| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

शौनक उवाच॥
जाता वै भुजगास्तात वीर्यवन्तो दुरासदाः । शापं तं त्वथ विज्ञाय कृतवन्तो नु किं परम् ॥१॥
जाताः वै भुजगाः तात वीर्यवन्तः दुरासदाः । शापम् तम् तु अथ विज्ञाय कृतवन्तः नु किम् परम् ॥१॥
jātāḥ vai bhujagāḥ tāta vīryavantaḥ durāsadāḥ . śāpam tam tu atha vijñāya kṛtavantaḥ nu kim param ..1..
सूत उवाच॥
तेषां तु भगवाञ्शेषस्त्यक्त्वा कद्रूं महायशाः । तपो विपुलमातस्थे वायुभक्षो यतव्रतः ॥२॥
तेषाम् तु भगवान् शेषः त्यक्त्वा कद्रूम् महा-यशाः । तपः विपुलम् आतस्थे वायुभक्षः यत-व्रतः ॥२॥
teṣām tu bhagavān śeṣaḥ tyaktvā kadrūm mahā-yaśāḥ . tapaḥ vipulam ātasthe vāyubhakṣaḥ yata-vrataḥ ..2..
गन्धमादनमासाद्य बदर्यां च तपोरतः । गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे ॥३॥
गन्धमादनम् आसाद्य बदर्याम् च तपः-रतः । गोकर्णे पुष्कर-अरण्ये तथा हिमवतः तटे ॥३॥
gandhamādanam āsādya badaryām ca tapaḥ-rataḥ . gokarṇe puṣkara-araṇye tathā himavataḥ taṭe ..3..
तेषु तेषु च पुण्येषु तीर्थेष्वायतनेषु च । एकान्तशीली नियतः सततं विजितेन्द्रियः ॥४॥
तेषु तेषु च पुण्येषु तीर्थेषु आयतनेषु च । एकान्त-शीली नियतः सततम् विजित-इन्द्रियः ॥४॥
teṣu teṣu ca puṇyeṣu tīrtheṣu āyataneṣu ca . ekānta-śīlī niyataḥ satatam vijita-indriyaḥ ..4..
तप्यमानं तपो घोरं तं ददर्श पितामहः । परिशुष्कमांसत्वक्स्नायुं जटाचीरधरं प्रभुम् ॥५॥
तप्यमानम् तपः घोरम् तम् ददर्श पितामहः । परिशुष्क-मांस-त्वच्-स्नायुम् जटा-चीर-धरम् प्रभुम् ॥५॥
tapyamānam tapaḥ ghoram tam dadarśa pitāmahaḥ . pariśuṣka-māṃsa-tvac-snāyum jaṭā-cīra-dharam prabhum ..5..
तमब्रवीत्सत्यधृतिं तप्यमानं पितामहः । किमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु ॥६॥
तम् अब्रवीत् सत्य-धृतिम् तप्यमानम् पितामहः । किम् इदम् कुरुषे शेष प्रजानाम् स्वस्ति वै कुरु ॥६॥
tam abravīt satya-dhṛtim tapyamānam pitāmahaḥ . kim idam kuruṣe śeṣa prajānām svasti vai kuru ..6..
त्वं हि तीव्रेण तपसा प्रजास्तापयसेऽनघ । ब्रूहि कामं च मे शेष यत्ते हृदि चिरं स्थितम् ॥७॥
त्वम् हि तीव्रेण तपसा प्रजाः तापयसे अनघ । ब्रूहि कामम् च मे शेष यत् ते हृदि चिरम् स्थितम् ॥७॥
tvam hi tīvreṇa tapasā prajāḥ tāpayase anagha . brūhi kāmam ca me śeṣa yat te hṛdi ciram sthitam ..7..
शेष उवाच॥
सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः । सह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम् ॥८॥
सोदर्याः मम सर्वे हि भ्रातरः मन्द-चेतसः । सह तैः ना उत्सहे वस्तुम् तत् भवान् अनुमन्यताम् ॥८॥
sodaryāḥ mama sarve hi bhrātaraḥ manda-cetasaḥ . saha taiḥ nā utsahe vastum tat bhavān anumanyatām ..8..
अभ्यसूयन्ति सततं परस्परममित्रवत् । ततोऽहं तप आतिष्ठे नैतान्पश्येयमित्युत ॥९॥
अभ्यसूयन्ति सततम् परस्परम् अमित्र-वत् । ततस् अहम् तपः आतिष्ठे न एतान् पश्येयम् इति उत ॥९॥
abhyasūyanti satatam parasparam amitra-vat . tatas aham tapaḥ ātiṣṭhe na etān paśyeyam iti uta ..9..
