| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
गतमात्रं तु भर्तारं जरत्कारुरवेदयत् । भ्रातुस्त्वरितमागम्य यथातथ्यं तपोधन ॥१॥
गत-मात्रम् तु भर्तारम् जरत्कारुः अवेदयत् । भ्रातुः त्वरितम् आगम्य यथातथ्यम् तपोधन ॥१॥
gata-mātram tu bhartāram jaratkāruḥ avedayat . bhrātuḥ tvaritam āgamya yathātathyam tapodhana ..1..
ततः स भुजगश्रेष्ठः श्रुत्वा सुमहदप्रियम् । उवाच भगिनीं दीनां तदा दीनतरः स्वयम् ॥२॥
ततस् स भुजग-श्रेष्ठः श्रुत्वा सु महत् अप्रियम् । उवाच भगिनीम् दीनाम् तदा दीनतरः स्वयम् ॥२॥
tatas sa bhujaga-śreṣṭhaḥ śrutvā su mahat apriyam . uvāca bhaginīm dīnām tadā dīnataraḥ svayam ..2..
जानासि भद्रे यत्कार्यं प्रदाने कारणं च यत् । पन्नगानां हितार्थाय पुत्रस्ते स्यात्ततो यदि ॥३॥
जानासि भद्रे यत् कार्यम् प्रदाने कारणम् च यत् । पन्नगानाम् हित-अर्थाय पुत्रः ते स्यात् ततस् यदि ॥३॥
jānāsi bhadre yat kāryam pradāne kāraṇam ca yat . pannagānām hita-arthāya putraḥ te syāt tatas yadi ..3..
स सर्पसत्रात्किल नो मोक्षयिष्यति वीर्यवान् । एवं पितामहः पूर्वमुक्तवान्मां सुरैः सह ॥४॥
स सर्प-सत्रात् किल नः मोक्षयिष्यति वीर्यवान् । एवम् पितामहः पूर्वम् उक्तवान् माम् सुरैः सह ॥४॥
sa sarpa-satrāt kila naḥ mokṣayiṣyati vīryavān . evam pitāmahaḥ pūrvam uktavān mām suraiḥ saha ..4..
अप्यस्ति गर्भः सुभगे तस्मात्ते मुनिसत्तमात् । न चेच्छाम्यफलं तस्य दारकर्म मनीषिणः ॥५॥
अपि अस्ति गर्भः सुभगे तस्मात् ते मुनि-सत्तमात् । न च इच्छामि अफलम् तस्य दारकर्म मनीषिणः ॥५॥
api asti garbhaḥ subhage tasmāt te muni-sattamāt . na ca icchāmi aphalam tasya dārakarma manīṣiṇaḥ ..5..
कामं च मम न न्याय्यं प्रष्टुं त्वां कार्यमीदृशम् । किं तु कार्यगरीयस्त्वात्ततस्त्वाहमचूचुदम् ॥६॥
कामम् च मम न न्याय्यम् प्रष्टुम् त्वाम् कार्यम् ईदृशम् । किम् तु कार्य-गरीयः-त्वात् ततस् त्वा अहम् अचूचुदम् ॥६॥
kāmam ca mama na nyāyyam praṣṭum tvām kāryam īdṛśam . kim tu kārya-garīyaḥ-tvāt tatas tvā aham acūcudam ..6..
दुर्वासतां विदित्वा च भर्तुस्तेऽतितपस्विनः । नैनमन्वागमिष्यामि कदाचिद्धि शपेत्स माम् ॥७॥
दुर्वासताम् विदित्वा च भर्तुः ते अति तपस्विनः । न एनम् अन्वागमिष्यामि कदाचिद् हि शपेत् स माम् ॥७॥
durvāsatām viditvā ca bhartuḥ te ati tapasvinaḥ . na enam anvāgamiṣyāmi kadācid hi śapet sa mām ..7..
