| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

पौष्यपर्व
pauṣyaparva
सूत उवाच॥
जनमेजयः पारिक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमुपास्ते । तस्य भ्रातरस्त्रयः श्रुतसेन उग्रसेनो भीमसेन इति । ००१ ।
janamejayaḥ pārikṣitaḥ saha bhrātṛbhiḥ kurukṣetre dīrghasatramupāste . tasya bhrātarastrayaḥ śrutasena ugraseno bhīmasena iti . 001 .
तेषु तत्सत्रमुपासीनेषु तत्र श्वाभ्यागच्छत्सारमेयः । स जनमेजयस्य भ्रातृभिरभिहतो रोरूयमाणो मातुः समीपमुपागच्छत् । ००२ ।
teṣu tatsatramupāsīneṣu tatra śvābhyāgacchatsārameyaḥ . sa janamejayasya bhrātṛbhirabhihato rorūyamāṇo mātuḥ samīpamupāgacchat . 002 .
तं माता रोरूयमाणमुवाच । किं रोदिषि । केनास्यभिहत इति । ००३ ।
taṃ mātā rorūyamāṇamuvāca . kiṃ rodiṣi . kenāsyabhihata iti . 003 .
स एवमुक्तो मातरं प्रत्युवाच । जनमेजयस्य भ्रातृभिरभिहतोऽस्मीति । ००४ ।
sa evamukto mātaraṃ pratyuvāca . janamejayasya bhrātṛbhirabhihato'smīti . 004 .
तं माता प्रत्युवाच । व्यक्तं त्वया तत्रापराद्धं येनास्यभिहत इति । ००५ ।
taṃ mātā pratyuvāca . vyaktaṃ tvayā tatrāparāddhaṃ yenāsyabhihata iti . 005 .
स तां पुनरुवाच । नापराध्यामि किञ्चित् । नावेक्षे हवींषि नावलिह इति । ००६ ।
sa tāṃ punaruvāca . nāparādhyāmi kiñcit . nāvekṣe havīṃṣi nāvaliha iti . 006 .
तच्छ्रुत्वा तस्य माता सरमा पुत्रशोकार्ता तत्सत्रमुपागच्छद्यत्र स जनमेजयः सह भ्रातृभिर्दीर्घसत्रमुपास्ते । ००७ ।
tacchrutvā tasya mātā saramā putraśokārtā tatsatramupāgacchadyatra sa janamejayaḥ saha bhrātṛbhirdīrghasatramupāste . 007 .
स तया क्रुद्धया तत्रोक्तः । अयं मे पुत्रो न किञ्चिदपराध्यति । किमर्थमभिहत इति । यस्माच्चायमभिहतोऽनपकारी तस्माददृष्टं त्वां भयमागमिष्यतीति । ००८ ।
sa tayā kruddhayā tatroktaḥ . ayaṃ me putro na kiñcidaparādhyati . kimarthamabhihata iti . yasmāccāyamabhihato'napakārī tasmādadṛṣṭaṃ tvāṃ bhayamāgamiṣyatīti . 008 .
स जनमेजय एवमुक्तो देवशुन्या सरमया दृढं सम्भ्रान्तो विषण्णश्चासीत् । ००९ ।
sa janamejaya evamukto devaśunyā saramayā dṛḍhaṃ sambhrānto viṣaṇṇaścāsīt . 009 .
स तस्मिन्सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितमनुरूपमन्विच्छमानः परं यत्नमकरोद्यो मे पापकृत्यां शमयेदिति । ०१० ।
sa tasminsatre samāpte hāstinapuraṃ pratyetya purohitamanurūpamanvicchamānaḥ paraṃ yatnamakarodyo me pāpakṛtyāṃ śamayediti . 010 .
स कदाचिन्मृगयां यातः पारिक्षितो जनमेजयः कस्मिंश्चित्स्वविषयोद्देशे आश्रममपश्यत् । ०११ ।
sa kadācinmṛgayāṃ yātaḥ pārikṣito janamejayaḥ kasmiṃścitsvaviṣayoddeśe āśramamapaśyat . 011 .
तत्र कश्चिदृषिरासां चक्रे श्रुतश्रवा नाम । तस्याभिमतः पुत्र आस्ते सोमश्रवा नाम । ०१२ ।
tatra kaścidṛṣirāsāṃ cakre śrutaśravā nāma . tasyābhimataḥ putra āste somaśravā nāma . 012 .
तस्य तं पुत्रमभिगम्य जनमेजयः पारिक्षितः पौरोहित्याय वव्रे । ०१३ ।
tasya taṃ putramabhigamya janamejayaḥ pārikṣitaḥ paurohityāya vavre . 013 .
स नमस्कृत्य तमृषिमुवाच । भगवन्नयं तव पुत्रो मम पुरोहितोऽस्त्विति । ०१४ ।
sa namaskṛtya tamṛṣimuvāca . bhagavannayaṃ tava putro mama purohito'stviti . 014 .
स एवमुक्तः प्रत्युवाच । भो जनमेजय पुत्रोऽयं मम सर्प्यां जातः । महातपस्वी स्वाध्यायसम्पन्नो मत्तपोवीर्यसम्भृतो मच्छुक्रं पीतवत्यास्तस्याः कुक्षौ संवृद्धः । समर्थोऽयं भवतः सर्वाः पापकृत्याः शमयितुमन्तरेण महादेवकृत्याम् । अस्य त्वेकमुपांशुव्रतम् । यदेनं कश्चिद्ब्राह्मणः कञ्चिदर्थमभियाचेत्तं तस्मै दद्यादयम् । यद्येतदुत्सहसे ततो नयस्वैनमिति । ०१५ ।
sa evamuktaḥ pratyuvāca . bho janamejaya putro'yaṃ mama sarpyāṃ jātaḥ . mahātapasvī svādhyāyasampanno mattapovīryasambhṛto macchukraṃ pītavatyāstasyāḥ kukṣau saṃvṛddhaḥ . samartho'yaṃ bhavataḥ sarvāḥ pāpakṛtyāḥ śamayitumantareṇa mahādevakṛtyām . asya tvekamupāṃśuvratam . yadenaṃ kaścidbrāhmaṇaḥ kañcidarthamabhiyācettaṃ tasmai dadyādayam . yadyetadutsahase tato nayasvainamiti . 015 .
तेनैवमुत्को जनमेजयस्तं प्रत्युवाच । भगवंस्तथा भविष्यतीति । ०१६ ।
tenaivamutko janamejayastaṃ pratyuvāca . bhagavaṃstathā bhaviṣyatīti . 016 .
स तं पुरोहितमुपादायोपावृत्तो भ्रातृनुवाच । मयायं वृत उपाध्यायः । यदयं ब्रूयात्तत्कार्यमविचारयद्भिरिति । ०१७ ।
sa taṃ purohitamupādāyopāvṛtto bhrātṛnuvāca . mayāyaṃ vṛta upādhyāyaḥ . yadayaṃ brūyāttatkāryamavicārayadbhiriti . 017 .
तेनैवमुक्ता भ्रातरस्तस्य तथा चक्रुः । स तथा भ्रातृन्संदिश्य तक्षशिलां प्रत्यभिप्रतस्थे ।
tenaivamuktā bhrātarastasya tathā cakruḥ . sa tathā bhrātṛnsaṃdiśya takṣaśilāṃ pratyabhipratasthe .
एतस्मिन्नन्तरे कश्चिदृषिर्धौम्यो नामायोदः । तस्य शिष्यास्त्रयो बभूवुरुपमन्युरारुणिर्वेदश्चेति । ०१९ ।
etasminnantare kaścidṛṣirdhaumyo nāmāyodaḥ . tasya śiṣyāstrayo babhūvurupamanyurāruṇirvedaśceti . 019 .
स एकं शिष्यमारुणिं पाञ्चाल्यं प्रेषयामास । गच्छ केदारखण्डं बधानेति । ०२० ।
sa ekaṃ śiṣyamāruṇiṃ pāñcālyaṃ preṣayāmāsa . gaccha kedārakhaṇḍaṃ badhāneti . 020 .
स क्लिश्यमानोऽपश्यदुपायम् । भवत्वेवं करिष्यामीति । ०२२ ।
sa kliśyamāno'paśyadupāyam . bhavatvevaṃ kariṣyāmīti . 022 .
स तत्र संविवेश केदारखण्डे । शयाने तस्मिंस्तदुदकं तस्थौ । ०२३ ।
sa tatra saṃviveśa kedārakhaṇḍe . śayāne tasmiṃstadudakaṃ tasthau . 023 .
ततः कदाचिदुपाध्याय आयोदो धौम्यः शिष्यानपृच्छत् । क्व आरुणिः पाञ्चाल्यो गत इति । ०२४ ।
tataḥ kadācidupādhyāya āyodo dhaumyaḥ śiṣyānapṛcchat . kva āruṇiḥ pāñcālyo gata iti . 024 .
ते प्रत्यूचुः । भगवतैव प्रेषितो गच्छ केदारखण्डं बधानेति । ०२५ ।
te pratyūcuḥ . bhagavataiva preṣito gaccha kedārakhaṇḍaṃ badhāneti . 025 .
स एवमुक्तस्ताञ्शिष्यान्प्रत्युवाच । तस्मात्सर्वे तत्र गच्छामो यत्र स इति । ०२६ ।
sa evamuktastāñśiṣyānpratyuvāca . tasmātsarve tatra gacchāmo yatra sa iti . 026 .
स तत्र गत्वा तस्याह्वानाय शब्दं चकार । भो आरुणे पाञ्चाल्य क्वासि । वत्सैहीति । ०२७ ।
sa tatra gatvā tasyāhvānāya śabdaṃ cakāra . bho āruṇe pāñcālya kvāsi . vatsaihīti . 027 .
