| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

पौलोमपर्व
paulomaparva
paulomaparva
लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ऋषीनभ्यागतानुपतस्थे । ००१ ।
लोमहर्षण-पुत्रः उग्रश्रवाः सूतः पौराणिकः नैमिष-अरण्ये शौनकस्य कुल-पतेः द्वादश-वार्षिके सत्रे ऋषीन् अभ्यागतान् उपतस्थे । ००१ ।
lomaharṣaṇa-putraḥ ugraśravāḥ sūtaḥ paurāṇikaḥ naimiṣa-araṇye śaunakasya kula-pateḥ dvādaśa-vārṣike satre ṛṣīn abhyāgatān upatasthe . 001 .
पौराणिकः पुराणे कृतश्रमः स तान्कृताञ्जलिरुवाच । किं भवन्तः श्रोतुमिच्छन्ति । किमहं ब्रुवाणीति । ००२ ।
पौराणिकः पुराणे कृत-श्रमः स तान् कृताञ्जलिः उवाच । किम् भवन्तः श्रोतुम् इच्छन्ति । किम् अहम् ब्रुवाणि इति । ००२ ।
paurāṇikaḥ purāṇe kṛta-śramaḥ sa tān kṛtāñjaliḥ uvāca . kim bhavantaḥ śrotum icchanti . kim aham bruvāṇi iti . 002 .
तमृषय ऊचुः |
परमं लोमहर्षणे प्रक्ष्यामस्त्वां वक्ष्यसि च नः शुश्रूषतां कथायोगम् । तद्भगवांस्तु तावच्छौनकोऽग्निशरणमध्यास्ते । ००३ ।
परमम् लोमहर्षणे प्रक्ष्यामः त्वाम् वक्ष्यसि च नः शुश्रूषताम् कथा-योगम् । तत् भगवान् तु तावत् शौनकः अग्नि-शरणम् अध्यास्ते । ००३ ।
paramam lomaharṣaṇe prakṣyāmaḥ tvām vakṣyasi ca naḥ śuśrūṣatām kathā-yogam . tat bhagavān tu tāvat śaunakaḥ agni-śaraṇam adhyāste . 003 .
योऽसौ दिव्याः कथा वेद देवतासुरसङ्कथाः । मनुष्योरगगन्धर्वकथा वेद च सर्वशः ॥४॥
यः असौ दिव्याः कथाः वेद देवता-असुर-सङ्कथाः । मनुष्य-उरग-गन्धर्व-कथाः वेद च सर्वशस् ॥४॥
yaḥ asau divyāḥ kathāḥ veda devatā-asura-saṅkathāḥ . manuṣya-uraga-gandharva-kathāḥ veda ca sarvaśas ..4..
स चाप्यस्मिन्मखे सौते विद्वान्कुलपतिर्द्विजः । दक्षो धृतव्रतो धीमाञ्शास्त्रे चारण्यके गुरुः ॥५॥
स च अपि अस्मिन् मखे सौते विद्वान् कुल-पतिः द्विजः । दक्षः धृत-व्रतः धीमान् शास्त्रे च आरण्यके गुरुः ॥५॥
sa ca api asmin makhe saute vidvān kula-patiḥ dvijaḥ . dakṣaḥ dhṛta-vrataḥ dhīmān śāstre ca āraṇyake guruḥ ..5..
सत्यवादी शमपरस्तपस्वी नियतव्रतः । सर्वेषामेव नो मान्यः स तावत्प्रतिपाल्यताम् ॥६॥
सत्य-वादी शम-परः तपस्वी नियत-व्रतः । सर्वेषाम् एव नः मान्यः स तावत् प्रतिपाल्यताम् ॥६॥
satya-vādī śama-paraḥ tapasvī niyata-vrataḥ . sarveṣām eva naḥ mānyaḥ sa tāvat pratipālyatām ..6..
तस्मिन्नध्यासति गुरावासनं परमार्चितम् । ततो वक्ष्यसि यत्त्वां स प्रक्ष्यति द्विजसत्तमः ॥७॥
तस्मिन् अध्यासति गुरौ आसनम् परम-अर्चितम् । ततस् वक्ष्यसि यत् त्वाम् स प्रक्ष्यति द्विजसत्तमः ॥७॥
tasmin adhyāsati gurau āsanam parama-arcitam . tatas vakṣyasi yat tvām sa prakṣyati dvijasattamaḥ ..7..
सूत उवाच॥
एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि । तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः ॥८॥
एवम् अस्तु गुरौ तस्मिन् उपविष्टे महात्मनि । तेन पृष्टः कथाः पुण्याः वक्ष्यामि विविध-आश्रयाः ॥८॥
evam astu gurau tasmin upaviṣṭe mahātmani . tena pṛṣṭaḥ kathāḥ puṇyāḥ vakṣyāmi vividha-āśrayāḥ ..8..
सोऽथ विप्रर्षभः कार्यं कृत्वा सर्वं यथाक्रमम् । देवान्वाग्भिः पितृनद्भिस्तर्पयित्वाजगाम ह ॥९॥
सः अथ विप्र-ऋषभः कार्यम् कृत्वा सर्वम् यथाक्रमम् । देवान् वाग्भिः पितृनद्भिः तर्पयित्वा आजगाम ह ॥९॥
saḥ atha vipra-ṛṣabhaḥ kāryam kṛtvā sarvam yathākramam . devān vāgbhiḥ pitṛnadbhiḥ tarpayitvā ājagāma ha ..9..
यत्र ब्रह्मर्षयः सिद्धास्त आसीना यतव्रताः । यज्ञायतनमाश्रित्य सूतपुत्रपुरःसराः ॥१०॥
यत्र ब्रह्मर्षयः सिद्धाः ते आसीनाः यत-व्रताः । यज्ञ-आयतनम् आश्रित्य सूतपुत्र-पुरःसराः ॥१०॥
yatra brahmarṣayaḥ siddhāḥ te āsīnāḥ yata-vratāḥ . yajña-āyatanam āśritya sūtaputra-puraḥsarāḥ ..10..
ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्ततः । उपविष्टेषूपविष्टः शौनकोऽथाब्रवीदिदम् ॥११॥ 1.4.12
ऋत्विक्षु अथ सदस्येषु स वै गृहपतिः ततस् । उपविष्टेषु उपविष्टः शौनकः अथ अब्रवीत् इदम् ॥११॥ १।४।१२
ṛtvikṣu atha sadasyeṣu sa vai gṛhapatiḥ tatas . upaviṣṭeṣu upaviṣṭaḥ śaunakaḥ atha abravīt idam ..11.. 1.4.12

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In