| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
वासुकिस्त्वब्रवीद्वाक्यं जरत्कारुमृषिं तदा । सनामा तव कन्येयं स्वसा मे तपसान्विता ॥१॥
वासुकिः तु अब्रवीत् वाक्यम् जरत्कारुम् ऋषिम् तदा । सनामा तव कन्या इयम् स्वसा मे तपसा अन्विता ॥१॥
vāsukiḥ tu abravīt vākyam jaratkārum ṛṣim tadā . sanāmā tava kanyā iyam svasā me tapasā anvitā ..1..
भरिष्यामि च ते भार्यां प्रतीच्छेमां द्विजोत्तम । रक्षणं च करिष्येऽस्याः सर्वशक्त्या तपोधन ॥२॥
भरिष्यामि च ते भार्याम् प्रतीच्छ इमाम् द्विजोत्तम । रक्षणम् च करिष्ये अस्याः सर्व-शक्त्या तपोधन ॥२॥
bhariṣyāmi ca te bhāryām pratīccha imām dvijottama . rakṣaṇam ca kariṣye asyāḥ sarva-śaktyā tapodhana ..2..
प्रतिश्रुते तु नागेन भरिष्ये भगिनीमिति । जरत्कारुस्तदा वेश्म भुजगस्य जगाम ह ॥३॥
प्रतिश्रुते तु नागेन भरिष्ये भगिनीम् इति । जरत्कारुः तदा वेश्म भुजगस्य जगाम ह ॥३॥
pratiśrute tu nāgena bhariṣye bhaginīm iti . jaratkāruḥ tadā veśma bhujagasya jagāma ha ..3..
तत्र मन्त्रविदां श्रेष्ठस्तपोवृद्धो महाव्रतः । जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम् ॥४॥
तत्र मन्त्र-विदाम् श्रेष्ठः तपः-वृद्धः महा-व्रतः । जग्राह पाणिम् धर्म-आत्मा विधि-मन्त्र-पुरस्कृतम् ॥४॥
tatra mantra-vidām śreṣṭhaḥ tapaḥ-vṛddhaḥ mahā-vrataḥ . jagrāha pāṇim dharma-ātmā vidhi-mantra-puraskṛtam ..4..
ततो वासगृहं शुभ्रं पन्नगेन्द्रस्य संमतम् । जगाम भार्यामादाय स्तूयमानो महर्षिभिः ॥५॥
ततस् वासगृहम् शुभ्रम् पन्नग-इन्द्रस्य संमतम् । जगाम भार्याम् आदाय स्तूयमानः महा-ऋषिभिः ॥५॥
tatas vāsagṛham śubhram pannaga-indrasya saṃmatam . jagāma bhāryām ādāya stūyamānaḥ mahā-ṛṣibhiḥ ..5..
शयनं तत्र वै कॢप्तं स्पर्ध्यास्तरणसंवृतम् । तत्र भार्यासहायः स जरत्कारुरुवास ह ॥६॥
शयनम् तत्र वै कॢप्तम् स्पर्ध्य-आस्तरण-संवृतम् । तत्र भार्या-सहायः स जरत्कारुः उवास ह ॥६॥
śayanam tatra vai kḷptam spardhya-āstaraṇa-saṃvṛtam . tatra bhāryā-sahāyaḥ sa jaratkāruḥ uvāsa ha ..6..
स तत्र समयं चक्रे भार्यया सह सत्तमः । विप्रियं मे न कर्तव्यं न च वाच्यं कदाचन ॥७॥
स तत्र समयम् चक्रे भार्यया सह सत्तमः । विप्रियम् मे न कर्तव्यम् न च वाच्यम् कदाचन ॥७॥
sa tatra samayam cakre bhāryayā saha sattamaḥ . vipriyam me na kartavyam na ca vācyam kadācana ..7..
त्यजेयमप्रिये हि त्वां कृते वासं च ते गृहे । एतद्गृहाण वचनं मया यत्समुदीरितम् ॥८॥
त्यजेयम् अप्रिये हि त्वाम् कृते वासम् च ते गृहे । एतत् गृहाण वचनम् मया यत् समुदीरितम् ॥८॥
tyajeyam apriye hi tvām kṛte vāsam ca te gṛhe . etat gṛhāṇa vacanam mayā yat samudīritam ..8..
ततः परमसंविग्ना स्वसा नागपतेस्तु सा । अतिदुःखान्विता वाचं तमुवाचैवमस्त्विति ॥९॥
ततस् परम-संविग्ना स्वसा नाग-पतेः तु सा । अति दुःख-अन्विता वाचम् तम् उवाच एवम् अस्तु इति ॥९॥
tatas parama-saṃvignā svasā nāga-pateḥ tu sā . ati duḥkha-anvitā vācam tam uvāca evam astu iti ..9..
