| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

शौनक उवाच॥
यदपृच्छत्तदा राजा मन्त्रिणो जनमेजयः । पितुः स्वर्गगतिं तन्मे विस्तरेण पुनर्वद ॥१॥
यत् अपृच्छत् तदा राजा मन्त्रिणः जनमेजयः । पितुः स्वर्ग-गतिम् तत् मे विस्तरेण पुनर् वद ॥१॥
yat apṛcchat tadā rājā mantriṇaḥ janamejayaḥ . pituḥ svarga-gatim tat me vistareṇa punar vada ..1..
सूत उवाच॥
शृणु ब्रह्मन्यथा पृष्टा मन्त्रिणो नृपतेस्तदा । आख्यातवन्तस्ते सर्वे निधनं तत्परिक्षितः ॥२॥
शृणु ब्रह्मन् यथा पृष्टाः मन्त्रिणः नृपतेः तदा । आख्यातवन्तः ते सर्वे निधनम् तत् परिक्षितः ॥२॥
śṛṇu brahman yathā pṛṣṭāḥ mantriṇaḥ nṛpateḥ tadā . ākhyātavantaḥ te sarve nidhanam tat parikṣitaḥ ..2..
जनमेजय उवाच॥
जानन्ति तु भवन्तस्तद्यथावृत्तः पिता मम । आसीद्यथा च निधनं गतः काले महायशाः ॥३॥
जानन्ति तु भवन्तः तत् यथा वृत्तः पिता मम । आसीत् यथा च निधनम् गतः काले महा-यशाः ॥३॥
jānanti tu bhavantaḥ tat yathā vṛttaḥ pitā mama . āsīt yathā ca nidhanam gataḥ kāle mahā-yaśāḥ ..3..
श्रुत्वा भवत्सकाशाद्धि पितुर्वृत्तमशेषतः । कल्याणं प्रतिपत्स्यामि विपरीतं न जातु चित् ॥४॥
श्रुत्वा भवत्-सकाशात् हि पितुः वृत्तम् अशेषतस् । कल्याणम् प्रतिपत्स्यामि विपरीतम् न जातु चित् ॥४॥
śrutvā bhavat-sakāśāt hi pituḥ vṛttam aśeṣatas . kalyāṇam pratipatsyāmi viparītam na jātu cit ..4..
सूत उवाच॥
मन्त्रिणोऽथाब्रुवन्वाक्यं पृष्टास्तेन महात्मना । सर्वधर्मविदः प्राज्ञा राजानं जनमेजयम् ॥५॥
मन्त्रिणः अथ अब्रुवन् वाक्यम् पृष्टाः तेन महात्मना । सर्व-धर्म-विदः प्राज्ञाः राजानम् जनमेजयम् ॥५॥
mantriṇaḥ atha abruvan vākyam pṛṣṭāḥ tena mahātmanā . sarva-dharma-vidaḥ prājñāḥ rājānam janamejayam ..5..
धर्मात्मा च महात्मा च प्रजापालः पिता तव । आसीदिह यथावृत्तः स महात्मा शृणुष्व तत् ॥६॥
धर्म-आत्मा च महात्मा च प्रजापालः पिता तव । आसीत् इह यथावृत्तः स महात्मा शृणुष्व तत् ॥६॥
dharma-ātmā ca mahātmā ca prajāpālaḥ pitā tava . āsīt iha yathāvṛttaḥ sa mahātmā śṛṇuṣva tat ..6..
चातुर्वर्ण्यं स्वधर्मस्थं स कृत्वा पर्यरक्षत । धर्मतो धर्मविद्राजा धर्मो विग्रहवानिव ॥७॥
चातुर्वर्ण्यम् स्वधर्म-स्थम् स कृत्वा पर्यरक्षत । धर्मतः धर्म-विद् राजा धर्मः विग्रहवान् इव ॥७॥
cāturvarṇyam svadharma-stham sa kṛtvā paryarakṣata . dharmataḥ dharma-vid rājā dharmaḥ vigrahavān iva ..7..
