣṭutau aśvinau ājagmatuḥ . āhatuḥ ca enam . prītau svaḥ . eṣa te apūpaḥ . aśāna enam iti . 071 .
स एवमुक्तः प्रत्युवाच । नानृतमूचतुर्भवन्तौ । न त्वहमेतमपूपमुपयोक्तुमुत्सहे अनिवेद्य गुरव इति । ०७२ ।
सः एवम् उक्तः प्रत्युवाच । न अनृतम् ऊचतुः भवन्तौ । न तु अहम् एतम् अपूपम् उपयोक्तुम् उत्सहे अ निवेद्य गुरवे इति । ०७२ ।
saḥ evam uktaḥ pratyuvāca . na anṛtam ūcatuḥ bhavantau . na tu aham etam apūpam upayoktum utsahe a nivedya gurave iti . 072 .
ततस्तमश्विनावूचतुः । आवाभ्यां पुरस्ताद्भवत उपाध्यायेनैवमेवाभिष्टुताभ्यामपूपः प्रीताभ्यां दत्तः । उपयुक्तश्च स तेनानिवेद्य गुरवे । त्वमपि तथैव कुरुष्व यथा कृतमुपाध्यायेनेति । ०७३ ।
ततस् तम् अश्विनौ ऊचतुः । आवाभ्याम् पुरस्तात् भवतः उपाध्यायेन एवम् एव अभिष्टुताभ्याम् अपूपः प्रीताभ्याम् दत्तः । उपयुक्तः च स तेन अ निवेद्य गुरवे । त्वम् अपि तथा एव कुरुष्व यथा कृतम् उपाध्यायेन इति । ०७३ ।
tatas tam aśvinau ūcatuḥ . āvābhyām purastāt bhavataḥ upādhyāyena evam eva abhiṣṭutābhyām apūpaḥ prītābhyām dattaḥ . upayuktaḥ ca sa tena a nivedya gurave . tvam api tathā eva kuruṣva yathā kṛtam upādhyāyena iti . 073 .
स एवमुक्तः पुनरेव प्रत्युवाचैतौ । प्रत्यनुनये भवन्तावश्विनौ । नोत्सहेऽहमनिवेद्योपाध्यायायोपयोक्तुमिति । ०७४ ।
सः एवम् उक्तः पुनर् एव प्रत्युवाच एतौ । प्रत्यनुनये भवन्तौ अश्विनौ । न उत्सहे अहम् अ निवेद्य उपाध्यायाय उपयोक्तुम् इति । ०७४ ।
saḥ evam uktaḥ punar eva pratyuvāca etau . pratyanunaye bhavantau aśvinau . na utsahe aham a nivedya upādhyāyāya upayoktum iti . 074 .
तमश्विनावाहतुः । प्रीतौ स्वस्तवानया गुरुवृत्त्या । उपाध्यायस्य ते कार्ष्णायसा दन्ताः । भवतो हिरण्मया भविष्यन्ति । चक्षुष्मांश्च भविष्यसि । श्रेयश्चावाप्स्यसीति । ०७५ ।
तम् अश्विनौ आहतुः । प्रीतौ स्वः तव अनया गुरु-वृत्त्या । उपाध्यायस्य ते कार्ष्णायसाः दन्ताः । भवतः हिरण्मयाः भविष्यन्ति । चक्षुष्मान् च भविष्यसि । श्रेयः च अवाप्स्यसि इति । ०७५ ।
tam aśvinau āhatuḥ . prītau svaḥ tava anayā guru-vṛttyā . upādhyāyasya te kārṣṇāyasāḥ dantāḥ . bhavataḥ hiraṇmayāḥ bhaviṣyanti . cakṣuṣmān ca bhaviṣyasi . śreyaḥ ca avāpsyasi iti . 075 .
स एवमुक्तोऽश्विभ्यां लब्धचक्षुरुपाध्यायसकाशमागम्योपाध्यायमभिवाद्याचचक्षे । स चास्य प्रीतिमानभूत् । ०७६ ।
सः एवम् उक्तः अश्विभ्याम् लब्ध-चक्षुः उपाध्याय-सकाशम् आगम्य उपाध्यायम् अभिवाद्य आचचक्षे । स च अस्य प्रीतिमान् अभूत् । ०७६ ।
saḥ evam uktaḥ aśvibhyām labdha-cakṣuḥ upādhyāya-sakāśam āgamya upādhyāyam abhivādya ācacakṣe . sa ca asya prītimān abhūt . 076 .
आह चैनम् । यथाश्विनावाहतुस्तथा त्वं श्रेयोऽवाप्स्यसीति । सर्वे च ते वेदाः प्रतिभास्यन्तीति । ०७७ ।
आह च एनम् । यथा अश्विनौ आहतुः तथा त्वम् श्रेयः अवाप्स्यसि इति । सर्वे च ते वेदाः प्रतिभास्यन्ति इति । ०७७ ।
āha ca enam . yathā aśvinau āhatuḥ tathā tvam śreyaḥ avāpsyasi iti . sarve ca te vedāḥ pratibhāsyanti iti . 077 .
एषा तस्यापि परीक्षोपमन्योः । ०७८ ।
एषा तस्य अपि परीक्षा उपमन्योः । ०७८ ।
eṣā tasya api parīkṣā upamanyoḥ . 078 .
अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्य वेदो नाम । ०७९ ।
अथ अपरः शिष्यः तस्य एव आयोदस्य धौम्यस्य वेदः नाम । ०७९ ।
atha aparaḥ śiṣyaḥ tasya eva āyodasya dhaumyasya vedaḥ nāma . 079 .
तमुपाध्यायः संदिदेश । वत्स वेद इहास्यताम् । भवता मद्गृहे कञ्चित्कालं शुश्रूषमाणेन भवितव्यम् । श्रेयस्ते भविष्यतीति । ०८० ।
तम् उपाध्यायः संदिदेश । वत्स वेदः इह आस्यताम् । भवता मद्-गृहे कञ्चिद् कालम् शुश्रूषमाणेन भवितव्यम् । श्रेयः ते भविष्यति इति । ०८० ।
tam upādhyāyaḥ saṃdideśa . vatsa vedaḥ iha āsyatām . bhavatā mad-gṛhe kañcid kālam śuśrūṣamāṇena bhavitavyam . śreyaḥ te bhaviṣyati iti . 080 .
स तथेत्युक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरोऽवसत् । गौरिव नित्यं गुरुषु धूर्षु नियुज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्राप्रतिकूलः । ०८१ ।
स तथा इति उक्त्वा गुरु-कुले दीर्घ-कालम् गुरु-शुश्रूषण-परः अवसत् । गौः इव नित्यम् गुरुषु धूर्षु नियुज्यमानः शीत-उष्ण-क्षुध्-तृष्णा-दुःख-सहः सर्वत्र अ प्रतिकूलः । ०८१ ।
sa tathā iti uktvā guru-kule dīrgha-kālam guru-śuśrūṣaṇa-paraḥ avasat . gauḥ iva nityam guruṣu dhūrṣu niyujyamānaḥ śīta-uṣṇa-kṣudh-tṛṣṇā-duḥkha-sahaḥ sarvatra a pratikūlaḥ . 081 .
तस्य महता कालेन गुरुः परितोषं जगाम । तत्परितोषाच्च श्रेयः सर्वज्ञतां चावाप । एषा तस्यापि परीक्षा वेदस्य । ०८२ ।
तस्य महता कालेन गुरुः परितोषम् जगाम । तद्-परितोषात् च श्रेयः सर्वज्ञ-ताम् च अवाप । एषा तस्य अपि परीक्षा वेदस्य । ०८२ ।
tasya mahatā kālena guruḥ paritoṣam jagāma . tad-paritoṣāt ca śreyaḥ sarvajña-tām ca avāpa . eṣā tasya api parīkṣā vedasya . 082 .
स उपाध्यायेनानुज्ञातः समावृत्तस्तस्माद्गुरुकुलवासाद्गृहाश्रमं प्रत्यपद्यत । तस्यापि स्वगृहे वसतस्त्रयः शिष्या बभूवुः । ०८३ ।
सः उपाध्यायेन अनुज्ञातः समावृत्तः तस्मात् गुरु-कुल-वासात् गृह-आश्रमम् प्रत्यपद्यत । तस्य अपि स्व-गृहे वसतः त्रयः शिष्याः बभूवुः । ०८३ ।
saḥ upādhyāyena anujñātaḥ samāvṛttaḥ tasmāt guru-kula-vāsāt gṛha-āśramam pratyapadyata . tasya api sva-gṛhe vasataḥ trayaḥ śiṣyāḥ babhūvuḥ . 083 .
स शिष्यान्न किञ्चिदुवाच । कर्म वा क्रियतां गुरुशुश्रूषा वेति । दुःखाभिज्ञो हि गुरुकुलवासस्य शिष्यान्परिक्लेशेन योजयितुं नेयेष । ०८४ ।
स शिष्यान् न किञ्चिद् उवाच । कर्म वा क्रियताम् गुरु-शुश्रूषा वा इति । दुःख-अभिज्ञः हि गुरु-कुल-वासस्य शिष्यान् परिक्लेशेन योजयितुम् न इयेष । ०८४ ।
sa śiṣyān na kiñcid uvāca . karma vā kriyatām guru-śuśrūṣā vā iti . duḥkha-abhijñaḥ hi guru-kula-vāsasya śiṣyān parikleśena yojayitum na iyeṣa . 084 .
अथ कस्यचित्कालस्य वेदं ब्राह्मणं जनमेजयः पौष्यश्च क्षत्रियावुपेत्योपाध्यायं वरयां चक्रतुः । ०८५ ।
अथ कस्यचिद् कालस्य वेदम् ब्राह्मणम् जनमेजयः पौष्यः च क्षत्रियौ उपेत्य उपाध्यायम् वरयाम् । ०८५ ।
atha kasyacid kālasya vedam brāhmaṇam janamejayaḥ pauṣyaḥ ca kṣatriyau upetya upādhyāyam varayām . 085 .