स तच्छ्रुत्वा आरुणिरुपाध्यायवाक्यं तस्मात्केदारखण्डात्सहसोत्थाय तमुपाध्यायमुपतस्थे । प्रोवाच चैनम् । अयमस्म्यत्र केदारखण्डे निःसरमाणमुदकमवारणीयं संरोद्धुं संविष्टो भगवच्छब्दं श्रुत्वैव सहसा विदार्य केदारखण्डं भवन्तमुपस्थितः । तदभिवादये भगवन्तम् । आज्ञापयतु भवान् । किं करवाणीति । ०२८ ।
sa tacchrutvā āruṇirupādhyāyavākyaṃ tasmātkedārakhaṇḍātsahasotthāya tamupādhyāyamupatasthe . provāca cainam . ayamasmyatra kedārakhaṇḍe niḥsaramāṇamudakamavāraṇīyaṃ saṃroddhuṃ saṃviṣṭo bhagavacchabdaṃ śrutvaiva sahasā vidārya kedārakhaṇḍaṃ bhavantamupasthitaḥ . tadabhivādaye bhagavantam . ājñāpayatu bhavān . kiṃ karavāṇīti . 028 .
तमुपाध्यायोऽब्रवीत् । यस्माद्भवान्केदारखण्डमवदार्योत्थितस्तस्माद्भवानुद्दालक एव नाम्ना भविष्यतीति । ०२९ ।
tamupādhyāyo'bravīt . yasmādbhavānkedārakhaṇḍamavadāryotthitastasmādbhavānuddālaka eva nāmnā bhaviṣyatīti . 029 .
स उपाध्यायेनानुगृहीतः । यस्मात्त्वया मद्वचोऽनुष्ठितं तस्माच्छ्रेयोऽवाप्स्यसीति । सर्वे च ते वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति । ०३० ।
sa upādhyāyenānugṛhītaḥ . yasmāttvayā madvaco'nuṣṭhitaṃ tasmācchreyo'vāpsyasīti . sarve ca te vedāḥ pratibhāsyanti sarvāṇi ca dharmaśāstrāṇīti . 030 .
स एवमुक्त उपाध्यायेनेष्टं देशं जगाम । ०३१ ।
sa evamukta upādhyāyeneṣṭaṃ deśaṃ jagāma . 031 .
अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्योपमन्युर्नाम । ०३२ ।
athāparaḥ śiṣyastasyaivāyodasya dhaumyasyopamanyurnāma . 032 .
तमुपाध्यायः प्रेषयामास । वत्सोपमन्यो गा रक्षस्वेति । ०३३ ।
tamupādhyāyaḥ preṣayāmāsa . vatsopamanyo gā rakṣasveti . 033 .
स उपाध्यायवचनादरक्षद्गाः । स चाहनि गा रक्षित्वा दिवसक्षयेऽभ्यागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे । ०३४ ।
sa upādhyāyavacanādarakṣadgāḥ . sa cāhani gā rakṣitvā divasakṣaye'bhyāgamyopādhyāyasyāgrataḥ sthitvā namaścakre . 034 .
तमुपाध्यायः पीवानमपश्यत् । उवाच चैनम् । वत्सोपमन्यो केन वृत्तिं कल्पयसि । पीवानसि दृढमिति । ०३५ ।
tamupādhyāyaḥ pīvānamapaśyat . uvāca cainam . vatsopamanyo kena vṛttiṃ kalpayasi . pīvānasi dṛḍhamiti . 035 .
स उपाध्यायं प्रत्युवाच । भैक्षेण वृत्तिं कल्पयामीति । ०३६ ।
sa upādhyāyaṃ pratyuvāca . bhaikṣeṇa vṛttiṃ kalpayāmīti . 036 .
तमुपाध्यायः प्रत्युवाच । ममानिवेद्य भैक्षं नोपयोक्तव्यमिति । ०३७ ।
tamupādhyāyaḥ pratyuvāca . mamānivedya bhaikṣaṃ nopayoktavyamiti . 037 .
स तथेत्युक्त्वा पुनररक्षद्गाः । रक्षित्वा चागम्य तथैवोपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे । ०३८ ।
sa tathetyuktvā punararakṣadgāḥ . rakṣitvā cāgamya tathaivopādhyāyasyāgrataḥ sthitvā namaścakre . 038 .
तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वोवाच । वत्सोपमन्यो सर्वमशेषतस्ते भैक्षं गृह्णामि । केनेदानीं वृत्तिं कल्पयसीति । ०३९ ।
tamupādhyāyastathāpi pīvānameva dṛṣṭvovāca . vatsopamanyo sarvamaśeṣataste bhaikṣaṃ gṛhṇāmi . kenedānīṃ vṛttiṃ kalpayasīti . 039 .
स एवमुक्त उपाध्यायेन प्रत्युवाच । भगवते निवेद्य पूर्वमपरं चरामि । तेन वृत्तिं कल्पयामीति । ०४० ।
sa evamukta upādhyāyena pratyuvāca . bhagavate nivedya pūrvamaparaṃ carāmi . tena vṛttiṃ kalpayāmīti . 040 .
तमुपाध्यायः प्रत्युवाच । नैषा न्याय्या गुरुवृत्तिः । अन्येषामपि वृत्त्युपरोधं करोष्येवं वर्तमानः । लुब्धोऽसीति । ०४१ ।
tamupādhyāyaḥ pratyuvāca . naiṣā nyāyyā guruvṛttiḥ . anyeṣāmapi vṛttyuparodhaṃ karoṣyevaṃ vartamānaḥ . lubdho'sīti . 041 .
स तथेत्युक्त्वा गा अरक्षत् । रक्षित्वा च पुनरुपाध्यायगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे । ०४२ ।
sa tathetyuktvā gā arakṣat . rakṣitvā ca punarupādhyāyagṛhamāgamyopādhyāyasyāgrataḥ sthitvā namaścakre . 042 .
तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच । अहं ते सर्वं भैक्षं गृह्णामि न चान्यच्चरसि । पीवानसि । केन वृत्तिं कल्पयसीति । ०४३ ।
tamupādhyāyastathāpi pīvānameva dṛṣṭvā punaruvāca . ahaṃ te sarvaṃ bhaikṣaṃ gṛhṇāmi na cānyaccarasi . pīvānasi . kena vṛttiṃ kalpayasīti . 043 .
स उपाध्यायं प्रत्युवाच । भो एतासां गवां पयसा वृत्तिं कल्पयामीति । ०४४ ।
sa upādhyāyaṃ pratyuvāca . bho etāsāṃ gavāṃ payasā vṛttiṃ kalpayāmīti . 044 .
तमुपाध्यायः प्रत्युवाच । नैतन्न्याय्यं पय उपयोक्तुं भवतो मयाननुज्ञातमिति । ०४५ ।
tamupādhyāyaḥ pratyuvāca . naitannyāyyaṃ paya upayoktuṃ bhavato mayānanujñātamiti . 045 .
स तथेति प्रतिज्ञाय गा रक्षित्वा पुनरुपाध्यायगृहानेत्य गुरोरग्रतः स्थित्वा नमश्चक्रे । ०४६ ।
sa tatheti pratijñāya gā rakṣitvā punarupādhyāyagṛhānetya guroragrataḥ sthitvā namaścakre . 046 .
तमुपाध्यायः पीवानमेवापश्यत् । उवाच चैनम् । भैक्षं नाश्नासि न चान्यच्चरसि । पयो न पिबसि । पीवानसि । केन वृत्तिं कल्पयसीति । ०४७ ।
tamupādhyāyaḥ pīvānamevāpaśyat . uvāca cainam . bhaikṣaṃ nāśnāsi na cānyaccarasi . payo na pibasi . pīvānasi . kena vṛttiṃ kalpayasīti . 047 .
स एवमुक्त उपाध्यायं प्रत्युवाच । भोः फेनं पिबामि यमिमे वत्सा मातृणां स्तनं पिबन्त उद्गिरन्तीति । ०४८ ।
sa evamukta upādhyāyaṃ pratyuvāca . bhoḥ phenaṃ pibāmi yamime vatsā mātṛṇāṃ stanaṃ pibanta udgirantīti . 048 .
तमुपाध्यायः प्रत्युवाच । एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनमुद्गिरन्ति । तदेवमपि वत्सानां वृत्त्युपरोधं करोष्येवं वर्तमानः । फेनमपि भवान्न पातुमर्हतीति । ०४९ ।
tamupādhyāyaḥ pratyuvāca . ete tvadanukampayā guṇavanto vatsāḥ prabhūtataraṃ phenamudgiranti . tadevamapi vatsānāṃ vṛttyuparodhaṃ karoṣyevaṃ vartamānaḥ . phenamapi bhavānna pātumarhatīti . 049 .
स तथेति प्रतिज्ञाय निराहारस्ता गा अरक्षत् । तथा प्रतिषिद्धो भैक्षं नाश्नाति न चान्यच्चरति । पयो न पिबति । फेनं नोपयुङ्क्ते । ०५० ।
sa tatheti pratijñāya nirāhārastā gā arakṣat . tathā pratiṣiddho bhaikṣaṃ nāśnāti na cānyaccarati . payo na pibati . phenaṃ nopayuṅkte . 050 .
स कदाचिदरण्ये क्षुधार्तोऽर्कपत्राण्यभक्षयत् । ०५१ ।
sa kadācidaraṇye kṣudhārto'rkapatrāṇyabhakṣayat . 051 .
स तैरर्कपत्रैर्भक्षितैः क्षारकटूष्णविपाकिभिश्चक्षुष्युपहतोऽन्धोऽभवत् । सोऽन्धोऽपि चङ्क्रम्यमाणः कूपेऽपतत् । ०५२ ।
sa tairarkapatrairbhakṣitaiḥ kṣārakaṭūṣṇavipākibhiścakṣuṣyupahato'ndho'bhavat . so'ndho'pi caṅkramyamāṇaḥ kūpe'patat . 052 .
