| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

शौनक उवाच॥
जरत्कारुरिति प्रोक्तं यत्त्वया सूतनन्दन । इच्छाम्येतदहं तस्य ऋषेः श्रोतुं महात्मनः ॥१॥
जरत्कारुः इति प्रोक्तम् यत् त्वया सूत-नन्दन । इच्छामि एतत् अहम् तस्य ऋषेः श्रोतुम् महात्मनः ॥१॥
jaratkāruḥ iti proktam yat tvayā sūta-nandana . icchāmi etat aham tasya ṛṣeḥ śrotum mahātmanaḥ ..1..
किं कारणं जरत्कारोर्नामैतत्प्रथितं भुवि । जरत्कारुनिरुक्तं त्वं यथावद्वक्तुमर्हसि ॥२॥
किम् कारणम् जरत्कारोः नाम एतत् प्रथितम् भुवि । जरत्कारु-निरुक्तम् त्वम् यथावत् वक्तुम् अर्हसि ॥२॥
kim kāraṇam jaratkāroḥ nāma etat prathitam bhuvi . jaratkāru-niruktam tvam yathāvat vaktum arhasi ..2..
सूत उवाच॥
जरेति क्षयमाहुर्वै दारुणं कारुसञ्ज्ञितम् । शरीरं कारु तस्यासीत्तत्स धीमाञ्शनैः शनैः ॥३॥
जरा इति क्षयम् आहुः वै दारुणम् कारु-सञ्ज्ञितम् । शरीरम् कारु तस्य आसीत् तत् स धीमान् शनैस् शनैस् ॥३॥
jarā iti kṣayam āhuḥ vai dāruṇam kāru-sañjñitam . śarīram kāru tasya āsīt tat sa dhīmān śanais śanais ..3..
क्षपयामास तीव्रेण तपसेत्यत उच्यते । जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा ॥४॥
क्षपयामास तीव्रेण तपसा इति अतस् उच्यते । जरत्कारुः इति ब्रह्मन् वासुकेः भगिनी तथा ॥४॥
kṣapayāmāsa tīvreṇa tapasā iti atas ucyate . jaratkāruḥ iti brahman vāsukeḥ bhaginī tathā ..4..
एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा । उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन् ॥५॥
एवम् उक्तः तु धर्म-आत्मा शौनकः प्राहसत् तदा । उग्रश्रवसम् आमन्त्र्य उपपन्नम् इति ब्रुवन् ॥५॥
evam uktaḥ tu dharma-ātmā śaunakaḥ prāhasat tadā . ugraśravasam āmantrya upapannam iti bruvan ..5..
सूत उवाच॥
अथ कालस्य महतः स मुनिः संशितव्रतः । तपस्यभिरतो धीमान्न दारानभ्यकाङ्क्षत ॥६॥
अथ कालस्य महतः स मुनिः संशित-व्रतः । तपसि अभिरतः धीमान् न दारान् अभ्यकाङ्क्षत ॥६॥
atha kālasya mahataḥ sa muniḥ saṃśita-vrataḥ . tapasi abhirataḥ dhīmān na dārān abhyakāṅkṣata ..6..
स ऊर्ध्वरेतास्तपसि प्रसक्तः; स्वाध्यायवान्वीतभयक्लमः सन् । चचार सर्वां पृथिवीं महात्मा; न चापि दारान्मनसाप्यकाङ्क्षत् ॥७॥
सः ऊर्ध्वरेताः तपसि प्रसक्तः; स्वाध्यायवान् वीत-भय-क्लमः सन् । चचार सर्वाम् पृथिवीम् महात्मा; न च अपि दारान् मनसा अपि अकाङ्क्षत् ॥७॥
saḥ ūrdhvaretāḥ tapasi prasaktaḥ; svādhyāyavān vīta-bhaya-klamaḥ san . cacāra sarvām pṛthivīm mahātmā; na ca api dārān manasā api akāṅkṣat ..7..
ततोऽपरस्मिन्सम्प्राप्ते काले कस्मिंश्चिदेव तु । परिक्षिदिति विख्यातो राजा कौरववंशभृत् ॥८॥
ततस् अपरस्मिन् सम्प्राप्ते काले कस्मिंश्चिद् एव तु । परिक्षित् इति विख्यातः राजा कौरव-वंश-भृत् ॥८॥
tatas aparasmin samprāpte kāle kasmiṃścid eva tu . parikṣit iti vikhyātaḥ rājā kaurava-vaṃśa-bhṛt ..8..
यथा पाण्डुर्महाबाहुर्धनुर्धरवरो भुवि । बभूव मृगयाशीलः पुरास्य प्रपितामहः ॥९॥
यथा पाण्डुः महा-बाहुः धनुर्धर-वरः भुवि । बभूव मृगया-शीलः पुरा अस्य प्रपितामहः ॥९॥
yathā pāṇḍuḥ mahā-bāhuḥ dhanurdhara-varaḥ bhuvi . babhūva mṛgayā-śīlaḥ purā asya prapitāmahaḥ ..9..