आचक्ष्व भद्रे भर्तुस्त्वं सर्वमेव विचेष्टितम् । शल्यमुद्धर मे घोरं भद्रे हृदि चिरस्थितम् ॥८॥
आचक्ष्व भद्रे भर्तुः त्वम् सर्वम् एव विचेष्टितम् । शल्यम् उद्धर मे घोरम् भद्रे हृदि चिर-स्थितम् ॥८॥
ācakṣva bhadre bhartuḥ tvam sarvam eva viceṣṭitam . śalyam uddhara me ghoram bhadre hṛdi cira-sthitam ..8..
जरत्कारुस्ततो वाक्यमित्युक्ता प्रत्यभाषत । आश्वासयन्ती सन्तप्तं वासुकिं पन्नगेश्वरम् ॥९॥
जरत्कारुः ततस् वाक्यम् इति उक्ता प्रत्यभाषत । आश्वासयन्ती सन्तप्तम् वासुकिम् पन्नग-ईश्वरम् ॥९॥
jaratkāruḥ tatas vākyam iti uktā pratyabhāṣata . āśvāsayantī santaptam vāsukim pannaga-īśvaram ..9..
पृष्टो मयापत्यहेतोः स महात्मा महातपाः । अस्तीत्युदरमुद्दिश्य ममेदं गतवांश्च सः ॥१०॥
पृष्टः मया अपत्य-हेतोः स महात्मा महा-तपाः । अस्ति इति उदरम् उद्दिश्य मम इदम् गतवान् च सः ॥१०॥
pṛṣṭaḥ mayā apatya-hetoḥ sa mahātmā mahā-tapāḥ . asti iti udaram uddiśya mama idam gatavān ca saḥ ..10..
स्वैरेष्वपि न तेनाहं स्मरामि वितथं क्वचित् । उक्तपूर्वं कुतो राजन्साम्पराये स वक्ष्यति ॥११॥
स्वैरेषु अपि न तेन अहम् स्मरामि वितथम् क्वचिद् । उक्त-पूर्वम् कुतस् राजन् साम्पराये स वक्ष्यति ॥११॥
svaireṣu api na tena aham smarāmi vitatham kvacid . ukta-pūrvam kutas rājan sāmparāye sa vakṣyati ..11..
न सन्तापस्त्वया कार्यः कार्यं प्रति भुजङ्गमे । उत्पत्स्यति हि ते पुत्रो ज्वलनार्कसमद्युतिः ॥१२॥
न सन्तापः त्वया कार्यः कार्यम् प्रति भुजङ्गमे । उत्पत्स्यति हि ते पुत्रः ज्वलन-अर्क-सम-द्युतिः ॥१२॥
na santāpaḥ tvayā kāryaḥ kāryam prati bhujaṅgame . utpatsyati hi te putraḥ jvalana-arka-sama-dyutiḥ ..12..
इत्युक्त्वा हि स मां भ्रातर्गतो भर्ता तपोवनम् । तस्माद्व्येतु परं दुःखं तवेदं मनसि स्थितम् ॥१३॥
इति उक्त्वा हि स माम् भ्रातर् गतः भर्ता तपः-वनम् । तस्मात् व्येतु परम् दुःखम् तव इदम् मनसि स्थितम् ॥१३॥
iti uktvā hi sa mām bhrātar gataḥ bhartā tapaḥ-vanam . tasmāt vyetu param duḥkham tava idam manasi sthitam ..13..
एतच्छ्रुत्वा स नागेन्द्रो वासुकिः परया मुदा । एवमस्त्विति तद्वाक्यं भगिन्याः प्रत्यगृह्णत ॥१४॥
एतत् श्रुत्वा स नाग-इन्द्रः वासुकिः परया मुदा । एवम् अस्तु इति तत् वाक्यम् भगिन्याः प्रत्यगृह्णत ॥१४॥
etat śrutvā sa nāga-indraḥ vāsukiḥ parayā mudā . evam astu iti tat vākyam bhaginyāḥ pratyagṛhṇata ..14..
सान्त्वमानार्थदानैश्च पूजया चानुरूपया । सोदर्यां पूजयामास स्वसारं पन्नगोत्तमः ॥१५॥
सान्त्व-मान-अर्थ-दानैः च पूजया च अनुरूपया । सोदर्याम् पूजयामास स्वसारम् पन्नग-उत्तमः ॥१५॥
sāntva-māna-artha-dānaiḥ ca pūjayā ca anurūpayā . sodaryām pūjayāmāsa svasāram pannaga-uttamaḥ ..15..
