| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

शौनक उवाच॥
भुजङ्गमानां शापस्य मात्रा चैव सुतेन च । विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन ॥१॥
भुजङ्गमानाम् शापस्य मात्रा च एव सुतेन च । विनतायाः त्वया प्रोक्तम् कारणम् सूत-नन्दन ॥१॥
bhujaṅgamānām śāpasya mātrā ca eva sutena ca . vinatāyāḥ tvayā proktam kāraṇam sūta-nandana ..1..
वरप्रदानं भर्त्रा च कद्रूविनतयोस्तथा । नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः ॥२॥
वर-प्रदानम् भर्त्रा च कद्रू-विनतयोः तथा । नामनी च एव ते प्रोक्ते पक्षिणोः वैनतेययोः ॥२॥
vara-pradānam bhartrā ca kadrū-vinatayoḥ tathā . nāmanī ca eva te prokte pakṣiṇoḥ vainateyayoḥ ..2..
पन्नगानां तु नामानि न कीर्तयसि सूतज । प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम् ॥३॥
पन्नगानाम् तु नामानि न कीर्तयसि सूतज । प्राधान्येन अपि नामानि श्रोतुम् इच्छामहे वयम् ॥३॥
pannagānām tu nāmāni na kīrtayasi sūtaja . prādhānyena api nāmāni śrotum icchāmahe vayam ..3..
सूत उवाच॥
बहुत्वान्नामधेयानि भुजगानां तपोधन । न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु ॥४॥
बहु-त्वात् नामधेयानि भुजगानाम् तपोधन । न कीर्तयिष्ये सर्वेषाम् प्राधान्येन तु मे शृणु ॥४॥
bahu-tvāt nāmadheyāni bhujagānām tapodhana . na kīrtayiṣye sarveṣām prādhānyena tu me śṛṇu ..4..
शेषः प्रथमतो जातो वासुकिस्तदनन्तरम् । ऐरावतस्तक्षकश्च कर्कोटकधनञ्जयौ ॥५॥
शेषः प्रथमतस् जातः वासुकिः तद्-अनन्तरम् । ऐरावतः तक्षकः च कर्कोटक-धनञ्जयौ ॥५॥
śeṣaḥ prathamatas jātaḥ vāsukiḥ tad-anantaram . airāvataḥ takṣakaḥ ca karkoṭaka-dhanañjayau ..5..
कालियो मणिनागश्च नागश्चापूरणस्तथा । नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः ॥६॥
कालियः मणिनागः च नागः च आपूरणः तथा । नागः तथा पिञ्जरकः एलापत्रः अथ वामनः ॥६॥
kāliyaḥ maṇināgaḥ ca nāgaḥ ca āpūraṇaḥ tathā . nāgaḥ tathā piñjarakaḥ elāpatraḥ atha vāmanaḥ ..6..
नीलानीलौ तथा नागौ कल्माषशबलौ तथा । आर्यकश्चादिकश्चैव नागश्च शलपोतकः ॥७॥
नील-आनीलौ तथा नागौ कल्माष-शबलौ तथा । आर्यकः च आदिकः च एव नागः च शलपोतकः ॥७॥
nīla-ānīlau tathā nāgau kalmāṣa-śabalau tathā . āryakaḥ ca ādikaḥ ca eva nāgaḥ ca śalapotakaḥ ..7..
सुमनोमुखो दधिमुखस्तथा विमलपिण्डकः । आप्तः कोटनकश्चैव शङ्खो वालशिखस्तथा ॥८॥
सुमनोमुखः दधिमुखः तथा विमलपिण्डकः । आप्तः कोटनकः च एव शङ्खः वालशिखः तथा ॥८॥
sumanomukhaḥ dadhimukhaḥ tathā vimalapiṇḍakaḥ . āptaḥ koṭanakaḥ ca eva śaṅkhaḥ vālaśikhaḥ tathā ..8..
निष्ठ्यूनको हेमगुहो नहुषः पिङ्गलस्तथा । बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः ॥९॥
निष्ठ्यूनकः हेमगुहः नहुषः पिङ्गलः तथा । बाह्यकर्णः हस्तिपदः तथा मुद्गरपिण्डकः ॥९॥
niṣṭhyūnakaḥ hemaguhaḥ nahuṣaḥ piṅgalaḥ tathā . bāhyakarṇaḥ hastipadaḥ tathā mudgarapiṇḍakaḥ ..9..