स कदाचिद्याज्यकार्येणाभिप्रस्थित उत्तङ्कं नाम शिष्यं नियोजयामास । भो उत्तङ्क यत्किञ्चिदस्मद्गृहे परिहीयते तदिच्छाम्यहमपरिहीणं भवता क्रियमाणमिति । ०८६ ।
स कदाचिद् याज्य-कार्येण अभिप्रस्थितः उत्तङ्कम् नाम शिष्यम् नियोजयामास । भो उत्तङ्क यत् किञ्चिद् अस्मद्-गृहे परिहीयते तत् इच्छामि अहम् अ परिहीणम् भवता क्रियमाणम् इति । ०८६ ।
sa kadācid yājya-kāryeṇa abhiprasthitaḥ uttaṅkam nāma śiṣyam niyojayāmāsa . bho uttaṅka yat kiñcid asmad-gṛhe parihīyate tat icchāmi aham a parihīṇam bhavatā kriyamāṇam iti . 086 .
स एवं प्रतिसमादिश्योत्तङ्कं वेदः प्रवासं जगाम । ०८७ ।
सः एवम् प्रतिसमादिश्य उत्तङ्कम् वेदः प्रवासम् जगाम । ०८७ ।
saḥ evam pratisamādiśya uttaṅkam vedaḥ pravāsam jagāma . 087 .
अथोत्तङ्को गुरुशुश्रूषुर्गुरुनियोगमनुतिष्ठमानस्तत्र गुरुकुले वसति स्म । ०८८ ।
अथ उत्तङ्कः गुरु-शुश्रूषुः गुरु-नियोगम् अनुतिष्ठमानः तत्र गुरु-कुले वसति स्म । ०८८ ।
atha uttaṅkaḥ guru-śuśrūṣuḥ guru-niyogam anutiṣṭhamānaḥ tatra guru-kule vasati sma . 088 .
स वसंस्तत्रोपाध्यायस्त्रीभिः सहिताभिराहूयोक्तः । उपाध्यायिनी ते ऋतुमती । उपाध्यायश्च प्रोषितः । अस्या यथायमृतुर्वन्ध्यो न भवति तथा क्रियताम् । एतद्विषीदतीति । ०८९ ।
स वसन् तत्र उपाध्याय-स्त्रीभिः सहिताभिः आहूय उक्तः । उपाध्यायिनी ते ऋतुमती । उपाध्यायः च प्रोषितः । अस्याः यथा अयम् ऋतुः वन्ध्यः न भवति तथा क्रियताम् । एतत् विषीदति इति । ०८९ ।
sa vasan tatra upādhyāya-strībhiḥ sahitābhiḥ āhūya uktaḥ . upādhyāyinī te ṛtumatī . upādhyāyaḥ ca proṣitaḥ . asyāḥ yathā ayam ṛtuḥ vandhyaḥ na bhavati tathā kriyatām . etat viṣīdati iti . 089 .
स एवमुक्तस्ताः स्त्रियः प्रत्युवाच । न मया स्त्रीणां वचनादिदमकार्यं कार्यम् । न ह्यहमुपाध्यायेन संदिष्टः । अकार्यमपि त्वया कार्यमिति । ०९० ।
सः एवम् उक्तः ताः स्त्रियः प्रत्युवाच । न मया स्त्रीणाम् वचनात् इदम् अकार्यम् कार्यम् । न हि अहम् उपाध्यायेन संदिष्टः । अकार्यम् अपि त्वया कार्यम् इति । ०९० ।
saḥ evam uktaḥ tāḥ striyaḥ pratyuvāca . na mayā strīṇām vacanāt idam akāryam kāryam . na hi aham upādhyāyena saṃdiṣṭaḥ . akāryam api tvayā kāryam iti . 090 .
तस्य पुनरुपाध्यायः कालान्तरेण गृहानुपजगाम तस्मात्प्रवासात् । स तद्वृत्तं तस्याशेषमुपलभ्य प्रीतिमानभूत् । ०९१ ।
तस्य पुनर् उपाध्यायः काल-अन्तरेण गृहान् उपजगाम तस्मात् प्रवासात् । स तत् वृत्तम् तस्य अशेषम् उपलभ्य प्रीतिमान् अभूत् । ०९१ ।
tasya punar upādhyāyaḥ kāla-antareṇa gṛhān upajagāma tasmāt pravāsāt . sa tat vṛttam tasya aśeṣam upalabhya prītimān abhūt . 091 .
उवाच चैनम् । वत्सोत्तङ्क किं ते प्रियं करवाणीति । धर्मतो हि शुश्रूषितोऽस्मि भवता । तेन प्रीतिः परस्परेण नौ संवृद्धा । तदनुजाने भवन्तम् । सर्वामेव सिद्धिं प्राप्स्यसि । गम्यतामिति । ०९२ ।
उवाच च एनम् । वत्स उत्तङ्क किम् ते प्रियम् करवाणि इति । धर्मतः हि शुश्रूषितः अस्मि भवता । तेन प्रीतिः परस्परेण नौ संवृद्धा । तत् अनुजाने भवन्तम् । सर्वाम् एव सिद्धिम् प्राप्स्यसि । गम्यताम् इति । ०९२ ।
uvāca ca enam . vatsa uttaṅka kim te priyam karavāṇi iti . dharmataḥ hi śuśrūṣitaḥ asmi bhavatā . tena prītiḥ paraspareṇa nau saṃvṛddhā . tat anujāne bhavantam . sarvām eva siddhim prāpsyasi . gamyatām iti . 092 .
स एवमुक्तः प्रत्युवाच । किं ते प्रियं करवाणीति । एवं ह्याहुः । ०९३ ।
सः एवम् उक्तः प्रत्युवाच । किम् ते प्रियम् करवाणि इति । एवम् हि आहुः । ०९३ ।
saḥ evam uktaḥ pratyuvāca . kim te priyam karavāṇi iti . evam hi āhuḥ . 093 .
यश्चाधर्मेण विब्रूयाद्यश्चाधर्मेण पृच्छति । ०९४ ।
यः च अधर्मेण विब्रूयात् यः च अधर्मेण पृच्छति । ०९४ ।
yaḥ ca adharmeṇa vibrūyāt yaḥ ca adharmeṇa pṛcchati . 094 .
तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति । सोऽहमनुज्ञातो भवता इच्छामीष्टं ते गुर्वर्थमुपहर्तुमिति । ०९५ ।
तयोः अन्यतरः प्रैति विद्वेषम् च अधिगच्छति । सः अहम् अनुज्ञातः भवता इच्छामि इष्टम् ते गुरु-अर्थम् उपहर्तुम् इति । ०९५ ।
tayoḥ anyataraḥ praiti vidveṣam ca adhigacchati . saḥ aham anujñātaḥ bhavatā icchāmi iṣṭam te guru-artham upahartum iti . 095 .
तेनैवमुक्त उपाध्यायः प्रत्युवाच । वत्सोत्तङ्क उष्यतां तावदिति । ०९६ ।
तेन एवम् उक्तः उपाध्यायः प्रत्युवाच । वत्स उत्तङ्क उष्यताम् तावत् इति । ०९६ ।
tena evam uktaḥ upādhyāyaḥ pratyuvāca . vatsa uttaṅka uṣyatām tāvat iti . 096 .
स कदाचित्तमुपाध्यायमाहोत्तङ्कः । आज्ञापयतु भवान् । किं ते प्रियमुपहरामि गुर्वर्थमिति । ०९७ ।
स कदाचिद् तम् उपाध्यायम् आह उत्तङ्कः । आज्ञापयतु भवान् । किम् ते प्रियम् उपहरामि गुरु-अर्थम् इति । ०९७ ।
sa kadācid tam upādhyāyam āha uttaṅkaḥ . ājñāpayatu bhavān . kim te priyam upaharāmi guru-artham iti . 097 .
तमुपाध्यायः प्रत्युवाच । वत्सोत्तङ्क बहुशो मां चोदयसि गुर्वर्थमुपहरेयमिति । तद्गच्छ । एनां प्रविश्योपाध्यायिनीं पृच्छ किमुपहरामीति । एषा यद्ब्रवीति तदुपहरस्वेति । ०९८ ।
तम् उपाध्यायः प्रत्युवाच । वत्स उत्तङ्क बहुशस् माम् चोदयसि गुरु-अर्थम् उपहरेयम् इति । तत् गच्छ । एनाम् प्रविश्य उपाध्यायिनीम् पृच्छ किम् उपहरामि इति । एषा यत् ब्रवीति तत् उपहरस्व इति । ०९८ ।
tam upādhyāyaḥ pratyuvāca . vatsa uttaṅka bahuśas mām codayasi guru-artham upahareyam iti . tat gaccha . enām praviśya upādhyāyinīm pṛccha kim upaharāmi iti . eṣā yat bravīti tat upaharasva iti . 098 .
स एवमुक्त उपाध्यायेनोपाध्यायिनीमपृच्छत् । भवत्युपाध्यायेनास्म्यनुज्ञातो गृहं गन्तुम् । तदिच्छामीष्टं ते गुर्वर्थमुपहृत्यानृणो गन्तुम् । तदाज्ञापयतु भवती । किमुपहरामि गुर्वर्थमिति । ०९९ ।
सः एवम् उक्तः उपाध्यायेन उपाध्यायिनीम् अपृच्छत् । भवति उपाध्यायेन अस्मि अनुज्ञातः गृहम् गन्तुम् । तत् इच्छामि इष्टम् ते गुरु-अर्थम् उपहृत्य अनृणः गन्तुम् । तत् आज्ञापयतु भवती । किम् उपहरामि गुरु-अर्थम् इति । ०९९ ।
saḥ evam uktaḥ upādhyāyena upādhyāyinīm apṛcchat . bhavati upādhyāyena asmi anujñātaḥ gṛham gantum . tat icchāmi iṣṭam te guru-artham upahṛtya anṛṇaḥ gantum . tat ājñāpayatu bhavatī . kim upaharāmi guru-artham iti . 099 .