तथैव सा च भर्तारं दुःखशीलमुपाचरत् । उपायैः श्वेतकाकीयैः प्रियकामा यशस्विनी ॥१०॥
तथा एव सा च भर्तारम् दुःख-शीलम् उपाचरत् । उपायैः श्वेतकाकीयैः प्रिय-कामा यशस्विनी ॥१०॥
tathā eva sā ca bhartāram duḥkha-śīlam upācarat . upāyaiḥ śvetakākīyaiḥ priya-kāmā yaśasvinī ..10..
ऋतुकाले ततः स्नाता कदाचिद्वासुकेः स्वसा । भर्तारं तं यथान्यायमुपतस्थे महामुनिम् ॥११॥
ऋतु-काले ततस् स्नाता कदाचिद् वासुकेः स्वसा । भर्तारम् तम् यथान्यायम् उपतस्थे महा-मुनिम् ॥११॥
ṛtu-kāle tatas snātā kadācid vāsukeḥ svasā . bhartāram tam yathānyāyam upatasthe mahā-munim ..11..
तत्र तस्याः समभवद्गर्भो ज्वलनसंनिभः । अतीव तपसा युक्तो वैश्वानरसमद्युतिः ॥१२॥ ( शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः ॥१२॥ )
तत्र तस्याः समभवत् गर्भः ज्वलन-संनिभः । अतीव तपसा युक्तः वैश्वानर-सम-द्युतिः ॥१२॥ ( शुक्लपक्षे यथा सोमः व्यवर्धत तथा एव सः ॥१२॥ )
tatra tasyāḥ samabhavat garbhaḥ jvalana-saṃnibhaḥ . atīva tapasā yuktaḥ vaiśvānara-sama-dyutiḥ ..12.. ( śuklapakṣe yathā somaḥ vyavardhata tathā eva saḥ ..12.. )
ततः कतिपयाहस्य जरत्कारुर्महातपाः । उत्सङ्गेऽस्याः शिरः कृत्वा सुष्वाप परिखिन्नवत् ॥१३॥
ततस् कतिपयाहस्य जरत्कारुः महा-तपाः । उत्सङ्गे अस्याः शिरः कृत्वा सुष्वाप परिखिन्न-वत् ॥१३॥
tatas katipayāhasya jaratkāruḥ mahā-tapāḥ . utsaṅge asyāḥ śiraḥ kṛtvā suṣvāpa parikhinna-vat ..13..
तस्मिंश्च सुप्ते विप्रेन्द्रे सवितास्तमियाद्गिरिम् । अह्नः परिक्षये ब्रह्मंस्ततः साचिन्तयत्तदा ॥१४॥ ( वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी ॥१४॥ )
तस्मिन् च सुप्ते विप्र-इन्द्रे सविता अस्तम् इयात् गिरिम् । अह्नः परिक्षये ब्रह्मन् ततस् सा अचिन्तयत् तदा ॥१४॥ ( वासुकेः भगिनी भीता धर्म-लोपात् मनस्विनी ॥१४॥ )
tasmin ca supte vipra-indre savitā astam iyāt girim . ahnaḥ parikṣaye brahman tatas sā acintayat tadā ..14.. ( vāsukeḥ bhaginī bhītā dharma-lopāt manasvinī ..14.. )
किं नु मे सुकृतं भूयाद्भर्तुरुत्थापनं न वा । दुःखशीलो हि धर्मात्मा कथं नास्यापराध्नुयाम् ॥१५॥
किम् नु मे सुकृतम् भूयात् भर्तुः उत्थापनम् न वा । दुःख-शीलः हि धर्म-आत्मा कथम् न अस्य अपराध्नुयाम् ॥१५॥
kim nu me sukṛtam bhūyāt bhartuḥ utthāpanam na vā . duḥkha-śīlaḥ hi dharma-ātmā katham na asya aparādhnuyām ..15..
कोपो वा धर्मशीलस्य धर्मलोपोऽथ वा पुनः । धर्मलोपो गरीयान्वै स्यादत्रेत्यकरोन्मनः ॥१६॥
कोपः वा धर्म-शीलस्य धर्म-लोपः अथ वा पुनर् । धर्म-लोपः गरीयान् वै स्यात् अत्रा इति अकरोत् मनः ॥१६॥
kopaḥ vā dharma-śīlasya dharma-lopaḥ atha vā punar . dharma-lopaḥ garīyān vai syāt atrā iti akarot manaḥ ..16..
