| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

शृङ्ग्युवाच॥
यद्येतत्साहसं तात यदि वा दुष्कृतं कृतम् । प्रियं वाप्यप्रियं वा ते वागुक्ता न मृषा मया ॥१॥
यदि एतत् साहसम् तात यदि वा दुष्कृतम् कृतम् । प्रियम् वा अपि अप्रियम् वा ते वाच् उक्ता न मृषा मया ॥१॥
yadi etat sāhasam tāta yadi vā duṣkṛtam kṛtam . priyam vā api apriyam vā te vāc uktā na mṛṣā mayā ..1..
नैवान्यथेदं भविता पितरेष ब्रवीमि ते । नाहं मृषा प्रब्रवीमि स्वैरेष्वपि कुतः शपन् ॥२॥
न एव अन्यथा इदम् भविता पितर् एष ब्रवीमि ते । न अहम् मृषा प्रब्रवीमि स्वैरेषु अपि कुतस् शपन् ॥२॥
na eva anyathā idam bhavitā pitar eṣa bravīmi te . na aham mṛṣā prabravīmi svaireṣu api kutas śapan ..2..
शमीक उवाच॥
जानाम्युग्रप्रभावं त्वां पुत्र सत्यगिरं तथा । नानृतं ह्युक्तपूर्वं ते नैतन्मिथ्या भविष्यति ॥३॥
जानामि उग्र-प्रभावम् त्वाम् पुत्र सत्य-गिरम् तथा । न अनृतम् हि उक्त-पूर्वम् ते न एतत् मिथ्या भविष्यति ॥३॥
jānāmi ugra-prabhāvam tvām putra satya-giram tathā . na anṛtam hi ukta-pūrvam te na etat mithyā bhaviṣyati ..3..
पित्रा पुत्रो वयःस्थोऽपि सततं वाच्य एव तु । यथा स्याद्गुणसंयुक्तः प्राप्नुयाच्च महद्यशः ॥४॥
पित्रा पुत्रः वयःस्थः अपि सततम् वाच्यः एव तु । यथा स्यात् गुण-संयुक्तः प्राप्नुयात् च महत् यशः ॥४॥
pitrā putraḥ vayaḥsthaḥ api satatam vācyaḥ eva tu . yathā syāt guṇa-saṃyuktaḥ prāpnuyāt ca mahat yaśaḥ ..4..
किं पुनर्बाल एव त्वं तपसा भावितः प्रभो । वर्धते च प्रभवतां कोपोऽतीव महात्मनाम् ॥५॥
किम् पुनर् बालः एव त्वम् तपसा भावितः प्रभो । वर्धते च प्रभवताम् कोपः अतीव महात्मनाम् ॥५॥
kim punar bālaḥ eva tvam tapasā bhāvitaḥ prabho . vardhate ca prabhavatām kopaḥ atīva mahātmanām ..5..
सोऽहं पश्यामि वक्तव्यं त्वयि धर्मभृतां वर । पुत्रत्वं बालतां चैव तवावेक्ष्य च साहसम् ॥६॥
सः अहम् पश्यामि वक्तव्यम् त्वयि धर्म-भृताम् वर । पुत्र-त्वम् बाल-ताम् च एव तव अवेक्ष्य च साहसम् ॥६॥
saḥ aham paśyāmi vaktavyam tvayi dharma-bhṛtām vara . putra-tvam bāla-tām ca eva tava avekṣya ca sāhasam ..6..
स त्वं शमयुतो भूत्वा वन्यमाहारमाहरन् । चर क्रोधमिमं त्यक्त्वा नैवं धर्मं प्रहास्यसि ॥७॥
स त्वम् शम-युतः भूत्वा वन्यम् आहारम् आहरन् । चर क्रोधम् इमम् त्यक्त्वा न एवम् धर्मम् प्रहास्यसि ॥७॥
sa tvam śama-yutaḥ bhūtvā vanyam āhāram āharan . cara krodham imam tyaktvā na evam dharmam prahāsyasi ..7..
क्रोधो हि धर्मं हरति यतीनां दुःखसञ्चितम् । ततो धर्मविहीनानां गतिरिष्टा न विद्यते ॥८॥
क्रोधः हि धर्मम् हरति यतीनाम् दुःख-सञ्चितम् । ततस् धर्म-विहीनानाम् गतिः इष्टा न विद्यते ॥८॥
krodhaḥ hi dharmam harati yatīnām duḥkha-sañcitam . tatas dharma-vihīnānām gatiḥ iṣṭā na vidyate ..8..
