| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
श्रुत्वा तु वचनं तेषां सर्वेषामिति चेति च । वासुकेश्च वचः श्रुत्वा एलापत्रोऽब्रवीदिदम् ॥१॥
श्रुत्वा तु वचनम् तेषाम् सर्वेषाम् इति च इति च । वासुकेः च वचः श्रुत्वा एलापत्रः अब्रवीत् इदम् ॥१॥
śrutvā tu vacanam teṣām sarveṣām iti ca iti ca . vāsukeḥ ca vacaḥ śrutvā elāpatraḥ abravīt idam ..1..
न स यज्ञो न भविता न स राजा तथाविधः । जनमेजयः पाण्डवेयो यतोऽस्माकं महाभयम् ॥२॥
न स यज्ञः न भविता न स राजा तथाविधः । जनमेजयः पाण्डवेयः यतस् अस्माकम् महा-भयम् ॥२॥
na sa yajñaḥ na bhavitā na sa rājā tathāvidhaḥ . janamejayaḥ pāṇḍaveyaḥ yatas asmākam mahā-bhayam ..2..
दैवेनोपहतो राजन्यो भवेदिह पूरुषः । स दैवमेवाश्रयते नान्यत्तत्र परायणम् ॥३॥
दैवेन उपहतः राजन्यः भवेत् इह पूरुषः । स दैवम् एव आश्रयते न अन्यत् तत्र परायणम् ॥३॥
daivena upahataḥ rājanyaḥ bhavet iha pūruṣaḥ . sa daivam eva āśrayate na anyat tatra parāyaṇam ..3..
तदिदं दैवमस्माकं भयं पन्नगसत्तमाः । दैवमेवाश्रयामोऽत्र शृणुध्वं च वचो मम ॥४॥
तत् इदम् दैवम् अस्माकम् भयम् पन्नग-सत्तमाः । दैवम् एवा आश्रयामः अत्र शृणुध्वम् च वचः मम ॥४॥
tat idam daivam asmākam bhayam pannaga-sattamāḥ . daivam evā āśrayāmaḥ atra śṛṇudhvam ca vacaḥ mama ..4..
अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा । मातुरुत्सङ्गमारूढो भयात्पन्नगसत्तमाः ॥५॥
अहम् शापे समुत्सृष्टे समश्रौषम् वचः तदा । मातुः उत्सङ्गम् आरूढः भयात् पन्नग-सत्तमाः ॥५॥
aham śāpe samutsṛṣṭe samaśrauṣam vacaḥ tadā . mātuḥ utsaṅgam ārūḍhaḥ bhayāt pannaga-sattamāḥ ..5..
देवानां पन्नगश्रेष्ठास्तीक्ष्णास्तीक्ष्णा इति प्रभो । पितामहमुपागम्य दुःखार्तानां महाद्युते ॥६॥
देवानाम् पन्नग-श्रेष्ठाः तीक्ष्णाः तीक्ष्णाः इति प्रभो । पितामहम् उपागम्य दुःख-आर्तानाम् महा-द्युते ॥६॥
devānām pannaga-śreṣṭhāḥ tīkṣṇāḥ tīkṣṇāḥ iti prabho . pitāmaham upāgamya duḥkha-ārtānām mahā-dyute ..6..
देवा ऊचुः॥
का हि लब्ध्वा प्रियान्पुत्राञ्शपेदेवं पितामह । ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः ॥७॥
का हि लब्ध्वा प्रियान् पुत्रान् शपेत् एवम् पितामह । ऋते कद्रूम् तीक्ष्ण-रूपाम् देवदेव तव अग्रतस् ॥७॥
kā hi labdhvā priyān putrān śapet evam pitāmaha . ṛte kadrūm tīkṣṇa-rūpām devadeva tava agratas ..7..
तथेति च वचस्तस्यास्त्वयाप्युक्तं पितामह । एतदिच्छाम विज्ञातुं कारणं यन्न वारिता ॥८॥
तथा इति च वचः तस्याः त्वया अपि उक्तम् पितामह । एतत् इच्छाम विज्ञातुम् कारणम् यत् न वारिता ॥८॥
tathā iti ca vacaḥ tasyāḥ tvayā api uktam pitāmaha . etat icchāma vijñātum kāraṇam yat na vāritā ..8..
ब्रह्मोवाच॥
बहवः पन्नगास्तीक्ष्णा भीमवीर्या विषोल्बणाः । प्रजानां हितकामोऽहं न निवारितवांस्तदा ॥९॥
बहवः पन्नगाः तीक्ष्णाः भीम-वीर्याः विष-उल्बणाः । प्रजानाम् हित-कामः अहम् न निवारितवान् तदा ॥९॥
bahavaḥ pannagāḥ tīkṣṇāḥ bhīma-vīryāḥ viṣa-ulbaṇāḥ . prajānām hita-kāmaḥ aham na nivāritavān tadā ..9..
