| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
एतच्छ्रुत्वा जरत्कारुर्दुःखशोकपरायणः । उवाच स्वान्पितृन्दुःखाद्बाष्पसंदिग्धया गिरा ॥१॥
एतत् श्रुत्वा जरत्कारुः दुःख-शोक-परायणः । उवाच स्वान् पितृन् दुःखात् बाष्प-संदिग्धया गिरा ॥१॥
etat śrutvā jaratkāruḥ duḥkha-śoka-parāyaṇaḥ . uvāca svān pitṛn duḥkhāt bāṣpa-saṃdigdhayā girā ..1..
अहमेव जरत्कारुः किल्बिषी भवतां सुतः । तद्दण्डं धारयत मे दुष्कृतेरकृतात्मनः ॥२॥
अहम् एव जरत्कारुः किल्बिषी भवताम् सुतः । तत् दण्डम् धारयत मे दुष्कृतेः अकृतात्मनः ॥२॥
aham eva jaratkāruḥ kilbiṣī bhavatām sutaḥ . tat daṇḍam dhārayata me duṣkṛteḥ akṛtātmanaḥ ..2..
पितर ऊचुः॥
पुत्र दिष्ट्यासि सम्प्राप्त इमं देशं यदृच्छया । किमर्थं च त्वया ब्रह्मन्न कृतो दारसङ्ग्रहः ॥३॥
पुत्र दिष्ट्या असि सम्प्राप्तः इमम् देशम् यदृच्छया । किमर्थम् च त्वया ब्रह्मन् न कृतः दार-सङ्ग्रहः ॥३॥
putra diṣṭyā asi samprāptaḥ imam deśam yadṛcchayā . kimartham ca tvayā brahman na kṛtaḥ dāra-saṅgrahaḥ ..3..
जरत्कारुरुवाच॥
ममायं पितरो नित्यं हृद्यर्थः परिवर्तते । ऊर्ध्वरेताः शरीरं वै प्रापयेयममुत्र वै ॥४॥
मम अयम् पितरः नित्यम् हृदि अर्थः परिवर्तते । ऊर्ध्वरेताः शरीरम् वै प्रापयेयम् अमुत्र वै ॥४॥
mama ayam pitaraḥ nityam hṛdi arthaḥ parivartate . ūrdhvaretāḥ śarīram vai prāpayeyam amutra vai ..4..
एवं दृष्ट्वा तु भवतः शकुन्तानिव लम्बतः । मया निवर्तिता बुद्धिर्ब्रह्मचर्यात्पितामहाः ॥५॥
एवम् दृष्ट्वा तु भवतः शकुन्तान् इव लम्बतः । मया निवर्तिता बुद्धिः ब्रह्मचर्यात् पितामहाः ॥५॥
evam dṛṣṭvā tu bhavataḥ śakuntān iva lambataḥ . mayā nivartitā buddhiḥ brahmacaryāt pitāmahāḥ ..5..
करिष्ये वः प्रियं कामं निवेक्ष्ये नात्र संशयः । सनाम्नीं यद्यहं कन्यामुपलप्स्ये कदाचन ॥६॥
करिष्ये वः प्रियम् कामम् निवेक्ष्ये न अत्र संशयः । सनाम्नीम् यदि अहम् कन्याम् उपलप्स्ये कदाचन ॥६॥
kariṣye vaḥ priyam kāmam nivekṣye na atra saṃśayaḥ . sanāmnīm yadi aham kanyām upalapsye kadācana ..6..
भविष्यति च या काचिद्भैक्षवत्स्वयमुद्यता । प्रतिग्रहीता तामस्मि न भरेयं च यामहम् ॥७॥
भविष्यति च या काचिद् भैक्ष-वत् स्वयम् उद्यता । प्रतिग्रहीता ताम् अस्मि न भरेयम् च याम् अहम् ॥७॥
bhaviṣyati ca yā kācid bhaikṣa-vat svayam udyatā . pratigrahītā tām asmi na bhareyam ca yām aham ..7..
एवंविधमहं कुर्यां निवेशं प्राप्नुयां यदि । अन्यथा न करिष्ये तु सत्यमेतत्पितामहाः ॥८॥
एवंविधम् अहम् कुर्याम् निवेशम् प्राप्नुयाम् यदि । अन्यथा न करिष्ये तु सत्यम् एतत् पितामहाः ॥८॥
evaṃvidham aham kuryām niveśam prāpnuyām yadi . anyathā na kariṣye tu satyam etat pitāmahāḥ ..8..
सूत उवाच॥
एवमुक्त्वा तु स पितृंश्चचार पृथिवीं मुनिः । न च स्म लभते भार्यां वृद्धोऽयमिति शौनक ॥९॥
एवम् उक्त्वा तु स पितृन् चचार पृथिवीम् मुनिः । न च स्म लभते भार्याम् वृद्धः अयम् इति शौनक ॥९॥
evam uktvā tu sa pitṛn cacāra pṛthivīm muniḥ . na ca sma labhate bhāryām vṛddhaḥ ayam iti śaunaka ..9..
यदा निर्वेदमापन्नः पितृभिश्चोदितस्तथा । तदारण्यं स गत्वोच्चैश्चुक्रोश भृशदुःखितः ॥१०॥
यदा निर्वेदम् आपन्नः पितृभिः चोदितः तथा । तदा अरण्यम् स गत्वा उच्चैस् चुक्रोश भृश-दुःखितः ॥१०॥
yadā nirvedam āpannaḥ pitṛbhiḥ coditaḥ tathā . tadā araṇyam sa gatvā uccais cukrośa bhṛśa-duḥkhitaḥ ..10..