अथ तस्मिन्ननागच्छत्युपाध्यायः शिष्यानवोचत् । मयोपमन्युः सर्वतः प्रतिषिद्धः । स नियतं कुपितः । ततो नागच्छति चिरगतश्चेति । ०५३ ।
atha tasminnanāgacchatyupādhyāyaḥ śiṣyānavocat . mayopamanyuḥ sarvataḥ pratiṣiddhaḥ . sa niyataṃ kupitaḥ . tato nāgacchati ciragataśceti . 053 .
स एवमुक्त्वा गत्वारण्यमुपमन्योराह्वानं चक्रे । भो उपमन्यो क्वासि । वत्सैहीति । ०५४ ।
sa evamuktvā gatvāraṇyamupamanyorāhvānaṃ cakre . bho upamanyo kvāsi . vatsaihīti . 054 .
स तदाह्वानमुपाध्यायाच्छ्रुत्वा प्रत्युवाचोच्चैः । अयमस्मि भो उपाध्याय कूपे पतित इति । ०५५ ।
sa tadāhvānamupādhyāyācchrutvā pratyuvācoccaiḥ . ayamasmi bho upādhyāya kūpe patita iti . 055 .
तमुपाध्यायः प्रत्युवाच । कथमसि कूपे पतित इति । ०५६ ।
tamupādhyāyaḥ pratyuvāca . kathamasi kūpe patita iti . 056 .
स तं प्रत्युवाच । अर्कपत्राणि भक्षयित्वान्धीभूतोऽस्मि । अतः कूपे पतित इति । ०५७ ।
sa taṃ pratyuvāca . arkapatrāṇi bhakṣayitvāndhībhūto'smi . ataḥ kūpe patita iti . 057 .
तमुपाध्यायः प्रत्युवाच । अश्विनौ स्तुहि । तौ त्वां चक्षुष्मन्तं करिष्यतो देवभिषजाविति । ०५८ ।
tamupādhyāyaḥ pratyuvāca . aśvinau stuhi . tau tvāṃ cakṣuṣmantaṃ kariṣyato devabhiṣajāviti . 058 .
स एवमुक्त उपाध्यायेन स्तोतुं प्रचक्रमे देवावश्विनौ वाग्भिरृग्भिः । ०५९ ।
sa evamukta upādhyāyena stotuṃ pracakrame devāvaśvinau vāgbhirṛgbhiḥ . 059 .
प्र पूर्वगौ पूर्वजौ चित्रभानू; गिरा वा शंसामि तपनावनन्तौ । दिव्यौ सुपर्णौ विरजौ विमाना; वधिक्षियन्तौ भुवनानि विश्वा ॥६०॥
pra pūrvagau pūrvajau citrabhānū; girā vā śaṃsāmi tapanāvanantau . divyau suparṇau virajau vimānā; vadhikṣiyantau bhuvanāni viśvā ..60..
हिरण्मयौ शकुनी साम्परायौ; नासत्यदस्रौ सुनसौ वैजयन्तौ । शुक्रं वयन्तौ तरसा सुवेमा; वभि व्ययन्तावसितं विवस्वत् ॥६१॥
hiraṇmayau śakunī sāmparāyau; nāsatyadasrau sunasau vaijayantau . śukraṃ vayantau tarasā suvemā; vabhi vyayantāvasitaṃ vivasvat ..61..
ग्रस्तां सुपर्णस्य बलेन वर्तिका; ममुञ्चतामश्विनौ सौभगाय । तावत्सुवृत्तावनमन्त मायया; सत्तमा गा अरुणा उदावहन् ॥६२॥
grastāṃ suparṇasya balena vartikā; mamuñcatāmaśvinau saubhagāya . tāvatsuvṛttāvanamanta māyayā; sattamā gā aruṇā udāvahan ..62..
षष्टिश्च गावस्त्रिशताश्च धेनव; एकं वत्सं सुवते तं दुहन्ति । नानागोष्ठा विहिता एकदोहना; स्तावश्विनौ दुहतो घर्ममुक्थ्यम् ॥६३॥
ṣaṣṭiśca gāvastriśatāśca dhenava; ekaṃ vatsaṃ suvate taṃ duhanti . nānāgoṣṭhā vihitā ekadohanā; stāvaśvinau duhato gharmamukthyam ..63..
एकां नाभिं सप्तशता अराः श्रिताः; प्रधिष्वन्या विंशतिरर्पिता अराः । अनेमि चक्रं परिवर्ततेऽजरं; मायाश्विनौ समनक्ति चर्षणी ॥६४॥
ekāṃ nābhiṃ saptaśatā arāḥ śritāḥ; pradhiṣvanyā viṃśatirarpitā arāḥ . anemi cakraṃ parivartate'jaraṃ; māyāśvinau samanakti carṣaṇī ..64..
एकं चक्रं वर्तते द्वादशारं प्रधि; षण्णाभिमेकाक्षममृतस्य धारणम् । यस्मिन्देवा अधि विश्वे विषक्ता; स्तावश्विनौ मुञ्चतो मा विषीदतम् ॥६५ - ग॥
ekaṃ cakraṃ vartate dvādaśāraṃ pradhi; ṣaṇṇābhimekākṣamamṛtasya dhāraṇam . yasmindevā adhi viśve viṣaktā; stāvaśvinau muñcato mā viṣīdatam ..65 - ga..
अश्विनाविन्द्रममृतं वृत्तभूयौ; तिरोधत्तामश्विनौ दासपत्नी । भित्त्वा गिरिमश्विनौ गामुदाचरन्तौ; तद्वृष्टमह्ना प्रथिता वलस्य ॥६६॥
aśvināvindramamṛtaṃ vṛttabhūyau; tirodhattāmaśvinau dāsapatnī . bhittvā girimaśvinau gāmudācarantau; tadvṛṣṭamahnā prathitā valasya ..66..
युवां दिशो जनयथो दशाग्रे; समानं मूर्ध्नि रथया वियन्ति । तासां यातमृषयोऽनुप्रयान्ति; देवा मनुष्याः क्षितिमाचरन्ति ॥६७॥
yuvāṃ diśo janayatho daśāgre; samānaṃ mūrdhni rathayā viyanti . tāsāṃ yātamṛṣayo'nuprayānti; devā manuṣyāḥ kṣitimācaranti ..67..
युवां वर्णान्विकुरुथो विश्वरूपां; स्तेऽधिक्षियन्ति भुवनानि विश्वा । ते भानवोऽप्यनुसृताश्चरन्ति; देवा मनुष्याः क्षितिमाचरन्ति ॥६८॥
yuvāṃ varṇānvikurutho viśvarūpāṃ; ste'dhikṣiyanti bhuvanāni viśvā . te bhānavo'pyanusṛtāścaranti; devā manuṣyāḥ kṣitimācaranti ..68..
तौ नासत्यावश्विनावामहे वां; स्रजं च यां बिभृथः पुष्करस्य । तौ नासत्यावमृतावृतावृधा; वृते देवास्तत्प्रपदेन सूते ॥६९॥
tau nāsatyāvaśvināvāmahe vāṃ; srajaṃ ca yāṃ bibhṛthaḥ puṣkarasya . tau nāsatyāvamṛtāvṛtāvṛdhā; vṛte devāstatprapadena sūte ..69..
मुखेन गर्भं लभतां युवानौ; गतासुरेतत्प्रपदेन सूते । सद्यो जातो मातरमत्ति गर्भ; स्तावश्विनौ मुञ्चथो जीवसे गाः ॥७०॥
mukhena garbhaṃ labhatāṃ yuvānau; gatāsuretatprapadena sūte . sadyo jāto mātaramatti garbha; stāvaśvinau muñcatho jīvase gāḥ ..70..
एवं तेनाभिष्टुतावश्विनावाजग्मतुः । आहतुश्चैनम् । प्रीतौ स्वः । एष तेऽपूपः । अशानैनमिति । ०७१ ।
evaṃ tenābhiṣṭutāvaśvināvājagmatuḥ . āhatuścainam . prītau svaḥ . eṣa te'pūpaḥ . aśānainamiti . 071 .
स एवमुक्तः प्रत्युवाच । नानृतमूचतुर्भवन्तौ । न त्वहमेतमपूपमुपयोक्तुमुत्सहे अनिवेद्य गुरव इति । ०७२ ।
sa evamuktaḥ pratyuvāca . nānṛtamūcaturbhavantau . na tvahametamapūpamupayoktumutsahe anivedya gurava iti . 072 .
ततस्तमश्विनावूचतुः । आवाभ्यां पुरस्ताद्भवत उपाध्यायेनैवमेवाभिष्टुताभ्यामपूपः प्रीताभ्यां दत्तः । उपयुक्तश्च स तेनानिवेद्य गुरवे । त्वमपि तथैव कुरुष्व यथा कृतमुपाध्यायेनेति । ०७३ ।
tatastamaśvināvūcatuḥ . āvābhyāṃ purastādbhavata upādhyāyenaivamevābhiṣṭutābhyāmapūpaḥ prītābhyāṃ dattaḥ . upayuktaśca sa tenānivedya gurave . tvamapi tathaiva kuruṣva yathā kṛtamupādhyāyeneti . 073 .
स एवमुक्तः पुनरेव प्रत्युवाचैतौ । प्रत्यनुनये भवन्तावश्विनौ । नोत्सहेऽहमनिवेद्योपाध्यायायोपयोक्तुमिति । ०७४ ।
sa evamuktaḥ punareva pratyuvācaitau . pratyanunaye bhavantāvaśvinau . notsahe'hamanivedyopādhyāyāyopayoktumiti . 074 .
