| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
एतस्मिन्नेव काले तु जरत्कारुर्महातपाः । चचार पृथिवीं कृत्स्नां यत्रसायङ्गृहो मुनिः ॥१॥
एतस्मिन् एव काले तु जरत्कारुः महा-तपाः । चचार पृथिवीम् कृत्स्नाम् यत्रसायङ्गृहः मुनिः ॥१॥
etasmin eva kāle tu jaratkāruḥ mahā-tapāḥ . cacāra pṛthivīm kṛtsnām yatrasāyaṅgṛhaḥ muniḥ ..1..
चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः । तीर्थेष्वाप्लवनं कुर्वन्पुण्येषु विचचार ह ॥२॥
चरन् दीक्षाम् महा-तेजाः दुश्चराम् अकृतात्मभिः । तीर्थेषु आप्लवनम् कुर्वन् पुण्येषु विचचार ह ॥२॥
caran dīkṣām mahā-tejāḥ duścarām akṛtātmabhiḥ . tīrtheṣu āplavanam kurvan puṇyeṣu vicacāra ha ..2..
वायुभक्षो निराहारः शुष्यन्नहरहर्मुनिः । स ददर्श पितृन्गर्ते लम्बमानानधोमुखान् ॥३॥
वायुभक्षः निराहारः शुष्यन् अहरहर् मुनिः । स ददर्श पितृन् गर्ते लम्बमानान् अधोमुखान् ॥३॥
vāyubhakṣaḥ nirāhāraḥ śuṣyan aharahar muniḥ . sa dadarśa pitṛn garte lambamānān adhomukhān ..3..
एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान् । तं च तन्तुं शनैराखुमाददानं बिलाश्रयम् ॥४॥
एक-तन्तु-अवशिष्टम् वै वीरण-स्तम्बम् आश्रितान् । तम् च तन्तुम् शनैस् आखुम् आददानम् बिल-आश्रयम् ॥४॥
eka-tantu-avaśiṣṭam vai vīraṇa-stambam āśritān . tam ca tantum śanais ākhum ādadānam bila-āśrayam ..4..
निराहारान्कृशान्दीनान्गर्तेऽऽर्तांस्त्राणमिच्छतः । उपसृत्य स तान्दीनान्दीनरूपोऽभ्यभाषत ॥५॥
निराहारान् कृशान् दीनान् गर्ते आर्तान् त्राणम् इच्छतः । उपसृत्य स तान्दीनान्दीन-रूपः अभ्यभाषत ॥५॥
nirāhārān kṛśān dīnān garte ārtān trāṇam icchataḥ . upasṛtya sa tāndīnāndīna-rūpaḥ abhyabhāṣata ..5..
के भवन्तोऽवलम्बन्ते वीरणस्तम्बमाश्रिताः । दुर्बलं खादितैर्मूलैराखुना बिलवासिना ॥६॥
के भवन्तः अवलम्बन्ते वीरण-स्तम्बम् आश्रिताः । दुर्बलम् खादितैः मूलैः आखुना बिल-वासिना ॥६॥
ke bhavantaḥ avalambante vīraṇa-stambam āśritāḥ . durbalam khāditaiḥ mūlaiḥ ākhunā bila-vāsinā ..6..
वीरणस्तम्बके मूलं यदप्येकमिह स्थितम् । तदप्ययं शनैराखुरादत्ते दशनैः शितैः ॥७॥
वीरण-स्तम्बके मूलम् यत् अपि एकम् इह स्थितम् । तत् अपि अयम् शनैस् आखुः आदत्ते दशनैः शितैः ॥७॥
vīraṇa-stambake mūlam yat api ekam iha sthitam . tat api ayam śanais ākhuḥ ādatte daśanaiḥ śitaiḥ ..7..
छेत्स्यतेऽल्पावशिष्टत्वादेतदप्यचिरादिव । ततः स्थ पतितारोऽत्र गर्ते अस्मिन्नधोमुखाः ॥८॥
छेत्स्यते अल्प-अवशिष्ट-त्वात् एतत् अपि अचिरात् इव । ततस् स्थ पतितारः अत्र गर्ते अस्मिन् अधोमुखाः ॥८॥
chetsyate alpa-avaśiṣṭa-tvāt etat api acirāt iva . tatas stha patitāraḥ atra garte asmin adhomukhāḥ ..8..