उत्थापयिष्ये यद्येनं ध्रुवं कोपं करिष्यति । धर्मलोपो भवेदस्य सन्ध्यातिक्रमणे ध्रुवम् ॥१७॥
उत्थापयिष्ये यदि एनम् ध्रुवम् कोपम् करिष्यति । धर्म-लोपः भवेत् अस्य सन्ध्या-अतिक्रमणे ध्रुवम् ॥१७॥
utthāpayiṣye yadi enam dhruvam kopam kariṣyati . dharma-lopaḥ bhavet asya sandhyā-atikramaṇe dhruvam ..17..
इति निश्चित्य मनसा जरत्कारुर्भुजङ्गमा । तमृषिं दीप्ततपसं शयानमनलोपमम् ॥१८॥ ( उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी ॥१८॥ )
इति निश्चित्य मनसा जरत्कारुः भुजङ्गमा । तम् ऋषिम् दीप्त-तपसम् शयानम् अनल-उपमम् ॥१८॥ ( उवाच इदम् वचः श्लक्ष्णम् ततस् मधुर-भाषिणी ॥१८॥ )
iti niścitya manasā jaratkāruḥ bhujaṅgamā . tam ṛṣim dīpta-tapasam śayānam anala-upamam ..18.. ( uvāca idam vacaḥ ślakṣṇam tatas madhura-bhāṣiṇī ..18.. )
उत्तिष्ठ त्वं महाभाग सूर्योऽस्तमुपगच्छति । सन्ध्यामुपास्स्व भगवन्नपः स्पृष्ट्वा यतव्रतः ॥१९॥
उत्तिष्ठ त्वम् महाभाग सूर्यः अस्तम् उपगच्छति । सन्ध्याम् उपास्स्व भगवन् अपः स्पृष्ट्वा यत-व्रतः ॥१९॥
uttiṣṭha tvam mahābhāga sūryaḥ astam upagacchati . sandhyām upāssva bhagavan apaḥ spṛṣṭvā yata-vrataḥ ..19..
प्रादुष्कृताग्निहोत्रोऽयं मुहूर्तो रम्यदारुणः । सन्ध्या प्रवर्तते चेयं पश्चिमायां दिशि प्रभो ॥२०॥
प्रादुष्कृत-अग्निहोत्रः अयम् मुहूर्तः रम्य-दारुणः । सन्ध्या प्रवर्तते च इयम् पश्चिमायाम् दिशि प्रभो ॥२०॥
prāduṣkṛta-agnihotraḥ ayam muhūrtaḥ ramya-dāruṇaḥ . sandhyā pravartate ca iyam paścimāyām diśi prabho ..20..
एवमुक्तः स भगवाञ्जरत्कारुर्महातपाः । भार्यां प्रस्फुरमाणोष्ठ इदं वचनमब्रवीत् ॥२१॥
एवम् उक्तः स भगवान् जरत्कारुः महा-तपाः । भार्याम् प्रस्फुरमाण-उष्ठे इदम् वचनम् अब्रवीत् ॥२१॥
evam uktaḥ sa bhagavān jaratkāruḥ mahā-tapāḥ . bhāryām prasphuramāṇa-uṣṭhe idam vacanam abravīt ..21..
अवमानः प्रयुक्तोऽयं त्वया मम भुजङ्गमे । समीपे ते न वत्स्यामि गमिष्यामि यथागतम् ॥२२॥
अवमानः प्रयुक्तः अयम् त्वया मम भुजङ्गमे । समीपे ते न वत्स्यामि गमिष्यामि यथागतम् ॥२२॥
avamānaḥ prayuktaḥ ayam tvayā mama bhujaṅgame . samīpe te na vatsyāmi gamiṣyāmi yathāgatam ..22..
न हि तेजोऽस्ति वामोरु मयि सुप्ते विभावसोः । अस्तं गन्तुं यथाकालमिति मे हृदि वर्तते ॥२३॥
न हि तेजः अस्ति वाम-ऊरु मयि सुप्ते विभावसोः । अस्तम् गन्तुम् यथाकालम् इति मे हृदि वर्तते ॥२३॥
na hi tejaḥ asti vāma-ūru mayi supte vibhāvasoḥ . astam gantum yathākālam iti me hṛdi vartate ..23..
न चाप्यवमतस्येह वस्तुं रोचेत कस्यचित् । किं पुनर्धर्मशीलस्य मम वा मद्विधस्य वा ॥२४॥
न च अपि अवमतस्य इह वस्तुम् रोचेत कस्यचिद् । किम् पुनर् धर्म-शीलस्य मम वा मद्विधस्य वा ॥२४॥
na ca api avamatasya iha vastum roceta kasyacid . kim punar dharma-śīlasya mama vā madvidhasya vā ..24..