तमश्विनावाहतुः । प्रीतौ स्वस्तवानया गुरुवृत्त्या । उपाध्यायस्य ते कार्ष्णायसा दन्ताः । भवतो हिरण्मया भविष्यन्ति । चक्षुष्मांश्च भविष्यसि । श्रेयश्चावाप्स्यसीति । ०७५ ।
tamaśvināvāhatuḥ . prītau svastavānayā guruvṛttyā . upādhyāyasya te kārṣṇāyasā dantāḥ . bhavato hiraṇmayā bhaviṣyanti . cakṣuṣmāṃśca bhaviṣyasi . śreyaścāvāpsyasīti . 075 .
स एवमुक्तोऽश्विभ्यां लब्धचक्षुरुपाध्यायसकाशमागम्योपाध्यायमभिवाद्याचचक्षे । स चास्य प्रीतिमानभूत् । ०७६ ।
sa evamukto'śvibhyāṃ labdhacakṣurupādhyāyasakāśamāgamyopādhyāyamabhivādyācacakṣe . sa cāsya prītimānabhūt . 076 .
आह चैनम् । यथाश्विनावाहतुस्तथा त्वं श्रेयोऽवाप्स्यसीति । सर्वे च ते वेदाः प्रतिभास्यन्तीति । ०७७ ।
āha cainam . yathāśvināvāhatustathā tvaṃ śreyo'vāpsyasīti . sarve ca te vedāḥ pratibhāsyantīti . 077 .
एषा तस्यापि परीक्षोपमन्योः । ०७८ ।
eṣā tasyāpi parīkṣopamanyoḥ . 078 .
अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्य वेदो नाम । ०७९ ।
athāparaḥ śiṣyastasyaivāyodasya dhaumyasya vedo nāma . 079 .
तमुपाध्यायः संदिदेश । वत्स वेद इहास्यताम् । भवता मद्गृहे कञ्चित्कालं शुश्रूषमाणेन भवितव्यम् । श्रेयस्ते भविष्यतीति । ०८० ।
tamupādhyāyaḥ saṃdideśa . vatsa veda ihāsyatām . bhavatā madgṛhe kañcitkālaṃ śuśrūṣamāṇena bhavitavyam . śreyaste bhaviṣyatīti . 080 .
स तथेत्युक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरोऽवसत् । गौरिव नित्यं गुरुषु धूर्षु नियुज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्राप्रतिकूलः । ०८१ ।
sa tathetyuktvā gurukule dīrghakālaṃ guruśuśrūṣaṇaparo'vasat . gauriva nityaṃ guruṣu dhūrṣu niyujyamānaḥ śītoṣṇakṣuttṛṣṇāduḥkhasahaḥ sarvatrāpratikūlaḥ . 081 .
तस्य महता कालेन गुरुः परितोषं जगाम । तत्परितोषाच्च श्रेयः सर्वज्ञतां चावाप । एषा तस्यापि परीक्षा वेदस्य । ०८२ ।
tasya mahatā kālena guruḥ paritoṣaṃ jagāma . tatparitoṣācca śreyaḥ sarvajñatāṃ cāvāpa . eṣā tasyāpi parīkṣā vedasya . 082 .
स उपाध्यायेनानुज्ञातः समावृत्तस्तस्माद्गुरुकुलवासाद्गृहाश्रमं प्रत्यपद्यत । तस्यापि स्वगृहे वसतस्त्रयः शिष्या बभूवुः । ०८३ ।
sa upādhyāyenānujñātaḥ samāvṛttastasmādgurukulavāsādgṛhāśramaṃ pratyapadyata . tasyāpi svagṛhe vasatastrayaḥ śiṣyā babhūvuḥ . 083 .
स शिष्यान्न किञ्चिदुवाच । कर्म वा क्रियतां गुरुशुश्रूषा वेति । दुःखाभिज्ञो हि गुरुकुलवासस्य शिष्यान्परिक्लेशेन योजयितुं नेयेष । ०८४ ।
sa śiṣyānna kiñciduvāca . karma vā kriyatāṃ guruśuśrūṣā veti . duḥkhābhijño hi gurukulavāsasya śiṣyānparikleśena yojayituṃ neyeṣa . 084 .
अथ कस्यचित्कालस्य वेदं ब्राह्मणं जनमेजयः पौष्यश्च क्षत्रियावुपेत्योपाध्यायं वरयां चक्रतुः । ०८५ ।
atha kasyacitkālasya vedaṃ brāhmaṇaṃ janamejayaḥ pauṣyaśca kṣatriyāvupetyopādhyāyaṃ varayāṃ cakratuḥ . 085 .
स कदाचिद्याज्यकार्येणाभिप्रस्थित उत्तङ्कं नाम शिष्यं नियोजयामास । भो उत्तङ्क यत्किञ्चिदस्मद्गृहे परिहीयते तदिच्छाम्यहमपरिहीणं भवता क्रियमाणमिति । ०८६ ।
sa kadācidyājyakāryeṇābhiprasthita uttaṅkaṃ nāma śiṣyaṃ niyojayāmāsa . bho uttaṅka yatkiñcidasmadgṛhe parihīyate tadicchāmyahamaparihīṇaṃ bhavatā kriyamāṇamiti . 086 .
स एवं प्रतिसमादिश्योत्तङ्कं वेदः प्रवासं जगाम । ०८७ ।
sa evaṃ pratisamādiśyottaṅkaṃ vedaḥ pravāsaṃ jagāma . 087 .
अथोत्तङ्को गुरुशुश्रूषुर्गुरुनियोगमनुतिष्ठमानस्तत्र गुरुकुले वसति स्म । ०८८ ।
athottaṅko guruśuśrūṣurguruniyogamanutiṣṭhamānastatra gurukule vasati sma . 088 .
स वसंस्तत्रोपाध्यायस्त्रीभिः सहिताभिराहूयोक्तः । उपाध्यायिनी ते ऋतुमती । उपाध्यायश्च प्रोषितः । अस्या यथायमृतुर्वन्ध्यो न भवति तथा क्रियताम् । एतद्विषीदतीति । ०८९ ।
sa vasaṃstatropādhyāyastrībhiḥ sahitābhirāhūyoktaḥ . upādhyāyinī te ṛtumatī . upādhyāyaśca proṣitaḥ . asyā yathāyamṛturvandhyo na bhavati tathā kriyatām . etadviṣīdatīti . 089 .
स एवमुक्तस्ताः स्त्रियः प्रत्युवाच । न मया स्त्रीणां वचनादिदमकार्यं कार्यम् । न ह्यहमुपाध्यायेन संदिष्टः । अकार्यमपि त्वया कार्यमिति । ०९० ।
sa evamuktastāḥ striyaḥ pratyuvāca . na mayā strīṇāṃ vacanādidamakāryaṃ kāryam . na hyahamupādhyāyena saṃdiṣṭaḥ . akāryamapi tvayā kāryamiti . 090 .
तस्य पुनरुपाध्यायः कालान्तरेण गृहानुपजगाम तस्मात्प्रवासात् । स तद्वृत्तं तस्याशेषमुपलभ्य प्रीतिमानभूत् । ०९१ ।
tasya punarupādhyāyaḥ kālāntareṇa gṛhānupajagāma tasmātpravāsāt . sa tadvṛttaṃ tasyāśeṣamupalabhya prītimānabhūt . 091 .
उवाच चैनम् । वत्सोत्तङ्क किं ते प्रियं करवाणीति । धर्मतो हि शुश्रूषितोऽस्मि भवता । तेन प्रीतिः परस्परेण नौ संवृद्धा । तदनुजाने भवन्तम् । सर्वामेव सिद्धिं प्राप्स्यसि । गम्यतामिति । ०९२ ।
uvāca cainam . vatsottaṅka kiṃ te priyaṃ karavāṇīti . dharmato hi śuśrūṣito'smi bhavatā . tena prītiḥ paraspareṇa nau saṃvṛddhā . tadanujāne bhavantam . sarvāmeva siddhiṃ prāpsyasi . gamyatāmiti . 092 .
स एवमुक्तः प्रत्युवाच । किं ते प्रियं करवाणीति । एवं ह्याहुः । ०९३ ।
sa evamuktaḥ pratyuvāca . kiṃ te priyaṃ karavāṇīti . evaṃ hyāhuḥ . 093 .
यश्चाधर्मेण विब्रूयाद्यश्चाधर्मेण पृच्छति । ०९४ ।
yaścādharmeṇa vibrūyādyaścādharmeṇa pṛcchati . 094 .
तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति । सोऽहमनुज्ञातो भवता इच्छामीष्टं ते गुर्वर्थमुपहर्तुमिति । ०९५ ।
tayoranyataraḥ praiti vidveṣaṃ cādhigacchati . so'hamanujñāto bhavatā icchāmīṣṭaṃ te gurvarthamupahartumiti . 095 .
तेनैवमुक्त उपाध्यायः प्रत्युवाच । वत्सोत्तङ्क उष्यतां तावदिति । ०९६ ।
tenaivamukta upādhyāyaḥ pratyuvāca . vatsottaṅka uṣyatāṃ tāvaditi . 096 .
स कदाचित्तमुपाध्यायमाहोत्तङ्कः । आज्ञापयतु भवान् । किं ते प्रियमुपहरामि गुर्वर्थमिति । ०९७ ।
sa kadācittamupādhyāyamāhottaṅkaḥ . ājñāpayatu bhavān . kiṃ te priyamupaharāmi gurvarthamiti . 097 .
तमुपाध्यायः प्रत्युवाच । वत्सोत्तङ्क बहुशो मां चोदयसि गुर्वर्थमुपहरेयमिति । तद्गच्छ । एनां प्रविश्योपाध्यायिनीं पृच्छ किमुपहरामीति । एषा यद्ब्रवीति तदुपहरस्वेति । ०९८ ।
tamupādhyāyaḥ pratyuvāca . vatsottaṅka bahuśo māṃ codayasi gurvarthamupahareyamiti . tadgaccha . enāṃ praviśyopādhyāyinīṃ pṛccha kimupaharāmīti . eṣā yadbravīti tadupaharasveti . 098 .