शम एव यतीनां हि क्षमिणां सिद्धिकारकः । क्षमावतामयं लोकः परश्चैव क्षमावताम् ॥९॥
शमः एव यतीनाम् हि क्षमिणाम् सिद्धि-कारकः । क्षमावताम् अयम् लोकः परः च एव क्षमावताम् ॥९॥
śamaḥ eva yatīnām hi kṣamiṇām siddhi-kārakaḥ . kṣamāvatām ayam lokaḥ paraḥ ca eva kṣamāvatām ..9..
तस्माच्चरेथाः सततं क्षमाशीलो जितेन्द्रियः । क्षमया प्राप्स्यसे लोकान्ब्रह्मणः समनन्तरान् ॥१०॥
तस्मात् चरेथाः सततम् क्षमा-शीलः जित-इन्द्रियः । क्षमया प्राप्स्यसे लोकान् ब्रह्मणः समनन्तरान् ॥१०॥
tasmāt carethāḥ satatam kṣamā-śīlaḥ jita-indriyaḥ . kṣamayā prāpsyase lokān brahmaṇaḥ samanantarān ..10..
मया तु शममास्थाय यच्छक्यं कर्तुमद्य वै । तत्करिष्येऽद्य ताताहं प्रेषयिष्ये नृपाय वै ॥११॥
मया तु शमम् आस्थाय यत् शक्यम् कर्तुम् अद्य वै । तत् करिष्ये अद्य तात अहम् प्रेषयिष्ये नृपाय वै ॥११॥
mayā tu śamam āsthāya yat śakyam kartum adya vai . tat kariṣye adya tāta aham preṣayiṣye nṛpāya vai ..11..
मम पुत्रेण शप्तोऽसि बालेनाकृतबुद्धिना । ममेमां धर्षणां त्वत्तः प्रेक्ष्य राजन्नमर्षिणा ॥१२॥
मम पुत्रेण शप्तः असि बालेन अकृतबुद्धिना । मम इमाम् धर्षणाम् त्वत्तः प्रेक्ष्य राजन् अमर्षिणा ॥१२॥
mama putreṇa śaptaḥ asi bālena akṛtabuddhinā . mama imām dharṣaṇām tvattaḥ prekṣya rājan amarṣiṇā ..12..
सूत उवाच॥
एवमादिश्य शिष्यं स प्रेषयामास सुव्रतः । परिक्षिते नृपतये दयापन्नो महातपाः ॥१३॥
एवम् आदिश्य शिष्यम् स प्रेषयामास सुव्रतः । परिक्षिते नृपतये दया-आपन्नः महा-तपाः ॥१३॥
evam ādiśya śiṣyam sa preṣayāmāsa suvrataḥ . parikṣite nṛpataye dayā-āpannaḥ mahā-tapāḥ ..13..
संदिश्य कुशलप्रश्नं कार्यवृत्तान्तमेव च । शिष्यं गौरमुखं नाम शीलवन्तं समाहितम् ॥१४॥
संदिश्य कुशलप्रश्नम् कार्य-वृत्तान्तम् एव च । शिष्यम् गौरमुखम् नाम शीलवन्तम् समाहितम् ॥१४॥
saṃdiśya kuśalapraśnam kārya-vṛttāntam eva ca . śiṣyam gauramukham nāma śīlavantam samāhitam ..14..
सोऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम् । विवेश भवनं राज्ञः पूर्वं द्वाःस्थैर्निवेदितः ॥१५॥
सः अभिगम्य ततस् शीघ्रम् नरेन्द्रम् कुरु-वर्धनम् । विवेश भवनम् राज्ञः पूर्वम् द्वाःस्थैः निवेदितः ॥१५॥
saḥ abhigamya tatas śīghram narendram kuru-vardhanam . viveśa bhavanam rājñaḥ pūrvam dvāḥsthaiḥ niveditaḥ ..15..
