| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

तक्षक उवाच॥
दष्टं यदि मयेह त्वं शक्तः किञ्चिच्चिकित्सितुम् । ततो वृक्षं मया दष्टमिमं जीवय काश्यप ॥१॥
दष्टम् यदि मया इह त्वम् शक्तः । ततस् वृक्षम् मया दष्टम् इमम् जीवय काश्यप ॥१॥
daṣṭam yadi mayā iha tvam śaktaḥ . tatas vṛkṣam mayā daṣṭam imam jīvaya kāśyapa ..1..
परं मन्त्रबलं यत्ते तद्दर्शय यतस्व च । न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम ॥२॥
परम् मन्त्र-बलम् यत् ते तत् दर्शय यतस्व च । न्यग्रोधम् एनम् धक्ष्यामि पश्यतः ते द्विजोत्तम ॥२॥
param mantra-balam yat te tat darśaya yatasva ca . nyagrodham enam dhakṣyāmi paśyataḥ te dvijottama ..2..
काश्यप उवाच॥
दश नागेन्द्र वृक्षं त्वं यमेनमभिमन्यसे । अहमेनं त्वया दष्टं जीवयिष्ये भुजङ्गम ॥३॥
दश नाग-इन्द्र वृक्षम् त्वम् यम् एनम् अभिमन्यसे । अहम् एनम् त्वया दष्टम् जीवयिष्ये भुजङ्गम ॥३॥
daśa nāga-indra vṛkṣam tvam yam enam abhimanyase . aham enam tvayā daṣṭam jīvayiṣye bhujaṅgama ..3..
सूत उवाच॥
एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना । अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः ॥४॥
एवम् उक्तः स नाग-इन्द्रः काश्यपेन महात्मना । अदशत् वृक्षम् अभ्येत्य न्यग्रोधम् पन्नग-उत्तमः ॥४॥
evam uktaḥ sa nāga-indraḥ kāśyapena mahātmanā . adaśat vṛkṣam abhyetya nyagrodham pannaga-uttamaḥ ..4..
स वृक्षस्तेन दष्टः सन्सद्य एव महाद्युते । आशीविषविषोपेतः प्रजज्वाल समन्ततः ॥५॥
स वृक्षः तेन दष्टः सन् सद्यस् एव महा-द्युते । आशीविष-विष-उपेतः प्रजज्वाल समन्ततः ॥५॥
sa vṛkṣaḥ tena daṣṭaḥ san sadyas eva mahā-dyute . āśīviṣa-viṣa-upetaḥ prajajvāla samantataḥ ..5..
तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत् । कुरु यत्नं द्विजश्रेष्ठ जीवयैनं वनस्पतिम् ॥६॥
तम् दग्ध्वा स नगम् नागः काश्यपम् पुनर् अब्रवीत् । कुरु यत्नम् द्विजश्रेष्ठ जीवय एनम् वनस्पतिम् ॥६॥
tam dagdhvā sa nagam nāgaḥ kāśyapam punar abravīt . kuru yatnam dvijaśreṣṭha jīvaya enam vanaspatim ..6..
भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा । भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत् ॥७॥
भस्मीभूतम् ततस् वृक्षम् पन्नग-इन्द्रस्य तेजसा । भस्म सर्वम् समाहृत्य काश्यपः वाक्यम् अब्रवीत् ॥७॥
bhasmībhūtam tatas vṛkṣam pannaga-indrasya tejasā . bhasma sarvam samāhṛtya kāśyapaḥ vākyam abravīt ..7..
विद्याबलं पन्नगेन्द्र पश्य मेऽस्मिन्वनस्पतौ । अहं सञ्जीवयाम्येनं पश्यतस्ते भुजङ्गम ॥८॥
विद्या-बलम् पन्नग-इन्द्र पश्य मे अस्मिन् वनस्पतौ । अहम् सञ्जीवयामि एनम् पश्यतः ते भुजङ्गम ॥८॥
vidyā-balam pannaga-indra paśya me asmin vanaspatau . aham sañjīvayāmi enam paśyataḥ te bhujaṅgama ..8..
ततः स भगवान्विद्वान्काश्यपो द्विजसत्तमः । भस्मराशीकृतं वृक्षं विद्यया समजीवयत् ॥९॥
ततस् स भगवान् विद्वान् काश्यपः द्विजसत्तमः । भस्म-राशीकृतम् वृक्षम् विद्यया समजीवयत् ॥९॥
tatas sa bhagavān vidvān kāśyapaḥ dvijasattamaḥ . bhasma-rāśīkṛtam vṛkṣam vidyayā samajīvayat ..9..