एवमुक्ता जरत्कारुर्भर्त्रा हृदयकम्पनम् । अब्रवीद्भगिनी तत्र वासुकेः संनिवेशने ॥२५॥
एवम् उक्ता जरत्कारुः भर्त्रा हृदय-कम्पनम् । अब्रवीत् भगिनी तत्र वासुकेः संनिवेशने ॥२५॥
evam uktā jaratkāruḥ bhartrā hṛdaya-kampanam . abravīt bhaginī tatra vāsukeḥ saṃniveśane ..25..
नावमानात्कृतवती तवाहं प्रतिबोधनम् । धर्मलोपो न ते विप्र स्यादित्येतत्कृतं मया ॥२६॥
न अवमानात् कृतवती तव अहम् प्रतिबोधनम् । धर्म-लोपः न ते विप्र स्यात् इति एतत् कृतम् मया ॥२६॥
na avamānāt kṛtavatī tava aham pratibodhanam . dharma-lopaḥ na te vipra syāt iti etat kṛtam mayā ..26..
उवाच भार्यामित्युक्तो जरत्कारुर्महातपाः । ऋषिः कोपसमाविष्टस्त्यक्तुकामो भुजङ्गमाम् ॥२७॥
उवाच भार्याम् इति उक्तः जरत्कारुः महा-तपाः । ऋषिः कोप-समाविष्टः त्यक्तु-कामः भुजङ्गमाम् ॥२७॥
uvāca bhāryām iti uktaḥ jaratkāruḥ mahā-tapāḥ . ṛṣiḥ kopa-samāviṣṭaḥ tyaktu-kāmaḥ bhujaṅgamām ..27..
न मे वागनृतं प्राह गमिष्येऽहं भुजङ्गमे । समयो ह्येष मे पूर्वं त्वया सह मिथः कृतः ॥२८॥
न मे वाच्-अनृतम् प्राह गमिष्ये अहम् भुजङ्गमे । समयः हि एष मे पूर्वम् त्वया सह मिथस् कृतः ॥२८॥
na me vāc-anṛtam prāha gamiṣye aham bhujaṅgame . samayaḥ hi eṣa me pūrvam tvayā saha mithas kṛtaḥ ..28..
सुखमस्म्युषितो भद्रे ब्रूयास्त्वं भ्रातरं शुभे । इतो मयि गते भीरु गतः स भगवानिति ॥२९॥ ( त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुमर्हसि ॥२९॥ )
सुखम् अस्मि उषितः भद्रे ब्रूयाः त्वम् भ्रातरम् शुभे । इतस् मयि गते भीरु गतः स भगवान् इति ॥२९॥ ( त्वम् च अपि मयि निष्क्रान्ते न शोकम् कर्तुम् अर्हसि ॥२९॥ )
sukham asmi uṣitaḥ bhadre brūyāḥ tvam bhrātaram śubhe . itas mayi gate bhīru gataḥ sa bhagavān iti ..29.. ( tvam ca api mayi niṣkrānte na śokam kartum arhasi ..29.. )
इत्युक्ता सानवद्याङ्गी प्रत्युवाच पतिं तदा । जरत्कारुं जरत्कारुश्चिन्ताशोकपरायणा ॥३०॥
इति उक्ता सा अनवद्य-अङ्गी प्रत्युवाच पतिम् तदा । जरत्कारुम् जरत्कारुः चिन्ता-शोक-परायणा ॥३०॥
iti uktā sā anavadya-aṅgī pratyuvāca patim tadā . jaratkārum jaratkāruḥ cintā-śoka-parāyaṇā ..30..
बाष्पगद्गदया वाचा मुखेन परिशुष्यता । कृताञ्जलिर्वरारोहा पर्यश्रुनयना ततः ॥३१॥ ( धैर्यमालम्ब्य वामोरूर्हृदयेन प्रवेपता ॥३१॥ )
बाष्प-गद्गदया वाचा मुखेन परिशुष्यता । कृताञ्जलिः वरारोहा पर्यश्रु-नयना ततस् ॥३१॥ ( धैर्यम् आलम्ब्य वाम-ऊरूः हृदयेन प्रवेपता ॥३१॥ )
bāṣpa-gadgadayā vācā mukhena pariśuṣyatā . kṛtāñjaliḥ varārohā paryaśru-nayanā tatas ..31.. ( dhairyam ālambya vāma-ūrūḥ hṛdayena pravepatā ..31.. )
न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम् । धर्मे स्थितां स्थितो धर्मे सदा प्रियहिते रताम् ॥३२॥
न माम् अर्हसि धर्म-ज्ञ परित्यक्तुम् अनागसम् । धर्मे स्थिताम् स्थितः धर्मे सदा प्रिय-हिते रताम् ॥३२॥
na mām arhasi dharma-jña parityaktum anāgasam . dharme sthitām sthitaḥ dharme sadā priya-hite ratām ..32..
