| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
मातुः सकाशात्तं शापं श्रुत्वा पन्नगसत्तमः । वासुकिश्चिन्तयामास शापोऽयं न भवेत्कथम् ॥१॥
मातुः सकाशात् तम् शापम् श्रुत्वा पन्नग-सत्तमः । वासुकिः चिन्तयामास शापः अयम् न भवेत् कथम् ॥१॥
mātuḥ sakāśāt tam śāpam śrutvā pannaga-sattamaḥ . vāsukiḥ cintayāmāsa śāpaḥ ayam na bhavet katham ..1..
ततः स मन्त्रयामास भ्रातृभिः सह सर्वशः । ऐरावतप्रभृतिभिर्ये स्म धर्मपरायणाः ॥२॥
ततस् स मन्त्रयामास भ्रातृभिः सह सर्वशस् । ऐरावत-प्रभृतिभिः ये स्म धर्म-परायणाः ॥२॥
tatas sa mantrayāmāsa bhrātṛbhiḥ saha sarvaśas . airāvata-prabhṛtibhiḥ ye sma dharma-parāyaṇāḥ ..2..
वासुकिरुवाच॥
अयं शापो यथोद्दिष्टो विदितं वस्तथानघाः । तस्य शापस्य मोक्षार्थं मन्त्रयित्वा यतामहे ॥३॥
अयम् शापः यथा उद्दिष्टः विदितम् वः तथा अनघाः । तस्य शापस्य मोक्ष-अर्थम् मन्त्रयित्वा यतामहे ॥३॥
ayam śāpaḥ yathā uddiṣṭaḥ viditam vaḥ tathā anaghāḥ . tasya śāpasya mokṣa-artham mantrayitvā yatāmahe ..3..
सर्वेषामेव शापानां प्रतिघातो हि विद्यते । न तु मात्राभिशप्तानां मोक्षो विद्येत पन्नगाः ॥४॥
सर्वेषाम् एव शापानाम् प्रतिघातः हि विद्यते । न तु मात्रा अभिशप्तानाम् मोक्षः विद्येत पन्नगाः ॥४॥
sarveṣām eva śāpānām pratighātaḥ hi vidyate . na tu mātrā abhiśaptānām mokṣaḥ vidyeta pannagāḥ ..4..
अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः । शप्ता इत्येव मे श्रुत्वा जायते हृदि वेपथुः ॥५॥
अव्ययस्य अप्रमेयस्य सत्यस्य च तथा अग्रतस् । शप्ताः इति एव मे श्रुत्वा जायते हृदि वेपथुः ॥५॥
avyayasya aprameyasya satyasya ca tathā agratas . śaptāḥ iti eva me śrutvā jāyate hṛdi vepathuḥ ..5..
नूनं सर्वविनाशोऽयमस्माकं समुदाहृतः । न ह्येनां सोऽव्ययो देवः शपन्तीं प्रत्यषेधयत् ॥६॥
नूनम् सर्व-विनाशः अयम् अस्माकम् समुदाहृतः । न हि एनाम् सः अव्ययः देवः शपन्तीम् प्रत्यषेधयत् ॥६॥
nūnam sarva-vināśaḥ ayam asmākam samudāhṛtaḥ . na hi enām saḥ avyayaḥ devaḥ śapantīm pratyaṣedhayat ..6..
तस्मात्संमन्त्रयामोऽत्र भुजगानामनामयम् । यथा भवेत सर्वेषां मा नः कालोऽत्यगादयम् ॥७॥
तस्मात् संमन्त्रयामः अत्र भुजगानाम् अनामयम् । यथा भवेत सर्वेषाम् मा नः कालः अत्यगात् अयम् ॥७॥
tasmāt saṃmantrayāmaḥ atra bhujagānām anāmayam . yathā bhaveta sarveṣām mā naḥ kālaḥ atyagāt ayam ..7..
अपि मन्त्रयमाणा हि हेतुं पश्याम मोक्षणे । यथा नष्टं पुरा देवा गूढमग्निं गुहागतम् ॥८॥
अपि मन्त्रयमाणाः हि हेतुम् पश्याम मोक्षणे । यथा नष्टम् पुरा देवाः गूढम् अग्निम् गुहा-गतम् ॥८॥
api mantrayamāṇāḥ hi hetum paśyāma mokṣaṇe . yathā naṣṭam purā devāḥ gūḍham agnim guhā-gatam ..8..