सैवमुक्तोपाध्यायिन्युत्तङ्कं प्रत्युवाच । गच्छ पौष्यं राजानम् । भिक्षस्व तस्य क्षत्रियया पिनद्धे कुण्डले । ते आनयस्व । इतश्चतुर्थेऽहनि पुण्यकं भविता । ताभ्यामाबद्धाभ्यां ब्राह्मणान्परिवेष्टुमिच्छामि । शोभमाना यथा ताभ्यां कुण्डलाभ्यां तस्मिन्नहनि सम्पादयस्व । श्रेयो हि ते स्यात्क्षणं कुर्वत इति । १०० । 1.3.96
सा एवम् उक्ता उपाध्यायिनी उत्तङ्कम् प्रत्युवाच । गच्छ पौष्यम् राजानम् । भिक्षस्व तस्य क्षत्रियया पिनद्धे कुण्डले । ते आनयस्व । इतस् चतुर्थे अहनि पुण्यकम् भविता । ताभ्याम् आबद्धाभ्याम् ब्राह्मणान् परिवेष्टुम् इच्छामि । शोभमाना यथा ताभ्याम् कुण्डलाभ्याम् तस्मिन् अहनि सम्पादयस्व । श्रेयः हि ते स्यात् क्षणम् कुर्वतः इति । १०० । १।३।९६
sā evam uktā upādhyāyinī uttaṅkam pratyuvāca . gaccha pauṣyam rājānam . bhikṣasva tasya kṣatriyayā pinaddhe kuṇḍale . te ānayasva . itas caturthe ahani puṇyakam bhavitā . tābhyām ābaddhābhyām brāhmaṇān pariveṣṭum icchāmi . śobhamānā yathā tābhyām kuṇḍalābhyām tasmin ahani sampādayasva . śreyaḥ hi te syāt kṣaṇam kurvataḥ iti . 100 . 1.3.96
स एवमुक्त उपाध्यायिन्या प्रातिष्ठतोत्तङ्कः । स पथि गच्छन्नपश्यदृषभमतिप्रमाणं तमधिरूढं च पुरुषमतिप्रमाणमेव । १०१ ।
सः एवम् उक्तः उपाध्यायिन्या प्रातिष्ठत उत्तङ्कः । स पथि गच्छन् अपश्यत् ऋषभम् अति प्रमाणम् तम् अधिरूढम् च पुरुषम् अति प्रमाणम् एव । १०१ ।
saḥ evam uktaḥ upādhyāyinyā prātiṣṭhata uttaṅkaḥ . sa pathi gacchan apaśyat ṛṣabham ati pramāṇam tam adhirūḍham ca puruṣam ati pramāṇam eva . 101 .
स पुरुष उत्तङ्कमभ्यभाषत । उत्तङ्कैतत्पुरीषमस्य ऋषभस्य भक्षयस्वेति । १०२ । स एवमुक्तो नैच्छत् । १०३ ।
स पुरुषः उत्तङ्कम् अभ्यभाषत । उत्तङ्क एतत् पुरीषम् अस्य ऋषभस्य भक्षयस्व इति । १०२ । सः एवम् उक्तः न ऐच्छत् । १०३ ।
sa puruṣaḥ uttaṅkam abhyabhāṣata . uttaṅka etat purīṣam asya ṛṣabhasya bhakṣayasva iti . 102 . saḥ evam uktaḥ na aicchat . 103 .
तमाह पुरुषो भूयः । भक्षयस्वोत्तङ्क । मा विचारय । उपाध्यायेनापि ते भक्षितं पूर्वमिति । १०४ ।
तम् आह पुरुषः भूयः । भक्षयस्व उत्तङ्क । मा विचारय । उपाध्यायेन अपि ते भक्षितम् पूर्वम् इति । १०४ ।
tam āha puruṣaḥ bhūyaḥ . bhakṣayasva uttaṅka . mā vicāraya . upādhyāyena api te bhakṣitam pūrvam iti . 104 .
स एवमुक्तो बाढमित्युक्त्वा तदा तदृषभस्य पुरीषं मूत्रं च भक्षयित्वोत्तङ्कः प्रतस्थे यत्र स क्षत्रियः पौष्यः । १०५ ।
सः एवम् उक्तः बाढम् इति उक्त्वा तदा तत् ऋषभस्य पुरीषम् मूत्रम् च भक्षयित्वा उत्तङ्कः प्रतस्थे यत्र स क्षत्रियः पौष्यः । १०५ ।
saḥ evam uktaḥ bāḍham iti uktvā tadā tat ṛṣabhasya purīṣam mūtram ca bhakṣayitvā uttaṅkaḥ pratasthe yatra sa kṣatriyaḥ pauṣyaḥ . 105 .
तमुपेत्यापश्यदुत्तङ्क आसीनम् । स तमुपेत्याशीर्भिरभिनन्द्योवाच । अर्थी भवन्तमुपगतोऽस्मीति । १०६ ।
तम् उपेत्य अपश्यत् उत्तङ्कः आसीनम् । स तम् उपेत्य आशीर्भिः अभिनन्द्य उवाच । अर्थी भवन्तम् उपगतः अस्मि इति । १०६ ।
tam upetya apaśyat uttaṅkaḥ āsīnam . sa tam upetya āśīrbhiḥ abhinandya uvāca . arthī bhavantam upagataḥ asmi iti . 106 .
स एनमभिवाद्योवाच । भगवन्पौष्यः खल्वहम् । किं करवाणीति । १०७ ।
सः एनम् अभिवाद्य उवाच । भगवन् पौष्यः खलु अहम् । किम् करवाणि इति । १०७ ।
saḥ enam abhivādya uvāca . bhagavan pauṣyaḥ khalu aham . kim karavāṇi iti . 107 .
तमुवाचोत्तङ्कः । गुर्वर्थे कुण्डलाभ्यामर्थ्यागतोऽस्मीति ये ते क्षत्रियया पिनद्धे कुण्डले ते भवान्दातुमर्हतीति । १०८ ।
तम् उवाच उत्तङ्कः । गुरु-अर्थे कुण्डलाभ्याम् अर्थ्य-आगतः अस्मि इति ये ते क्षत्रियया पिनद्धे कुण्डले ते भवान् दातुम् अर्हति इति । १०८ ।
tam uvāca uttaṅkaḥ . guru-arthe kuṇḍalābhyām arthya-āgataḥ asmi iti ye te kṣatriyayā pinaddhe kuṇḍale te bhavān dātum arhati iti . 108 .
तं पौष्यः प्रत्युवाच । प्रविश्यान्तःपुरं क्षत्रिया याच्यतामिति । १०९ ।
तम् पौष्यः प्रत्युवाच । प्रविश्य अन्तःपुरम् क्षत्रिया याच्यताम् इति । १०९ ।
tam pauṣyaḥ pratyuvāca . praviśya antaḥpuram kṣatriyā yācyatām iti . 109 .
स तेनैवमुक्तः प्रविश्यान्तःपुरं क्षत्रियां नापश्यत् । ११० ।
स तेन एवम् उक्तः प्रविश्य अन्तःपुरम् क्षत्रियाम् न अपश्यत् । ११० ।
sa tena evam uktaḥ praviśya antaḥpuram kṣatriyām na apaśyat . 110 .
स पौष्यं पुनरुवाच । न युक्तं भवता वयमनृतेनोपचरितुम् । न हि ते क्षत्रियान्तःपुरे संनिहिता । नैनां पश्यामीति । १११ ।
स पौष्यम् पुनर् उवाच । न युक्तम् भवता वयम् अनृतेन उपचरितुम् । न हि ते क्षत्रिया अन्तःपुरे संनिहिता । न एनाम् पश्यामि इति । १११ ।
sa pauṣyam punar uvāca . na yuktam bhavatā vayam anṛtena upacaritum . na hi te kṣatriyā antaḥpure saṃnihitā . na enām paśyāmi iti . 111 .
स एवमुक्तः पौष्यस्तं प्रत्युवाच । सम्प्रति भवानुच्छिष्टः । स्मर तावत् । न हि सा क्षत्रिया उच्छिष्टेनाशुचिना वा शक्या द्रष्टुम् । पतिव्रतात्वादेषा नाशुचेर्दर्शनमुपैतीति । ११२ ।
सः एवम् उक्तः पौष्यः तम् प्रत्युवाच । सम्प्रति भवान् उच्छिष्टः । स्मर तावत् । न हि सा क्षत्रिया उच्छिष्टेन अशुचिना वा शक्या द्रष्टुम् । पतिव्रता-त्वात् एषा न अशुचेः दर्शनम् उपैति इति । ११२ ।
saḥ evam uktaḥ pauṣyaḥ tam pratyuvāca . samprati bhavān ucchiṣṭaḥ . smara tāvat . na hi sā kṣatriyā ucchiṣṭena aśucinā vā śakyā draṣṭum . pativratā-tvāt eṣā na aśuceḥ darśanam upaiti iti . 112 .
अथैवमुक्त उत्तङ्कः स्मृत्वोवाच । अस्ति खलु मयोच्छिष्टेनोपस्पृष्टं शीघ्रं गच्छता चेति । ११३ ।
अथ एवम् उक्तः उत्तङ्कः स्मृत्वा उवाच । अस्ति खलु मया उच्छिष्टेन उपस्पृष्टम् शीघ्रम् गच्छता च इति । ११३ ।
atha evam uktaḥ uttaṅkaḥ smṛtvā uvāca . asti khalu mayā ucchiṣṭena upaspṛṣṭam śīghram gacchatā ca iti . 113 .
तं पौष्यः प्रत्युवाच । एतत्तदेवं हि । न गच्छतोपस्पृष्टं भवति न स्थितेनेति । ११४ ।
तम् पौष्यः प्रत्युवाच । एतत् तत् एवम् हि । न गच्छता उपस्पृष्टम् भवति न स्थितेन इति । ११४ ।
tam pauṣyaḥ pratyuvāca . etat tat evam hi . na gacchatā upaspṛṣṭam bhavati na sthitena iti . 114 .
