| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

गरुड उवाच॥
सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरंदर । बलं तु मम जानीहि महच्चासह्यमेव च ॥१॥
सख्यम् मे अस्तु त्वया देव यथा इच्छसि पुरंदर । बलम् तु मम जानीहि महत् च असह्यम् एव च ॥१॥
sakhyam me astu tvayā deva yathā icchasi puraṃdara . balam tu mama jānīhi mahat ca asahyam eva ca ..1..
कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम् । गुणसङ्कीर्तनं चापि स्वयमेव शतक्रतो ॥२॥
कामम् न एतत् प्रशंसन्ति सन्तः स्व-बल-संस्तवम् । गुण-सङ्कीर्तनम् च अपि स्वयम् एव शतक्रतो ॥२॥
kāmam na etat praśaṃsanti santaḥ sva-bala-saṃstavam . guṇa-saṅkīrtanam ca api svayam eva śatakrato ..2..
सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया । न ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः ॥३॥
सखा इति कृत्वा तु सखे पृष्टः वक्ष्यामि अहम् त्वया । न हि आत्म-स्तव-संयुक्तम् वक्तव्यम् अनिमित्ततः ॥३॥
sakhā iti kṛtvā tu sakhe pṛṣṭaḥ vakṣyāmi aham tvayā . na hi ātma-stava-saṃyuktam vaktavyam animittataḥ ..3..
सपर्वतवनामुर्वीं ससागरवनामिमाम् । पक्षनाड्यैकया शक्र त्वां चैवात्रावलम्बिनम् ॥४॥
स पर्वत-वनाम् उर्वीम् स सागर-वनाम् इमाम् । पक्षनाड्या एकया शक्र त्वाम् च एव अत्र अवलम्बिनम् ॥४॥
sa parvata-vanām urvīm sa sāgara-vanām imām . pakṣanāḍyā ekayā śakra tvām ca eva atra avalambinam ..4..
सर्वान्सम्पिण्डितान्वापि लोकान्सस्थाणुजङ्गमान् । वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम् ॥५॥
सर्वान् सम्पिण्डितान् वा अपि लोकान् स स्थाणु-जङ्गमान् । वहेयम् अपरिश्रान्तः विद्धि इदम् मे महत् बलम् ॥५॥
sarvān sampiṇḍitān vā api lokān sa sthāṇu-jaṅgamān . vaheyam apariśrāntaḥ viddhi idam me mahat balam ..5..
सूत उवाच॥
इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः । आह शौनक देवेन्द्रः सर्वभूतहितः प्रभुः ॥६॥
इति उक्त-वचनम् वीरम् किरीटी श्रीमताम् वरः । आह शौनक देव-इन्द्रः सर्व-भूत-हितः प्रभुः ॥६॥
iti ukta-vacanam vīram kirīṭī śrīmatām varaḥ . āha śaunaka deva-indraḥ sarva-bhūta-hitaḥ prabhuḥ ..6..
प्रतिगृह्यतामिदानीं मे सख्यमानन्त्यमुत्तमम् । न कार्यं तव सोमेन मम सोमः प्रदीयताम् ॥७॥ ( अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम् ॥७॥ )
प्रतिगृह्यताम् इदानीम् मे सख्यम् आनन्त्यम् उत्तमम् । न कार्यम् तव सोमेन मम सोमः प्रदीयताम् ॥७॥ ( अस्मान् ते हि प्रबाधेयुः येभ्यः दद्यात् भवान् इमम् ॥७॥ )
pratigṛhyatām idānīm me sakhyam ānantyam uttamam . na kāryam tava somena mama somaḥ pradīyatām ..7.. ( asmān te hi prabādheyuḥ yebhyaḥ dadyāt bhavān imam ..7.. )
गरुड उवाच॥
किञ्चित्कारणमुद्दिश्य सोमोऽयं नीयते मया । न दास्यामि समादातुं सोमं कस्मैचिदप्यहम् ॥८॥
किञ्चिद् कारणम् उद्दिश्य सोमः अयम् नीयते मया । न दास्यामि समादातुम् सोमम् कस्मैचिद् अपि अहम् ॥८॥
kiñcid kāraṇam uddiśya somaḥ ayam nīyate mayā . na dāsyāmi samādātum somam kasmaicid api aham ..8..
यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम् । त्वमादाय ततस्तूर्णं हरेथास्त्रिदशेश्वर ॥९॥
यत्र इमम् तु सहस्राक्ष निक्षिपेयम् अहम् स्वयम् । त्वम् आदाय ततस् तूर्णम् हरेथाः त्रिदशेश्वर ॥९॥
yatra imam tu sahasrākṣa nikṣipeyam aham svayam . tvam ādāya tatas tūrṇam harethāḥ tridaśeśvara ..9..
शक्र उवाच॥
वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डज । यदिच्छसि वरं मत्तस्तद्गृहाण खगोत्तम ॥१०॥
वाक्येन अनेन तुष्टः अहम् यत् त्वया उक्तम् इह अण्डज । यत् इच्छसि वरम् मत्तः तत् गृहाण खग-उत्तम ॥१०॥
vākyena anena tuṣṭaḥ aham yat tvayā uktam iha aṇḍaja . yat icchasi varam mattaḥ tat gṛhāṇa khaga-uttama ..10..
सूत उवाच॥
इत्युक्तः प्रत्युवाचेदं कद्रूपुत्राननुस्मरन् । स्मृत्वा चैवोपधिकृतं मातुर्दास्यनिमित्ततः ॥११॥
इति उक्तः प्रत्युवाच इदम् कद्रू-पुत्रान् अनुस्मरन् । स्मृत्वा च एव उपधि-कृतम् मातुः दास्य-निमित्ततः ॥११॥
iti uktaḥ pratyuvāca idam kadrū-putrān anusmaran . smṛtvā ca eva upadhi-kṛtam mātuḥ dāsya-nimittataḥ ..11..
ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम् । भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः ॥१२॥
ईशः अहम् अपि सर्वस्य करिष्यामि तु ते अर्थिताम् । भवेयुः भुजगाः शक्र मम भक्ष्याः महा-बलाः ॥१२॥
īśaḥ aham api sarvasya kariṣyāmi tu te arthitām . bhaveyuḥ bhujagāḥ śakra mama bhakṣyāḥ mahā-balāḥ ..12..
तथेत्युक्त्वान्वगच्छत्तं ततो दानवसूदनः । हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम् ॥१३॥
तथा इति उक्त्वा अन्वगच्छत् तम् ततस् दानव-सूदनः । हरिष्यामि विनिक्षिप्तम् सोमम् इति अनुभाष्य तम् ॥१३॥
tathā iti uktvā anvagacchat tam tatas dānava-sūdanaḥ . hariṣyāmi vinikṣiptam somam iti anubhāṣya tam ..13..
आजगाम ततस्तूर्णं सुपर्णो मातुरन्तिकम् । अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत् ॥१४॥
आजगाम ततस् तूर्णम् सुपर्णः मातुः अन्तिकम् । अथ सर्पान् उवाच इदम् सर्वान् परम-हृष्ट-वत् ॥१४॥
ājagāma tatas tūrṇam suparṇaḥ mātuḥ antikam . atha sarpān uvāca idam sarvān parama-hṛṣṭa-vat ..14..
इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः । स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः ॥१५॥
इदम् आनीतम् अमृतम् निक्षेप्स्यामि कुशेषु वः । स्नाताः मङ्गल-संयुक्ताः ततस् प्राश्नीत पन्नगाः ॥१५॥
idam ānītam amṛtam nikṣepsyāmi kuśeṣu vaḥ . snātāḥ maṅgala-saṃyuktāḥ tatas prāśnīta pannagāḥ ..15..