ततो मे दुःखमुत्पन्नं दृष्ट्वा युष्मानधोमुखान् । कृच्छ्रामापदमापन्नान्प्रियं किं करवाणि वः ॥९॥
ततस् मे दुःखम् उत्पन्नम् दृष्ट्वा युष्मान् अधोमुखान् । कृच्छ्राम् आपदम् आपन्नान् प्रियम् किम् करवाणि वः ॥९॥
tatas me duḥkham utpannam dṛṣṭvā yuṣmān adhomukhān . kṛcchrām āpadam āpannān priyam kim karavāṇi vaḥ ..9..
तपसोऽस्य चतुर्थेन तृतीयेनापि वा पुनः । अर्धेन वापि निस्तर्तुमापदं ब्रूत माचिरम् ॥१०॥1.45.10
तपसः अस्य चतुर्थेन तृतीयेन अपि वा पुनर् । अर्धेन वा अपि निस्तर्तुम् आपदम् ब्रूत माचिरम् ॥१०॥१।४५।१०
tapasaḥ asya caturthena tṛtīyena api vā punar . ardhena vā api nistartum āpadam brūta māciram ..10..1.45.10
अथवापि समग्रेण तरन्तु तपसा मम । भवन्तः सर्व एवास्मात्काममेवं विधीयताम् ॥११॥
अथवा अपि समग्रेण तरन्तु तपसा मम । भवन्तः सर्वे एव अस्मात् कामम् एवम् विधीयताम् ॥११॥
athavā api samagreṇa tarantu tapasā mama . bhavantaḥ sarve eva asmāt kāmam evam vidhīyatām ..11..
पितर ऊचुः॥
ऋद्धो भवान्ब्रह्मचारी यो नस्त्रातुमिहेच्छति । न तु विप्राग्र्य तपसा शक्यमेतद्व्यपोहितुम् ॥१२॥
ऋद्धः भवान् ब्रह्मचारी यः नः त्रातुम् इह इच्छति । न तु विप्र-अग्र्य तपसा शक्यम् एतत् व्यपोहितुम् ॥१२॥
ṛddhaḥ bhavān brahmacārī yaḥ naḥ trātum iha icchati . na tu vipra-agrya tapasā śakyam etat vyapohitum ..12..
अस्ति नस्तात तपसः फलं प्रवदतां वर । सन्तानप्रक्षयाद्ब्रह्मन्पतामो निरयेऽशुचौ ॥१३॥
अस्ति नः तात तपसः फलम् प्रवदताम् वर । सन्तान-प्रक्षयात् ब्रह्मन् पतामः निरये अशुचौ ॥१३॥
asti naḥ tāta tapasaḥ phalam pravadatām vara . santāna-prakṣayāt brahman patāmaḥ niraye aśucau ..13..
लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै । येन त्वां नाभिजानीमो लोके विख्यातपौरुषम् ॥१४॥
लम्बताम् इह नः तात न ज्ञानम् प्रतिभाति वै । येन त्वाम् न अभिजानीमः लोके विख्यात-पौरुषम् ॥१४॥
lambatām iha naḥ tāta na jñānam pratibhāti vai . yena tvām na abhijānīmaḥ loke vikhyāta-pauruṣam ..14..
ऋद्धो भवान्महाभागो यो नः शोच्यान्सुदुःखितान् । शोचस्युपेत्य कारुण्याच्छृणु ये वै वयं द्विज ॥१५॥
ऋद्धः भवान् महाभागः यः नः शोच्यान् सु दुःखितान् । शोचसि उपेत्य कारुण्यात् शृणु ये वै वयम् द्विज ॥१५॥
ṛddhaḥ bhavān mahābhāgaḥ yaḥ naḥ śocyān su duḥkhitān . śocasi upetya kāruṇyāt śṛṇu ye vai vayam dvija ..15..
यायावरा नाम वयमृषयः संशितव्रताः । लोकात्पुण्यादिह भ्रष्टाः सन्तानप्रक्षयाद्विभो ॥१६॥
यायावराः नाम वयम् ऋषयः संशित-व्रताः । लोकात् पुण्यात् इह भ्रष्टाः सन्तान-प्रक्षयात् विभो ॥१६॥
yāyāvarāḥ nāma vayam ṛṣayaḥ saṃśita-vratāḥ . lokāt puṇyāt iha bhraṣṭāḥ santāna-prakṣayāt vibho ..16..
प्रनष्टं नस्तपः पुण्यं न हि नस्तन्तुरस्ति वै । अस्ति त्वेकोऽद्य नस्तन्तुः सोऽपि नास्ति यथा तथा ॥१७॥
प्रनष्टम् नः तपः पुण्यम् न हि नः तन्तुः अस्ति वै । अस्ति तु एकः अद्य नः तन्तुः सः अपि ना अस्ति यथा तथा ॥१७॥
pranaṣṭam naḥ tapaḥ puṇyam na hi naḥ tantuḥ asti vai . asti tu ekaḥ adya naḥ tantuḥ saḥ api nā asti yathā tathā ..17..