यानि भूतानि सन्तीह स्थावराणि चराणि च । अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः ॥११॥
यानि भूतानि सन्ति इह स्थावराणि चराणि च । अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः ॥११॥
yāni bhūtāni santi iha sthāvarāṇi carāṇi ca . antarhitāni vā yāni tāni śṛṇvantu me vacaḥ ..11..
उग्रे तपसि वर्तन्तं पितरश्चोदयन्ति माम् । निविशस्वेति दुःखार्तास्तेषां प्रियचिकीर्षया ॥१२॥
उग्रे तपसि वर्तन्तम् पितरः चोदयन्ति माम् । निविशस्व इति दुःख-आर्ताः तेषाम् प्रिय-चिकीर्षया ॥१२॥
ugre tapasi vartantam pitaraḥ codayanti mām . niviśasva iti duḥkha-ārtāḥ teṣām priya-cikīrṣayā ..12..
निवेशार्थ्यखिलां भूमिं कन्याभैक्षं चरामि भोः । दरिद्रो दुःखशीलश्च पितृभिः संनियोजितः ॥१३॥
निवेश-अर्थी अखिलाम् भूमिम् कन्या-भैक्षम् चरामि भोः । दरिद्रः दुःख-शीलः च पितृभिः संनियोजितः ॥१३॥
niveśa-arthī akhilām bhūmim kanyā-bhaikṣam carāmi bhoḥ . daridraḥ duḥkha-śīlaḥ ca pitṛbhiḥ saṃniyojitaḥ ..13..
यस्य कन्यास्ति भूतस्य ये मयेह प्रकीर्तिताः । ते मे कन्यां प्रयच्छन्तु चरतः सर्वतोदिशम् ॥१४॥
यस्य कन्या अस्ति भूतस्य ये मया इह प्रकीर्तिताः । ते मे कन्याम् प्रयच्छन्तु चरतः सर्वतोदिशम् ॥१४॥
yasya kanyā asti bhūtasya ye mayā iha prakīrtitāḥ . te me kanyām prayacchantu carataḥ sarvatodiśam ..14..
मम कन्या सनाम्नी या भैक्षवच्चोद्यता भवेत् । भरेयं चैव यां नाहं तां मे कन्यां प्रयच्छत ॥१५॥
मम कन्या सनाम्नी या भैक्ष-वत् च उद्यता भवेत् । भरेयम् च एव याम् न अहम् ताम् मे कन्याम् प्रयच्छत ॥१५॥
mama kanyā sanāmnī yā bhaikṣa-vat ca udyatā bhavet . bhareyam ca eva yām na aham tām me kanyām prayacchata ..15..
ततस्ते पन्नगा ये वै जरत्कारौ समाहिताः । तामादाय प्रवृत्तिं ते वासुकेः प्रत्यवेदयन् ॥१६॥
ततस् ते पन्नगाः ये वै जरत्कारौ समाहिताः । ताम् आदाय प्रवृत्तिम् ते वासुकेः प्रत्यवेदयन् ॥१६॥
tatas te pannagāḥ ye vai jaratkārau samāhitāḥ . tām ādāya pravṛttim te vāsukeḥ pratyavedayan ..16..
तेषां श्रुत्वा स नागेन्द्रः कन्यां तां समलङ्कृताम् । प्रगृह्यारण्यमगमत्समीपं तस्य पन्नगः ॥१७॥
तेषाम् श्रुत्वा स नाग-इन्द्रः कन्याम् ताम् समलङ्कृताम् । प्रगृह्य अरण्यम् अगमत् समीपम् तस्य पन्नगः ॥१७॥
teṣām śrutvā sa nāga-indraḥ kanyām tām samalaṅkṛtām . pragṛhya araṇyam agamat samīpam tasya pannagaḥ ..17..
तत्र तां भैक्षवत्कन्यां प्रादात्तस्मै महात्मने । नागेन्द्रो वासुकिर्ब्रह्मन्न स तां प्रत्यगृह्णत ॥१८॥
तत्र ताम् भैक्ष-वत् कन्याम् प्रादात् तस्मै महात्मने । नाग-इन्द्रः वासुकिः ब्रह्मन् न स ताम् प्रत्यगृह्णत ॥१८॥
tatra tām bhaikṣa-vat kanyām prādāt tasmai mahātmane . nāga-indraḥ vāsukiḥ brahman na sa tām pratyagṛhṇata ..18..
असनामेति वै मत्वा भरणे चाविचारिते । मोक्षभावे स्थितश्चापि द्वन्द्वीभूतः परिग्रहे ॥१९॥
असनाम इति वै मत्वा भरणे च अविचारिते । मोक्ष-भावे स्थितः च अपि द्वन्द्वीभूतः परिग्रहे ॥१९॥
asanāma iti vai matvā bharaṇe ca avicārite . mokṣa-bhāve sthitaḥ ca api dvandvībhūtaḥ parigrahe ..19..
ततो नाम स कन्यायाः पप्रच्छ भृगुनन्दन । वासुके भरणं चास्या न कुर्यामित्युवाच ह ॥२०॥ 1.46.23
ततस् नाम स कन्यायाः पप्रच्छ भृगु-नन्दन । वासुके भरणम् च अस्याः न कुर्याम् इति उवाच ह ॥२०॥ १।४६।२३
tatas nāma sa kanyāyāḥ papraccha bhṛgu-nandana . vāsuke bharaṇam ca asyāḥ na kuryām iti uvāca ha ..20.. 1.46.23

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In