अथोत्तङ्कस्तथेत्युक्त्वा प्राङ्मुख उपविश्य सुप्रक्षालितपाणिपादवदनोऽशब्दाभिर् हृदयङ्गमाभिरद्भिरुपस्पृश्य त्रिः पीत्वा द्विः परिमृज्य खान्यद्भिरुपस्पृश्यान्तःपुरं प्रविश्य तां क्षत्रियामपश्यत् । ११५ ।
अथ उत्तङ्कः तथा इति उक्त्वा प्राच्-मुखः उपविश्य सु प्रक्षालित-पाणि-पाद-वदनः अशब्दाभिः हृदयङ्गमाभिः अद्भिः उपस्पृश्य त्रिस् पीत्वा द्विस् परिमृज्य खानि अद्भिः उपस्पृश्य अन्तःपुरम् प्रविश्य ताम् क्षत्रियाम् अपश्यत् । ११५ ।
atha uttaṅkaḥ tathā iti uktvā prāc-mukhaḥ upaviśya su prakṣālita-pāṇi-pāda-vadanaḥ aśabdābhiḥ hṛdayaṅgamābhiḥ adbhiḥ upaspṛśya tris pītvā dvis parimṛjya khāni adbhiḥ upaspṛśya antaḥpuram praviśya tām kṣatriyām apaśyat . 115 .
सा च दृष्ट्वैवोत्तङ्कमभ्युत्थायाभिवाद्योवाच । स्वागतं ते भगवन् । आज्ञापय किं करवाणीति । ११६ ।
सा च दृष्ट्वा एव उत्तङ्कम् अभ्युत्थाय अभिवाद्य उवाच । स्वागतम् ते भगवन् । आज्ञापय किम् करवाणि इति । ११६ ।
sā ca dṛṣṭvā eva uttaṅkam abhyutthāya abhivādya uvāca . svāgatam te bhagavan . ājñāpaya kim karavāṇi iti . 116 .
स तामुवाच । एते कुण्डले गुर्वर्थं मे भिक्षिते दातुमर्हसीति । ११७ ।
स ताम् उवाच । एते कुण्डले गुरु-अर्थम् मे भिक्षिते दातुम् अर्हसि इति । ११७ ।
sa tām uvāca . ete kuṇḍale guru-artham me bhikṣite dātum arhasi iti . 117 .
सा प्रीता तेन तस्य सद्भावेन पात्रमयमनतिक्रमणीयश्चेति मत्वा ते कुण्डले अवमुच्यास्मै प्रायच्छत् । ११८ ।
सा प्रीता तेन तस्य सद्भावेन पात्र-मयम् अन् अतिक्रमणीयः च इति मत्वा ते कुण्डले अवमुच्य अस्मै प्रायच्छत् । ११८ ।
sā prītā tena tasya sadbhāvena pātra-mayam an atikramaṇīyaḥ ca iti matvā te kuṇḍale avamucya asmai prāyacchat . 118 .
आह चैनम् । एते कुण्डले तक्षको नागराजः प्रार्थयति । अप्रमत्तो नेतुमर्हसीति । ११९ ।
आह च एनम् । एते कुण्डले तक्षकः नाग-राजः प्रार्थयति । अप्रमत्तः नेतुम् अर्हसि इति । ११९ ।
āha ca enam . ete kuṇḍale takṣakaḥ nāga-rājaḥ prārthayati . apramattaḥ netum arhasi iti . 119 .
स एवमुक्तस्तां क्षत्रियां प्रत्युवाच । भवति सुनिर्वृता भव । न मां शक्तस्तक्षको नागराजो धर्षयितुमिति । १२० ।
सः एवम् उक्तः ताम् क्षत्रियाम् प्रत्युवाच । भवति सु निर्वृता भव । न माम् शक्तः तक्षकः नाग-राजः धर्षयितुम् इति । १२० ।
saḥ evam uktaḥ tām kṣatriyām pratyuvāca . bhavati su nirvṛtā bhava . na mām śaktaḥ takṣakaḥ nāga-rājaḥ dharṣayitum iti . 120 .
स एवमुक्त्वा तां क्षत्रियामामन्त्र्य पौष्यसकाशमागच्छत् । १२१ ।
सः एवम् उक्त्वा ताम् क्षत्रियाम् आमन्त्र्य पौष्य-सकाशम् आगच्छत् । १२१ ।
saḥ evam uktvā tām kṣatriyām āmantrya pauṣya-sakāśam āgacchat . 121 .
स तं दृष्ट्वोवाच । भोः पौष्य प्रीतोऽस्मीति । १२२ ।
स तम् दृष्ट्वा उवाच । भोः पौष्य प्रीतः अस्मि इति । १२२ ।
sa tam dṛṣṭvā uvāca . bhoḥ pauṣya prītaḥ asmi iti . 122 .
तं पौष्यः प्रत्युवाच । भगवंश्चिरस्य पात्रमासाद्यते । भवांश्च गुणवानतिथिः । तत्करिष्ये श्राद्धम् । क्षणः क्रियतामिति । १२३ ।
तम् पौष्यः प्रत्युवाच । भगवन् चिरस्य पात्रम् आसाद्यते । भवान् च गुणवान् अतिथिः । तत् करिष्ये श्राद्धम् । क्षणः क्रियताम् इति । १२३ ।
tam pauṣyaḥ pratyuvāca . bhagavan cirasya pātram āsādyate . bhavān ca guṇavān atithiḥ . tat kariṣye śrāddham . kṣaṇaḥ kriyatām iti . 123 .
तमुत्तङ्कः प्रत्युवाच । कृतक्षण एवास्मि । शीघ्रमिच्छामि यथोपपन्नमन्नमुपहृतं भवतेति । १२४ ।
तम् उत्तङ्कः प्रत्युवाच । कृतक्षणः एव अस्मि । शीघ्रम् इच्छामि यथा उपपन्नम् अन्नम् उपहृतम् भवता इति । १२४ ।
tam uttaṅkaḥ pratyuvāca . kṛtakṣaṇaḥ eva asmi . śīghram icchāmi yathā upapannam annam upahṛtam bhavatā iti . 124 .
स तथेत्युक्त्वा यथोपपन्नेनान्नेनैनं भोजयामास । १२५ ।
स तथा इति उक्त्वा यथा उपपन्नेन अन्नेन एनम् भोजयामास । १२५ ।
sa tathā iti uktvā yathā upapannena annena enam bhojayāmāsa . 125 .
अथोत्तङ्कः शीतमन्नं सकेशं दृष्ट्वा अशुच्येतदिति मत्वा पौष्यमुवाच । यस्मान्मे अशुच्यन्नं ददासि तस्मदन्धो भविष्यसीति । १२६ ।
अथ उत्तङ्कः शीतम् अन्नम् स केशम् दृष्ट्वा अशुचि एतत् इति मत्वा पौष्यम् उवाच । यस्मात् मे अशुचि अन्नम् ददासि तस्मात् अन्धः भविष्यसि इति । १२६ ।
atha uttaṅkaḥ śītam annam sa keśam dṛṣṭvā aśuci etat iti matvā pauṣyam uvāca . yasmāt me aśuci annam dadāsi tasmāt andhaḥ bhaviṣyasi iti . 126 .
तं पौष्यः प्रत्युवाच । यस्मात्त्वमप्यदुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति । १२७ ।
तम् पौष्यः प्रत्युवाच । यस्मात् त्वम् अपि अदुष्टम् अन्नम् दूषयसि तस्मात् अनपत्यः भविष्यसि इति । १२७ ।
tam pauṣyaḥ pratyuvāca . yasmāt tvam api aduṣṭam annam dūṣayasi tasmāt anapatyaḥ bhaviṣyasi iti . 127 .
सोऽथ पौष्यस्तस्याशुचिभावमन्नस्यागमयामास । १२८ ।
सः अथ पौष्यः तस्य अशुचि-भावम् अन्नस्य आगमयामास । १२८ ।
saḥ atha pauṣyaḥ tasya aśuci-bhāvam annasya āgamayāmāsa . 128 .
अथ तदन्नं मुक्तकेश्या स्त्रियोपहृतं सकेशमशुचि मत्वोत्तङ्कं प्रसादयामास । भगवन्नज्ञानादेतदन्नं सकेशमुपहृतं शीतं च । तत्क्षामये भवन्तम् । न भवेयमन्ध इति । १२९ ।
अथ तत् अन्नम् मुक्त-केश्या स्त्रिया उपहृतम् स केशम् अशुचि मत्वा उत्तङ्कम् प्रसादयामास । भगवन् अज्ञानात् एतत् अन्नम् स केशम् उपहृतम् शीतम् च । तत् क्षामये भवन्तम् । न भवेयम् अन्धः इति । १२९ ।
atha tat annam mukta-keśyā striyā upahṛtam sa keśam aśuci matvā uttaṅkam prasādayāmāsa . bhagavan ajñānāt etat annam sa keśam upahṛtam śītam ca . tat kṣāmaye bhavantam . na bhaveyam andhaḥ iti . 129 .
तमुत्तङ्कः प्रत्युवाच । न मृषा ब्रवीमि । भूत्वा त्वमन्धो नचिरादनन्धो भविष्यसीति । ममापि शापो न भवेद्भवता दत्त इति । १३० ।
तम् उत्तङ्कः प्रत्युवाच । न मृषा ब्रवीमि । भूत्वा त्वम् अन्धः नचिरात् अन् अन्धः भविष्यसि इति । मम अपि शापः न भवेत् भवता दत्तः इति । १३० ।
tam uttaṅkaḥ pratyuvāca . na mṛṣā bravīmi . bhūtvā tvam andhaḥ nacirāt an andhaḥ bhaviṣyasi iti . mama api śāpaḥ na bhavet bhavatā dattaḥ iti . 130 .
तं पौष्यः प्रत्युवाच । नाहं शक्तः शापं प्रत्यादातुम् । न हि मे मन्युरद्याप्युपशमं गच्छति । किं चैतद्भवता न ज्ञायते यथा । १३१ ।
तम् पौष्यः प्रत्युवाच । न अहम् शक्तः शापम् प्रत्यादातुम् । न हि मे मन्युः अद्य अपि उपशमम् गच्छति । किम् च एतत् भवता न ज्ञायते यथा । १३१ ।
tam pauṣyaḥ pratyuvāca . na aham śaktaḥ śāpam pratyādātum . na hi me manyuḥ adya api upaśamam gacchati . kim ca etat bhavatā na jñāyate yathā . 131 .