स एवमुक्त उपाध्यायेनोपाध्यायिनीमपृच्छत् । भवत्युपाध्यायेनास्म्यनुज्ञातो गृहं गन्तुम् । तदिच्छामीष्टं ते गुर्वर्थमुपहृत्यानृणो गन्तुम् । तदाज्ञापयतु भवती । किमुपहरामि गुर्वर्थमिति । ०९९ ।
sa evamukta upādhyāyenopādhyāyinīmapṛcchat . bhavatyupādhyāyenāsmyanujñāto gṛhaṃ gantum . tadicchāmīṣṭaṃ te gurvarthamupahṛtyānṛṇo gantum . tadājñāpayatu bhavatī . kimupaharāmi gurvarthamiti . 099 .
सैवमुक्तोपाध्यायिन्युत्तङ्कं प्रत्युवाच । गच्छ पौष्यं राजानम् । भिक्षस्व तस्य क्षत्रियया पिनद्धे कुण्डले । ते आनयस्व । इतश्चतुर्थेऽहनि पुण्यकं भविता । ताभ्यामाबद्धाभ्यां ब्राह्मणान्परिवेष्टुमिच्छामि । शोभमाना यथा ताभ्यां कुण्डलाभ्यां तस्मिन्नहनि सम्पादयस्व । श्रेयो हि ते स्यात्क्षणं कुर्वत इति । १०० । 1.3.96
saivamuktopādhyāyinyuttaṅkaṃ pratyuvāca . gaccha pauṣyaṃ rājānam . bhikṣasva tasya kṣatriyayā pinaddhe kuṇḍale . te ānayasva . itaścaturthe'hani puṇyakaṃ bhavitā . tābhyāmābaddhābhyāṃ brāhmaṇānpariveṣṭumicchāmi . śobhamānā yathā tābhyāṃ kuṇḍalābhyāṃ tasminnahani sampādayasva . śreyo hi te syātkṣaṇaṃ kurvata iti . 100 . 1.3.96
स एवमुक्त उपाध्यायिन्या प्रातिष्ठतोत्तङ्कः । स पथि गच्छन्नपश्यदृषभमतिप्रमाणं तमधिरूढं च पुरुषमतिप्रमाणमेव । १०१ ।
sa evamukta upādhyāyinyā prātiṣṭhatottaṅkaḥ . sa pathi gacchannapaśyadṛṣabhamatipramāṇaṃ tamadhirūḍhaṃ ca puruṣamatipramāṇameva . 101 .
स पुरुष उत्तङ्कमभ्यभाषत । उत्तङ्कैतत्पुरीषमस्य ऋषभस्य भक्षयस्वेति । १०२ । स एवमुक्तो नैच्छत् । १०३ ।
sa puruṣa uttaṅkamabhyabhāṣata . uttaṅkaitatpurīṣamasya ṛṣabhasya bhakṣayasveti . 102 . sa evamukto naicchat . 103 .
तमाह पुरुषो भूयः । भक्षयस्वोत्तङ्क । मा विचारय । उपाध्यायेनापि ते भक्षितं पूर्वमिति । १०४ ।
tamāha puruṣo bhūyaḥ . bhakṣayasvottaṅka . mā vicāraya . upādhyāyenāpi te bhakṣitaṃ pūrvamiti . 104 .
स एवमुक्तो बाढमित्युक्त्वा तदा तदृषभस्य पुरीषं मूत्रं च भक्षयित्वोत्तङ्कः प्रतस्थे यत्र स क्षत्रियः पौष्यः । १०५ ।
sa evamukto bāḍhamityuktvā tadā tadṛṣabhasya purīṣaṃ mūtraṃ ca bhakṣayitvottaṅkaḥ pratasthe yatra sa kṣatriyaḥ pauṣyaḥ . 105 .
तमुपेत्यापश्यदुत्तङ्क आसीनम् । स तमुपेत्याशीर्भिरभिनन्द्योवाच । अर्थी भवन्तमुपगतोऽस्मीति । १०६ ।
tamupetyāpaśyaduttaṅka āsīnam . sa tamupetyāśīrbhirabhinandyovāca . arthī bhavantamupagato'smīti . 106 .
स एनमभिवाद्योवाच । भगवन्पौष्यः खल्वहम् । किं करवाणीति । १०७ ।
sa enamabhivādyovāca . bhagavanpauṣyaḥ khalvaham . kiṃ karavāṇīti . 107 .
तमुवाचोत्तङ्कः । गुर्वर्थे कुण्डलाभ्यामर्थ्यागतोऽस्मीति ये ते क्षत्रियया पिनद्धे कुण्डले ते भवान्दातुमर्हतीति । १०८ ।
tamuvācottaṅkaḥ . gurvarthe kuṇḍalābhyāmarthyāgato'smīti ye te kṣatriyayā pinaddhe kuṇḍale te bhavāndātumarhatīti . 108 .
तं पौष्यः प्रत्युवाच । प्रविश्यान्तःपुरं क्षत्रिया याच्यतामिति । १०९ ।
taṃ pauṣyaḥ pratyuvāca . praviśyāntaḥpuraṃ kṣatriyā yācyatāmiti . 109 .
स तेनैवमुक्तः प्रविश्यान्तःपुरं क्षत्रियां नापश्यत् । ११० ।
sa tenaivamuktaḥ praviśyāntaḥpuraṃ kṣatriyāṃ nāpaśyat . 110 .
स पौष्यं पुनरुवाच । न युक्तं भवता वयमनृतेनोपचरितुम् । न हि ते क्षत्रियान्तःपुरे संनिहिता । नैनां पश्यामीति । १११ ।
sa pauṣyaṃ punaruvāca . na yuktaṃ bhavatā vayamanṛtenopacaritum . na hi te kṣatriyāntaḥpure saṃnihitā . naināṃ paśyāmīti . 111 .
स एवमुक्तः पौष्यस्तं प्रत्युवाच । सम्प्रति भवानुच्छिष्टः । स्मर तावत् । न हि सा क्षत्रिया उच्छिष्टेनाशुचिना वा शक्या द्रष्टुम् । पतिव्रतात्वादेषा नाशुचेर्दर्शनमुपैतीति । ११२ ।
sa evamuktaḥ pauṣyastaṃ pratyuvāca . samprati bhavānucchiṣṭaḥ . smara tāvat . na hi sā kṣatriyā ucchiṣṭenāśucinā vā śakyā draṣṭum . pativratātvādeṣā nāśucerdarśanamupaitīti . 112 .
अथैवमुक्त उत्तङ्कः स्मृत्वोवाच । अस्ति खलु मयोच्छिष्टेनोपस्पृष्टं शीघ्रं गच्छता चेति । ११३ ।
athaivamukta uttaṅkaḥ smṛtvovāca . asti khalu mayocchiṣṭenopaspṛṣṭaṃ śīghraṃ gacchatā ceti . 113 .
तं पौष्यः प्रत्युवाच । एतत्तदेवं हि । न गच्छतोपस्पृष्टं भवति न स्थितेनेति । ११४ ।
taṃ pauṣyaḥ pratyuvāca . etattadevaṃ hi . na gacchatopaspṛṣṭaṃ bhavati na sthiteneti . 114 .
अथोत्तङ्कस्तथेत्युक्त्वा प्राङ्मुख उपविश्य सुप्रक्षालितपाणिपादवदनोऽशब्दाभिर् हृदयङ्गमाभिरद्भिरुपस्पृश्य त्रिः पीत्वा द्विः परिमृज्य खान्यद्भिरुपस्पृश्यान्तःपुरं प्रविश्य तां क्षत्रियामपश्यत् । ११५ ।
athottaṅkastathetyuktvā prāṅmukha upaviśya suprakṣālitapāṇipādavadano'śabdābhir hṛdayaṅgamābhiradbhirupaspṛśya triḥ pītvā dviḥ parimṛjya khānyadbhirupaspṛśyāntaḥpuraṃ praviśya tāṃ kṣatriyāmapaśyat . 115 .
सा च दृष्ट्वैवोत्तङ्कमभ्युत्थायाभिवाद्योवाच । स्वागतं ते भगवन् । आज्ञापय किं करवाणीति । ११६ ।
sā ca dṛṣṭvaivottaṅkamabhyutthāyābhivādyovāca . svāgataṃ te bhagavan . ājñāpaya kiṃ karavāṇīti . 116 .
स तामुवाच । एते कुण्डले गुर्वर्थं मे भिक्षिते दातुमर्हसीति । ११७ ।
sa tāmuvāca . ete kuṇḍale gurvarthaṃ me bhikṣite dātumarhasīti . 117 .
सा प्रीता तेन तस्य सद्भावेन पात्रमयमनतिक्रमणीयश्चेति मत्वा ते कुण्डले अवमुच्यास्मै प्रायच्छत् । ११८ ।
sā prītā tena tasya sadbhāvena pātramayamanatikramaṇīyaśceti matvā te kuṇḍale avamucyāsmai prāyacchat . 118 .
आह चैनम् । एते कुण्डले तक्षको नागराजः प्रार्थयति । अप्रमत्तो नेतुमर्हसीति । ११९ ।
āha cainam . ete kuṇḍale takṣako nāgarājaḥ prārthayati . apramatto netumarhasīti . 119 .
स एवमुक्तस्तां क्षत्रियां प्रत्युवाच । भवति सुनिर्वृता भव । न मां शक्तस्तक्षको नागराजो धर्षयितुमिति । १२० ।
sa evamuktastāṃ kṣatriyāṃ pratyuvāca . bhavati sunirvṛtā bhava . na māṃ śaktastakṣako nāgarājo dharṣayitumiti . 120 .
