| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
एवमुक्तः स तेजस्वी शृङ्गी कोपसमन्वितः । मृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना ॥१॥
एवम् उक्तः स तेजस्वी शृङ्गी कोप-समन्वितः । मृत-धारम् गुरुम् श्रुत्वा पर्यतप्यत मन्युना ॥१॥
evam uktaḥ sa tejasvī śṛṅgī kopa-samanvitaḥ . mṛta-dhāram gurum śrutvā paryatapyata manyunā ..1..
स तं कृशमभिप्रेष्क्य सूनृतां वाचमुत्सृजन् । अपृच्छत कथं तातः स मेऽद्य मृतधारकः ॥२॥
स तम् कृशम् अभिप्रेष्क्य सूनृताम् वाचम् उत्सृजन् । अपृच्छत कथम् तातः स मे अद्य मृत-धारकः ॥२॥
sa tam kṛśam abhipreṣkya sūnṛtām vācam utsṛjan . apṛcchata katham tātaḥ sa me adya mṛta-dhārakaḥ ..2..
कृश उवाच॥
राज्ञा परिक्षिता तात मृगयां परिधावता । अवसक्तः पितुस्तेऽद्य मृतः स्कन्धे भुजङ्गमः ॥३॥
राज्ञा परिक्षिता तात मृगयाम् परिधावता । अवसक्तः पितुः ते अद्य मृतः स्कन्धे भुजङ्गमः ॥३॥
rājñā parikṣitā tāta mṛgayām paridhāvatā . avasaktaḥ pituḥ te adya mṛtaḥ skandhe bhujaṅgamaḥ ..3..
शृङ्ग्युवाच॥
किं मे पित्रा कृतं तस्य राज्ञोऽनिष्टं दुरात्मनः । ब्रूहि त्वं कृश तत्त्वेन पश्य मे तपसो बलम् ॥४॥
किम् मे पित्रा कृतम् तस्य राज्ञः अनिष्टम् दुरात्मनः । ब्रूहि त्वम् कृश तत्त्वेन पश्य मे तपसः बलम् ॥४॥
kim me pitrā kṛtam tasya rājñaḥ aniṣṭam durātmanaḥ . brūhi tvam kṛśa tattvena paśya me tapasaḥ balam ..4..
कृश उवाच॥
स राजा मृगयां यातः परिक्षिदभिमन्युजः । ससार मृगमेकाकी विद्ध्वा बाणेन पत्रिणा ॥५॥
स राजा मृगयाम् यातः परिक्षित् अभिमन्यु-जः । ससार मृगम् एकाकी विद्ध्वा बाणेन पत्रिणा ॥५॥
sa rājā mṛgayām yātaḥ parikṣit abhimanyu-jaḥ . sasāra mṛgam ekākī viddhvā bāṇena patriṇā ..5..
न चापश्यन्मृगं राजा चरंस्तस्मिन्महावने । पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम् ॥६॥
न च अपश्यत् मृगम् राजा चरन् तस्मिन् महा-वने । पितरम् ते स दृष्ट्वा एव पप्रच्छ अनभिभाषिणम् ॥६॥
na ca apaśyat mṛgam rājā caran tasmin mahā-vane . pitaram te sa dṛṣṭvā eva papraccha anabhibhāṣiṇam ..6..
तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासाश्रमातुरः । पुनः पुनर्मृगं नष्टं पप्रच्छ पितरं तव ॥७॥
तम् स्थाणु-भूतम् तिष्ठन्तम् क्षुध्-पिपासा-श्रम-आतुरः । पुनर् पुनर् मृगम् नष्टम् पप्रच्छ पितरम् तव ॥७॥
tam sthāṇu-bhūtam tiṣṭhantam kṣudh-pipāsā-śrama-āturaḥ . punar punar mṛgam naṣṭam papraccha pitaram tava ..7..
स च मौनव्रतोपेतो नैव तं प्रत्यभाषत । तस्य राजा धनुष्कोट्या सर्पं स्कन्धे समासृजत् ॥८॥
स च मौन-व्रत-उपेतः न एव तम् प्रत्यभाषत । तस्य राजा धनुष्कोट्या सर्पम् स्कन्धे समासृजत् ॥८॥
sa ca mauna-vrata-upetaḥ na eva tam pratyabhāṣata . tasya rājā dhanuṣkoṭyā sarpam skandhe samāsṛjat ..8..
शृङ्गिंस्तव पिताद्यासौ तथैवास्ते यतव्रतः । सोऽपि राजा स्वनगरं प्रतियातो गजाह्वयम् ॥९॥
शृङ्गिन् तव पिता अद्य असौ तथा एव आस्ते यत-व्रतः । सः अपि राजा स्व-नगरम् प्रतियातः गजाह्वयम् ॥९॥
śṛṅgin tava pitā adya asau tathā eva āste yata-vrataḥ . saḥ api rājā sva-nagaram pratiyātaḥ gajāhvayam ..9..