ततः स ववृधे गर्भो महातेजा रविप्रभः । यथा सोमो द्विजश्रेष्ठ शुक्लपक्षोदितो दिवि ॥१६॥
ततस् स ववृधे गर्भः महा-तेजाः रवि-प्रभः । यथा सोमः द्विजश्रेष्ठ शुक्ल-पक्ष-उदितः दिवि ॥१६॥
tatas sa vavṛdhe garbhaḥ mahā-tejāḥ ravi-prabhaḥ . yathā somaḥ dvijaśreṣṭha śukla-pakṣa-uditaḥ divi ..16..
यथाकालं तु सा ब्रह्मन्प्रजज्ञे भुजगस्वसा । कुमारं देवगर्भाभं पितृमातृभयापहम् ॥१७॥
यथाकालम् तु सा ब्रह्मन् प्रजज्ञे भुजग-स्वसा । कुमारम् देव-गर्भ-आभम् पितृ-मातृ-भय-अपहम् ॥१७॥
yathākālam tu sā brahman prajajñe bhujaga-svasā . kumāram deva-garbha-ābham pitṛ-mātṛ-bhaya-apaham ..17..
ववृधे स च तत्रैव नागराजनिवेशने । वेदांश्चाधिजगे साङ्गान्भार्गवाच्च्यवनात्मजात् ॥१८॥
ववृधे स च तत्र एव नाग-राज-निवेशने । वेदान् च अधिजगे साङ्गान् भार्गवात् च्यवन-आत्मजात् ॥१८॥
vavṛdhe sa ca tatra eva nāga-rāja-niveśane . vedān ca adhijage sāṅgān bhārgavāt cyavana-ātmajāt ..18..
चरितव्रतो बाल एव बुद्धिसत्त्वगुणान्वितः । नाम चास्याभवत्ख्यातं लोकेष्वास्तीक इत्युत ॥१९॥
चरित-व्रतः बालः एव बुद्धि-सत्त्व-गुण-अन्वितः । नाम च अस्य अभवत् ख्यातम् लोकेषु आस्तीकः इति उत ॥१९॥
carita-vrataḥ bālaḥ eva buddhi-sattva-guṇa-anvitaḥ . nāma ca asya abhavat khyātam lokeṣu āstīkaḥ iti uta ..19..
अस्तीत्युक्त्वा गतो यस्मात्पिता गर्भस्थमेव तम् । वनं तस्मादिदं तस्य नामास्तीकेति विश्रुतम् ॥२०॥
अस्ति इति उक्त्वा गतः यस्मात् पिता गर्भ-स्थम् एव तम् । वनम् तस्मात् इदम् तस्य नाम आस्तीक-इति विश्रुतम् ॥२०॥
asti iti uktvā gataḥ yasmāt pitā garbha-stham eva tam . vanam tasmāt idam tasya nāma āstīka-iti viśrutam ..20..
स बाल एव तत्रस्थश्चरन्नमितबुद्धिमान् । गृहे पन्नगराजस्य प्रयत्नात्पर्यरक्ष्यत ॥२१॥
स बालः एव तत्रस्थः चरन् अमित-बुद्धिमान् । गृहे पन्नग-राजस्य प्रयत्नात् पर्यरक्ष्यत ॥२१॥
sa bālaḥ eva tatrasthaḥ caran amita-buddhimān . gṛhe pannaga-rājasya prayatnāt paryarakṣyata ..21..
भगवानिव देवेशः शूलपाणिर्हिरण्यदः । विवर्धमानः सर्वांस्तान्पन्नगानभ्यहर्षयत् ॥२२॥ 1.48.22
भगवान् इव देवेशः शूलपाणिः हिरण्य-दः । विवर्धमानः सर्वान् तान् पन्नगान् अभ्यहर्षयत् ॥२२॥ १।४८।२२
bhagavān iva deveśaḥ śūlapāṇiḥ hiraṇya-daḥ . vivardhamānaḥ sarvān tān pannagān abhyaharṣayat ..22.. 1.48.22

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In