पूजितश्च नरेन्द्रेण द्विजो गौरमुखस्ततः । आचख्यौ परिविश्रान्तो राज्ञे सर्वमशेषतः ॥१६॥ ( शमीकवचनं घोरं यथोक्तं मन्त्रिसंनिधौ ॥१६॥ )
पूजितः च नरेन्द्रेण द्विजः गौरमुखः ततस् । आचख्यौ परिविश्रान्तः राज्ञे सर्वम् अशेषतस् ॥१६॥ ( शमीक-वचनम् घोरम् यथा उक्तम् मन्त्रि-संनिधौ ॥१६॥ )
pūjitaḥ ca narendreṇa dvijaḥ gauramukhaḥ tatas . ācakhyau pariviśrāntaḥ rājñe sarvam aśeṣatas ..16.. ( śamīka-vacanam ghoram yathā uktam mantri-saṃnidhau ..16.. )
शमीको नाम राजेन्द्र विषये वर्तते तव । ऋषिः परमधर्मात्मा दान्तः शान्तो महातपाः ॥१७॥
शमीकः नाम राज-इन्द्र विषये वर्तते तव । ऋषिः परम-धर्म-आत्मा दान्तः शान्तः महा-तपाः ॥१७॥
śamīkaḥ nāma rāja-indra viṣaye vartate tava . ṛṣiḥ parama-dharma-ātmā dāntaḥ śāntaḥ mahā-tapāḥ ..17..
तस्य त्वया नरव्याघ्र सर्पः प्राणैर्वियोजितः । अवसक्तो धनुष्कोट्या स्कन्धे भरतसत्तम ॥१८॥ ( क्षान्तवांस्तव तत्कर्म पुत्रस्तस्य न चक्षमे ॥१८॥ )
तस्य त्वया नर-व्याघ्र सर्पः प्राणैः वियोजितः । अवसक्तः धनुष्कोट्या स्कन्धे भरत-सत्तम ॥१८॥ ( क्षान्तवान् तव तत् कर्म पुत्रः तस्य न चक्षमे ॥१८॥ )
tasya tvayā nara-vyāghra sarpaḥ prāṇaiḥ viyojitaḥ . avasaktaḥ dhanuṣkoṭyā skandhe bharata-sattama ..18.. ( kṣāntavān tava tat karma putraḥ tasya na cakṣame ..18.. )
तेन शप्तोऽसि राजेन्द्र पितुरज्ञातमद्य वै । तक्षकः सप्तरात्रेण मृत्युस्ते वै भविष्यति ॥१९॥
तेन शप्तः असि राज-इन्द्र पितुः अज्ञातम् अद्य वै । तक्षकः सप्त-रात्रेण मृत्युः ते वै भविष्यति ॥१९॥
tena śaptaḥ asi rāja-indra pituḥ ajñātam adya vai . takṣakaḥ sapta-rātreṇa mṛtyuḥ te vai bhaviṣyati ..19..
तत्र रक्षां कुरुष्वेति पुनः पुनरथाब्रवीत् । तदन्यथा न शक्यं च कर्तुं केनचिदप्युत ॥२०॥
तत्र रक्षाम् कुरुष्व इति पुनर् पुनर् अथ अब्रवीत् । तत् अन्यथा न शक्यम् च कर्तुम् केनचिद् अपि उत ॥२०॥
tatra rakṣām kuruṣva iti punar punar atha abravīt . tat anyathā na śakyam ca kartum kenacid api uta ..20..
न हि शक्नोति संयन्तुं पुत्रं कोपसमन्वितम् । ततोऽहं प्रेषितस्तेन तव राजन्हितार्थिना ॥२१॥
न हि शक्नोति संयन्तुम् पुत्रम् कोप-समन्वितम् । ततस् अहम् प्रेषितः तेन तव राजन् हित-अर्थिना ॥२१॥
na hi śaknoti saṃyantum putram kopa-samanvitam . tatas aham preṣitaḥ tena tava rājan hita-arthinā ..21..
इति श्रुत्वा वचो घोरं स राजा कुरुनन्दनः । पर्यतप्यत तत्पापं कृत्वा राजा महातपाः ॥२२॥
इति श्रुत्वा वचः घोरम् स राजा कुरु-नन्दनः । पर्यतप्यत तत् पापम् कृत्वा राजा महा-तपाः ॥२२॥
iti śrutvā vacaḥ ghoram sa rājā kuru-nandanaḥ . paryatapyata tat pāpam kṛtvā rājā mahā-tapāḥ ..22..
तं च मौनव्रतधरं श्रुत्वा मुनिवरं तदा । भूय एवाभवद्राजा शोकसन्तप्तमानसः ॥२३॥
तम् च मौन-व्रत-धरम् श्रुत्वा मुनि-वरम् तदा । भूयस् एवा अभवत् राजा शोक-सन्तप्त-मानसः ॥२३॥
tam ca mauna-vrata-dharam śrutvā muni-varam tadā . bhūyas evā abhavat rājā śoka-santapta-mānasaḥ ..23..