सूत उवाच॥
श्रुत्वैवमृषिपुत्रस्तु दिवं स्तब्ध्वेव विष्ठितः । कोपसंरक्तनयनः प्रज्वलन्निव मन्युना ॥१०॥
श्रुत्वा एवम् ऋषि-पुत्रः तु दिवम् स्तब्ध्वा इव विष्ठितः । कोप-संरक्त-नयनः प्रज्वलन् इव मन्युना ॥१०॥
śrutvā evam ṛṣi-putraḥ tu divam stabdhvā iva viṣṭhitaḥ . kopa-saṃrakta-nayanaḥ prajvalan iva manyunā ..10..
आविष्टः स तु कोपेन शशाप नृपतिं तदा । वार्युपस्पृश्य तेजस्वी क्रोधवेगबलात्कृतः ॥११॥
आविष्टः स तु कोपेन शशाप नृपतिम् तदा । वारि उपस्पृश्य तेजस्वी क्रोध-वेग-बलात्कृतः ॥११॥
āviṣṭaḥ sa tu kopena śaśāpa nṛpatim tadā . vāri upaspṛśya tejasvī krodha-vega-balātkṛtaḥ ..11..
शृङ्ग्युवाच॥
योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य च । स्कन्धे मृतमवास्राक्षीत्पन्नगं राजकिल्बिषी ॥१२॥
यः असौ वृद्धस्य तातस्य तथा कृच्छ्र-गतस्य च । स्कन्धे मृतम् अवास्राक्षीत् पन्नगम् राज-किल्बिषी ॥१२॥
yaḥ asau vṛddhasya tātasya tathā kṛcchra-gatasya ca . skandhe mṛtam avāsrākṣīt pannagam rāja-kilbiṣī ..12..
तं पापमतिसङ्क्रुद्धस्तक्षकः पन्नगोत्तमः । आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः ॥१३॥
तम् पापम् अति सङ्क्रुद्धः तक्षकः पन्नग-उत्तमः । आशीविषः तिग्म-तेजाः मद्-वाक्य-बल-चोदितः ॥१३॥
tam pāpam ati saṅkruddhaḥ takṣakaḥ pannaga-uttamaḥ . āśīviṣaḥ tigma-tejāḥ mad-vākya-bala-coditaḥ ..13..
सप्तरात्रादितो नेता यमस्य सदनं प्रति । द्विजानामवमन्तारं कुरूणामयशस्करम् ॥१४॥
सप्त-रात्रात् इतस् नेता यमस्य सदनम् प्रति । द्विजानाम् अवमन्तारम् कुरूणाम् अयशस्करम् ॥१४॥
sapta-rātrāt itas netā yamasya sadanam prati . dvijānām avamantāram kurūṇām ayaśaskaram ..14..
सूत उवाच॥
इति शप्त्वा नृपं क्रुद्धः शृङ्गी पितरमभ्ययात् । आसीनं गोचरे तस्मिन्वहन्तं शवपन्नगम् ॥१५॥
इति शप्त्वा नृपम् क्रुद्धः शृङ्गी पितरम् अभ्ययात् । आसीनम् गोचरे तस्मिन् वहन्तम् शव-पन्नगम् ॥१५॥
iti śaptvā nṛpam kruddhaḥ śṛṅgī pitaram abhyayāt . āsīnam gocare tasmin vahantam śava-pannagam ..15..
स तमालक्ष्य पितरं शृङ्गी स्कन्धगतेन वै । शवेन भुजगेनासीद्भूयः क्रोधसमन्वितः ॥१६॥
स तम् आलक्ष्य पितरम् शृङ्गी स्कन्ध-गतेन वै । शवेन भुजगेन आसीत् भूयस् क्रोध-समन्वितः ॥१६॥
sa tam ālakṣya pitaram śṛṅgī skandha-gatena vai . śavena bhujagena āsīt bhūyas krodha-samanvitaḥ ..16..
दुःखाच्चाश्रूणि मुमुचे पितरं चेदमब्रवीत् । श्रुत्वेमां धर्षणां तात तव तेन दुरात्मना ॥१७॥
दुःखात् च अश्रूणि मुमुचे पितरम् च इदम् अब्रवीत् । श्रुत्वा इमाम् धर्षणाम् तात तव तेन दुरात्मना ॥१७॥
duḥkhāt ca aśrūṇi mumuce pitaram ca idam abravīt . śrutvā imām dharṣaṇām tāta tava tena durātmanā ..17..
राज्ञा परिक्षिता कोपादशपं तमहं नृपम् । यथार्हति स एवोग्रं शापं कुरुकुलाधमः ॥१८॥
राज्ञा परिक्षिता कोपात् अशपम् तम् अहम् नृपम् । यथा अर्हति सः एवा उग्रम् शापम् कुरु-कुल-अधमः ॥१८॥
rājñā parikṣitā kopāt aśapam tam aham nṛpam . yathā arhati saḥ evā ugram śāpam kuru-kula-adhamaḥ ..18..