ररक्ष पृथिवीं देवीं श्रीमानतुलविक्रमः । द्वेष्टारस्तस्य नैवासन्स च न द्वेष्टि कञ्चन ॥८॥ ( समः सर्वेषु भूतेषु प्रजापतिरिवाभवत् ॥८॥ )
ररक्ष पृथिवीम् देवीम् श्रीमान् अतुल-विक्रमः । द्वेष्टारः तस्य न एव आसन् स च न द्वेष्टि कञ्चन ॥८॥ ( समः सर्वेषु भूतेषु प्रजापतिः इव अभवत् ॥८॥ )
rarakṣa pṛthivīm devīm śrīmān atula-vikramaḥ . dveṣṭāraḥ tasya na eva āsan sa ca na dveṣṭi kañcana ..8.. ( samaḥ sarveṣu bhūteṣu prajāpatiḥ iva abhavat ..8.. )
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव स्वकर्मसु । स्थिताः सुमनसो राजंस्तेन राज्ञा स्वनुष्ठिताः ॥९॥
ब्राह्मणाः क्षत्रियाः वैश्याः शूद्राः च एव स्व-कर्मसु । स्थिताः सुमनसः राजन् तेन राज्ञा सु अनुष्ठिताः ॥९॥
brāhmaṇāḥ kṣatriyāḥ vaiśyāḥ śūdrāḥ ca eva sva-karmasu . sthitāḥ sumanasaḥ rājan tena rājñā su anuṣṭhitāḥ ..9..
विधवानाथकृपणान्विकलांश्च बभार सः । सुदर्शः सर्वभूतानामासीत्सोम इवापरः ॥१०॥
विधवा-अनाथ-कृपणान् विकलान् च बभार सः । सुदर्शः सर्व-भूतानाम् आसीत् सोमः इव अपरः ॥१०॥
vidhavā-anātha-kṛpaṇān vikalān ca babhāra saḥ . sudarśaḥ sarva-bhūtānām āsīt somaḥ iva aparaḥ ..10..
तुष्टपुष्टजनः श्रीमान्सत्यवाग्दृढविक्रमः । धनुर्वेदे च शिष्योऽभून्नृपः शारद्वतस्य सः ॥११॥
तुष्ट-पुष्ट-जनः श्रीमान् सत्य-वाच् दृढ-विक्रमः । धनुर्वेदे च शिष्यः अभूत् नृपः शारद्वतस्य सः ॥११॥
tuṣṭa-puṣṭa-janaḥ śrīmān satya-vāc dṛḍha-vikramaḥ . dhanurvede ca śiṣyaḥ abhūt nṛpaḥ śāradvatasya saḥ ..11..
गोविन्दस्य प्रियश्चासीत्पिता ते जनमेजय । लोकस्य चैव सर्वस्य प्रिय आसीन्महायशाः ॥१२॥
गोविन्दस्य प्रियः च आसीत् पिता ते जनमेजय । लोकस्य च एव सर्वस्य प्रियः आसीत् महा-यशाः ॥१२॥
govindasya priyaḥ ca āsīt pitā te janamejaya . lokasya ca eva sarvasya priyaḥ āsīt mahā-yaśāḥ ..12..
परिक्षीणेषु कुरुषु उत्तरायामजायत । परिक्षिदभवत्तेन सौभद्रस्यात्मजो बली ॥१३॥
परिक्षीणेषु कुरुषु उत्तरायाम् अजायत । परिक्षित् अभवत् तेन सौभद्रस्य आत्मजः बली ॥१३॥
parikṣīṇeṣu kuruṣu uttarāyām ajāyata . parikṣit abhavat tena saubhadrasya ātmajaḥ balī ..13..
राजधर्मार्थकुशलो युक्तः सर्वगुणैर्नृपः । जितेन्द्रियश्चात्मवांश्च मेधावी वृद्धसेवितः ॥१४॥
राज-धर्म-अर्थ-कुशलः युक्तः सर्व-गुणैः नृपः । जित-इन्द्रियः च आत्मवान् च मेधावी वृद्ध-सेवितः ॥१४॥
rāja-dharma-artha-kuśalaḥ yuktaḥ sarva-guṇaiḥ nṛpaḥ . jita-indriyaḥ ca ātmavān ca medhāvī vṛddha-sevitaḥ ..14..