मृगान्विध्यन्वराहांश्च तरक्षून्महिषांस्तथा । अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः ॥१०॥
मृगान् विध्यन् वराहान् च तरक्षून् महिषान् तथा । अन्यान् च विविधान् वन्यान् चचार पृथिवीपतिः ॥१०॥
mṛgān vidhyan varāhān ca tarakṣūn mahiṣān tathā . anyān ca vividhān vanyān cacāra pṛthivīpatiḥ ..10..
स कदाचिन्मृगं विद्ध्वा बाणेन नतपर्वणा । पृष्ठतो धनुरादाय ससार गहने वने ॥११॥
स कदाचिद् मृगम् विद्ध्वा बाणेन नत-पर्वणा । पृष्ठतस् धनुः आदाय ससार गहने वने ॥११॥
sa kadācid mṛgam viddhvā bāṇena nata-parvaṇā . pṛṣṭhatas dhanuḥ ādāya sasāra gahane vane ..11..
यथा हि भगवान्रुद्रो विद्ध्वा यज्ञमृगं दिवि । अन्वगच्छद्धनुष्पाणिः पर्यन्वेषंस्ततस्ततः ॥१२॥
यथा हि भगवान् रुद्रः विद्ध्वा यज्ञ-मृगम् दिवि । अन्वगच्छत् धनुष्पाणिः पर्यन्वेषन् ततस् ततस् ॥१२॥
yathā hi bhagavān rudraḥ viddhvā yajña-mṛgam divi . anvagacchat dhanuṣpāṇiḥ paryanveṣan tatas tatas ..12..
न हि तेन मृगो विद्धो जीवन्गच्छति वै वनम् । पूर्वरूपं तु तन्नूनमासीत्स्वर्गगतिं प्रति ॥१३॥ ( परिक्षितस्तस्य राज्ञो विद्धो यन्नष्टवान्मृगः ॥१३॥ )
न हि तेन मृगः विद्धः जीवन् गच्छति वै वनम् । पूर्व-रूपम् तु तत् नूनम् आसीत् स्वर्ग-गतिम् प्रति ॥१३॥ ( परिक्षितः तस्य राज्ञः विद्धः यत् नष्टवान् मृगः ॥१३॥ )
na hi tena mṛgaḥ viddhaḥ jīvan gacchati vai vanam . pūrva-rūpam tu tat nūnam āsīt svarga-gatim prati ..13.. ( parikṣitaḥ tasya rājñaḥ viddhaḥ yat naṣṭavān mṛgaḥ ..13.. )
दूरं चापहृतस्तेन मृगेण स महीपतिः । परिश्रान्तः पिपासार्त आससाद मुनिं वने ॥१४॥
दूरम् च अपहृतः तेन मृगेण स महीपतिः । परिश्रान्तः पिपासा-आर्तः आससाद मुनिम् वने ॥१४॥
dūram ca apahṛtaḥ tena mṛgeṇa sa mahīpatiḥ . pariśrāntaḥ pipāsā-ārtaḥ āsasāda munim vane ..14..
गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम् । भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः ॥१५॥
गवाम् प्रचारेषु आसीनम् वत्सानाम् मुख-निःसृतम् । भूयिष्ठम् उपयुञ्जानम् फेनम् आपिबताम् पयः ॥१५॥
gavām pracāreṣu āsīnam vatsānām mukha-niḥsṛtam . bhūyiṣṭham upayuñjānam phenam āpibatām payaḥ ..15..
तमभिद्रुत्य वेगेन स राजा संशितव्रतम् । अपृच्छद्धनुरुद्यम्य तं मुनिं क्षुच्छ्रमान्वितः ॥१६॥
तम् अभिद्रुत्य वेगेन स राजा संशित-व्रतम् । अपृच्छत् धनुः उद्यम्य तम् मुनिम् क्षुध्-श्रम-अन्वितः ॥१६॥
tam abhidrutya vegena sa rājā saṃśita-vratam . apṛcchat dhanuḥ udyamya tam munim kṣudh-śrama-anvitaḥ ..16..
भो भो ब्रह्मन्नहं राजा परिक्षिदभिमन्युजः । मया विद्धो मृगो नष्टः कच्चित्त्वं दृष्टवानसि ॥१७॥
भो भो ब्रह्मन् अहम् राजा परिक्षित् अभिमन्यु-जः । मया विद्धः मृगः नष्टः कच्चित् त्वम् दृष्टवान् असि ॥१७॥
bho bho brahman aham rājā parikṣit abhimanyu-jaḥ . mayā viddhaḥ mṛgaḥ naṣṭaḥ kaccit tvam dṛṣṭavān asi ..17..
स मुनिस्तस्य नोवाच किञ्चिन्मौनव्रते स्थितः । तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासजत् ॥१८॥
स मुनिः तस्य ना उवाच किञ्चिद् मौन-व्रते स्थितः । तस्य स्कन्धे मृतम् सर्पम् क्रुद्धः राजा समासजत् ॥१८॥
sa muniḥ tasya nā uvāca kiñcid mauna-vrate sthitaḥ . tasya skandhe mṛtam sarpam kruddhaḥ rājā samāsajat ..18..