नावनीतं हृदयं ब्राह्मणस्य; वाचि क्षुरो निहितस्तीक्ष्णधारः । विपरीतमेतदुभयं क्षत्रियस्य; वाङ्नावनीती हृदयं तीक्ष्णधारम् ॥१३२॥
नावनीतम् हृदयम् ब्राह्मणस्य; वाचि क्षुरः निहितः तीक्ष्ण-धारः । विपरीतम् एतत् उभयम् क्षत्रियस्य; वाच्-नावनीती हृदयम् तीक्ष्ण-धारम् ॥१३२॥
nāvanītam hṛdayam brāhmaṇasya; vāci kṣuraḥ nihitaḥ tīkṣṇa-dhāraḥ . viparītam etat ubhayam kṣatriyasya; vāc-nāvanītī hṛdayam tīkṣṇa-dhāram ..132..
तदेवं गते न शक्तोऽहं तीक्ष्णहृदयत्वात्तं शापमन्यथा कर्तुम् । गम्यतामिति । १३३ ।
तत् एवम् गते न शक्तः अहम् तीक्ष्ण-हृदय-त्वात् तम् शापम् अन्यथा कर्तुम् । गम्यताम् इति । १३३ ।
tat evam gate na śaktaḥ aham tīkṣṇa-hṛdaya-tvāt tam śāpam anyathā kartum . gamyatām iti . 133 .
तमुत्तङ्कः प्रत्युवाच । भवताहमन्नस्याशुचिभावमागमय्य प्रत्यनुनीतः । प्राक्च तेऽभिहितम् । यस्माददुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति । दुष्टे चान्ने नैष मम शापो भविष्यतीति । १३४ ।
तम् उत्तङ्कः प्रत्युवाच । भवता अहम् अन्नस्य अशुचि-भावम् आगमय्य प्रत्यनुनीतः । प्राक् च ते अभिहितम् । यस्मात् अदुष्टम् अन्नम् दूषयसि तस्मात् अनपत्यः भविष्यसि इति । दुष्टे च अन्ने न एष मम शापः भविष्यति इति । १३४ ।
tam uttaṅkaḥ pratyuvāca . bhavatā aham annasya aśuci-bhāvam āgamayya pratyanunītaḥ . prāk ca te abhihitam . yasmāt aduṣṭam annam dūṣayasi tasmāt anapatyaḥ bhaviṣyasi iti . duṣṭe ca anne na eṣa mama śāpaḥ bhaviṣyati iti . 134 .
सोऽपश्यत्पथि नग्नं श्रमणमागच्छन्तं मुहुर्मुहुर्दृश्यमानमदृश्यमानं च । अथोत्तङ्कस्ते कुण्डले भूमौ निक्षिप्योदकार्थं प्रचक्रमे । १३६ ।
सः अपश्यत् पथि नग्नम् श्रमणम् आगच्छन्तम् मुहुर् मुहुर् दृश्यमानम् अ दृश्यमानम् च । अथ उत्तङ्कः ते कुण्डले भूमौ निक्षिप्य उदक-अर्थम् प्रचक्रमे । १३६ ।
saḥ apaśyat pathi nagnam śramaṇam āgacchantam muhur muhur dṛśyamānam a dṛśyamānam ca . atha uttaṅkaḥ te kuṇḍale bhūmau nikṣipya udaka-artham pracakrame . 136 .
एतस्मिन्नन्तरे स श्रमणस्त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत् । तमुत्तङ्कोऽभिसृत्य जग्राह । स तद्रूपं विहाय तक्षकरूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं विवेश । १३७ ।
एतस्मिन् अन्तरे स श्रमणः त्वरमाणः उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत् । तम् उत्तङ्कः अभिसृत्य जग्राह । स तद्-रूपम् विहाय तक्षक-रूपम् कृत्वा सहसा धरण्याम् विवृतम् महा-बिलम् विवेश । १३७ ।
etasmin antare sa śramaṇaḥ tvaramāṇaḥ upasṛtya te kuṇḍale gṛhītvā prādravat . tam uttaṅkaḥ abhisṛtya jagrāha . sa tad-rūpam vihāya takṣaka-rūpam kṛtvā sahasā dharaṇyām vivṛtam mahā-bilam viveśa . 137 .
प्रविश्य च नागलोकं स्वभवनमगच्छत् । तमुत्तङ्कोऽन्वाविवेश तेनैव बिलेन । प्रविश्य च नागानस्तुवदेभिः श्लोकैः । १३८ ।
प्रविश्य च नाग-लोकम् स्व-भवनम् अगच्छत् । तम् उत्तङ्कः अन्वाविवेश तेन एव बिलेन । प्रविश्य च नागान् अस्तुवत् एभिः श्लोकैः । १३८ ।
praviśya ca nāga-lokam sva-bhavanam agacchat . tam uttaṅkaḥ anvāviveśa tena eva bilena . praviśya ca nāgān astuvat ebhiḥ ślokaiḥ . 138 .
य ऐरावतराजानः सर्पाः समितिशोभनाः । वर्षन्त इव जीमूताः सविद्युत्पवनेरिताः ॥१३९॥
ये ऐरावत-राजानः सर्पाः समिति-शोभनाः । वर्षन्तः इव जीमूताः स विद्युत्-पवन-ईरिताः ॥१३९॥
ye airāvata-rājānaḥ sarpāḥ samiti-śobhanāḥ . varṣantaḥ iva jīmūtāḥ sa vidyut-pavana-īritāḥ ..139..
सुरूपाश्च विरूपाश्च तथा कल्माषकुण्डलाः । आदित्यवन्नाकपृष्ठे रेजुरैरावतोद्भवाः ॥१४०॥
सुरूपाः च विरूपाः च तथा कल्माष-कुण्डलाः । आदित्य-वत् नाक-पृष्ठे रेजुः ऐरावत-उद्भवाः ॥१४०॥
surūpāḥ ca virūpāḥ ca tathā kalmāṣa-kuṇḍalāḥ . āditya-vat nāka-pṛṣṭhe rejuḥ airāvata-udbhavāḥ ..140..
बहूनि नागवर्त्मानि गङ्गायास्तीर उत्तरे । इच्छेत्कोऽर्कांशुसेनायां चर्तुमैरावतं विना ॥१४१॥
बहूनि नागवर्त्मानि गङ्गायाः तीरे उत्तरे । इच्छेत् कः अर्क-अंशुसेनायाम् चर्तुम् ऐरावतम् विना ॥१४१॥
bahūni nāgavartmāni gaṅgāyāḥ tīre uttare . icchet kaḥ arka-aṃśusenāyām cartum airāvatam vinā ..141..
शतान्यशीतिरष्टौ च सहस्राणि च विंशतिः । सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रो यदेजति ॥१४२॥
शतानि अशीतिः अष्टौ च सहस्राणि च विंशतिः । सर्पाणाम् प्रग्रहाः यान्ति धृतराष्ट्रः यत् एजति ॥१४२॥
śatāni aśītiḥ aṣṭau ca sahasrāṇi ca viṃśatiḥ . sarpāṇām pragrahāḥ yānti dhṛtarāṣṭraḥ yat ejati ..142..
ये चैनमुपसर्पन्ति ये च दूरं परं गताः । अहमैरावतज्येष्ठभ्रातृभ्योऽकरवं नमः ॥१४३॥
ये च एनम् उपसर्पन्ति ये च दूरम् परम् गताः । अहम् ऐरावत-ज्येष्ठ-भ्रातृभ्यः अकरवम् नमः ॥१४३॥
ye ca enam upasarpanti ye ca dūram param gatāḥ . aham airāvata-jyeṣṭha-bhrātṛbhyaḥ akaravam namaḥ ..143..
यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत्सदा । तं काद्रवेयमस्तौषं कुण्डलार्थाय तक्षकम् ॥१४४॥
यस्य वासः कुरुक्षेत्रे खाण्डवे च अभवत् सदा । तम् काद्रवेयम् अस्तौषम् कुण्डल-अर्थाय तक्षकम् ॥१४४॥
yasya vāsaḥ kurukṣetre khāṇḍave ca abhavat sadā . tam kādraveyam astauṣam kuṇḍala-arthāya takṣakam ..144..
तक्षकश्चाश्वसेनश्च नित्यं सहचरावुभौ । कुरुक्षेत्रे निवसतां नदीमिक्षुमतीमनु ॥१४५॥
तक्षकः च अश्वसेनः च नित्यम् सहचरौ उभौ । कुरुक्षेत्रे निवसताम् नदीम् इक्षुमतीम् अनु ॥१४५॥
takṣakaḥ ca aśvasenaḥ ca nityam sahacarau ubhau . kurukṣetre nivasatām nadīm ikṣumatīm anu ..145..
जघन्यजस्तक्षकस्य श्रुतसेनेति यः श्रुतः । अवसद्यो महद्द्युम्नि प्रार्थयन्नागमुख्यताम् ॥१४६॥
जघन्य-जः तक्षकस्य श्रुतसेन इति यः श्रुतः । अवसद्यः महद्द्युम्नि प्रार्थयन् नाग-मुख्य-ताम् ॥१४६॥
jaghanya-jaḥ takṣakasya śrutasena iti yaḥ śrutaḥ . avasadyaḥ mahaddyumni prārthayan nāga-mukhya-tām ..146..
करवाणि सदा चाहं नमस्तस्मै महात्मने ॥१४६॥
करवाणि सदा च अहम् नमः तस्मै महात्मने ॥१४६॥
karavāṇi sadā ca aham namaḥ tasmai mahātmane ..146..