षड्वर्गविन्महाबुद्धिर्नीतिधर्मविदुत्तमः । प्रजा इमास्तव पिता षष्टिं वर्षाण्यपालयत् ॥१५॥ ( ततो दिष्टान्तमापन्नः सर्पेणानतिवर्तितम् ॥१५॥ )
षड्वर्ग-विद् महा-बुद्धिः नीति-धर्म-विद् उत्तमः । प्रजाः इमाः तव पिता षष्टिम् वर्षाणि अपालयत् ॥१५॥ ( ततस् दिष्टान्तम् आपन्नः सर्पेण अनतिवर्तितम् ॥१५॥ )
ṣaḍvarga-vid mahā-buddhiḥ nīti-dharma-vid uttamaḥ . prajāḥ imāḥ tava pitā ṣaṣṭim varṣāṇi apālayat ..15.. ( tatas diṣṭāntam āpannaḥ sarpeṇa anativartitam ..15.. )
ततस्त्वं पुरुषश्रेष्ठ धर्मेण प्रतिपेदिवान् । इदं वर्षसहस्राय राज्यं कुरुकुलागतम् ॥१६॥ ( बाल एवाभिजातोऽसि सर्वभूतानुपालकः ॥१६॥ )
ततस् त्वम् पुरुष-श्रेष्ठ धर्मेण प्रतिपेदिवान् । इदम् वर्ष-सहस्राय राज्यम् कुरु-कुल-आगतम् ॥१६॥ ( बालः एव अभिजातः असि सर्व-भूत-अनुपालकः ॥१६॥ )
tatas tvam puruṣa-śreṣṭha dharmeṇa pratipedivān . idam varṣa-sahasrāya rājyam kuru-kula-āgatam ..16.. ( bālaḥ eva abhijātaḥ asi sarva-bhūta-anupālakaḥ ..16.. )
जनमेजय उवाच॥
नास्मिन्कुले जातु बभूव राजा; यो न प्रजानां हितकृत्प्रियश्च । विशेषतः प्रेक्ष्य पितामहानां; वृत्तं महद्वृत्तपरायणानाम् ॥१७॥
न अस्मिन् कुले जातु बभूव राजा; यः न प्रजानाम् हित-कृत् प्रियः च । विशेषतः प्रेक्ष्य पितामहानाम्; वृत्तम् महत् वृत्त-परायणानाम् ॥१७॥
na asmin kule jātu babhūva rājā; yaḥ na prajānām hita-kṛt priyaḥ ca . viśeṣataḥ prekṣya pitāmahānām; vṛttam mahat vṛtta-parāyaṇānām ..17..
कथं निधनमापन्नः पिता मम तथाविधः । आचक्षध्वं यथावन्मे श्रोतुमिच्छामि तत्त्वतः ॥१८॥
कथम् निधनम् आपन्नः पिता मम तथाविधः । आचक्षध्वम् यथावत् मे श्रोतुम् इच्छामि तत्त्वतः ॥१८॥
katham nidhanam āpannaḥ pitā mama tathāvidhaḥ . ācakṣadhvam yathāvat me śrotum icchāmi tattvataḥ ..18..
सूत उवाच॥
एवं सञ्चोदिता राज्ञा मन्त्रिणस्ते नराधिपम् । ऊचुः सर्वे यथावृत्तं राज्ञः प्रियहिते रताः ॥१९॥
एवम् सञ्चोदिताः राज्ञा मन्त्रिणः ते नराधिपम् । ऊचुः सर्वे यथावृत्तम् राज्ञः प्रिय-हिते रताः ॥१९॥
evam sañcoditāḥ rājñā mantriṇaḥ te narādhipam . ūcuḥ sarve yathāvṛttam rājñaḥ priya-hite ratāḥ ..19..
बभूव मृगयाशीलस्तव राजन्पिता सदा । यथा पाण्डुर्महाभागो धनुर्धरवरो युधि ॥२०॥ ( अस्मास्वासज्य सर्वाणि राजकार्याण्यशेषतः ॥२०॥ )
बभूव मृगया-शीलः तव राजन् पिता सदा । यथा पाण्डुः महाभागः धनुर्धर-वरः युधि ॥२०॥ ( अस्मासु आसज्य सर्वाणि राज-कार्याणि अशेषतस् ॥२०॥ )
babhūva mṛgayā-śīlaḥ tava rājan pitā sadā . yathā pāṇḍuḥ mahābhāgaḥ dhanurdhara-varaḥ yudhi ..20.. ( asmāsu āsajya sarvāṇi rāja-kāryāṇi aśeṣatas ..20.. )
स कदाचिद्वनचरो मृगं विव्याध पत्रिणा । विद्ध्वा चान्वसरत्तूर्णं तं मृगं गहने वने ॥२१॥
स कदाचिद् वन-चरः मृगम् विव्याध पत्रिणा । विद्ध्वा च अन्वसरत् तूर्णम् तम् मृगम् गहने वने ॥२१॥
sa kadācid vana-caraḥ mṛgam vivyādha patriṇā . viddhvā ca anvasarat tūrṇam tam mṛgam gahane vane ..21..