धनुष्कोट्या समुत्क्षिप्य स चैनं समुदैक्षत । न च किञ्चिदुवाचैनं शुभं वा यदि वाशुभम् ॥१९॥
धनुष्कोट्या समुत्क्षिप्य स च एनम् समुदैक्षत । न च किञ्चिद् उवाच एनम् शुभम् वा यदि वा अशुभम् ॥१९॥
dhanuṣkoṭyā samutkṣipya sa ca enam samudaikṣata . na ca kiñcid uvāca enam śubham vā yadi vā aśubham ..19..
स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम् । दृष्ट्वा जगाम नगरमृषिस्त्वास्ते तथैव सः ॥२०॥
स राजा क्रोधम् उत्सृज्य व्यथितः तम् तथागतम् । दृष्ट्वा जगाम नगरम् ऋषिः तु आस्ते तथा एव सः ॥२०॥
sa rājā krodham utsṛjya vyathitaḥ tam tathāgatam . dṛṣṭvā jagāma nagaram ṛṣiḥ tu āste tathā eva saḥ ..20..
तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः । शृङ्गी नाम महाक्रोधो दुष्प्रसादो महाव्रतः ॥२१॥
तरुणः तस्य पुत्रः अभूत् तिग्म-तेजाः महा-तपाः । शृङ्गी नाम महा-क्रोधः दुष्प्रसादः महा-व्रतः ॥२१॥
taruṇaḥ tasya putraḥ abhūt tigma-tejāḥ mahā-tapāḥ . śṛṅgī nāma mahā-krodhaḥ duṣprasādaḥ mahā-vrataḥ ..21..
स देवं परमीशानं सर्वभूतहिते रतम् । ब्रह्माणमुपतस्थे वै काले काले सुसंयतः ॥२२॥ ( स तेन समनुज्ञातो ब्रह्मणा गृहमेयिवान् ॥२२॥ )
स देवम् परम् ईशानम् सर्व-भूत-हिते रतम् । ब्रह्माणम् उपतस्थे वै काले काले सु संयतः ॥२२॥ ( स तेन समनुज्ञातः ब्रह्मणा गृहम् एयिवान् ॥२२॥ )
sa devam param īśānam sarva-bhūta-hite ratam . brahmāṇam upatasthe vai kāle kāle su saṃyataḥ ..22.. ( sa tena samanujñātaḥ brahmaṇā gṛham eyivān ..22.. )
सख्योक्तः क्रीडमानेन स तत्र हसता किल । संरम्भी कोपनोऽतीव विषकल्प ऋषेः सुतः ॥२३॥ ( ऋषिपुत्रेण नर्मार्थं कृशेन द्विजसत्तम ॥२३॥ )
सख्या उक्तः क्रीडमानेन स तत्र हसता किल । संरम्भी कोपनः अतीव विष-कल्पः ऋषेः सुतः ॥२३॥ ( ऋषि-पुत्रेण नर्म-अर्थम् कृशेन द्विजसत्तम ॥२३॥ )
sakhyā uktaḥ krīḍamānena sa tatra hasatā kila . saṃrambhī kopanaḥ atīva viṣa-kalpaḥ ṛṣeḥ sutaḥ ..23.. ( ṛṣi-putreṇa narma-artham kṛśena dvijasattama ..23.. )
तेजस्विनस्तव पिता तथैव च तपस्विनः । शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव ॥२४॥
तेजस्विनः तव पिता तथा एव च तपस्विनः । शवम् स्कन्धेन वहति मा शृङ्गिन् गर्वितः भव ॥२४॥
tejasvinaḥ tava pitā tathā eva ca tapasvinaḥ . śavam skandhena vahati mā śṛṅgin garvitaḥ bhava ..24..
व्याहरत्स्वृषिपुत्रेषु मा स्म किञ्चिद्वचो वदीः । अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु ॥२५॥
व्याहरत्सु ऋषि-पुत्रेषु मा स्म किञ्चिद् वचः वदीः । अस्मद्विधेषु सिद्धेषु तपस्विषु ॥२५॥
vyāharatsu ṛṣi-putreṣu mā sma kiñcid vacaḥ vadīḥ . asmadvidheṣu siddheṣu tapasviṣu ..25..
क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाः । दर्पजाः पितरं यस्त्वं द्रष्टा शवधरं तथा ॥२६॥ 1.40.31
क्व ते पुरुष-मानि-त्वम् क्व ते वाचः तथाविधाः । दर्प-जाः पितरम् यः त्वम् द्रष्टा शव-धरम् तथा ॥२६॥ १।४०।३१
kva te puruṣa-māni-tvam kva te vācaḥ tathāvidhāḥ . darpa-jāḥ pitaram yaḥ tvam draṣṭā śava-dharam tathā ..26.. 1.40.31

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In