| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
एलापत्रस्य तु वचः श्रुत्वा नागा द्विजोत्तम । सर्वे प्रहृष्टमनसः साधु साध्वित्यपूजयन् ॥१॥
एलापत्रस्य तु वचः श्रुत्वा नागाः द्विजोत्तम । सर्वे प्रहृष्ट-मनसः साधु साधु इति अपूजयन् ॥१॥
elāpatrasya tu vacaḥ śrutvā nāgāḥ dvijottama . sarve prahṛṣṭa-manasaḥ sādhu sādhu iti apūjayan ..1..
ततः प्रभृति तां कन्यां वासुकिः पर्यरक्षत । जरत्कारुं स्वसारं वै परं हर्षमवाप च ॥२॥
ततस् प्रभृति ताम् कन्याम् वासुकिः पर्यरक्षत । जरत्कारुम् स्वसारम् वै परम् हर्षम् अवाप च ॥२॥
tatas prabhṛti tām kanyām vāsukiḥ paryarakṣata . jaratkārum svasāram vai param harṣam avāpa ca ..2..
ततो नातिमहान्कालः समतीत इवाभवत् । अथ देवासुराः सर्वे ममन्थुर्वरुणालयम् ॥३॥
ततस् न अतिमहान् कालः समतीतः इव अभवत् । अथ देव-असुराः सर्वे ममन्थुः वरुणालयम् ॥३॥
tatas na atimahān kālaḥ samatītaḥ iva abhavat . atha deva-asurāḥ sarve mamanthuḥ varuṇālayam ..3..
तत्र नेत्रमभून्नागो वासुकिर्बलिनां वरः । समाप्यैव च तत्कर्म पितामहमुपागमन् ॥४॥
तत्र नेत्रम् अभूत् नागः वासुकिः बलिनाम् वरः । समाप्य एव च तत् कर्म पितामहम् उपागमन् ॥४॥
tatra netram abhūt nāgaḥ vāsukiḥ balinām varaḥ . samāpya eva ca tat karma pitāmaham upāgaman ..4..
देवा वासुकिना सार्धं पितामहमथाब्रुवन् । भगवञ्शापभीतोऽयं वासुकिस्तप्यते भृशम् ॥५॥
देवाः वासुकिना सार्धम् पितामहम् अथ अब्रुवन् । भगवन् शाप-भीतः अयम् वासुकिः तप्यते भृशम् ॥५॥
devāḥ vāsukinā sārdham pitāmaham atha abruvan . bhagavan śāpa-bhītaḥ ayam vāsukiḥ tapyate bhṛśam ..5..
तस्येदं मानसं शल्यं समुद्धर्तुं त्वमर्हसि । जनन्याः शापजं देव ज्ञातीनां हितकाङ्क्षिणः ॥६॥
तस्य इदम् मानसम् शल्यम् समुद्धर्तुम् त्वम् अर्हसि । जनन्याः शाप-जम् देव ज्ञातीनाम् हित-काङ्क्षिणः ॥६॥
tasya idam mānasam śalyam samuddhartum tvam arhasi . jananyāḥ śāpa-jam deva jñātīnām hita-kāṅkṣiṇaḥ ..6..
हितो ह्ययं सदास्माकं प्रियकारी च नागराट् । कुरु प्रसादं देवेश शमयास्य मनोज्वरम् ॥७॥
हितः हि अयम् सदा अस्माकम् प्रिय-कारी च नाग-राज् । कुरु प्रसादम् देवेश शमय अस्य मनः-ज्वरम् ॥७॥
hitaḥ hi ayam sadā asmākam priya-kārī ca nāga-rāj . kuru prasādam deveśa śamaya asya manaḥ-jvaram ..7..
ब्रह्मोवाच॥
मयैवैतद्वितीर्णं वै वचनं मनसामराः । एलापत्रेण नागेन यदस्याभिहितं पुरा ॥८॥
मया एव एतत् वितीर्णम् वै वचनम् मनसा अमराः । एलापत्रेण नागेन यत् अस्य अभिहितम् पुरा ॥८॥
mayā eva etat vitīrṇam vai vacanam manasā amarāḥ . elāpatreṇa nāgena yat asya abhihitam purā ..8..
तत्करोत्वेष नागेन्द्रः प्राप्तकालं वचस्तथा । विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः ॥९॥
तत् करोतु एष नाग-इन्द्रः प्राप्त-कालम् वचः तथा । विनशिष्यन्ति ये पापाः न तु ये धर्म-चारिणः ॥९॥
tat karotu eṣa nāga-indraḥ prāpta-kālam vacaḥ tathā . vinaśiṣyanti ye pāpāḥ na tu ye dharma-cāriṇaḥ ..9..
उत्पन्नः स जरत्कारुस्तपस्युग्रे रतो द्विजः । तस्यैष भगिनीं काले जरत्कारुं प्रयच्छतु ॥१०॥
उत्पन्नः स जरत्कारुः तपसि उग्रे रतः द्विजः । तस्य एष भगिनीम् काले जरत्कारुम् प्रयच्छतु ॥१०॥
utpannaḥ sa jaratkāruḥ tapasi ugre rataḥ dvijaḥ . tasya eṣa bhaginīm kāle jaratkārum prayacchatu ..10..
यदेलापत्रेण वचस्तदोक्तं भुजगेन ह । पन्नगानां हितं देवास्तत्तथा न तदन्यथा ॥११॥
यत् इलापत्रेण वचः तदा उक्तम् भुजगेन ह । पन्नगानाम् हितम् देवाः तत् तथा न तत् अन्यथा ॥११॥
yat ilāpatreṇa vacaḥ tadā uktam bhujagena ha . pannagānām hitam devāḥ tat tathā na tat anyathā ..11..
सूत उवाच॥
एतच्छ्रुत्वा स नागेन्द्रः पितामहवचस्तदा । सर्पान्बहूञ्जरत्कारौ नित्ययुक्तान्समादधत् ॥१२॥
एतत् श्रुत्वा स नाग-इन्द्रः पितामह-वचः तदा । सर्पान् बहून् जरत्कारौ नित्य-युक्तान् समादधत् ॥१२॥
etat śrutvā sa nāga-indraḥ pitāmaha-vacaḥ tadā . sarpān bahūn jaratkārau nitya-yuktān samādadhat ..12..
जरत्कारुर्यदा भार्यामिच्छेद्वरयितुं प्रभुः । शीघ्रमेत्य ममाख्येयं तन्नः श्रेयो भविष्यति ॥१३॥ 1.39.14
जरत्कारुः यदा भार्याम् इच्छेत् वरयितुम् प्रभुः । शीघ्रम् एत्य मम आख्येयम् तत् नः श्रेयः भविष्यति ॥१३॥ १।३९।१४
jaratkāruḥ yadā bhāryām icchet varayitum prabhuḥ . śīghram etya mama ākhyeyam tat naḥ śreyaḥ bhaviṣyati ..13.. 1.39.14

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In