यथा स यज्ञो न भवेद्यथा वापि पराभवेत् । जनमेजयस्य सर्पाणां विनाशकरणाय हि ॥९॥
यथा स यज्ञः न भवेत् यथा वा अपि पराभवेत् । जनमेजयस्य सर्पाणाम् विनाश-करणाय हि ॥९॥
yathā sa yajñaḥ na bhavet yathā vā api parābhavet . janamejayasya sarpāṇām vināśa-karaṇāya hi ..9..
सूत उवाच॥
तथेत्युक्त्वा तु ते सर्वे काद्रवेयाः समागताः । समयं चक्रिरे तत्र मन्त्रबुद्धिविशारदाः ॥१०॥
तथा इति उक्त्वा तु ते सर्वे काद्रवेयाः समागताः । समयम् चक्रिरे तत्र मन्त्र-बुद्धि-विशारदाः ॥१०॥
tathā iti uktvā tu te sarve kādraveyāḥ samāgatāḥ . samayam cakrire tatra mantra-buddhi-viśāradāḥ ..10..
एके तत्राब्रुवन्नागा वयं भूत्वा द्विजर्षभाः । जनमेजयं तं भिक्षामो यज्ञस्ते न भवेदिति ॥११॥
एके तत्र अब्रुवन् नागाः वयम् भूत्वा द्विजर्षभाः । जनमेजयम् तम् भिक्षामः यज्ञः ते न भवेत् इति ॥११॥
eke tatra abruvan nāgāḥ vayam bhūtvā dvijarṣabhāḥ . janamejayam tam bhikṣāmaḥ yajñaḥ te na bhavet iti ..11..
अपरे त्वब्रुवन्नागास्तत्र पण्डितमानिनः । मन्त्रिणोऽस्य वयं सर्वे भविष्यामः सुसंमताः ॥१२॥
अपरे तु अब्रुवन् नागाः तत्र पण्डित-मानिनः । मन्त्रिणः अस्य वयम् सर्वे भविष्यामः सु संमताः ॥१२॥
apare tu abruvan nāgāḥ tatra paṇḍita-māninaḥ . mantriṇaḥ asya vayam sarve bhaviṣyāmaḥ su saṃmatāḥ ..12..
स नः प्रक्ष्यति सर्वेषु कार्येष्वर्थविनिश्चयम् । तत्र बुद्धिं प्रवक्ष्यामो यथा यज्ञो निवर्तते ॥१३॥
स नः प्रक्ष्यति सर्वेषु कार्येषु अर्थ-विनिश्चयम् । तत्र बुद्धिम् प्रवक्ष्यामः यथा यज्ञः निवर्तते ॥१३॥
sa naḥ prakṣyati sarveṣu kāryeṣu artha-viniścayam . tatra buddhim pravakṣyāmaḥ yathā yajñaḥ nivartate ..13..
स नो बहुमतान्राजा बुद्ध्वा बुद्धिमतां वरः । यज्ञार्थं प्रक्ष्यति व्यक्तं नेति वक्ष्यामहे वयम् ॥१४॥
स नः बहु-मतान् राजा बुद्ध्वा बुद्धिमताम् वरः । यज्ञ-अर्थम् प्रक्ष्यति व्यक्तम् ना इति वक्ष्यामहे वयम् ॥१४॥
sa naḥ bahu-matān rājā buddhvā buddhimatām varaḥ . yajña-artham prakṣyati vyaktam nā iti vakṣyāmahe vayam ..14..
दर्शयन्तो बहून्दोषान्प्रेत्य चेह च दारुणान् । हेतुभिः कारणैश्चैव यथा यज्ञो भवेन्न सः ॥१५॥
दर्शयन्तः बहून् दोषान् प्रेत्य च इह च दारुणान् । हेतुभिः कारणैः च एव यथा यज्ञः भवेत् न सः ॥१५॥
darśayantaḥ bahūn doṣān pretya ca iha ca dāruṇān . hetubhiḥ kāraṇaiḥ ca eva yathā yajñaḥ bhavet na saḥ ..15..
अथवा य उपाध्यायः क्रतौ तस्मिन्भविष्यति । सर्पसत्रविधानज्ञो राजकार्यहिते रतः ॥१६॥
अथवा यः उपाध्यायः क्रतौ तस्मिन् भविष्यति । ॥१६॥
athavā yaḥ upādhyāyaḥ kratau tasmin bhaviṣyati . ..16..