अङ्कुरं तं स कृतवांस्ततः पर्णद्वयान्वितम् । पलाशिनं शाखिनं च तथा विटपिनं पुनः ॥१०॥
अङ्कुरम् तम् स कृतवान् ततस् पर्ण-द्वय-अन्वितम् । पलाशिनम् शाखिनम् च तथा विटपिनम् पुनर् ॥१०॥
aṅkuram tam sa kṛtavān tatas parṇa-dvaya-anvitam . palāśinam śākhinam ca tathā viṭapinam punar ..10..
तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना । उवाच तक्षको ब्रह्मन्नेतदत्यद्भुतं त्वयि ॥११॥
तम् दृष्ट्वा जीवितम् वृक्षम् काश्यपेन महात्मना । उवाच तक्षकः ब्रह्मन् एतत् अति अद्भुतम् त्वयि ॥११॥
tam dṛṣṭvā jīvitam vṛkṣam kāśyapena mahātmanā . uvāca takṣakaḥ brahman etat ati adbhutam tvayi ..11..
विप्रेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा । कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन ॥१२॥
विप्र-इन्द्र यत् विषम् हन्याः मम वा मद्विधस्य वा । कम् त्वम् अर्थम् अभिप्रेप्सुः यासि तत्र तपोधन ॥१२॥
vipra-indra yat viṣam hanyāḥ mama vā madvidhasya vā . kam tvam artham abhiprepsuḥ yāsi tatra tapodhana ..12..
यत्तेऽभिलषितं प्राप्तुं फलं तस्मान्नृपोत्तमात् । अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम् ॥१३॥
यत् ते अभिलषितम् प्राप्तुम् फलम् तस्मात् नृप-उत्तमात् । अहम् एव प्रदास्यामि तत् ते यदि अपि दुर्लभम् ॥१३॥
yat te abhilaṣitam prāptum phalam tasmāt nṛpa-uttamāt . aham eva pradāsyāmi tat te yadi api durlabham ..13..
विप्रशापाभिभूते च क्षीणायुषि नराधिपे । घटमानस्य ते विप्र सिद्धिः संशयिता भवेत् ॥१४॥
विप्र-शाप-अभिभूते च क्षीण-आयुषि नराधिपे । घटमानस्य ते विप्र सिद्धिः संशयिता भवेत् ॥१४॥
vipra-śāpa-abhibhūte ca kṣīṇa-āyuṣi narādhipe . ghaṭamānasya te vipra siddhiḥ saṃśayitā bhavet ..14..
ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम् । विरश्मिरिव घर्मांशुरन्तर्धानमितो व्रजेत् ॥१५॥
ततस् यशः प्रदीप्तम् ते त्रिषु लोकेषु विश्रुतम् । विरश्मिः इव घर्मांशुः अन्तर्धानम् इतस् व्रजेत् ॥१५॥
tatas yaśaḥ pradīptam te triṣu lokeṣu viśrutam . viraśmiḥ iva gharmāṃśuḥ antardhānam itas vrajet ..15..
काश्यप उवाच॥
धनार्थी याम्यहं तत्र तन्मे दित्स भुजङ्गम । ततोऽहं विनिवर्तिष्ये गृहायोरगसत्तम ॥१६॥
धन-अर्थी यामि अहम् तत्र तत् मे दित्स भुजङ्गम । ततस् अहम् विनिवर्तिष्ये गृहाय उरग-सत्तम ॥१६॥
dhana-arthī yāmi aham tatra tat me ditsa bhujaṅgama . tatas aham vinivartiṣye gṛhāya uraga-sattama ..16..
तक्षक उवाच॥
यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् । अहं तेऽद्य प्रदास्यामि निवर्तस्व द्विजोत्तम ॥१७॥
यावत् धनम् प्रार्थयसे तस्मात् राज्ञः ततस् अधिकम् । अहम् ते अद्य प्रदास्यामि निवर्तस्व द्विजोत्तम ॥१७॥
yāvat dhanam prārthayase tasmāt rājñaḥ tatas adhikam . aham te adya pradāsyāmi nivartasva dvijottama ..17..