स एवमुक्त्वा तां क्षत्रियामामन्त्र्य पौष्यसकाशमागच्छत् । १२१ ।
sa evamuktvā tāṃ kṣatriyāmāmantrya pauṣyasakāśamāgacchat . 121 .
स तं दृष्ट्वोवाच । भोः पौष्य प्रीतोऽस्मीति । १२२ ।
sa taṃ dṛṣṭvovāca . bhoḥ pauṣya prīto'smīti . 122 .
तं पौष्यः प्रत्युवाच । भगवंश्चिरस्य पात्रमासाद्यते । भवांश्च गुणवानतिथिः । तत्करिष्ये श्राद्धम् । क्षणः क्रियतामिति । १२३ ।
taṃ pauṣyaḥ pratyuvāca . bhagavaṃścirasya pātramāsādyate . bhavāṃśca guṇavānatithiḥ . tatkariṣye śrāddham . kṣaṇaḥ kriyatāmiti . 123 .
तमुत्तङ्कः प्रत्युवाच । कृतक्षण एवास्मि । शीघ्रमिच्छामि यथोपपन्नमन्नमुपहृतं भवतेति । १२४ ।
tamuttaṅkaḥ pratyuvāca . kṛtakṣaṇa evāsmi . śīghramicchāmi yathopapannamannamupahṛtaṃ bhavateti . 124 .
स तथेत्युक्त्वा यथोपपन्नेनान्नेनैनं भोजयामास । १२५ ।
sa tathetyuktvā yathopapannenānnenainaṃ bhojayāmāsa . 125 .
अथोत्तङ्कः शीतमन्नं सकेशं दृष्ट्वा अशुच्येतदिति मत्वा पौष्यमुवाच । यस्मान्मे अशुच्यन्नं ददासि तस्मदन्धो भविष्यसीति । १२६ ।
athottaṅkaḥ śītamannaṃ sakeśaṃ dṛṣṭvā aśucyetaditi matvā pauṣyamuvāca . yasmānme aśucyannaṃ dadāsi tasmadandho bhaviṣyasīti . 126 .
तं पौष्यः प्रत्युवाच । यस्मात्त्वमप्यदुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति । १२७ ।
taṃ pauṣyaḥ pratyuvāca . yasmāttvamapyaduṣṭamannaṃ dūṣayasi tasmādanapatyo bhaviṣyasīti . 127 .
सोऽथ पौष्यस्तस्याशुचिभावमन्नस्यागमयामास । १२८ ।
so'tha pauṣyastasyāśucibhāvamannasyāgamayāmāsa . 128 .
अथ तदन्नं मुक्तकेश्या स्त्रियोपहृतं सकेशमशुचि मत्वोत्तङ्कं प्रसादयामास । भगवन्नज्ञानादेतदन्नं सकेशमुपहृतं शीतं च । तत्क्षामये भवन्तम् । न भवेयमन्ध इति । १२९ ।
atha tadannaṃ muktakeśyā striyopahṛtaṃ sakeśamaśuci matvottaṅkaṃ prasādayāmāsa . bhagavannajñānādetadannaṃ sakeśamupahṛtaṃ śītaṃ ca . tatkṣāmaye bhavantam . na bhaveyamandha iti . 129 .
तमुत्तङ्कः प्रत्युवाच । न मृषा ब्रवीमि । भूत्वा त्वमन्धो नचिरादनन्धो भविष्यसीति । ममापि शापो न भवेद्भवता दत्त इति । १३० ।
tamuttaṅkaḥ pratyuvāca . na mṛṣā bravīmi . bhūtvā tvamandho nacirādanandho bhaviṣyasīti . mamāpi śāpo na bhavedbhavatā datta iti . 130 .
तं पौष्यः प्रत्युवाच । नाहं शक्तः शापं प्रत्यादातुम् । न हि मे मन्युरद्याप्युपशमं गच्छति । किं चैतद्भवता न ज्ञायते यथा । १३१ ।
taṃ pauṣyaḥ pratyuvāca . nāhaṃ śaktaḥ śāpaṃ pratyādātum . na hi me manyuradyāpyupaśamaṃ gacchati . kiṃ caitadbhavatā na jñāyate yathā . 131 .
नावनीतं हृदयं ब्राह्मणस्य; वाचि क्षुरो निहितस्तीक्ष्णधारः । विपरीतमेतदुभयं क्षत्रियस्य; वाङ्नावनीती हृदयं तीक्ष्णधारम् ॥१३२॥
nāvanītaṃ hṛdayaṃ brāhmaṇasya; vāci kṣuro nihitastīkṣṇadhāraḥ . viparītametadubhayaṃ kṣatriyasya; vāṅnāvanītī hṛdayaṃ tīkṣṇadhāram ..132..
तदेवं गते न शक्तोऽहं तीक्ष्णहृदयत्वात्तं शापमन्यथा कर्तुम् । गम्यतामिति । १३३ ।
tadevaṃ gate na śakto'haṃ tīkṣṇahṛdayatvāttaṃ śāpamanyathā kartum . gamyatāmiti . 133 .
तमुत्तङ्कः प्रत्युवाच । भवताहमन्नस्याशुचिभावमागमय्य प्रत्यनुनीतः । प्राक्च तेऽभिहितम् । यस्माददुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति । दुष्टे चान्ने नैष मम शापो भविष्यतीति । १३४ ।
tamuttaṅkaḥ pratyuvāca . bhavatāhamannasyāśucibhāvamāgamayya pratyanunītaḥ . prākca te'bhihitam . yasmādaduṣṭamannaṃ dūṣayasi tasmādanapatyo bhaviṣyasīti . duṣṭe cānne naiṣa mama śāpo bhaviṣyatīti . 134 .
सोऽपश्यत्पथि नग्नं श्रमणमागच्छन्तं मुहुर्मुहुर्दृश्यमानमदृश्यमानं च । अथोत्तङ्कस्ते कुण्डले भूमौ निक्षिप्योदकार्थं प्रचक्रमे । १३६ ।
so'paśyatpathi nagnaṃ śramaṇamāgacchantaṃ muhurmuhurdṛśyamānamadṛśyamānaṃ ca . athottaṅkaste kuṇḍale bhūmau nikṣipyodakārthaṃ pracakrame . 136 .
एतस्मिन्नन्तरे स श्रमणस्त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत् । तमुत्तङ्कोऽभिसृत्य जग्राह । स तद्रूपं विहाय तक्षकरूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं विवेश । १३७ ।
etasminnantare sa śramaṇastvaramāṇa upasṛtya te kuṇḍale gṛhītvā prādravat . tamuttaṅko'bhisṛtya jagrāha . sa tadrūpaṃ vihāya takṣakarūpaṃ kṛtvā sahasā dharaṇyāṃ vivṛtaṃ mahābilaṃ viveśa . 137 .
प्रविश्य च नागलोकं स्वभवनमगच्छत् । तमुत्तङ्कोऽन्वाविवेश तेनैव बिलेन । प्रविश्य च नागानस्तुवदेभिः श्लोकैः । १३८ ।
praviśya ca nāgalokaṃ svabhavanamagacchat . tamuttaṅko'nvāviveśa tenaiva bilena . praviśya ca nāgānastuvadebhiḥ ślokaiḥ . 138 .
य ऐरावतराजानः सर्पाः समितिशोभनाः । वर्षन्त इव जीमूताः सविद्युत्पवनेरिताः ॥१३९॥
ya airāvatarājānaḥ sarpāḥ samitiśobhanāḥ . varṣanta iva jīmūtāḥ savidyutpavaneritāḥ ..139..
सुरूपाश्च विरूपाश्च तथा कल्माषकुण्डलाः । आदित्यवन्नाकपृष्ठे रेजुरैरावतोद्भवाः ॥१४०॥
surūpāśca virūpāśca tathā kalmāṣakuṇḍalāḥ . ādityavannākapṛṣṭhe rejurairāvatodbhavāḥ ..140..
बहूनि नागवर्त्मानि गङ्गायास्तीर उत्तरे । इच्छेत्कोऽर्कांशुसेनायां चर्तुमैरावतं विना ॥१४१॥
bahūni nāgavartmāni gaṅgāyāstīra uttare . icchetko'rkāṃśusenāyāṃ cartumairāvataṃ vinā ..141..
शतान्यशीतिरष्टौ च सहस्राणि च विंशतिः । सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रो यदेजति ॥१४२॥
śatānyaśītiraṣṭau ca sahasrāṇi ca viṃśatiḥ . sarpāṇāṃ pragrahā yānti dhṛtarāṣṭro yadejati ..142..
ये चैनमुपसर्पन्ति ये च दूरं परं गताः । अहमैरावतज्येष्ठभ्रातृभ्योऽकरवं नमः ॥१४३॥
ye cainamupasarpanti ye ca dūraṃ paraṃ gatāḥ . ahamairāvatajyeṣṭhabhrātṛbhyo'karavaṃ namaḥ ..143..
यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत्सदा । तं काद्रवेयमस्तौषं कुण्डलार्थाय तक्षकम् ॥१४४॥
yasya vāsaḥ kurukṣetre khāṇḍave cābhavatsadā . taṃ kādraveyamastauṣaṃ kuṇḍalārthāya takṣakam ..144..
तक्षकश्चाश्वसेनश्च नित्यं सहचरावुभौ । कुरुक्षेत्रे निवसतां नदीमिक्षुमतीमनु ॥१४५॥
takṣakaścāśvasenaśca nityaṃ sahacarāvubhau . kurukṣetre nivasatāṃ nadīmikṣumatīmanu ..145..
जघन्यजस्तक्षकस्य श्रुतसेनेति यः श्रुतः । अवसद्यो महद्द्युम्नि प्रार्थयन्नागमुख्यताम् ॥१४६॥
jaghanyajastakṣakasya śrutaseneti yaḥ śrutaḥ . avasadyo mahaddyumni prārthayannāgamukhyatām ..146..