न मर्षयन्ति सततं विनतां ससुतां च ते । अस्माकं चापरो भ्राता वैनतेयः पितामह ॥१०॥
न मर्षयन्ति सततम् विनताम् स सुताम् च ते । अस्माकम् च अपरः भ्राता वैनतेयः पितामह ॥१०॥
na marṣayanti satatam vinatām sa sutām ca te . asmākam ca aparaḥ bhrātā vainateyaḥ pitāmaha ..10..
तं च द्विषन्ति तेऽत्यर्थं स चापि सुमहाबलः । वरप्रदानात्स पितुः कश्यपस्य महात्मनः ॥११॥
तम् च द्विषन्ति ते अत्यर्थम् स च अपि सु महा-बलः । वर-प्रदानात् स पितुः कश्यपस्य महात्मनः ॥११॥
tam ca dviṣanti te atyartham sa ca api su mahā-balaḥ . vara-pradānāt sa pituḥ kaśyapasya mahātmanaḥ ..11..
सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम् । कथं मे प्रेत्यभावेऽपि न तैः स्यात्सह सङ्गमः ॥१२॥
सः अहम् तपः समास्थाय मोक्ष्यामि इदम् कलेवरम् । कथम् मे प्रेत्यभावे अपि न तैः स्यात् सह सङ्गमः ॥१२॥
saḥ aham tapaḥ samāsthāya mokṣyāmi idam kalevaram . katham me pretyabhāve api na taiḥ syāt saha saṅgamaḥ ..12..
ब्रह्मोवाच॥
जानामि शेष सर्वेषां भ्रातृणां ते विचेष्टितम् । मातुश्चाप्यपराधाद्वै भ्रातृणां ते महद्भयम् ॥१३॥
जानामि शेष सर्वेषाम् भ्रातृणाम् ते विचेष्टितम् । मातुः च अपि अपराधात् वै भ्रातृणाम् ते महत् भयम् ॥१३॥
jānāmi śeṣa sarveṣām bhrātṛṇām te viceṣṭitam . mātuḥ ca api aparādhāt vai bhrātṛṇām te mahat bhayam ..13..
कृतोऽत्र परिहारश्च पूर्वमेव भुजङ्गम । भ्रातृणां तव सर्वेषां न शोकं कर्तुमर्हसि ॥१४॥
कृतः अत्र परिहारः च पूर्वम् एव भुजङ्गम । भ्रातृणाम् तव सर्वेषाम् न शोकम् कर्तुम् अर्हसि ॥१४॥
kṛtaḥ atra parihāraḥ ca pūrvam eva bhujaṅgama . bhrātṛṇām tava sarveṣām na śokam kartum arhasi ..14..
वृणीष्व च वरं मत्तः शेष यत्तेऽभिकाङ्क्षितम् । दित्सामि हि वरं तेऽद्य प्रीतिर्मे परमा त्वयि ॥१५॥
वृणीष्व च वरम् मत्तः शेष यत् ते अभिकाङ्क्षितम् । दित्सामि हि वरम् ते अद्य प्रीतिः मे परमा त्वयि ॥१५॥
vṛṇīṣva ca varam mattaḥ śeṣa yat te abhikāṅkṣitam . ditsāmi hi varam te adya prītiḥ me paramā tvayi ..15..
दिष्ट्या च बुद्धिर्धर्मे ते निविष्टा पन्नगोत्तम । अतो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा ॥१६॥
दिष्ट्या च बुद्धिः धर्मे ते निविष्टा पन्नग-उत्तम । अतस् भूयस् च ते बुद्धिः धर्मे भवतु सु स्थिरा ॥१६॥
diṣṭyā ca buddhiḥ dharme te niviṣṭā pannaga-uttama . atas bhūyas ca te buddhiḥ dharme bhavatu su sthirā ..16..
शेष उवाच॥
एष एव वरो मेऽद्य काङ्क्षितः प्रपितामह । धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर ॥१७॥
एषः एव वरः मे अद्य काङ्क्षितः प्रपितामह । धर्मे मे रमताम् बुद्धिः शमे तपसि च ईश्वर ॥१७॥
eṣaḥ eva varaḥ me adya kāṅkṣitaḥ prapitāmaha . dharme me ramatām buddhiḥ śame tapasi ca īśvara ..17..
ब्रह्मोवाच॥
प्रीतोऽस्म्यनेन ते शेष दमेन प्रशमेन च । त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम् ॥१८॥
प्रीतः अस्मि अनेन ते शेष दमेन प्रशमेन च । त्वया तु इदम् वचः कार्यम् मद्-नियोगात् प्रजा-हितम् ॥१८॥
prītaḥ asmi anena te śeṣa damena praśamena ca . tvayā tu idam vacaḥ kāryam mad-niyogāt prajā-hitam ..18..