अनुक्रोशात्मतां तस्य शमीकस्यावधार्य तु । पर्यतप्यत भूयोऽपि कृत्वा तत्किल्बिषं मुनेः ॥२४॥
अनुक्रोश-आत्मताम् तस्य शमीकस्य अवधार्य तु । पर्यतप्यत भूयस् अपि कृत्वा तद्-किल्बिषम् मुनेः ॥२४॥
anukrośa-ātmatām tasya śamīkasya avadhārya tu . paryatapyata bhūyas api kṛtvā tad-kilbiṣam muneḥ ..24..
न हि मृत्युं तथा राजा श्रुत्वा वै सोऽन्वतप्यत । अशोचदमरप्रख्यो यथा कृत्वेह कर्म तत् ॥२५॥
न हि मृत्युम् तथा राजा श्रुत्वा वै सः अन्वतप्यत । अशोचत् अमर-प्रख्यः यथा कृत्वा इह कर्म तत् ॥२५॥
na hi mṛtyum tathā rājā śrutvā vai saḥ anvatapyata . aśocat amara-prakhyaḥ yathā kṛtvā iha karma tat ..25..
ततस्तं प्रेषयामास राजा गौरमुखं तदा । भूयः प्रसादं भगवान्करोत्विति ममेति वै ॥२६॥
ततस् तम् प्रेषयामास राजा गौरमुखम् तदा । भूयस् प्रसादम् भगवान् करोतु इति मम इति वै ॥२६॥
tatas tam preṣayāmāsa rājā gauramukham tadā . bhūyas prasādam bhagavān karotu iti mama iti vai ..26..
तस्मिंश्च गतमात्रे वै राजा गौरमुखे तदा । मन्त्रिभिर्मन्त्रयामास सह संविग्नमानसः ॥२७॥
तस्मिन् च गत-मात्रे वै राजा गौरमुखे तदा । मन्त्रिभिः मन्त्रयामास सह संविग्न-मानसः ॥२७॥
tasmin ca gata-mātre vai rājā gauramukhe tadā . mantribhiḥ mantrayāmāsa saha saṃvigna-mānasaḥ ..27..
निश्चित्य मन्त्रिभिश्चैव सहितो मन्त्रतत्त्ववित् । प्रासादं कारयामास एकस्तम्भं सुरक्षितम् ॥२८॥
निश्चित्य मन्त्रिभिः च एव सहितः मन्त्र-तत्त्व-विद् । प्रासादम् कारयामास एक-स्तम्भम् सु रक्षितम् ॥२८॥
niścitya mantribhiḥ ca eva sahitaḥ mantra-tattva-vid . prāsādam kārayāmāsa eka-stambham su rakṣitam ..28..
रक्षां च विदधे तत्र भिषजश्चौषधानि च । ब्राह्मणान्सिद्धमन्त्रांश्च सर्वतो वै न्यवेशयत् ॥२९॥
रक्षाम् च विदधे तत्र भिषजः च औषधानि च । ब्राह्मणान् सिद्ध-मन्त्रान् च सर्वतस् वै न्यवेशयत् ॥२९॥
rakṣām ca vidadhe tatra bhiṣajaḥ ca auṣadhāni ca . brāhmaṇān siddha-mantrān ca sarvatas vai nyaveśayat ..29..
राजकार्याणि तत्रस्थः सर्वाण्येवाकरोच्च सः । मन्त्रिभिः सह धर्मज्ञः समन्तात्परिरक्षितः ॥३०॥
राज-कार्याणि तत्रस्थः सर्वाणि एव अकरोत् च सः । मन्त्रिभिः सह धर्म-ज्ञः समन्तात् परिरक्षितः ॥३०॥
rāja-kāryāṇi tatrasthaḥ sarvāṇi eva akarot ca saḥ . mantribhiḥ saha dharma-jñaḥ samantāt parirakṣitaḥ ..30..
प्राप्ते तु दिवसे तस्मिन्सप्तमे द्विजसत्तम । काश्यपोऽभ्यागमद्विद्वांस्तं राजानं चिकित्सितुम् ॥३१॥
प्राप्ते तु दिवसे तस्मिन् सप्तमे द्विजसत्तम । काश्यपः अभ्यागमत् विद्वान् तम् राजानम् चिकित्सितुम् ॥३१॥
prāpte tu divase tasmin saptame dvijasattama . kāśyapaḥ abhyāgamat vidvān tam rājānam cikitsitum ..31..
श्रुतं हि तेन तदभूदद्य तं राजसत्तमम् । तक्षकः पन्नगश्रेष्ठो नेष्यते यमसादनम् ॥३२॥
श्रुतम् हि तेन तत् अभूत् अद्य तम् राज-सत्तमम् । तक्षकः पन्नग-श्रेष्ठः नेष्यते यम-सादनम् ॥३२॥
śrutam hi tena tat abhūt adya tam rāja-sattamam . takṣakaḥ pannaga-śreṣṭhaḥ neṣyate yama-sādanam ..32..