प्रदाने कारणं यच्च मम तुभ्यं द्विजोत्तम । तदलब्धवतीं मन्दां किं मां वक्ष्यति वासुखिः ॥३३॥
प्रदाने कारणम् यत् च मम तुभ्यम् द्विजोत्तम । तद्-अलब्धवतीम् मन्दाम् किम् माम् वक्ष्यति वासुखिः ॥३३॥
pradāne kāraṇam yat ca mama tubhyam dvijottama . tad-alabdhavatīm mandām kim mām vakṣyati vāsukhiḥ ..33..
मातृशापाभिभूतानां ज्ञातीनां मम सत्तम । अपत्यमीप्षितं त्वत्तस्तच्च तावन्न दृश्यते ॥३४॥
मातृ-शाप-अभिभूतानाम् ज्ञातीनाम् मम सत्तम । अपत्यम् ईप्षितम् त्वत्तः तत् च तावत् न दृश्यते ॥३४॥
mātṛ-śāpa-abhibhūtānām jñātīnām mama sattama . apatyam īpṣitam tvattaḥ tat ca tāvat na dṛśyate ..34..
त्वत्तो ह्यपत्यलाभेन ज्ञातीनां मे शिवं भवेत् । सम्प्रयोगो भवेन्नायं मम मोघस्त्वया द्विज ॥३५॥
त्वत्तः हि अपत्य-लाभेन ज्ञातीनाम् मे शिवम् भवेत् । सम्प्रयोगः भवेत् न अयम् मम मोघः त्वया द्विज ॥३५॥
tvattaḥ hi apatya-lābhena jñātīnām me śivam bhavet . samprayogaḥ bhavet na ayam mama moghaḥ tvayā dvija ..35..
ज्ञातीनां हितमिच्छन्ती भगवंस्त्वां प्रसादये । इममव्यक्तरूपं मे गर्भमाधाय सत्तम ॥३६॥ ( कथं त्यक्त्वा महात्मा सन्गन्तुमिच्छस्यनागसम् ॥३६॥ )
ज्ञातीनाम् हितम् इच्छन्ती भगवन् त्वाम् प्रसादये । इमम् अव्यक्त-रूपम् मे गर्भम् आधाय सत्तम ॥३६॥ ( कथम् त्यक्त्वा महात्मा सन् गन्तुम् इच्छसि अनागसम् ॥३६॥ )
jñātīnām hitam icchantī bhagavan tvām prasādaye . imam avyakta-rūpam me garbham ādhāya sattama ..36.. ( katham tyaktvā mahātmā san gantum icchasi anāgasam ..36.. )
एवमुक्तस्तु स मुनिर्भार्यां वचनमब्रवीत् । यद्युक्तमनुरूपं च जरत्कारुस्तपोधनः ॥३७॥
एवम् उक्तः तु स मुनिः भार्याम् वचनम् अब्रवीत् । यत् युक्तम् अनुरूपम् च जरत्कारुः तपोधनः ॥३७॥
evam uktaḥ tu sa muniḥ bhāryām vacanam abravīt . yat yuktam anurūpam ca jaratkāruḥ tapodhanaḥ ..37..
अस्त्येष गर्भः सुभगे तव वैश्वानरोपमः । ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः ॥३८॥
अस्ति एष गर्भः सुभगे तव वैश्वानर-उपमः । ऋषिः परम-धर्म-आत्मा वेद-वेदाङ्ग-पारगः ॥३८॥
asti eṣa garbhaḥ subhage tava vaiśvānara-upamaḥ . ṛṣiḥ parama-dharma-ātmā veda-vedāṅga-pāragaḥ ..38..
एवमुक्त्वा स धर्मात्मा जरत्कारुर्महानृषिः । उग्राय तपसे भूयो जगाम कृतनिश्चयः ॥३९॥ 1.47.43
एवम् उक्त्वा स धर्म-आत्मा जरत्कारुः महान् ऋषिः । उग्राय तपसे भूयस् जगाम कृत-निश्चयः ॥३९॥ १।४७।४३
evam uktvā sa dharma-ātmā jaratkāruḥ mahān ṛṣiḥ . ugrāya tapase bhūyas jagāma kṛta-niścayaḥ ..39.. 1.47.43

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In