| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मन्त्रिण ऊचुः॥
ततः स राजा राजेन्द्र स्कन्धे तस्य भुजङ्गमम् । मुनेः क्षुत्क्षाम आसज्य स्वपुरं पुनराययौ ॥१॥
ततस् स राजा राज-इन्द्र स्कन्धे तस्य भुजङ्गमम् । मुनेः क्षुध्-क्षामः आसज्य स्व-पुरम् पुनर् आययौ ॥१॥
tatas sa rājā rāja-indra skandhe tasya bhujaṅgamam . muneḥ kṣudh-kṣāmaḥ āsajya sva-puram punar āyayau ..1..
ऋषेस्तस्य तु पुत्रोऽभूद्गवि जातो महायशाः । शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः ॥२॥
ऋषेः तस्य तु पुत्रः अभूत् गवि जातः महा-यशाः । शृङ्गी नाम महा-तेजाः तिग्म-वीर्यः अतिकोपनः ॥२॥
ṛṣeḥ tasya tu putraḥ abhūt gavi jātaḥ mahā-yaśāḥ . śṛṅgī nāma mahā-tejāḥ tigma-vīryaḥ atikopanaḥ ..2..
ब्रह्माणं सोऽभ्युपागम्य मुनिः पूजां चकार ह । अनुज्ञातो गतस्तत्र शृङ्गी शुश्राव तं तदा ॥३॥ ( सख्युः सकाशात्पितरं पित्रा ते धर्षितं तथा ॥३॥ )
ब्रह्माणम् सः अभ्युपागम्य मुनिः पूजाम् चकार ह । अनुज्ञातः गतः तत्र शृङ्गी शुश्राव तम् तदा ॥३॥ ( सख्युः सकाशात् पितरम् पित्रा ते धर्षितम् तथा ॥३॥ )
brahmāṇam saḥ abhyupāgamya muniḥ pūjām cakāra ha . anujñātaḥ gataḥ tatra śṛṅgī śuśrāva tam tadā ..3.. ( sakhyuḥ sakāśāt pitaram pitrā te dharṣitam tathā ..3.. )
मृतं सर्पं समासक्तं पित्रा ते जनमेजय । वहन्तं कुरुशार्दूल स्कन्धेनानपकारिणम् ॥४॥
मृतम् सर्पम् समासक्तम् पित्रा ते जनमेजय । वहन्तम् कुरु-शार्दूल स्कन्धेन अनपकारिणम् ॥४॥
mṛtam sarpam samāsaktam pitrā te janamejaya . vahantam kuru-śārdūla skandhena anapakāriṇam ..4..
तपस्विनमतीवाथ तं मुनिप्रवरं नृप । जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुते ॥५॥
तपस्विनम् अतीव अथ तम् मुनि-प्रवरम् नृप । जित-इन्द्रियम् विशुद्धम् च स्थितम् कर्मणि अथ अद्भुते ॥५॥
tapasvinam atīva atha tam muni-pravaram nṛpa . jita-indriyam viśuddham ca sthitam karmaṇi atha adbhute ..5..
तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तथा । शुभाचारं शुभकथं सुस्थिरं तमलोलुपम् ॥६॥
तपसा द्योतित-आत्मानम् स्वेषु अङ्गेषु यतम् तथा । शुभ-आचारम् शुभ-कथम् सुस्थिरम् तम् अ लोलुपम् ॥६॥
tapasā dyotita-ātmānam sveṣu aṅgeṣu yatam tathā . śubha-ācāram śubha-katham susthiram tam a lolupam ..6..
अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम् । शरण्यं सर्वभूतानां पित्रा विप्रकृतं तव ॥७॥
अक्षुद्रम् अनसूयम् च वृद्धम् मौन-व्रते स्थितम् । शरण्यम् सर्व-भूतानाम् पित्रा विप्रकृतम् तव ॥७॥
akṣudram anasūyam ca vṛddham mauna-vrate sthitam . śaraṇyam sarva-bhūtānām pitrā viprakṛtam tava ..7..