मन्दभाग्योऽल्पभाग्यानां बन्धुः स किल नः कुले । जरत्कारुरिति ख्यातो वेदवेदाङ्गपारगः ॥१८॥ ( नियतात्मा महात्मा च सुव्रतः सुमहातपाः ॥१८॥ )
मन्दभाग्यः अल्पभाग्यानाम् बन्धुः स किल नः कुले । जरत्कारुः इति ख्यातः वेद-वेदाङ्ग-पारगः ॥१८॥ ( नियत-आत्मा महात्मा च सुव्रतः सु महा-तपाः ॥१८॥ )
mandabhāgyaḥ alpabhāgyānām bandhuḥ sa kila naḥ kule . jaratkāruḥ iti khyātaḥ veda-vedāṅga-pāragaḥ ..18.. ( niyata-ātmā mahātmā ca suvrataḥ su mahā-tapāḥ ..18.. )
तेन स्म तपसो लोभात्कृच्छ्रमापादिता वयम् । न तस्य भार्या पुत्रो वा बान्धवो वास्ति कश्चन ॥१९॥
तेन स्म तपसः लोभात् कृच्छ्रम् आपादिताः वयम् । न तस्य भार्या पुत्रः वा बान्धवः वा अस्ति कश्चन ॥१९॥
tena sma tapasaḥ lobhāt kṛcchram āpāditāḥ vayam . na tasya bhāryā putraḥ vā bāndhavaḥ vā asti kaścana ..19..
तस्माल्लम्बामहे गर्ते नष्टसञ्ज्ञा ह्यनाथवत् । स वक्तव्यस्त्वया दृष्ट्वा अस्माकं नाथवत्तया ॥२०॥
तस्मात् लम्बामहे गर्ते नष्ट-सञ्ज्ञाः हि अनाथ-वत् । स वक्तव्यः त्वया दृष्ट्वा अस्माकम् नाथवत्-तया ॥२०॥
tasmāt lambāmahe garte naṣṭa-sañjñāḥ hi anātha-vat . sa vaktavyaḥ tvayā dṛṣṭvā asmākam nāthavat-tayā ..20..
पितरस्तेऽवलम्बन्ते गर्ते दीना अधोमुखाः । साधु दारान्कुरुष्वेति प्रजायस्वेति चाभिभो ॥२१॥ ( कुलतन्तुर्हि नः शिष्टस्त्वमेवैकस्तपोधन ॥२१॥ )
पितरः ते अवलम्बन्ते गर्ते दीनाः अधोमुखाः । साधु दारान् कुरुष्व इति प्रजायस्व इति च अभिभो ॥२१॥ ( कुल-तन्तुः हि नः शिष्टः त्वम् एव एकः तपोधन ॥२१॥ )
pitaraḥ te avalambante garte dīnāḥ adhomukhāḥ . sādhu dārān kuruṣva iti prajāyasva iti ca abhibho ..21.. ( kula-tantuḥ hi naḥ śiṣṭaḥ tvam eva ekaḥ tapodhana ..21.. )
यं तु पश्यसि नो ब्रह्मन्वीरणस्तम्बमाश्रितान् । एषोऽस्माकं कुलस्तम्ब आसीत्स्वकुलवर्धनः ॥२२॥
यम् तु पश्यसि नः ब्रह्मन् वीरण-स्तम्बम् आश्रितान् । एषः अस्माकम् कुल-स्तम्बः आसीत् स्व-कुल-वर्धनः ॥२२॥
yam tu paśyasi naḥ brahman vīraṇa-stambam āśritān . eṣaḥ asmākam kula-stambaḥ āsīt sva-kula-vardhanaḥ ..22..
यानि पश्यसि वै ब्रह्मन्मूलानीहास्य वीरुधः । एते नस्तन्तवस्तात कालेन परिभक्षिताः ॥२३॥
यानि पश्यसि वै ब्रह्मन् मूलानि इह अस्य वीरुधः । एते नः तन्तवः तात कालेन परिभक्षिताः ॥२३॥
yāni paśyasi vai brahman mūlāni iha asya vīrudhaḥ . ete naḥ tantavaḥ tāta kālena paribhakṣitāḥ ..23..