तं गत्वा दशतां कश्चिद्भुजगः स मरिष्यति । तस्मिन्हते यज्ञकरे क्रतुः स न भविष्यति ॥१७॥
तम् गत्वा दश-ताम् कश्चिद् भुजगः स मरिष्यति । तस्मिन् हते यज्ञ-करे क्रतुः स न भविष्यति ॥१७॥
tam gatvā daśa-tām kaścid bhujagaḥ sa mariṣyati . tasmin hate yajña-kare kratuḥ sa na bhaviṣyati ..17..
ये चान्ये सर्पसत्रज्ञा भविष्यन्त्यस्य ऋत्विजः । तांश्च सर्वान्दशिष्यामः कृतमेवं भविष्यति ॥१८॥
ये च अन्ये सर्प-सत्र-ज्ञाः भविष्यन्ति अस्य ऋत्विजः । तान् च सर्वान् दशिष्यामः कृतम् एवम् भविष्यति ॥१८॥
ye ca anye sarpa-satra-jñāḥ bhaviṣyanti asya ṛtvijaḥ . tān ca sarvān daśiṣyāmaḥ kṛtam evam bhaviṣyati ..18..
तत्रापरेऽमन्त्रयन्त धर्मात्मानो भुजङ्गमाः । अबुद्धिरेषा युष्माकं ब्रह्महत्या न शोभना ॥१९॥
तत्र अपरे अमन्त्रयन्त धर्म-आत्मानः भुजङ्गमाः । अबुद्धिः एषा युष्माकम् ब्रह्महत्या न शोभना ॥१९॥
tatra apare amantrayanta dharma-ātmānaḥ bhujaṅgamāḥ . abuddhiḥ eṣā yuṣmākam brahmahatyā na śobhanā ..19..
सम्यक्सद्धर्ममूला हि व्यसने शान्तिरुत्तमा । अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज्जगत् ॥२०॥
सम्यक् सद्धर्म-मूला हि व्यसने शान्तिः उत्तमा । अधर्म-उत्तर-ता नाम कृत्स्नम् व्यापादयेत् जगत् ॥२०॥
samyak saddharma-mūlā hi vyasane śāntiḥ uttamā . adharma-uttara-tā nāma kṛtsnam vyāpādayet jagat ..20..
अपरे त्वब्रुवन्नागाः समिद्धं जातवेदसम् । वर्षैर्निर्वापयिष्यामो मेघा भूत्वा सविद्युतः ॥२१॥
अपरे तु अब्रुवन् नागाः समिद्धम् जातवेदसम् । वर्षैः निर्वापयिष्यामः मेघाः भूत्वा स विद्युतः ॥२१॥
apare tu abruvan nāgāḥ samiddham jātavedasam . varṣaiḥ nirvāpayiṣyāmaḥ meghāḥ bhūtvā sa vidyutaḥ ..21..
स्रुग्भाण्डं निशि गत्वा वा अपरे भुजगोत्तमाः । प्रमत्तानां हरन्त्वाशु विघ्न एवं भविष्यति ॥२२॥
स्रुच्-भाण्डम् निशि गत्वा वा अपरे भुजग-उत्तमाः । प्रमत्तानाम् हरन्तु आशु विघ्नः एवम् भविष्यति ॥२२॥
sruc-bhāṇḍam niśi gatvā vā apare bhujaga-uttamāḥ . pramattānām harantu āśu vighnaḥ evam bhaviṣyati ..22..
यज्ञे वा भुजगास्तस्मिञ्शतशोऽथ सहस्रशः । जनं दशन्तु वै सर्वमेवं त्रासो भविष्यति ॥२३॥
यज्ञे वा भुजगाः तस्मिन् शतशस् अथ सहस्रशस् । जनम् दशन्तु वै सर्वम् एवम् त्रासः भविष्यति ॥२३॥
yajñe vā bhujagāḥ tasmin śataśas atha sahasraśas . janam daśantu vai sarvam evam trāsaḥ bhaviṣyati ..23..
अथवा संस्कृतं भोज्यं दूषयन्तु भुजङ्गमाः । स्वेन मूत्रपुरीषेण सर्वभोज्यविनाशिना ॥२४॥
अथवा संस्कृतम् भोज्यम् दूषयन्तु भुजङ्गमाः । स्वेन मूत्र-पुरीषेण सर्व-भोज्य-विनाशिना ॥२४॥
athavā saṃskṛtam bhojyam dūṣayantu bhujaṅgamāḥ . svena mūtra-purīṣeṇa sarva-bhojya-vināśinā ..24..