तं दष्टं पन्नगेन्द्रेण करिष्येऽहमपज्वरम् । तत्र मेऽर्थश्च धर्मश्च भवितेति विचिन्तयन् ॥३३॥
तम् दष्टम् पन्नग-इन्द्रेण करिष्ये अहम् अपज्वरम् । तत्र मे अर्थः च धर्मः च भविता इति विचिन्तयन् ॥३३॥
tam daṣṭam pannaga-indreṇa kariṣye aham apajvaram . tatra me arthaḥ ca dharmaḥ ca bhavitā iti vicintayan ..33..
तं ददर्श स नागेन्द्रस्तक्षकः काश्यपं पथि । गच्छन्तमेकमनसं द्विजो भूत्वा वयोतिगः ॥३४॥
तम् ददर्श स नाग-इन्द्रः तक्षकः काश्यपम् पथि । गच्छन्तम् एकमनसम् द्विजः भूत्वा वयोतिगः ॥३४॥
tam dadarśa sa nāga-indraḥ takṣakaḥ kāśyapam pathi . gacchantam ekamanasam dvijaḥ bhūtvā vayotigaḥ ..34..
तमब्रवीत्पन्नगेन्द्रः काश्यपं मुनिपुङ्गवम् । क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति ॥३५॥
तम् अब्रवीत् पन्नग-इन्द्रः काश्यपम् मुनि-पुङ्गवम् । क्व भवान् त्वरितः याति किम् च कार्यम् चिकीर्षति ॥३५॥
tam abravīt pannaga-indraḥ kāśyapam muni-puṅgavam . kva bhavān tvaritaḥ yāti kim ca kāryam cikīrṣati ..35..
काश्यप उवाच॥
नृपं कुरुकुलोत्पन्नं परिक्षितमरिंदमम् । तक्षकः पन्नगश्रेष्ठस्तेजसाद्य प्रधक्ष्यति ॥३६॥
नृपम् कुरु-कुल-उत्पन्नम् परिक्षितम् अरिंदमम् । तक्षकः पन्नग-श्रेष्ठः तेजसा अद्य प्रधक्ष्यति ॥३६॥
nṛpam kuru-kula-utpannam parikṣitam ariṃdamam . takṣakaḥ pannaga-śreṣṭhaḥ tejasā adya pradhakṣyati ..36..
तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसा । पाण्डवानां कुलकरं राजानममितौजसम् ॥३७॥ ( गच्छामि सौम्य त्वरितं सद्यः कर्तुमपज्वरम् ॥३७॥)
तम् दष्टम् पन्नग-इन्द्रेण तेन अग्नि-सम-तेजसा । पाण्डवानाम् कुल-करम् राजानम् अमित-ओजसम् ॥३७॥ ( गच्छामि सौम्य त्वरितम् सद्यस् कर्तुम् अपज्वरम् ॥३७॥)
tam daṣṭam pannaga-indreṇa tena agni-sama-tejasā . pāṇḍavānām kula-karam rājānam amita-ojasam ..37.. ( gacchāmi saumya tvaritam sadyas kartum apajvaram ..37..)
तक्षक उवाच॥
अहं स तक्षको ब्रह्मंस्तं धक्ष्यामि महीपतिम् । निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम् ॥३८॥
अहम् स तक्षकः ब्रह्मन् तम् धक्ष्यामि महीपतिम् । निवर्तस्व न शक्तः त्वम् मया दष्टम् चिकित्सितुम् ॥३८॥
aham sa takṣakaḥ brahman tam dhakṣyāmi mahīpatim . nivartasva na śaktaḥ tvam mayā daṣṭam cikitsitum ..38..
काश्यप उवाच॥
अहं तं नृपतिं नाग त्वया दष्टमपज्वरम् । करिष्य इति मे बुद्धिर्विद्याबलमुपाश्रितः ॥३९॥ 1.42.41
अहम् तम् नृपतिम् नाग त्वया दष्टम् अपज्वरम् । करिष्ये इति मे बुद्धिः विद्या-बलम् उपाश्रितः ॥३९॥ १।४२।४१
aham tam nṛpatim nāga tvayā daṣṭam apajvaram . kariṣye iti me buddhiḥ vidyā-balam upāśritaḥ ..39.. 1.42.41

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In