यत्त्वेतत्पश्यसि ब्रह्मन्मूलमस्यार्धभक्षितम् । तत्र लम्बामहे सर्वे सोऽप्येकस्तप आस्थितः ॥२४॥
यत् तु एतत् पश्यसि ब्रह्मन् मूलम् अस्य अर्ध-भक्षितम् । तत्र लम्बामहे सर्वे सः अपि एकः तपः आस्थितः ॥२४॥
yat tu etat paśyasi brahman mūlam asya ardha-bhakṣitam . tatra lambāmahe sarve saḥ api ekaḥ tapaḥ āsthitaḥ ..24..
यमाखुं पश्यसि ब्रह्मन्काल एष महाबलः । स तं तपोरतं मन्दं शनैः क्षपयते तुदन् ॥२५॥ ( जरत्कारुं तपोलुब्धं मन्दात्मानमचेतसम् ॥२५॥ )
यम् आखुम् पश्यसि ब्रह्मन् कालः एष महा-बलः । स तम् तपः-रतम् मन्दम् शनैस् क्षपयते तुदन् ॥२५॥ ( जरत्कारुम् तपः-लुब्धम् मन्द-आत्मानम् अचेतसम् ॥२५॥ )
yam ākhum paśyasi brahman kālaḥ eṣa mahā-balaḥ . sa tam tapaḥ-ratam mandam śanais kṣapayate tudan ..25.. ( jaratkārum tapaḥ-lubdham manda-ātmānam acetasam ..25.. )
न हि नस्तत्तपस्तस्य तारयिष्यति सत्तम । छिन्नमूलान्परिभ्रष्टान्कालोपहतचेतसः ॥२६॥ ( नरकप्रतिष्ठान्पश्यास्मान्यथा दुष्कृतिनस्तथा ॥२६॥ )
न हि नः तत् तपः तस्य तारयिष्यति सत्तम । छिन्न-मूलान् परिभ्रष्टान् काल-उपहत-चेतसः ॥२६॥ ( नरक-प्रतिष्ठान् पश्य अस्मान् यथा दुष्कृतिनः तथा ॥२६॥ )
na hi naḥ tat tapaḥ tasya tārayiṣyati sattama . chinna-mūlān paribhraṣṭān kāla-upahata-cetasaḥ ..26.. ( naraka-pratiṣṭhān paśya asmān yathā duṣkṛtinaḥ tathā ..26.. )
अस्मासु पतितेष्वत्र सह पूर्वैः पितामहैः । छिन्नः कालेन सोऽप्यत्र गन्ता वै नरकं ततः ॥२७॥
अस्मासु पतितेषु अत्र सह पूर्वैः पितामहैः । छिन्नः कालेन सः अपि अत्र गन्ता वै नरकम् ततस् ॥२७॥
asmāsu patiteṣu atra saha pūrvaiḥ pitāmahaiḥ . chinnaḥ kālena saḥ api atra gantā vai narakam tatas ..27..
तपो वाप्यथवा यज्ञो यच्चान्यत्पावनं महत् । तत्सर्वं न समं तात सन्तत्येति सतां मतम् ॥२८॥
तपः वा अपि अथवा यज्ञः यत् च अन्यत् पावनम् महत् । तत् सर्वम् न समम् तात सन्तत्या इति सताम् मतम् ॥२८॥
tapaḥ vā api athavā yajñaḥ yat ca anyat pāvanam mahat . tat sarvam na samam tāta santatyā iti satām matam ..28..
स तात दृष्ट्वा ब्रूयास्त्वं जरत्कारुं तपस्विनम् । यथादृष्टमिदं चास्मै त्वयाख्येयमशेषतः ॥२९॥
स तात दृष्ट्वा ब्रूयाः त्वम् जरत्कारुम् तपस्विनम् । यथादृष्टम् इदम् च अस्मै त्वया आख्येयम् अशेषतस् ॥२९॥
sa tāta dṛṣṭvā brūyāḥ tvam jaratkārum tapasvinam . yathādṛṣṭam idam ca asmai tvayā ākhyeyam aśeṣatas ..29..
यथा दारान्प्रकुर्यात्स पुत्रांश्चोत्पादयेद्यथा । तथा ब्रह्मंस्त्वया वाच्यः सोऽस्माकं नाथवत्तया ॥३०॥1.45.33
यथा दारान् प्रकुर्यात् स पुत्रान् च उत्पादयेत् यथा । तथा ब्रह्मन् त्वया वाच्यः सः अस्माकम् नाथवत्तया ॥३०॥१।४५।३३
yathā dārān prakuryāt sa putrān ca utpādayet yathā . tathā brahman tvayā vācyaḥ saḥ asmākam nāthavattayā ..30..1.45.33

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In