सूत उवाच॥
तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः । प्रदध्यौ सुमहातेजा राजानं प्रति बुद्धिमान् ॥१८॥
तक्षकस्य वचः श्रुत्वा काश्यपः द्विजसत्तमः । प्रदध्यौ सु महा-तेजाः राजानम् प्रति बुद्धिमान् ॥१८॥
takṣakasya vacaḥ śrutvā kāśyapaḥ dvijasattamaḥ . pradadhyau su mahā-tejāḥ rājānam prati buddhimān ..18..
दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा । क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः ॥१९॥ ( लब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम् ॥१९॥ )
दिव्य-ज्ञानः स तेजस्वी ज्ञात्वा तम् नृपतिम् तदा । क्षीण-आयुषम् पाण्डवेयम् अपावर्तत काश्यपः ॥१९॥ ( लब्ध्वा वित्तम् मुनि-वरः तक्षकात् यावत् ईप्सितम् ॥१९॥ )
divya-jñānaḥ sa tejasvī jñātvā tam nṛpatim tadā . kṣīṇa-āyuṣam pāṇḍaveyam apāvartata kāśyapaḥ ..19.. ( labdhvā vittam muni-varaḥ takṣakāt yāvat īpsitam ..19.. )
निवृत्ते काश्यपे तस्मिन्समयेन महात्मनि । जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम् ॥२०॥
निवृत्ते काश्यपे तस्मिन् समयेन महात्मनि । जगाम तक्षकः तूर्णम् नगरम् नागसाह्वयम् ॥२०॥
nivṛtte kāśyape tasmin samayena mahātmani . jagāma takṣakaḥ tūrṇam nagaram nāgasāhvayam ..20..
अथ शुश्राव गच्छन्स तक्षको जगतीपतिम् । मन्त्रागदैर्विषहरै रक्ष्यमाणं प्रयत्नतः ॥२१॥
अथ शुश्राव गच्छन् स तक्षकः जगतीपतिम् । रक्ष्यमाणम् प्रयत्नतः ॥२१॥
atha śuśrāva gacchan sa takṣakaḥ jagatīpatim . rakṣyamāṇam prayatnataḥ ..21..
स चिन्तयामास तदा मायायोगेन पार्थिवः । मया वञ्चयितव्योऽसौ क उपायो भवेदिति ॥२२॥
स चिन्तयामास तदा माया-योगेन पार्थिवः । मया वञ्चयितव्यः असौ कः उपायः भवेत् इति ॥२२॥
sa cintayāmāsa tadā māyā-yogena pārthivaḥ . mayā vañcayitavyaḥ asau kaḥ upāyaḥ bhavet iti ..22..
ततस्तापसरूपेण प्राहिणोत्स भुजङ्गमान् । फलपत्रोदकं गृह्य राज्ञे नागोऽथ तक्षकः ॥२३॥
ततस् तापस-रूपेण प्राहिणोत् स भुजङ्गमान् । फल-पत्र-उदकम् गृह्य राज्ञे नागः अथ तक्षकः ॥२३॥
tatas tāpasa-rūpeṇa prāhiṇot sa bhujaṅgamān . phala-patra-udakam gṛhya rājñe nāgaḥ atha takṣakaḥ ..23..
तक्षक उवाच॥
गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तया । फलपत्रोदकं नाम प्रतिग्राहयितुं नृपम् ॥२४॥
गच्छध्वम् यूयम् अव्यग्राः राजानम् कार्यवत्-तया । फल-पत्र-उदकम् नाम प्रतिग्राहयितुम् नृपम् ॥२४॥
gacchadhvam yūyam avyagrāḥ rājānam kāryavat-tayā . phala-patra-udakam nāma pratigrāhayitum nṛpam ..24..
सूत उवाच॥
ते तक्षकसमादिष्टास्तथा चक्रुर्भुजङ्गमाः । उपनिन्युस्तथा राज्ञे दर्भानापः फलानि च ॥२५॥
ते तक्षक-समादिष्टाः तथा चक्रुः भुजङ्गमाः । उपनिन्युः तथा राज्ञे दर्भान् आपः फलानि च ॥२५॥
te takṣaka-samādiṣṭāḥ tathā cakruḥ bhujaṅgamāḥ . upaninyuḥ tathā rājñe darbhān āpaḥ phalāni ca ..25..
तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान् । कृत्वा च तेषां कार्याणि गम्यतामित्युवाच तान् ॥२६॥
तत् च सर्वम् स राज-इन्द्रः प्रतिजग्राह वीर्यवान् । कृत्वा च तेषाम् कार्याणि गम्यताम् इति उवाच तान् ॥२६॥
tat ca sarvam sa rāja-indraḥ pratijagrāha vīryavān . kṛtvā ca teṣām kāryāṇi gamyatām iti uvāca tān ..26..