इमां महीं शैलवनोपपन्नां; ससागरां साकरपत्तनां च । त्वं शेष सम्यक्चलितां यथाव; त्सङ्गृह्य तिष्ठस्व यथाचला स्यात् ॥१९॥
इमाम् महीम् शैल-वन-उपपन्नाम्; स सागराम् स आकर-पत्तनाम् च । त्वम् शेष सम्यक् चलिताम्; त्सङ्गृह्य तिष्ठस्व यथा अचला स्यात् ॥१९॥
imām mahīm śaila-vana-upapannām; sa sāgarām sa ākara-pattanām ca . tvam śeṣa samyak calitām; tsaṅgṛhya tiṣṭhasva yathā acalā syāt ..19..
शेष उवाच॥
यथाह देवो वरदः प्रजापति; र्महीपतिर्भूतपतिर्जगत्पतिः । तथा महीं धारयितास्मि निश्चलां; प्रयच्छ तां मे शिरसि प्रजापते ॥२०॥
यथा आह देवः वर-दः प्रजापति; र्महीपतिः भूतपतिः जगत्पतिः । तथा महीम् धारयितास्मि निश्चलाम्; प्रयच्छ ताम् मे शिरसि प्रजापते ॥२०॥
yathā āha devaḥ vara-daḥ prajāpati; rmahīpatiḥ bhūtapatiḥ jagatpatiḥ . tathā mahīm dhārayitāsmi niścalām; prayaccha tām me śirasi prajāpate ..20..
ब्रह्मोवाच॥
अधो महीं गच्छ भुजङ्गमोत्तम; स्वयं तवैषा विवरं प्रदास्यति । इमां धरां धारयता त्वया हि मे; महत्प्रियं शेष कृतं भविष्यति ॥२१॥
अधस् महीम् गच्छ भुजङ्गम उत्तम; स्वयम् तव एषा विवरम् प्रदास्यति । इमाम् धराम् धारयता त्वया हि मे; महत् प्रियम् शेष कृतम् भविष्यति ॥२१॥
adhas mahīm gaccha bhujaṅgama uttama; svayam tava eṣā vivaram pradāsyati . imām dharām dhārayatā tvayā hi me; mahat priyam śeṣa kṛtam bhaviṣyati ..21..
सूत उवाच॥
तथेति कृत्वा विवरं प्रविश्य स; प्रभुर्भुवो भुजगवराग्रजः स्थितः । बिभर्ति देवीं शिरसा महीमिमां; समुद्रनेमिं परिगृह्य सर्वतः ॥२२॥
तथा इति कृत्वा विवरम् प्रविश्य स; प्रभुः भुवः भुजग-वर-अग्रजः स्थितः । बिभर्ति देवीम् शिरसा महीम् इमाम्; समुद्र-नेमिम् परिगृह्य सर्वतस् ॥२२॥
tathā iti kṛtvā vivaram praviśya sa; prabhuḥ bhuvaḥ bhujaga-vara-agrajaḥ sthitaḥ . bibharti devīm śirasā mahīm imām; samudra-nemim parigṛhya sarvatas ..22..
ब्रह्मोवाच॥
शेषोऽसि नागोत्तम धर्मदेवो; महीमिमां धारयसे यदेकः । अनन्तभोगः परिगृह्य सर्वां; यथाहमेवं बलभिद्यथा वा ॥२३॥
शेषः असि नाग-उत्तम धर्म-देवः; महीम् इमाम् धारयसे यत् एकः । अनन्त-भोगः परिगृह्य सर्वाम्; यथा अहम् एवम् बलभिद् यथा वा ॥२३॥
śeṣaḥ asi nāga-uttama dharma-devaḥ; mahīm imām dhārayase yat ekaḥ . ananta-bhogaḥ parigṛhya sarvām; yathā aham evam balabhid yathā vā ..23..
सूत उवाच॥
अधो भूमेर्वसत्येवं नागोऽनन्तः प्रतापवान् । धारयन्वसुधामेकः शासनाद्ब्रह्मणो विभुः ॥२४॥
अधस् भूमेः वसति एवम् नागः अनन्तः प्रतापवान् । धारयन् वसुधाम् एकः शासनात् ब्रह्मणः विभुः ॥२४॥
adhas bhūmeḥ vasati evam nāgaḥ anantaḥ pratāpavān . dhārayan vasudhām ekaḥ śāsanāt brahmaṇaḥ vibhuḥ ..24..
सुपर्णं च सखायं वै भगवानमरोत्तमः । प्रादादनन्ताय तदा वैनतेयं पितामहः ॥२५॥ 1.36.25
सुपर्णम् च सखायम् वै भगवान् अमर-उत्तमः । प्रादात् अनन्ताय तदा वैनतेयम् पितामहः ॥२५॥ १।३६।२५
suparṇam ca sakhāyam vai bhagavān amara-uttamaḥ . prādāt anantāya tadā vainateyam pitāmahaḥ ..25.. 1.36.25

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In