कम्बलाश्वतरौ चापि नागः कालीयकस्तथा । वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ ॥१०॥
कम्बल-अश्वतरौ च अपि नागः कालीयकः तथा । वृत्त-संवर्तकौ नागौ द्वौ च पद्मौ इति श्रुतौ ॥१०॥
kambala-aśvatarau ca api nāgaḥ kālīyakaḥ tathā . vṛtta-saṃvartakau nāgau dvau ca padmau iti śrutau ..10..
नागः शङ्खनकश्चैव तथा च स्फण्डकोऽपरः । क्षेमकश्च महानागो नागः पिण्डारकस्तथा ॥११॥
नागः शङ्खनकः च एव तथा च स्फण्डकः अपरः । क्षेमकः च महा-नागः नागः पिण्डारकः तथा ॥११॥
nāgaḥ śaṅkhanakaḥ ca eva tathā ca sphaṇḍakaḥ aparaḥ . kṣemakaḥ ca mahā-nāgaḥ nāgaḥ piṇḍārakaḥ tathā ..11..
करवीरः पुष्पदंष्ट्र एळको बिल्वपाण्डुकः । मूषकादः शङ्खशिराः पूर्णदंष्ट्रो हरिद्रकः ॥१२॥
karavīraḥ puṣpadaṃṣṭra eळko bilvapāṇḍukaḥ |mūṣakādaḥ śaṅkhaśirāḥ pūrṇadaṃṣṭro haridrakaḥ ||12||
karavīraḥ puṣpadaṃṣṭra el̤ako bilvapāṇḍukaḥ |mūṣakādaḥ śaṅkhaśirāḥ pūrṇadaṃṣṭro haridrakaḥ ||12||
अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा । कौरव्यो धृतराष्ट्रश्च पुष्करः शल्यकस्तथा ॥१३॥
अपराजितः ज्योतिकः च पन्नगः श्रीवहः तथा । कौरव्यः धृतराष्ट्रः च पुष्करः शल्यकः तथा ॥१३॥
aparājitaḥ jyotikaḥ ca pannagaḥ śrīvahaḥ tathā . kauravyaḥ dhṛtarāṣṭraḥ ca puṣkaraḥ śalyakaḥ tathā ..13..
विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्यवान् । हस्तिभद्रः पिठरको मुखरः कोणवासनः ॥१४॥
विरजाः च सुबाहुः च शालिपिण्डः च वीर्यवान् । ॥१४॥
virajāḥ ca subāhuḥ ca śālipiṇḍaḥ ca vīryavān . ..14..
कुञ्जरः कुररश्चैव तथा नागः प्रभाकरः । कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा ॥१५॥ ( कर्कराकर्करौ चोभौ कुण्डोदरमहोदरौ ॥१५॥ )
कुञ्जरः कुररः च एव तथा नागः प्रभाकरः । कुमुदः कुमुदाक्षः च तित्तिरिः हलिकः तथा ॥१५॥ ( कर्कर-अकर्करौ च उभौ कुण्डोदर-महोदरौ ॥१५॥ )
kuñjaraḥ kuraraḥ ca eva tathā nāgaḥ prabhākaraḥ . kumudaḥ kumudākṣaḥ ca tittiriḥ halikaḥ tathā ..15.. ( karkara-akarkarau ca ubhau kuṇḍodara-mahodarau ..15.. )
एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम । बहुत्वान्नामधेयानामितरे न प्रकीर्तिताः ॥१६॥
एते प्राधान्यतः नागाः कीर्तिताः द्विजसत्तम । बहु-त्वात् नामधेयानाम् इतरे न प्रकीर्तिताः ॥१६॥
ete prādhānyataḥ nāgāḥ kīrtitāḥ dvijasattama . bahu-tvāt nāmadheyānām itare na prakīrtitāḥ ..16..
एतेषां प्रसवो यश्च प्रसवस्य च सन्ततिः । असङ्ख्येयेति मत्वा तान्न ब्रवीमि द्विजोत्तम ॥१७॥
एतेषाम् प्रसवः यः च प्रसवस्य च सन्ततिः । असङ्ख्येया इति मत्वा तान् न ब्रवीमि द्विजोत्तम ॥१७॥
eteṣām prasavaḥ yaḥ ca prasavasya ca santatiḥ . asaṅkhyeyā iti matvā tān na bravīmi dvijottama ..17..
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च । अशक्यान्येव सङ्ख्यातुं भुजगानां तपोधन ॥१८॥ 1.35.19
बहूनि इह सहस्राणि प्रयुतानि अर्बुदानि च । अशक्यानि एव सङ्ख्यातुम् भुजगानाम् तपोधन ॥१८॥ १।३५।१९
bahūni iha sahasrāṇi prayutāni arbudāni ca . aśakyāni eva saṅkhyātum bhujagānām tapodhana ..18.. 1.35.19

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In