करवाणि सदा चाहं नमस्तस्मै महात्मने ॥१४६॥
karavāṇi sadā cāhaṃ namastasmai mahātmane ..146..
एवं स्तुवन्नपि नागान्यदा ते कुण्डले नालभदथापश्यत्स्त्रियौ तन्त्रे अधिरोप्य पटं वयन्त्यौ । १४७ ।
evaṃ stuvannapi nāgānyadā te kuṇḍale nālabhadathāpaśyatstriyau tantre adhiropya paṭaṃ vayantyau . 147 .
तस्मिंश्च तन्त्रे कृष्णाः सिताश्च तन्तवः । चक्रं चापश्यत्षड्भिः कुमारैः परिवर्त्यमानम् । पुरुषं चापश्यद्दर्शनीयम् । १४८ ।
tasmiṃśca tantre kṛṣṇāḥ sitāśca tantavaḥ . cakraṃ cāpaśyatṣaḍbhiḥ kumāraiḥ parivartyamānam . puruṣaṃ cāpaśyaddarśanīyam . 148 .
स तान्सर्वांस्तुष्टाव एभिर्मन्त्रवादश्लोकैः । १४९ ।
sa tānsarvāṃstuṣṭāva ebhirmantravādaślokaiḥ . 149 .
त्रीण्यर्पितान्यत्र शतानि मध्ये; षष्टिश्च नित्यं चरति ध्रुवेऽस्मिन् । चक्रे चतुर्विंशतिपर्वयोगे; षड्यत्कुमाराः परिवर्तयन्ति ॥१५०॥ 1.3.146
trīṇyarpitānyatra śatāni madhye; ṣaṣṭiśca nityaṃ carati dhruve'smin . cakre caturviṃśatiparvayoge; ṣaḍyatkumārāḥ parivartayanti ..150.. 1.3.146
तन्त्रं चेदं विश्वरूपं युवत्यौ; वयतस्तन्तून्सततं वर्तयन्त्यौ । कृष्णान्सितांश्चैव विवर्तयन्त्यौ; भूतान्यजस्रं भुवनानि चैव ॥१५१॥
tantraṃ cedaṃ viśvarūpaṃ yuvatyau; vayatastantūnsatataṃ vartayantyau . kṛṣṇānsitāṃścaiva vivartayantyau; bhūtānyajasraṃ bhuvanāni caiva ..151..
वज्रस्य भर्ता भुवनस्य गोप्ता; वृत्रस्य हन्ता नमुचेर्निहन्ता । कृष्णे वसानो वसने महात्मा; सत्यानृते यो विविनक्ति लोके ॥१५२॥
vajrasya bhartā bhuvanasya goptā; vṛtrasya hantā namucernihantā . kṛṣṇe vasāno vasane mahātmā; satyānṛte yo vivinakti loke ..152..
यो वाजिनं गर्भमपां पुराणं; वैश्वानरं वाहनमभ्युपेतः । नमः सदास्मै जगदीश्वराय; लोकत्रयेशाय पुरंदराय ॥१५३॥
yo vājinaṃ garbhamapāṃ purāṇaṃ; vaiśvānaraṃ vāhanamabhyupetaḥ . namaḥ sadāsmai jagadīśvarāya; lokatrayeśāya puraṃdarāya ..153..
ततः स एनं पुरुषः प्राह । प्रीतोऽस्मि तेऽहमनेन स्तोत्रेण । किं ते प्रियं करवाणीति । १५४ ।
tataḥ sa enaṃ puruṣaḥ prāha . prīto'smi te'hamanena stotreṇa . kiṃ te priyaṃ karavāṇīti . 154 .
स तमुवाच । नागा मे वशमीयुरिति । १५५ ।
sa tamuvāca . nāgā me vaśamīyuriti . 155 .
स एनं पुरुषः पुनरुवाच । एतमश्वमपाने धमस्वेति । १५६ ।
sa enaṃ puruṣaḥ punaruvāca . etamaśvamapāne dhamasveti . 156 .
स तमश्वमपानेऽधमत् । अथाश्वाद्धम्यमानात्सर्वस्रोतोभ्यः सधूमा अर्चिषोऽग्नेर्निष्पेतुः । १५७ ।
sa tamaśvamapāne'dhamat . athāśvāddhamyamānātsarvasrotobhyaḥ sadhūmā arciṣo'gnerniṣpetuḥ . 157 .
ताभिर्नागलोको धूपितः । १५८ ।
tābhirnāgaloko dhūpitaḥ . 158 .
अथ ससम्भ्रमस्तक्षकोऽग्नितेजोभयविषण्णस्ते कुण्डले गृहीत्वा सहसा स्वभवनान्निष्क्रम्योत्तङ्कमुवाच । एते कुण्डले प्रतिगृह्णातु भवानिति ॥ १५९ - र ॥
atha sasambhramastakṣako'gnitejobhayaviṣaṇṇaste kuṇḍale gṛhītvā sahasā svabhavanānniṣkramyottaṅkamuvāca . ete kuṇḍale pratigṛhṇātu bhavāniti .. 159 - ra ..
एते कुण्डले प्रतिगृह्णातु भवानिति । १५९ ।
ete kuṇḍale pratigṛhṇātu bhavāniti . 159 .
स ते प्रतिजग्राहोत्तङ्कः । कुण्डले प्रतिगृह्याचिन्तयत् । अद्य तत्पुण्यकमुपाध्यायिन्याः । दूरं चाहमभ्यागतः । कथं नु खलु सम्भावयेयमिति । १६० ।
sa te pratijagrāhottaṅkaḥ . kuṇḍale pratigṛhyācintayat . adya tatpuṇyakamupādhyāyinyāḥ . dūraṃ cāhamabhyāgataḥ . kathaṃ nu khalu sambhāvayeyamiti . 160 .
तत एनं चिन्तयानमेव स पुरुष उवाच । उत्तङ्क एनमश्वमधिरोह । एष त्वां क्षणादेवोपाध्यायकुलं प्रापयिष्यतीति । १६१ ।
tata enaṃ cintayānameva sa puruṣa uvāca . uttaṅka enamaśvamadhiroha . eṣa tvāṃ kṣaṇādevopādhyāyakulaṃ prāpayiṣyatīti . 161 .
स तथेत्युक्त्वा तमश्वमधिरुह्य प्रत्याजगामोपाध्यायकुलम् । उपाध्यायिनी च स्नाता केशानावपयन्त्युपविष्टोत्तङ्को नागच्छतीति शापायास्य मनो दधे । १६२ ।
sa tathetyuktvā tamaśvamadhiruhya pratyājagāmopādhyāyakulam . upādhyāyinī ca snātā keśānāvapayantyupaviṣṭottaṅko nāgacchatīti śāpāyāsya mano dadhe . 162 .
अथोत्तङ्कः प्रविश्य उपाध्यायिनीमभ्यवादयत् । ते चास्यै कुण्डले प्रायच्छत् । १६३ ।
athottaṅkaḥ praviśya upādhyāyinīmabhyavādayat . te cāsyai kuṇḍale prāyacchat . 163 .
सा चैनं प्रत्युवाच । उत्तङ्क देशे कालेऽभ्यागतः । स्वागतं ते वत्स । मनागसि मया न शप्तः । श्रेयस्तवोपस्थितम् । सिद्धिमाप्नुहीति । १६४ ।
sā cainaṃ pratyuvāca . uttaṅka deśe kāle'bhyāgataḥ . svāgataṃ te vatsa . manāgasi mayā na śaptaḥ . śreyastavopasthitam . siddhimāpnuhīti . 164 .
अथोत्तङ्क उपाध्यायमभ्यवादयत् । तमुपाध्यायः प्रत्युवाच । वत्सोत्तङ्क स्वागतं ते । किं चिरं कृतमिति । १६५ ।
athottaṅka upādhyāyamabhyavādayat . tamupādhyāyaḥ pratyuvāca . vatsottaṅka svāgataṃ te . kiṃ ciraṃ kṛtamiti . 165 .
तमुत्तङ्क उपाध्यायं प्रत्युवाच । भोस्तक्षकेण नागराजेन विघ्नः कृतोऽस्मिन्कर्मणि । तेनास्मि नागलोकं नीतः । १६६ ।
tamuttaṅka upādhyāyaṃ pratyuvāca . bhostakṣakeṇa nāgarājena vighnaḥ kṛto'sminkarmaṇi . tenāsmi nāgalokaṃ nītaḥ . 166 .
तत्र च मया दृष्टे स्त्रियौ तन्त्रेऽधिरोप्य पटं वयन्त्यौ । तस्मिंश्च तन्त्रे कृष्णाः सिताश्च तन्तवः । किं तत् । १६७ ।
tatra ca mayā dṛṣṭe striyau tantre'dhiropya paṭaṃ vayantyau . tasmiṃśca tantre kṛṣṇāḥ sitāśca tantavaḥ . kiṃ tat . 167 .
तत्र च मया चक्रं दृष्टं द्वादशारम् । षट्चैनं कुमाराः परिवर्तयन्ति । तदपि किम् । १६८ ।
tatra ca mayā cakraṃ dṛṣṭaṃ dvādaśāram . ṣaṭcainaṃ kumārāḥ parivartayanti . tadapi kim . 168 .
पुरुषश्चापि मया दृष्टः । स पुनः कः । १६९ ।
puruṣaścāpi mayā dṛṣṭaḥ . sa punaḥ kaḥ . 169 .
अश्वश्चातिप्रमाणयुक्तः । स चापि कः । १७० ।
aśvaścātipramāṇayuktaḥ . sa cāpi kaḥ . 170 .