एवं स्तुवन्नपि नागान्यदा ते कुण्डले नालभदथापश्यत्स्त्रियौ तन्त्रे अधिरोप्य पटं वयन्त्यौ । १४७ ।
एवम् स्तुवन् अपि नागान् यदा ते कुण्डले ना अलभत् अथ अपश्यत् स्त्रियौ तन्त्रे अधिरोप्य पटम् वयन्त्यौ । १४७ ।
evam stuvan api nāgān yadā te kuṇḍale nā alabhat atha apaśyat striyau tantre adhiropya paṭam vayantyau . 147 .
तस्मिंश्च तन्त्रे कृष्णाः सिताश्च तन्तवः । चक्रं चापश्यत्षड्भिः कुमारैः परिवर्त्यमानम् । पुरुषं चापश्यद्दर्शनीयम् । १४८ ।
तस्मिन् च तन्त्रे कृष्णाः सिताः च तन्तवः । चक्रम् च अपश्यत् षड्भिः कुमारैः परिवर्त्यमानम् । पुरुषम् च अपश्यत् दर्शनीयम् । १४८ ।
tasmin ca tantre kṛṣṇāḥ sitāḥ ca tantavaḥ . cakram ca apaśyat ṣaḍbhiḥ kumāraiḥ parivartyamānam . puruṣam ca apaśyat darśanīyam . 148 .
स तान्सर्वांस्तुष्टाव एभिर्मन्त्रवादश्लोकैः । १४९ ।
स तान् सर्वान् तुष्टाव एभिः मन्त्रवाद-श्लोकैः । १४९ ।
sa tān sarvān tuṣṭāva ebhiḥ mantravāda-ślokaiḥ . 149 .
त्रीण्यर्पितान्यत्र शतानि मध्ये; षष्टिश्च नित्यं चरति ध्रुवेऽस्मिन् । चक्रे चतुर्विंशतिपर्वयोगे; षड्यत्कुमाराः परिवर्तयन्ति ॥१५०॥ 1.3.146
त्रीणि अर्पितानि अत्र शतानि मध्ये; षष्टिः च नित्यम् चरति ध्रुवे अस्मिन् । चक्रे चतुर्विंशति-पर्व-योगे; षट् यत् कुमाराः परिवर्तयन्ति ॥१५०॥ १।३।१४६
trīṇi arpitāni atra śatāni madhye; ṣaṣṭiḥ ca nityam carati dhruve asmin . cakre caturviṃśati-parva-yoge; ṣaṭ yat kumārāḥ parivartayanti ..150.. 1.3.146
तन्त्रं चेदं विश्वरूपं युवत्यौ; वयतस्तन्तून्सततं वर्तयन्त्यौ । कृष्णान्सितांश्चैव विवर्तयन्त्यौ; भूतान्यजस्रं भुवनानि चैव ॥१५१॥
तन्त्रम् च इदम् विश्व-रूपम् युवत्यौ; वयतः तन्तून् सततम् वर्तयन्त्यौ । कृष्णान् सितान् च एव विवर्तयन्त्यौ; भूतानि अजस्रम् भुवनानि च एव ॥१५१॥
tantram ca idam viśva-rūpam yuvatyau; vayataḥ tantūn satatam vartayantyau . kṛṣṇān sitān ca eva vivartayantyau; bhūtāni ajasram bhuvanāni ca eva ..151..
वज्रस्य भर्ता भुवनस्य गोप्ता; वृत्रस्य हन्ता नमुचेर्निहन्ता । कृष्णे वसानो वसने महात्मा; सत्यानृते यो विविनक्ति लोके ॥१५२॥
वज्रस्य भर्ता भुवनस्य गोप्ता; वृत्रस्य हन्ता नमुचेः निहन्ता । कृष्णे वसानः वसने महात्मा; सत्य-अनृते यः विविनक्ति लोके ॥१५२॥
vajrasya bhartā bhuvanasya goptā; vṛtrasya hantā namuceḥ nihantā . kṛṣṇe vasānaḥ vasane mahātmā; satya-anṛte yaḥ vivinakti loke ..152..
यो वाजिनं गर्भमपां पुराणं; वैश्वानरं वाहनमभ्युपेतः । नमः सदास्मै जगदीश्वराय; लोकत्रयेशाय पुरंदराय ॥१५३॥
यः वाजिनम् गर्भम् अपाम् पुराणम्; वैश्वानरम् वाहनम् अभ्युपेतः । नमः सदा अस्मै जगत्-ईश्वराय; लोकत्रय-ईशाय पुरंदराय ॥१५३॥
yaḥ vājinam garbham apām purāṇam; vaiśvānaram vāhanam abhyupetaḥ . namaḥ sadā asmai jagat-īśvarāya; lokatraya-īśāya puraṃdarāya ..153..
ततः स एनं पुरुषः प्राह । प्रीतोऽस्मि तेऽहमनेन स्तोत्रेण । किं ते प्रियं करवाणीति । १५४ ।
ततस् सः एनम् पुरुषः प्राह । प्रीतः अस्मि ते अहम् अनेन स्तोत्रेण । किम् ते प्रियम् करवाणि इति । १५४ ।
tatas saḥ enam puruṣaḥ prāha . prītaḥ asmi te aham anena stotreṇa . kim te priyam karavāṇi iti . 154 .
स तमुवाच । नागा मे वशमीयुरिति । १५५ ।
स तम् उवाच । नागाः मे वशम् ईयुः इति । १५५ ।
sa tam uvāca . nāgāḥ me vaśam īyuḥ iti . 155 .
स एनं पुरुषः पुनरुवाच । एतमश्वमपाने धमस्वेति । १५६ ।
सः एनम् पुरुषः पुनर् उवाच । एतम् अश्वम् अपाने धमस्व इति । १५६ ।
saḥ enam puruṣaḥ punar uvāca . etam aśvam apāne dhamasva iti . 156 .
स तमश्वमपानेऽधमत् । अथाश्वाद्धम्यमानात्सर्वस्रोतोभ्यः सधूमा अर्चिषोऽग्नेर्निष्पेतुः । १५७ ।
स तम् अश्वम् अपाने अधमत् । अथ अश्वात् धम्यमानात् सर्व-स्रोतोभ्यः स धूमाः अर्चिषः अग्नेः निष्पेतुः । १५७ ।
sa tam aśvam apāne adhamat . atha aśvāt dhamyamānāt sarva-srotobhyaḥ sa dhūmāḥ arciṣaḥ agneḥ niṣpetuḥ . 157 .
ताभिर्नागलोको धूपितः । १५८ ।
ताभिः नाग-लोकः धूपितः । १५८ ।
tābhiḥ nāga-lokaḥ dhūpitaḥ . 158 .
अथ ससम्भ्रमस्तक्षकोऽग्नितेजोभयविषण्णस्ते कुण्डले गृहीत्वा सहसा स्वभवनान्निष्क्रम्योत्तङ्कमुवाच । एते कुण्डले प्रतिगृह्णातु भवानिति । १५९ ।
अथ स सम्भ्रमः तक्षकः अग्नि-तेजः-भय-विषण्णः ते कुण्डले गृहीत्वा सहसा स्व-भवनात् निष्क्रम्य उत्तङ्कम् उवाच । एते कुण्डले प्रतिगृह्णातु भवान् इति । १५९ ।
atha sa sambhramaḥ takṣakaḥ agni-tejaḥ-bhaya-viṣaṇṇaḥ te kuṇḍale gṛhītvā sahasā sva-bhavanāt niṣkramya uttaṅkam uvāca . ete kuṇḍale pratigṛhṇātu bhavān iti . 159 .
एते कुण्डले प्रतिगृह्णातु भवानिति । १५९ ।
एते कुण्डले प्रतिगृह्णातु भवान् इति । १५९ ।
ete kuṇḍale pratigṛhṇātu bhavān iti . 159 .
स ते प्रतिजग्राहोत्तङ्कः । कुण्डले प्रतिगृह्याचिन्तयत् । अद्य तत्पुण्यकमुपाध्यायिन्याः । दूरं चाहमभ्यागतः । कथं नु खलु सम्भावयेयमिति । १६० ।
स ते प्रतिजग्राह उत्तङ्कः । कुण्डले प्रतिगृह्य अचिन्तयत् । अद्य तत् पुण्यकम् उपाध्यायिन्याः । दूरम् च अहम् अभ्यागतः । कथम् नु खलु सम्भावयेयम् इति । १६० ।
sa te pratijagrāha uttaṅkaḥ . kuṇḍale pratigṛhya acintayat . adya tat puṇyakam upādhyāyinyāḥ . dūram ca aham abhyāgataḥ . katham nu khalu sambhāvayeyam iti . 160 .
तत एनं चिन्तयानमेव स पुरुष उवाच । उत्तङ्क एनमश्वमधिरोह । एष त्वां क्षणादेवोपाध्यायकुलं प्रापयिष्यतीति । १६१ ।
ततस् एनम् चिन्तयानम् एव स पुरुषः उवाच । उत्तङ्कः एनम् अश्वम् अधिरोह । एष त्वाम् क्षणात् एव उपाध्याय-कुलम् प्रापयिष्यति इति । १६१ ।
tatas enam cintayānam eva sa puruṣaḥ uvāca . uttaṅkaḥ enam aśvam adhiroha . eṣa tvām kṣaṇāt eva upādhyāya-kulam prāpayiṣyati iti . 161 .
स तथेत्युक्त्वा तमश्वमधिरुह्य प्रत्याजगामोपाध्यायकुलम् । उपाध्यायिनी च स्नाता केशानावपयन्त्युपविष्टोत्तङ्को नागच्छतीति शापायास्य मनो दधे । १६२ ।
स तथा इति उक्त्वा तम् अश्वम् अधिरुह्य प्रत्याजगाम उपाध्याय-कुलम् । उपाध्यायिनी च स्नाता केशान् आवपयन्ती उपविष्ट-उत्तङ्कः न आगच्छति इति शापाय अस्य मनः दधे । १६२ ।
sa tathā iti uktvā tam aśvam adhiruhya pratyājagāma upādhyāya-kulam . upādhyāyinī ca snātā keśān āvapayantī upaviṣṭa-uttaṅkaḥ na āgacchati iti śāpāya asya manaḥ dadhe . 162 .