पदातिर्बद्धनिस्त्रिंशस्ततायुधकलापवान् । न चाससाद गहने मृगं नष्टं पिता तव ॥२२॥
पदातिः बद्ध-निस्त्रिंशः तत-आयुध-कलापवान् । न च आससाद गहने मृगम् नष्टम् पिता तव ॥२२॥
padātiḥ baddha-nistriṃśaḥ tata-āyudha-kalāpavān . na ca āsasāda gahane mṛgam naṣṭam pitā tava ..22..
परिश्रान्तो वयःस्थश्च षष्टिवर्षो जरान्वितः । क्षुधितः स महारण्ये ददर्श मुनिमन्तिके ॥२३॥
परिश्रान्तः वयःस्थः च षष्टि-वर्षः जरा-अन्वितः । क्षुधितः स महा-अरण्ये ददर्श मुनिम् अन्तिके ॥२३॥
pariśrāntaḥ vayaḥsthaḥ ca ṣaṣṭi-varṣaḥ jarā-anvitaḥ . kṣudhitaḥ sa mahā-araṇye dadarśa munim antike ..23..
स तं पप्रच्छ राजेन्द्रो मुनिं मौनव्रतान्वितम् । न च किञ्चिदुवाचैनं स मुनिः पृच्छतोऽपि सन् ॥२४॥
स तम् पप्रच्छ राज-इन्द्रः मुनिम् मौन-व्रत-अन्वितम् । न च किञ्चिद् उवाच एनम् स मुनिः पृच्छतः अपि सन् ॥२४॥
sa tam papraccha rāja-indraḥ munim mauna-vrata-anvitam . na ca kiñcid uvāca enam sa muniḥ pṛcchataḥ api san ..24..
ततो राजा क्षुच्छ्रमार्तस्तं मुनिं स्थाणुवत्स्थितम् । मौनव्रतधरं शान्तं सद्यो मन्युवशं ययौ ॥२५॥
ततस् राजा क्षुध्-श्रम-आर्तः तम् मुनिम् स्थाणु-वत् स्थितम् । मौन-व्रत-धरम् शान्तम् सद्यस् मन्यु-वशम् ययौ ॥२५॥
tatas rājā kṣudh-śrama-ārtaḥ tam munim sthāṇu-vat sthitam . mauna-vrata-dharam śāntam sadyas manyu-vaśam yayau ..25..
न बुबोध हि तं राजा मौनव्रतधरं मुनिम् । स तं मन्युसमाविष्टो धर्षयामास ते पिता ॥२६॥
न बुबोध हि तम् राजा मौन-व्रत-धरम् मुनिम् । स तम् मन्यु-समाविष्टः धर्षयामास ते पिता ॥२६॥
na bubodha hi tam rājā mauna-vrata-dharam munim . sa tam manyu-samāviṣṭaḥ dharṣayāmāsa te pitā ..26..
मृतं सर्पं धनुष्कोट्या समुत्क्षिप्य धरातलात् । तस्य शुद्धात्मनः प्रादात्स्कन्धे भरतसत्तम ॥२७॥
मृतम् सर्पम् धनुष्कोट्या समुत्क्षिप्य धरा-तलात् । तस्य शुद्ध-आत्मनः प्रादात् स्कन्धे भरत-सत्तम ॥२७॥
mṛtam sarpam dhanuṣkoṭyā samutkṣipya dharā-talāt . tasya śuddha-ātmanaḥ prādāt skandhe bharata-sattama ..27..
न चोवाच स मेधावी तमथो साध्वसाधु वा । तस्थौ तथैव चाक्रुध्यन्सर्पं स्कन्धेन धारयन् ॥२८॥ 1.49.31
न च उवाच स मेधावी तम् अथो साधु असाधु वा । तस्थौ तथा एव च अक्रुध्यन् सर्पम् स्कन्धेन धारयन् ॥२८॥ १।४९।३१
na ca uvāca sa medhāvī tam atho sādhu asādhu vā . tasthau tathā eva ca akrudhyan sarpam skandhena dhārayan ..28.. 1.49.31

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In