सप्तमेऽहनि तं पापं तक्षकः पन्नगोत्तमः । वैवस्वतस्य भवनं नेता परमदारुणम् ॥१९॥
सप्तमे अहनि तम् पापम् तक्षकः पन्नग-उत्तमः । वैवस्वतस्य भवनम् नेता परम-दारुणम् ॥१९॥
saptame ahani tam pāpam takṣakaḥ pannaga-uttamaḥ . vaivasvatasya bhavanam netā parama-dāruṇam ..19..
तमब्रवीत्पिता ब्रह्मंस्तथा कोपसमन्वितम् । न मे प्रियं कृतं तात नैष धर्मस्तपस्विनाम् ॥२०॥
तम् अब्रवीत् पिता ब्रह्मन् तथा कोप-समन्वितम् । न मे प्रियम् कृतम् तात न एष धर्मः तपस्विनाम् ॥२०॥
tam abravīt pitā brahman tathā kopa-samanvitam . na me priyam kṛtam tāta na eṣa dharmaḥ tapasvinām ..20..
वयं तस्य नरेन्द्रस्य विषये निवसामहे । न्यायतो रक्षितास्तेन तस्य पापं न रोचये ॥२१॥
वयम् तस्य नरेन्द्रस्य विषये निवसामहे । न्यायतः रक्षिताः तेन तस्य पापम् न रोचये ॥२१॥
vayam tasya narendrasya viṣaye nivasāmahe . nyāyataḥ rakṣitāḥ tena tasya pāpam na rocaye ..21..
सर्वथा वर्तमानस्य राज्ञो ह्यस्मद्विधैः सदा । क्षन्तव्यं पुत्र धर्मो हि हतो हन्ति न संशयः ॥२२॥
सर्वथा वर्तमानस्य राज्ञः हि अस्मद्विधैः सदा । क्षन्तव्यम् पुत्र धर्मः हि हतः हन्ति न संशयः ॥२२॥
sarvathā vartamānasya rājñaḥ hi asmadvidhaiḥ sadā . kṣantavyam putra dharmaḥ hi hataḥ hanti na saṃśayaḥ ..22..
यदि राजा न रक्षेत पीडा वै नः परा भवेत् । न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम् ॥२३॥
यदि राजा न रक्षेत पीडा वै नः परा भवेत् । न शक्नुयाम चरितुम् धर्मम् पुत्र यथासुखम् ॥२३॥
yadi rājā na rakṣeta pīḍā vai naḥ parā bhavet . na śaknuyāma caritum dharmam putra yathāsukham ..23..
रक्ष्यमाणा वयं तात राजभिः शास्त्रदृष्टिभिः । चरामो विपुलं धर्मं तेषां चांशोऽस्ति धर्मतः ॥२४॥
रक्ष्यमाणाः वयम् तात राजभिः शास्त्र-दृष्टिभिः । चरामः विपुलम् धर्मम् तेषाम् च अंशः अस्ति धर्मतः ॥२४॥
rakṣyamāṇāḥ vayam tāta rājabhiḥ śāstra-dṛṣṭibhiḥ . carāmaḥ vipulam dharmam teṣām ca aṃśaḥ asti dharmataḥ ..24..
परिक्षित्तु विशेषेण यथास्य प्रपितामहः । रक्षत्यस्मान्यथा राज्ञा रक्षितव्याः प्रजास्तथा ॥२५॥
परिक्षित् तु विशेषेण यथा अस्य प्रपितामहः । रक्षति अस्मान् यथा राज्ञा रक्षितव्याः प्रजाः तथा ॥२५॥
parikṣit tu viśeṣeṇa yathā asya prapitāmahaḥ . rakṣati asmān yathā rājñā rakṣitavyāḥ prajāḥ tathā ..25..
तेनेह क्षुधितेनाद्य श्रान्तेन च तपस्विना । अजानता व्रतमिदं कृतमेतदसंशयम् ॥२६॥
तेन इह क्षुधितेन अद्य श्रान्तेन च तपस्विना । अ जानता व्रतम् इदम् कृतम् एतत् असंशयम् ॥२६॥
tena iha kṣudhitena adya śrāntena ca tapasvinā . a jānatā vratam idam kṛtam etat asaṃśayam ..26..
तस्मादिदं त्वया बाल्यात्सहसा दुष्कृतं कृतम् । न ह्यर्हति नृपः शापमस्मत्तः पुत्र सर्वथा ॥२७॥ 1.41.33
तस्मात् इदम् त्वया बाल्यात् सहसा दुष्कृतम् कृतम् । न हि अर्हति नृपः शापम् अस्मत्तः पुत्र सर्वथा ॥२७॥ १।४१।३३
tasmāt idam tvayā bālyāt sahasā duṣkṛtam kṛtam . na hi arhati nṛpaḥ śāpam asmattaḥ putra sarvathā ..27.. 1.41.33

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In