अथोत्तङ्कः प्रविश्य उपाध्यायिनीमभ्यवादयत् । ते चास्यै कुण्डले प्रायच्छत् । १६३ ।
अथ उत्तङ्कः प्रविश्य उपाध्यायिनीम् अभ्यवादयत् । ते च अस्यै कुण्डले प्रायच्छत् । १६३ ।
atha uttaṅkaḥ praviśya upādhyāyinīm abhyavādayat . te ca asyai kuṇḍale prāyacchat . 163 .
सा चैनं प्रत्युवाच । उत्तङ्क देशे कालेऽभ्यागतः । स्वागतं ते वत्स । मनागसि मया न शप्तः । श्रेयस्तवोपस्थितम् । सिद्धिमाप्नुहीति । १६४ ।
सा च एनम् प्रत्युवाच । उत्तङ्क देशे काले अभ्यागतः । स्वागतम् ते वत्स । मनाक् असि मया न शप्तः । श्रेयः तव उपस्थितम् । सिद्धिम् आप्नुहि इति । १६४ ।
sā ca enam pratyuvāca . uttaṅka deśe kāle abhyāgataḥ . svāgatam te vatsa . manāk asi mayā na śaptaḥ . śreyaḥ tava upasthitam . siddhim āpnuhi iti . 164 .
अथोत्तङ्क उपाध्यायमभ्यवादयत् । तमुपाध्यायः प्रत्युवाच । वत्सोत्तङ्क स्वागतं ते । किं चिरं कृतमिति । १६५ ।
अथ उत्तङ्कः उपाध्यायम् अभ्यवादयत् । तम् उपाध्यायः प्रत्युवाच । वत्स उत्तङ्क स्वागतम् ते । किम् चिरम् कृतम् इति । १६५ ।
atha uttaṅkaḥ upādhyāyam abhyavādayat . tam upādhyāyaḥ pratyuvāca . vatsa uttaṅka svāgatam te . kim ciram kṛtam iti . 165 .
तमुत्तङ्क उपाध्यायं प्रत्युवाच । भोस्तक्षकेण नागराजेन विघ्नः कृतोऽस्मिन्कर्मणि । तेनास्मि नागलोकं नीतः । १६६ ।
तम् उत्तङ्कः उपाध्यायम् प्रत्युवाच । भोः तक्षकेण नाग-राजेन विघ्नः कृतः अस्मिन् कर्मणि । तेन अस्मि नाग-लोकम् नीतः । १६६ ।
tam uttaṅkaḥ upādhyāyam pratyuvāca . bhoḥ takṣakeṇa nāga-rājena vighnaḥ kṛtaḥ asmin karmaṇi . tena asmi nāga-lokam nītaḥ . 166 .
तत्र च मया दृष्टे स्त्रियौ तन्त्रेऽधिरोप्य पटं वयन्त्यौ । तस्मिंश्च तन्त्रे कृष्णाः सिताश्च तन्तवः । किं तत् । १६७ ।
तत्र च मया दृष्टे स्त्रियौ तन्त्रे अधिरोप्य पटम् वयन्त्यौ । तस्मिन् च तन्त्रे कृष्णाः सिताः च तन्तवः । किम् तत् । १६७ ।
tatra ca mayā dṛṣṭe striyau tantre adhiropya paṭam vayantyau . tasmin ca tantre kṛṣṇāḥ sitāḥ ca tantavaḥ . kim tat . 167 .
तत्र च मया चक्रं दृष्टं द्वादशारम् । षट्चैनं कुमाराः परिवर्तयन्ति । तदपि किम् । १६८ ।
तत्र च मया चक्रम् दृष्टम् द्वादश-अरम् । षट् च एनम् कुमाराः परिवर्तयन्ति । तत् अपि किम् । १६८ ।
tatra ca mayā cakram dṛṣṭam dvādaśa-aram . ṣaṭ ca enam kumārāḥ parivartayanti . tat api kim . 168 .
पुरुषश्चापि मया दृष्टः । स पुनः कः । १६९ ।
पुरुषः च अपि मया दृष्टः । स पुनर् कः । १६९ ।
puruṣaḥ ca api mayā dṛṣṭaḥ . sa punar kaḥ . 169 .
अश्वश्चातिप्रमाणयुक्तः । स चापि कः । १७० ।
अश्वः च अति प्रमाण-युक्तः । स च अपि कः । १७० ।
aśvaḥ ca ati pramāṇa-yuktaḥ . sa ca api kaḥ . 170 .
पथि गच्छता मया ऋषभो दृष्टः । तं च पुरुषोऽधिरूढः । तेनास्मि सोपचारमुक्तः । उत्तङ्कास्य ऋषभस्य पुरीषं भक्षय । उपाध्यायेनापि ते भक्षितमिति । ततस्तद्वचनान्मया तदृषभस्य पुरीषमुपयुक्तम् । तदिच्छामि भवतोपदिष्टं किं तदिति । १७१ ।
पथि गच्छता मया ऋषभः दृष्टः । तम् च पुरुषः अधिरूढः । तेन अस्मि स उपचारम् उक्तः । उत्तङ्क अस्य ऋषभस्य पुरीषम् भक्षय । उपाध्यायेन अपि ते भक्षितम् इति । ततस् तद्-वचनात् मया तत् ऋषभस्य पुरीषम् उपयुक्तम् । तत् इच्छामि भवता उपदिष्टम् किम् तत् इति । १७१ ।
pathi gacchatā mayā ṛṣabhaḥ dṛṣṭaḥ . tam ca puruṣaḥ adhirūḍhaḥ . tena asmi sa upacāram uktaḥ . uttaṅka asya ṛṣabhasya purīṣam bhakṣaya . upādhyāyena api te bhakṣitam iti . tatas tad-vacanāt mayā tat ṛṣabhasya purīṣam upayuktam . tat icchāmi bhavatā upadiṣṭam kim tat iti . 171 .
तेनैवमुक्त उपाध्यायः प्रत्युवाच । ये ते स्त्रियौ धाता विधाता च । ये च ते कृष्णाः सिताश्च तन्तवस्ते रात्र्यहनी । १७२ ।
तेन एवम् उक्तः उपाध्यायः प्रत्युवाच । ये ते स्त्रियौ धाता विधाता च । ये च ते कृष्णाः सिताः च तन्तवः ते रात्रि-अहनी । १७२ ।
tena evam uktaḥ upādhyāyaḥ pratyuvāca . ye te striyau dhātā vidhātā ca . ye ca te kṛṣṇāḥ sitāḥ ca tantavaḥ te rātri-ahanī . 172 .
यदपि तच्चक्रं द्वादशारं षट्कुमाराः परिवर्तयन्ति ते ऋतवः षट्संवत्सरश्चक्रम् । यः पुरुषः स पर्जन्यः । योऽश्वः सोऽग्निः । १७३ ।
यत् अपि तत् चक्रम् द्वादश-अरम् षष्-कुमाराः परिवर्तयन्ति ते ऋतवः षष्-संवत्सरः चक्रम् । यः पुरुषः स पर्जन्यः । यः अश्वः सः अग्निः । १७३ ।
yat api tat cakram dvādaśa-aram ṣaṣ-kumārāḥ parivartayanti te ṛtavaḥ ṣaṣ-saṃvatsaraḥ cakram . yaḥ puruṣaḥ sa parjanyaḥ . yaḥ aśvaḥ saḥ agniḥ . 173 .
य ऋषभस्त्वया पथि गच्छता दृष्टः स ऐरावतो नागराजः । यश्चैनमधिरूढः स इन्द्रः । यदपि ते पुरीषं भक्षितं तस्य ऋषभस्य तदमृतम् । १७४ ।
यः ऋषभः त्वया पथि गच्छता दृष्टः सः ऐरावतः नाग-राजः । यः च एनम् अधिरूढः सः इन्द्रः । यत् अपि ते पुरीषम् भक्षितम् तस्य ऋषभस्य तत् अमृतम् । १७४ ।
yaḥ ṛṣabhaḥ tvayā pathi gacchatā dṛṣṭaḥ saḥ airāvataḥ nāga-rājaḥ . yaḥ ca enam adhirūḍhaḥ saḥ indraḥ . yat api te purīṣam bhakṣitam tasya ṛṣabhasya tat amṛtam . 174 .
तेन खल्वसि न व्यापन्नस्तस्मिन्नागभवने । स चापि मम सखा इन्द्रः । १७५ ।
तेन खलु असि न व्यापन्नः तस्मिन् नाग-भवने । स च अपि मम सखा इन्द्रः । १७५ ।
tena khalu asi na vyāpannaḥ tasmin nāga-bhavane . sa ca api mama sakhā indraḥ . 175 .
तदनुग्रहात्कुण्डले गृहीत्वा पुनरभ्यागतोऽसि । तत्सौम्य गम्यताम् । अनुजाने भवन्तम् । श्रेयोऽवाप्स्यसीति । १७६ ।
तद्-अनुग्रहात् कुण्डले गृहीत्वा पुनर् अभ्यागतः असि । तत् सौम्य गम्यताम् । अनुजाने भवन्तम् । श्रेयः अवाप्स्यसि इति । १७६ ।
tad-anugrahāt kuṇḍale gṛhītvā punar abhyāgataḥ asi . tat saumya gamyatām . anujāne bhavantam . śreyaḥ avāpsyasi iti . 176 .
स उपाध्यायेनानुज्ञात उत्तङ्कः क्रुद्धस्तक्षकस्य प्रतिचिकीर्षमाणो हास्तिनपुरं प्रतस्थे । १७७ ।
सः उपाध्यायेन अनुज्ञातः उत्तङ्कः क्रुद्धः तक्षकस्य प्रतिचिकीर्षमाणः हास्तिनपुरम् प्रतस्थे । १७७ ।
saḥ upādhyāyena anujñātaḥ uttaṅkaḥ kruddhaḥ takṣakasya praticikīrṣamāṇaḥ hāstinapuram pratasthe . 177 .