ये दन्दशूकाः क्षुद्राश्च पापचारा विषोल्बणाः । तेषां विनाशो भविता न तु ये धर्मचारिणः ॥१०॥
ये दन्दशूकाः क्षुद्राः च पाप-चाराः विष-उल्बणाः । तेषाम् विनाशः भविता न तु ये धर्म-चारिणः ॥१०॥
ye dandaśūkāḥ kṣudrāḥ ca pāpa-cārāḥ viṣa-ulbaṇāḥ . teṣām vināśaḥ bhavitā na tu ye dharma-cāriṇaḥ ..10..
यन्निमित्तं च भविता मोक्षस्तेषां महाभयात् । पन्नगानां निबोधध्वं तस्मिन्काले तथागते ॥११॥
यद्-निमित्तम् च भविता मोक्षः तेषाम् महा-भयात् । पन्नगानाम् निबोधध्वम् तस्मिन् काले तथागते ॥११॥
yad-nimittam ca bhavitā mokṣaḥ teṣām mahā-bhayāt . pannagānām nibodhadhvam tasmin kāle tathāgate ..11..
यायावरकुले धीमान्भविष्यति महानृषिः । जरत्कारुरिति ख्यातस्तेजस्वी नियतेन्द्रियः ॥१२॥
यायावर-कुले धीमान् भविष्यति महान् ऋषिः । जरत्कारुः इति ख्यातः तेजस्वी नियत-इन्द्रियः ॥१२॥
yāyāvara-kule dhīmān bhaviṣyati mahān ṛṣiḥ . jaratkāruḥ iti khyātaḥ tejasvī niyata-indriyaḥ ..12..
तस्य पुत्रो जरत्कारोरुत्पत्स्यति महातपाः । आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा ॥१३॥ ( तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः ॥१३॥ )
तस्य पुत्रः जरत्कारोः उत्पत्स्यति महा-तपाः । आस्तीकः नाम यज्ञम् स प्रतिषेत्स्यति तम् तदा ॥१३॥ ( तत्र मोक्ष्यन्ति भुजगाः ये भविष्यन्ति धार्मिकाः ॥१३॥ )
tasya putraḥ jaratkāroḥ utpatsyati mahā-tapāḥ . āstīkaḥ nāma yajñam sa pratiṣetsyati tam tadā ..13.. ( tatra mokṣyanti bhujagāḥ ye bhaviṣyanti dhārmikāḥ ..13.. )
देवा ऊचुः॥
स मुनिप्रवरो देव जरत्कारुर्महातपाः । कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान् ॥१४॥
स मुनि-प्रवरः देव जरत्कारुः महा-तपाः । कस्याम् पुत्रम् महात्मानम् जनयिष्यति वीर्यवान् ॥१४॥
sa muni-pravaraḥ deva jaratkāruḥ mahā-tapāḥ . kasyām putram mahātmānam janayiṣyati vīryavān ..14..
ब्रह्मोवाच॥
सनामायां सनामा स कन्यायां द्विजसत्तमः । अपत्यं वीर्यवान्देवा वीर्यवज्जनयिष्यति ॥१५॥
सनामायाम् सनामा स कन्यायाम् द्विजसत्तमः । अपत्यम् वीर्यवान् देवाः वीर्यवत् जनयिष्यति ॥१५॥
sanāmāyām sanāmā sa kanyāyām dvijasattamaḥ . apatyam vīryavān devāḥ vīryavat janayiṣyati ..15..
एलापत्र उवाच॥
एवमस्त्विति तं देवाः पितामहमथाब्रुवन् । उक्त्वा चैवं गता देवाः स च देवः पितामहः ॥१६॥
एवम् अस्तु इति तम् देवाः पितामहम् अथ अब्रुवन् । उक्त्वा च एवम् गताः देवाः स च देवः पितामहः ॥१६॥
evam astu iti tam devāḥ pitāmaham atha abruvan . uktvā ca evam gatāḥ devāḥ sa ca devaḥ pitāmahaḥ ..16..
सोऽहमेवं प्रपश्यामि वासुके भगिनीं तव । जरत्कारुरिति ख्यातां तां तस्मै प्रतिपादय ॥१७॥
सः अहम् एवम् प्रपश्यामि वासुके भगिनीम् तव । जरत्कारुः इति ख्याताम् ताम् तस्मै प्रतिपादय ॥१७॥
saḥ aham evam prapaśyāmi vāsuke bhaginīm tava . jaratkāruḥ iti khyātām tām tasmai pratipādaya ..17..
भैक्षवद्भिक्षमाणाय नागानां भयशान्तये । ऋषये सुव्रताय त्वमेष मोक्षः श्रुतो मया ॥१८॥ 1.38.19
भैक्ष-वत् भिक्षमाणाय नागानाम् भय-शान्तये । ऋषये सुव्रताय त्वम् एष मोक्षः श्रुतः मया ॥१८॥ १।३८।१९
bhaikṣa-vat bhikṣamāṇāya nāgānām bhaya-śāntaye . ṛṣaye suvratāya tvam eṣa mokṣaḥ śrutaḥ mayā ..18.. 1.38.19

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In