शशापाथ स तच्छ्रुत्वा पितरं ते रुषान्वितः । ऋषेः पुत्रो महातेजा बालोऽपि स्थविरैर्वरः ॥८॥
शशाप अथ स तत् श्रुत्वा पितरम् ते रुषा अन्वितः । ऋषेः पुत्रः महा-तेजाः बालः अपि स्थविरैः वरः ॥८॥
śaśāpa atha sa tat śrutvā pitaram te ruṣā anvitaḥ . ṛṣeḥ putraḥ mahā-tejāḥ bālaḥ api sthaviraiḥ varaḥ ..8..
स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह । पितरं तेऽभिसन्धाय तेजसा प्रज्वलन्निव ॥९॥
स क्षिप्रम् उदकम् स्पृष्ट्वा रोषात् इदम् उवाच ह । पितरम् ते अभिसन्धाय तेजसा प्रज्वलन् इव ॥९॥
sa kṣipram udakam spṛṣṭvā roṣāt idam uvāca ha . pitaram te abhisandhāya tejasā prajvalan iva ..9..
अनागसि गुरौ यो मे मृतं सर्पमवासृजत् । तं नागस्तक्षकः क्रुद्धस्तेजसा सादयिष्यति ॥१०॥ ( सप्तरात्रादितः पापं पश्य मे तपसो बलम् ॥१०॥ )
अनागसि गुरौ यः मे मृतम् सर्पम् अवासृजत् । तम् नागः तक्षकः क्रुद्धः तेजसा सादयिष्यति ॥१०॥ ( सप्त-रात्रात् इतस् पापम् पश्य मे तपसः बलम् ॥१०॥ )
anāgasi gurau yaḥ me mṛtam sarpam avāsṛjat . tam nāgaḥ takṣakaḥ kruddhaḥ tejasā sādayiṣyati ..10.. ( sapta-rātrāt itas pāpam paśya me tapasaḥ balam ..10.. )
इत्युक्त्वा प्रययौ तत्र पिता यत्रास्य सोऽभवत् । दृष्ट्वा च पितरं तस्मै शापं तं प्रत्यवेदयत् ॥११॥
इति उक्त्वा प्रययौ तत्र पिता यत्र अस्य सः अभवत् । दृष्ट्वा च पितरम् तस्मै शापम् तम् प्रत्यवेदयत् ॥११॥
iti uktvā prayayau tatra pitā yatra asya saḥ abhavat . dṛṣṭvā ca pitaram tasmai śāpam tam pratyavedayat ..11..
स चापि मुनिशार्दूलः प्रेषयामास ते पितुः । शप्तोऽसि मम पुत्रेण यत्तो भव महीपते ॥१२॥ ( तक्षकस्त्वां महाराज तेजसा सादयिष्यति ॥१२॥ )
स च अपि मुनि-शार्दूलः प्रेषयामास ते पितुः । शप्तः असि मम पुत्रेण यत्तः भव महीपते ॥१२॥ ( तक्षकः त्वाम् महा-राज तेजसा सादयिष्यति ॥१२॥ )
sa ca api muni-śārdūlaḥ preṣayāmāsa te pituḥ . śaptaḥ asi mama putreṇa yattaḥ bhava mahīpate ..12.. ( takṣakaḥ tvām mahā-rāja tejasā sādayiṣyati ..12.. )
श्रुत्वा तु तद्वचो घोरं पिता ते जनमेजय । यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात् ॥१३॥
श्रुत्वा तु तत् वचः घोरम् पिता ते जनमेजय । यत्तः अभवत् परित्रस्तः तक्षकात् पन्नग-उत्तमात् ॥१३॥
śrutvā tu tat vacaḥ ghoram pitā te janamejaya . yattaḥ abhavat paritrastaḥ takṣakāt pannaga-uttamāt ..13..
ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते । राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत ॥१४॥
ततस् तस्मिन् तु दिवसे सप्तमे समुपस्थिते । राज्ञः समीपम् ब्रह्मर्षिः काश्यपः गन्तुम् ऐच्छत ॥१४॥
tatas tasmin tu divase saptame samupasthite . rājñaḥ samīpam brahmarṣiḥ kāśyapaḥ gantum aicchata ..14..