स हास्तिनपुरं प्राप्य नचिराद्द्विजसत्तमः । समागच्छत राजानमुत्तङ्को जनमेजयम् ॥१७८॥
स हास्तिनपुरम् प्राप्य नचिरात् द्विजसत्तमः । समागच्छत राजानम् उत्तङ्कः जनमेजयम् ॥१७८॥
sa hāstinapuram prāpya nacirāt dvijasattamaḥ . samāgacchata rājānam uttaṅkaḥ janamejayam ..178..
पुरा तक्षशिलातस्तं निवृत्तमपराजितम् । सम्यग्विजयिनं दृष्ट्वा समन्तान्मन्त्रिभिर्वृतम् ॥१७९॥
पुरा तक्षशिलातः तम् निवृत्तम् अपराजितम् । सम्यक् विजयिनम् दृष्ट्वा समन्तात् मन्त्रिभिः वृतम् ॥१७९॥
purā takṣaśilātaḥ tam nivṛttam aparājitam . samyak vijayinam dṛṣṭvā samantāt mantribhiḥ vṛtam ..179..
तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः । उवाचैनं वचः काले शब्दसम्पन्नया गिरा ॥१८०॥
तस्मै जय-आशिषः पूर्वम् यथान्यायम् प्रयुज्य सः । उवाच एनम् वचः काले शब्द-सम्पन्नया गिरा ॥१८०॥
tasmai jaya-āśiṣaḥ pūrvam yathānyāyam prayujya saḥ . uvāca enam vacaḥ kāle śabda-sampannayā girā ..180..
अन्यस्मिन्करणीये त्वं कार्ये पार्थिवसत्तम । बाल्यादिवान्यदेव त्वं कुरुषे नृपसत्तम ॥१८१॥
अन्यस्मिन् करणीये त्वम् कार्ये पार्थिव-सत्तम । बाल्यात् इव अन्यत् एव त्वम् कुरुषे नृप-सत्तम ॥१८१॥
anyasmin karaṇīye tvam kārye pārthiva-sattama . bālyāt iva anyat eva tvam kuruṣe nṛpa-sattama ..181..
एवमुक्तस्तु विप्रेण स राजा प्रत्युवाच ह । जनमेजयः प्रसन्नात्मा सम्यक्सम्पूज्य तं मुनिम् ॥१८२॥
एवम् उक्तः तु विप्रेण स राजा प्रत्युवाच ह । जनमेजयः प्रसन्न-आत्मा सम्यक् सम्पूज्य तम् मुनिम् ॥१८२॥
evam uktaḥ tu vipreṇa sa rājā pratyuvāca ha . janamejayaḥ prasanna-ātmā samyak sampūjya tam munim ..182..
आसां प्रजानां परिपालनेन; स्वं क्षत्रधर्मं परिपालयामि । प्रब्रूहि वा किं क्रियतां द्विजेन्द्र; शुश्रूषुरस्म्यद्य वचस्त्वदीयम् ॥१८३॥
आसाम् प्रजानाम् परिपालनेन; स्वम् क्षत्र-धर्मम् परिपालयामि । प्रब्रूहि वा किम् क्रियताम् द्विजेन्द्र; शुश्रूषुः अस्मि अद्य वचः त्वदीयम् ॥१८३॥
āsām prajānām paripālanena; svam kṣatra-dharmam paripālayāmi . prabrūhi vā kim kriyatām dvijendra; śuśrūṣuḥ asmi adya vacaḥ tvadīyam ..183..
स एवमुक्तस्तु नृपोत्तमेन; द्विजोत्तमः पुण्यकृतां वरिष्ठः । उवाच राजानमदीनसत्त्वं; स्वमेव कार्यं नृपतेश्च यत्तत् ॥१८४॥
सः एवम् उक्तः तु नृप-उत्तमेन; द्विजोत्तमः पुण्य-कृताम् वरिष्ठः । उवाच राजानम् अदीन-सत्त्वम्; स्वम् एव कार्यम् नृपतेः च यत् तत् ॥१८४॥
saḥ evam uktaḥ tu nṛpa-uttamena; dvijottamaḥ puṇya-kṛtām variṣṭhaḥ . uvāca rājānam adīna-sattvam; svam eva kāryam nṛpateḥ ca yat tat ..184..
तक्षकेण नरेन्द्रेन्द्र येन ते हिंसितः पिता । तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने ॥१८५॥
तक्षकेण नरेन्द्र-इन्द्र येन ते हिंसितः पिता । तस्मै प्रतिकुरुष्व त्वम् पन्नगाय दुरात्मने ॥१८५॥
takṣakeṇa narendra-indra yena te hiṃsitaḥ pitā . tasmai pratikuruṣva tvam pannagāya durātmane ..185..
कार्यकालं च मन्येऽहं विधिदृष्टस्य कर्मणः । तद्गच्छापचितिं राजन्पितुस्तस्य महात्मनः ॥१८६॥
कार्य-कालम् च मन्ये अहम् विधि-दृष्टस्य कर्मणः । तत् गच्छ अपचितिम् राजन् पितुः तस्य महात्मनः ॥१८६॥
kārya-kālam ca manye aham vidhi-dṛṣṭasya karmaṇaḥ . tat gaccha apacitim rājan pituḥ tasya mahātmanaḥ ..186..
तेन ह्यनपराधी स दष्टो दुष्टान्तरात्मना । पञ्चत्वमगमद्राजा वज्राहत इव द्रुमः ॥१८७॥
तेन हि अनपराधी स दष्टः दुष्ट-अन्तरात्मना । पञ्चत्वम् अगमत् राजा वज्र-आहतः इव द्रुमः ॥१८७॥
tena hi anaparādhī sa daṣṭaḥ duṣṭa-antarātmanā . pañcatvam agamat rājā vajra-āhataḥ iva drumaḥ ..187..
बलदर्पसमुत्सिक्तस्तक्षकः पन्नगाधमः । अकार्यं कृतवान्पापो योऽदशत्पितरं तव ॥१८८॥
बल-दर्प-समुत्सिक्तः तक्षकः पन्नग-अधमः । अकार्यम् कृतवान् पापः यः अदशत् पितरम् तव ॥१८८॥
bala-darpa-samutsiktaḥ takṣakaḥ pannaga-adhamaḥ . akāryam kṛtavān pāpaḥ yaḥ adaśat pitaram tava ..188..
राजर्षिवंशगोप्तारममरप्रतिमं नृपम् । जघान काश्यपं चैव न्यवर्तयत पापकृत् ॥१८९॥
राजर्षि-वंश-गोप्तारम् अमर-प्रतिमम् नृपम् । जघान काश्यपम् च एव न्यवर्तयत पाप-कृत् ॥१८९॥
rājarṣi-vaṃśa-goptāram amara-pratimam nṛpam . jaghāna kāśyapam ca eva nyavartayata pāpa-kṛt ..189..
दग्धुमर्हसि तं पापं ज्वलिते हव्यवाहने । सर्पसत्रे महाराज त्वयि तद्धि विधीयते ॥१९०॥
दग्धुम् अर्हसि तम् पापम् ज्वलिते हव्यवाहने । सर्प-सत्रे महा-राज त्वयि तत् हि विधीयते ॥१९०॥
dagdhum arhasi tam pāpam jvalite havyavāhane . sarpa-satre mahā-rāja tvayi tat hi vidhīyate ..190..
एवं पितुश्चापचितिं गतवांस्त्वं भविष्यसि । मम प्रियं च सुमहत्कृतं राजन्भविष्यति ॥१९१॥
एवम् पितुः च अपचितिम् गतवान् त्वम् भविष्यसि । मम प्रियम् च सु महत् कृतम् राजन् भविष्यति ॥१९१॥
evam pituḥ ca apacitim gatavān tvam bhaviṣyasi . mama priyam ca su mahat kṛtam rājan bhaviṣyati ..191..
कर्मणः पृथिवीपाल मम येन दुरात्मना । विघ्नः कृतो महाराज गुर्वर्थं चरतोऽनघ ॥१९२॥
कर्मणः पृथिवीपाल मम येन दुरात्मना । विघ्नः कृतः महा-राज गुरु-अर्थम् चरतः अनघ ॥१९२॥
karmaṇaḥ pṛthivīpāla mama yena durātmanā . vighnaḥ kṛtaḥ mahā-rāja guru-artham carataḥ anagha ..192..
एतच्छ्रुत्वा तु नृपतिस्तक्षकस्य चुकोप ह । उत्तङ्कवाक्यहविषा दीप्तोऽग्निर्हविषा यथा ॥१९३॥
एतत् श्रुत्वा तु नृपतिः तक्षकस्य चुकोप ह । उत्तङ्क-वाक्य-हविषा दीप्तः अग्निः हविषा यथा ॥१९३॥
etat śrutvā tu nṛpatiḥ takṣakasya cukopa ha . uttaṅka-vākya-haviṣā dīptaḥ agniḥ haviṣā yathā ..193..
अपृच्छच्च तदा राजा मन्त्रिणः स्वान्सुदुःखितः । उत्तङ्कस्यैव सांनिध्ये पितुः स्वर्गगतिं प्रति ॥१९४॥
अपृच्छत् च तदा राजा मन्त्रिणः स्वान् सु दुःखितः । उत्तङ्कस्य एव सांनिध्ये पितुः स्वर्ग-गतिम् प्रति ॥१९४॥
apṛcchat ca tadā rājā mantriṇaḥ svān su duḥkhitaḥ . uttaṅkasya eva sāṃnidhye pituḥ svarga-gatim prati ..194..
तदैव हि स राजेन्द्रो दुःखशोकाप्लुतोऽभवत् । यदैव पितरं वृत्तमुत्तङ्कादशृणोत्तदा ॥१९५॥ 1.3.188
तदा एव हि स राज-इन्द्रः दुःख-शोक-आप्लुतः अभवत् । यदा एव पितरम् वृत्तम् उत्तङ्कात् अशृणोत् तदा ॥१९५॥ १।३।१८८
tadā eva hi sa rāja-indraḥ duḥkha-śoka-āplutaḥ abhavat . yadā eva pitaram vṛttam uttaṅkāt aśṛṇot tadā ..195.. 1.3.188

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In