अपरे त्वब्रुवंस्तत्र ऋत्विजोऽस्य भवामहे । यज्ञविघ्नं करिष्यामो दीयतां दक्षिणा इति ॥२५॥ ( वश्यतां च गतोऽसौ नः करिष्यति यथेप्षितम् ॥२५॥ )
अपरे तु अब्रुवन् तत्र ऋत्विजः अस्य भवामहे । यज्ञ-विघ्नम् करिष्यामः दीयताम् दक्षिणा इति ॥२५॥ ( वश्य-ताम् च गतः असौ नः करिष्यति यथा ईप्षितम् ॥२५॥ )
apare tu abruvan tatra ṛtvijaḥ asya bhavāmahe . yajña-vighnam kariṣyāmaḥ dīyatām dakṣiṇā iti ..25.. ( vaśya-tām ca gataḥ asau naḥ kariṣyati yathā īpṣitam ..25.. )
अपरे त्वब्रुवंस्तत्र जले प्रक्रीडितं नृपम् । गृहमानीय बध्नीमः क्रतुरेवं भवेन्न सः ॥२६॥
अपरे तु अब्रुवन् तत्र जले प्रक्रीडितम् नृपम् । गृहम् आनीय बध्नीमः क्रतुः एवम् भवेत् न सः ॥२६॥
apare tu abruvan tatra jale prakrīḍitam nṛpam . gṛham ānīya badhnīmaḥ kratuḥ evam bhavet na saḥ ..26..
अपरे त्वब्रुवंस्तत्र नागाः सुकृतकारिणः । दशामैनं प्रगृह्याशु कृतमेवं भविष्यति ॥२७॥ ( छिन्नं मूलमनर्थानां मृते तस्मिन्भविष्यति ॥२७॥ )
अपरे तु अब्रुवन् तत्र नागाः सुकृत-कारिणः । दशाम एनम् प्रगृह्य आशु कृतम् एवम् भविष्यति ॥२७॥ ( छिन्नम् मूलम् अनर्थानाम् मृते तस्मिन् भविष्यति ॥२७॥ )
apare tu abruvan tatra nāgāḥ sukṛta-kāriṇaḥ . daśāma enam pragṛhya āśu kṛtam evam bhaviṣyati ..27.. ( chinnam mūlam anarthānām mṛte tasmin bhaviṣyati ..27.. )
एषा वै नैष्ठिकी बुद्धिः सर्वेषामेव संमता । यथा वा मन्यसे राजंस्तत्क्षिप्रं संविधीयताम् ॥२८॥
एषा वै नैष्ठिकी बुद्धिः सर्वेषाम् एव संमता । यथा वा मन्यसे राजन् तत् क्षिप्रम् संविधीयताम् ॥२८॥
eṣā vai naiṣṭhikī buddhiḥ sarveṣām eva saṃmatā . yathā vā manyase rājan tat kṣipram saṃvidhīyatām ..28..
इत्युक्त्वा समुदैक्षन्त वासुकिं पन्नगेश्वरम् । वासुकिश्चापि सञ्चिन्त्य तानुवाच भुजङ्गमान् ॥२९॥
इति उक्त्वा समुदैक्षन्त वासुकिम् पन्नग-ईश्वरम् । वासुकिः च अपि सञ्चिन्त्य तान् उवाच भुजङ्गमान् ॥२९॥
iti uktvā samudaikṣanta vāsukim pannaga-īśvaram . vāsukiḥ ca api sañcintya tān uvāca bhujaṅgamān ..29..
नैषा वो नैष्ठिकी बुद्धिर्मता कर्तुं भुजङ्गमाः । सर्वेषामेव मे बुद्धिः पन्नगानां न रोचते ॥३०॥
न एषा वः नैष्ठिकी बुद्धिः मता कर्तुम् भुजङ्गमाः । सर्वेषाम् एव मे बुद्धिः पन्नगानाम् न रोचते ॥३०॥
na eṣā vaḥ naiṣṭhikī buddhiḥ matā kartum bhujaṅgamāḥ . sarveṣām eva me buddhiḥ pannagānām na rocate ..30..
किं त्वत्र संविधातव्यं भवतां यद्भवेद्धितम् । अनेनाहं भृशं तप्ये गुणदोषौ मदाश्रयौ ॥३१॥ 1.37.34
किम् तु अत्र संविधातव्यम् भवताम् यत् भवेत् हितम् । अनेन अहम् भृशम् तप्ये गुण-दोषौ मद्-आश्रयौ ॥३१॥ १।३७।३४
kim tu atra saṃvidhātavyam bhavatām yat bhavet hitam . anena aham bhṛśam tapye guṇa-doṣau mad-āśrayau ..31.. 1.37.34

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In