अदासी चैव मातेयमद्यप्रभृति चास्तु मे । यथोक्तं भवतामेतद्वचो मे प्रतिपादितम् ॥१६॥
अदासी च एव माता इयम् अद्य प्रभृति च अस्तु मे । यथा उक्तम् भवताम् एतत् वचः मे प्रतिपादितम् ॥१६॥
adāsī ca eva mātā iyam adya prabhṛti ca astu me . yathā uktam bhavatām etat vacaḥ me pratipāditam ..16..
ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत । शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः ॥१७॥
ततस् स्नातुम् गताः सर्पाः प्रत्युक्त्वा तम् तथा इति उत । शक्रः अपि अमृतम् आक्षिप्य जगाम त्रिदिवम् पुनर् ॥१७॥
tatas snātum gatāḥ sarpāḥ pratyuktvā tam tathā iti uta . śakraḥ api amṛtam ākṣipya jagāma tridivam punar ..17..
अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा । स्नाताश्च कृतजप्याश्च प्रहृष्टाः कृतमङ्गलाः ॥१८॥
अथ आगताः तम् उद्देशम् सर्पाः सोम-अर्थिनः तदा । स्नाताः च कृत-जप्याः च प्रहृष्टाः कृत-मङ्गलाः ॥१८॥
atha āgatāḥ tam uddeśam sarpāḥ soma-arthinaḥ tadā . snātāḥ ca kṛta-japyāḥ ca prahṛṣṭāḥ kṛta-maṅgalāḥ ..18..
तद्विज्ञाय हृतं सर्पाः प्रतिमायाकृतं च तत् । सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा ॥१९॥
तत् विज्ञाय हृतम् सर्पाः प्रतिमाया-कृतम् च तत् । सोम-स्थानम् इदम् च इति दर्भान् ते लिलिहुः तदा ॥१९॥
tat vijñāya hṛtam sarpāḥ pratimāyā-kṛtam ca tat . soma-sthānam idam ca iti darbhān te lilihuḥ tadā ..19..
ततो द्वैधीकृता जिह्वा सर्पाणां तेन कर्मणा । अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः ॥२०॥
ततस् द्वैधीकृता जिह्वा सर्पाणाम् तेन कर्मणा । अभवन् च अमृत-स्पर्शात् दर्भाः ते अथ पवित्रिणः ॥२०॥
tatas dvaidhīkṛtā jihvā sarpāṇām tena karmaṇā . abhavan ca amṛta-sparśāt darbhāḥ te atha pavitriṇaḥ ..20..
ततः सुपर्णः परमप्रहृष्टवा; न्विहृत्य मात्रा सह तत्र कानने । भुजङ्गभक्षः परमार्चितः खगै; रहीनकीर्तिर्विनतामनन्दयत् ॥२१॥
ततस् सुपर्णः परम-प्रहृष्टवा; नु इहृत्य मात्रा सह तत्र कानने । भुजङ्ग-भक्षः परम-अर्चितः खगै; रहीन-कीर्तिः विनताम् अनन्दयत् ॥२१॥
tatas suparṇaḥ parama-prahṛṣṭavā; nu ihṛtya mātrā saha tatra kānane . bhujaṅga-bhakṣaḥ parama-arcitaḥ khagai; rahīna-kīrtiḥ vinatām anandayat ..21..
इमां कथां यः शृणुयान्नरः सदा; पठेत वा द्विजजनमुख्यसंसदि । असंशयं त्रिदिवमियात्स पुण्यभा; ङ्महात्मनः पतगपतेः प्रकीर्तनात् ॥२२॥ 1.34.26
इमाम् कथाम् यः शृणुयात् नरः सदा; पठेत वा द्विज-जन-मुख्य-संसदि । असंशयम् त्रिदिवम् इयात् स पुण्य-भा; ङ्-महात्मनः पतग-पतेः प्रकीर्तनात् ॥२२॥ १।३४।२६
imām kathām yaḥ śṛṇuyāt naraḥ sadā; paṭheta vā dvija-jana-mukhya-saṃsadi . asaṃśayam tridivam iyāt sa puṇya-bhā; ṅ-mahātmanaḥ pataga-pateḥ prakīrtanāt ..22.. 1.34.26

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In