पथि गच्छता मया ऋषभो दृष्टः । तं च पुरुषोऽधिरूढः । तेनास्मि सोपचारमुक्तः । उत्तङ्कास्य ऋषभस्य पुरीषं भक्षय । उपाध्यायेनापि ते भक्षितमिति । ततस्तद्वचनान्मया तदृषभस्य पुरीषमुपयुक्तम् । तदिच्छामि भवतोपदिष्टं किं तदिति । १७१ ।
pathi gacchatā mayā ṛṣabho dṛṣṭaḥ . taṃ ca puruṣo'dhirūḍhaḥ . tenāsmi sopacāramuktaḥ . uttaṅkāsya ṛṣabhasya purīṣaṃ bhakṣaya . upādhyāyenāpi te bhakṣitamiti . tatastadvacanānmayā tadṛṣabhasya purīṣamupayuktam . tadicchāmi bhavatopadiṣṭaṃ kiṃ taditi . 171 .
तेनैवमुक्त उपाध्यायः प्रत्युवाच । ये ते स्त्रियौ धाता विधाता च । ये च ते कृष्णाः सिताश्च तन्तवस्ते रात्र्यहनी । १७२ ।
tenaivamukta upādhyāyaḥ pratyuvāca . ye te striyau dhātā vidhātā ca . ye ca te kṛṣṇāḥ sitāśca tantavaste rātryahanī . 172 .
यदपि तच्चक्रं द्वादशारं षट्कुमाराः परिवर्तयन्ति ते ऋतवः षट्संवत्सरश्चक्रम् । यः पुरुषः स पर्जन्यः । योऽश्वः सोऽग्निः । १७३ ।
yadapi taccakraṃ dvādaśāraṃ ṣaṭkumārāḥ parivartayanti te ṛtavaḥ ṣaṭsaṃvatsaraścakram . yaḥ puruṣaḥ sa parjanyaḥ . yo'śvaḥ so'gniḥ . 173 .
य ऋषभस्त्वया पथि गच्छता दृष्टः स ऐरावतो नागराजः । यश्चैनमधिरूढः स इन्द्रः । यदपि ते पुरीषं भक्षितं तस्य ऋषभस्य तदमृतम् । १७४ ।
ya ṛṣabhastvayā pathi gacchatā dṛṣṭaḥ sa airāvato nāgarājaḥ . yaścainamadhirūḍhaḥ sa indraḥ . yadapi te purīṣaṃ bhakṣitaṃ tasya ṛṣabhasya tadamṛtam . 174 .
तेन खल्वसि न व्यापन्नस्तस्मिन्नागभवने । स चापि मम सखा इन्द्रः । १७५ ।
tena khalvasi na vyāpannastasminnāgabhavane . sa cāpi mama sakhā indraḥ . 175 .
तदनुग्रहात्कुण्डले गृहीत्वा पुनरभ्यागतोऽसि । तत्सौम्य गम्यताम् । अनुजाने भवन्तम् । श्रेयोऽवाप्स्यसीति । १७६ ।
tadanugrahātkuṇḍale gṛhītvā punarabhyāgato'si . tatsaumya gamyatām . anujāne bhavantam . śreyo'vāpsyasīti . 176 .
स उपाध्यायेनानुज्ञात उत्तङ्कः क्रुद्धस्तक्षकस्य प्रतिचिकीर्षमाणो हास्तिनपुरं प्रतस्थे । १७७ ।
sa upādhyāyenānujñāta uttaṅkaḥ kruddhastakṣakasya praticikīrṣamāṇo hāstinapuraṃ pratasthe . 177 .
स हास्तिनपुरं प्राप्य नचिराद्द्विजसत्तमः । समागच्छत राजानमुत्तङ्को जनमेजयम् ॥१७८॥
sa hāstinapuraṃ prāpya nacirāddvijasattamaḥ . samāgacchata rājānamuttaṅko janamejayam ..178..
पुरा तक्षशिलातस्तं निवृत्तमपराजितम् । सम्यग्विजयिनं दृष्ट्वा समन्तान्मन्त्रिभिर्वृतम् ॥१७९॥
purā takṣaśilātastaṃ nivṛttamaparājitam . samyagvijayinaṃ dṛṣṭvā samantānmantribhirvṛtam ..179..
तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः । उवाचैनं वचः काले शब्दसम्पन्नया गिरा ॥१८०॥
tasmai jayāśiṣaḥ pūrvaṃ yathānyāyaṃ prayujya saḥ . uvācainaṃ vacaḥ kāle śabdasampannayā girā ..180..
अन्यस्मिन्करणीये त्वं कार्ये पार्थिवसत्तम । बाल्यादिवान्यदेव त्वं कुरुषे नृपसत्तम ॥१८१॥
anyasminkaraṇīye tvaṃ kārye pārthivasattama . bālyādivānyadeva tvaṃ kuruṣe nṛpasattama ..181..
एवमुक्तस्तु विप्रेण स राजा प्रत्युवाच ह । जनमेजयः प्रसन्नात्मा सम्यक्सम्पूज्य तं मुनिम् ॥१८२॥
evamuktastu vipreṇa sa rājā pratyuvāca ha . janamejayaḥ prasannātmā samyaksampūjya taṃ munim ..182..
आसां प्रजानां परिपालनेन; स्वं क्षत्रधर्मं परिपालयामि । प्रब्रूहि वा किं क्रियतां द्विजेन्द्र; शुश्रूषुरस्म्यद्य वचस्त्वदीयम् ॥१८३॥
āsāṃ prajānāṃ paripālanena; svaṃ kṣatradharmaṃ paripālayāmi . prabrūhi vā kiṃ kriyatāṃ dvijendra; śuśrūṣurasmyadya vacastvadīyam ..183..
स एवमुक्तस्तु नृपोत्तमेन; द्विजोत्तमः पुण्यकृतां वरिष्ठः । उवाच राजानमदीनसत्त्वं; स्वमेव कार्यं नृपतेश्च यत्तत् ॥१८४॥
sa evamuktastu nṛpottamena; dvijottamaḥ puṇyakṛtāṃ variṣṭhaḥ . uvāca rājānamadīnasattvaṃ; svameva kāryaṃ nṛpateśca yattat ..184..
तक्षकेण नरेन्द्रेन्द्र येन ते हिंसितः पिता । तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने ॥१८५॥
takṣakeṇa narendrendra yena te hiṃsitaḥ pitā . tasmai pratikuruṣva tvaṃ pannagāya durātmane ..185..
कार्यकालं च मन्येऽहं विधिदृष्टस्य कर्मणः । तद्गच्छापचितिं राजन्पितुस्तस्य महात्मनः ॥१८६॥
kāryakālaṃ ca manye'haṃ vidhidṛṣṭasya karmaṇaḥ . tadgacchāpacitiṃ rājanpitustasya mahātmanaḥ ..186..
तेन ह्यनपराधी स दष्टो दुष्टान्तरात्मना । पञ्चत्वमगमद्राजा वज्राहत इव द्रुमः ॥१८७॥
tena hyanaparādhī sa daṣṭo duṣṭāntarātmanā . pañcatvamagamadrājā vajrāhata iva drumaḥ ..187..
बलदर्पसमुत्सिक्तस्तक्षकः पन्नगाधमः । अकार्यं कृतवान्पापो योऽदशत्पितरं तव ॥१८८॥
baladarpasamutsiktastakṣakaḥ pannagādhamaḥ . akāryaṃ kṛtavānpāpo yo'daśatpitaraṃ tava ..188..
राजर्षिवंशगोप्तारममरप्रतिमं नृपम् । जघान काश्यपं चैव न्यवर्तयत पापकृत् ॥१८९॥
rājarṣivaṃśagoptāramamarapratimaṃ nṛpam . jaghāna kāśyapaṃ caiva nyavartayata pāpakṛt ..189..
दग्धुमर्हसि तं पापं ज्वलिते हव्यवाहने । सर्पसत्रे महाराज त्वयि तद्धि विधीयते ॥१९०॥
dagdhumarhasi taṃ pāpaṃ jvalite havyavāhane . sarpasatre mahārāja tvayi taddhi vidhīyate ..190..
एवं पितुश्चापचितिं गतवांस्त्वं भविष्यसि । मम प्रियं च सुमहत्कृतं राजन्भविष्यति ॥१९१॥
evaṃ pituścāpacitiṃ gatavāṃstvaṃ bhaviṣyasi . mama priyaṃ ca sumahatkṛtaṃ rājanbhaviṣyati ..191..
कर्मणः पृथिवीपाल मम येन दुरात्मना । विघ्नः कृतो महाराज गुर्वर्थं चरतोऽनघ ॥१९२॥
karmaṇaḥ pṛthivīpāla mama yena durātmanā . vighnaḥ kṛto mahārāja gurvarthaṃ carato'nagha ..192..
एतच्छ्रुत्वा तु नृपतिस्तक्षकस्य चुकोप ह । उत्तङ्कवाक्यहविषा दीप्तोऽग्निर्हविषा यथा ॥१९३॥
etacchrutvā tu nṛpatistakṣakasya cukopa ha . uttaṅkavākyahaviṣā dīpto'gnirhaviṣā yathā ..193..
अपृच्छच्च तदा राजा मन्त्रिणः स्वान्सुदुःखितः । उत्तङ्कस्यैव सांनिध्ये पितुः स्वर्गगतिं प्रति ॥१९४॥
apṛcchacca tadā rājā mantriṇaḥ svānsuduḥkhitaḥ . uttaṅkasyaiva sāṃnidhye pituḥ svargagatiṃ prati ..194..
तदैव हि स राजेन्द्रो दुःखशोकाप्लुतोऽभवत् । यदैव पितरं वृत्तमुत्तङ्कादशृणोत्तदा ॥१९५॥ 1.3.188
tadaiva hi sa rājendro duḥkhaśokāpluto'bhavat . yadaiva pitaraṃ vṛttamuttaṅkādaśṛṇottadā ..195.. 1.3.188

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In