गतेषु तेषु नागेषु तापसच्छद्मरूपिषु । अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः ॥२७॥
गतेषु तेषु नागेषु तापस-छद्म-रूपिषु । अमात्यान् सुहृदः च एव प्रोवाच स नराधिपः ॥२७॥
gateṣu teṣu nāgeṣu tāpasa-chadma-rūpiṣu . amātyān suhṛdaḥ ca eva provāca sa narādhipaḥ ..27..
भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः । तापसैरुपनीतानि फलानि सहिता मया ॥२८॥
भक्षयन्तु भवन्तः वै स्वादूनि इमानि सर्वशस् । तापसैः उपनीतानि फलानि सहिताः मया ॥२८॥
bhakṣayantu bhavantaḥ vai svādūni imāni sarvaśas . tāpasaiḥ upanītāni phalāni sahitāḥ mayā ..28..
ततो राजा ससचिवः फलान्यादातुमैच्छत । यद्गृहीतं फलं राज्ञा तत्र कृमिरभूदणुः ॥२९॥ ( ह्रस्वकः कृष्णनयनस्ताम्रो वर्णेन शौनक ॥२९॥ )
ततस् राजा स सचिवः फलानि आदातुम् ऐच्छत । यत् गृहीतम् फलम् राज्ञा तत्र कृमिः अभूत् अणुः ॥२९॥ ( ह्रस्वकः कृष्ण-नयनः ताम्रः वर्णेन शौनक ॥२९॥ )
tatas rājā sa sacivaḥ phalāni ādātum aicchata . yat gṛhītam phalam rājñā tatra kṛmiḥ abhūt aṇuḥ ..29.. ( hrasvakaḥ kṛṣṇa-nayanaḥ tāmraḥ varṇena śaunaka ..29.. )
स तं गृह्य नृपश्रेष्ठः सचिवानिदमब्रवीत् । अस्तमभ्येति सविता विषादद्य न मे भयम् ॥३०॥
स तम् गृह्य नृप-श्रेष्ठः सचिवान् इदम् अब्रवीत् । अस्तम् अभ्येति सविता विषात् अद्य न मे भयम् ॥३०॥
sa tam gṛhya nṛpa-śreṣṭhaḥ sacivān idam abravīt . astam abhyeti savitā viṣāt adya na me bhayam ..30..
सत्यवागस्तु स मुनिः कृमिको मां दशत्वयम् । तक्षको नाम भूत्वा वै तथा परिहृतं भवेत् ॥३१॥
सत्य-वागः तु स मुनिः कृमिकः माम् दशतु अयम् । तक्षकः नाम भूत्वा वै तथा परिहृतम् भवेत् ॥३१॥
satya-vāgaḥ tu sa muniḥ kṛmikaḥ mām daśatu ayam . takṣakaḥ nāma bhūtvā vai tathā parihṛtam bhavet ..31..
ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताः । एवमुक्त्वा स राजेन्द्रो ग्रीवायां संनिवेश्य ह ॥३२॥ ( कृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः ॥३२॥ )
ते च एनम् अन्ववर्तन्त मन्त्रिणः काल-चोदिताः । एवम् उक्त्वा स राज-इन्द्रः ग्रीवायाम् संनिवेश्य ह ॥३२॥ ( कृमिकम् प्राहसत् तूर्णम् मुमूर्षुः नष्ट-चेतनः ॥३२॥ )
te ca enam anvavartanta mantriṇaḥ kāla-coditāḥ . evam uktvā sa rāja-indraḥ grīvāyām saṃniveśya ha ..32.. ( kṛmikam prāhasat tūrṇam mumūrṣuḥ naṣṭa-cetanaḥ ..32.. )
हसन्नेव च भोगेन तक्षकेणाभिवेष्टितः । तस्मात्फलाद्विनिष्क्रम्य यत्तद्राज्ञे निवेदितम् ॥३३॥ 1.43.35
हसन् एव च भोगेन तक्षकेण अभिवेष्टितः । तस्मात् फलात् विनिष्क्रम्य यत् तत् राज्ञे निवेदितम् ॥३३॥ १।४३।३५
hasan eva ca bhogena takṣakeṇa abhiveṣṭitaḥ . tasmāt phalāt viniṣkramya yat tat rājñe niveditam ..33.. 1.43.35

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In