तं ददर्शाथ नागेन्द्रः काश्यपं तक्षकस्तदा । तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं व्रजन् ॥१५॥ ( क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति ॥१५॥ )
तम् ददर्श अथ नाग-इन्द्रः काश्यपम् तक्षकः तदा । तम् अब्रवीत् पन्नग-इन्द्रः काश्यपम् त्वरितम् व्रजन् ॥१५॥ ( क्व भवान् त्वरितः याति किम् च कार्यम् चिकीर्षति ॥१५॥ )
tam dadarśa atha nāga-indraḥ kāśyapam takṣakaḥ tadā . tam abravīt pannaga-indraḥ kāśyapam tvaritam vrajan ..15.. ( kva bhavān tvaritaḥ yāti kim ca kāryam cikīrṣati ..15.. )
काश्यप उवाच॥
यत्र राजा कुरुश्रेष्ठः परिक्षिन्नाम वै द्विज । तक्षकेण भुजङ्गेन धक्ष्यते किल तत्र वै ॥१६॥
यत्र राजा कुरु-श्रेष्ठः परिक्षित् नाम वै द्विज । तक्षकेण भुजङ्गेन धक्ष्यते किल तत्र वै ॥१६॥
yatra rājā kuru-śreṣṭhaḥ parikṣit nāma vai dvija . takṣakeṇa bhujaṅgena dhakṣyate kila tatra vai ..16..
गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम् । मयाभिपन्नं तं चापि न सर्पो धर्षयिष्यति ॥१७॥
गच्छामि अहम् तम् त्वरितः सद्यस् कर्तुम् अपज्वरम् । मया अभिपन्नम् तम् च अपि न सर्पः धर्षयिष्यति ॥१७॥
gacchāmi aham tam tvaritaḥ sadyas kartum apajvaram . mayā abhipannam tam ca api na sarpaḥ dharṣayiṣyati ..17..
तक्षक उवाच॥
किमर्थं तं मया दष्टं सञ्जीवयितुमिच्छसि । ब्रूहि काममहं तेऽद्य दद्मि स्वं वेश्म गम्यताम् ॥१८॥
किमर्थम् तम् मया दष्टम् सञ्जीवयितुम् इच्छसि । ब्रूहि कामम् अहम् ते अद्य दद्मि स्वम् वेश्म गम्यताम् ॥१८॥
kimartham tam mayā daṣṭam sañjīvayitum icchasi . brūhi kāmam aham te adya dadmi svam veśma gamyatām ..18..
मन्त्रिण ऊचुः॥
धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः । तमुवाच महात्मानं मानयञ्श्लक्ष्णया गिरा ॥१९॥
धन-लिप्सुः अहम् तत्र यामि इति उक्तः च तेन सः । तम् उवाच महात्मानम् मानयन् श्लक्ष्णया गिरा ॥१९॥
dhana-lipsuḥ aham tatra yāmi iti uktaḥ ca tena saḥ . tam uvāca mahātmānam mānayan ślakṣṇayā girā ..19..
यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् । गृहाण मत्त एव त्वं संनिवर्तस्व चानघ ॥२०॥
यावत् धनम् प्रार्थयसे तस्मात् राज्ञः ततस् अधिकम् । गृहाण मत्तः एव त्वम् संनिवर्तस्व च अनघ ॥२०॥
yāvat dhanam prārthayase tasmāt rājñaḥ tatas adhikam . gṛhāṇa mattaḥ eva tvam saṃnivartasva ca anagha ..20..
स एवमुक्तो नागेन काश्यपो द्विपदां वरः । लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम् ॥२१॥
सः एवम् उक्तः नागेन काश्यपः द्विपदाम् वरः । लब्ध्वा वित्तम् निववृते तक्षकात् यावत् ईप्सितम् ॥२१॥
saḥ evam uktaḥ nāgena kāśyapaḥ dvipadām varaḥ . labdhvā vittam nivavṛte takṣakāt yāvat īpsitam ..21..
तस्मिन्प्रतिगते विप्रे छद्मनोपेत्य तक्षकः । तं नृपं नृपतिश्रेष्ठ पितरं धार्मिकं तव ॥२२॥
तस्मिन् प्रतिगते विप्रे छद्मना उपेत्य तक्षकः । तम् नृपम् नृपति-श्रेष्ठ पितरम् धार्मिकम् तव ॥२२॥
tasmin pratigate vipre chadmanā upetya takṣakaḥ . tam nṛpam nṛpati-śreṣṭha pitaram dhārmikam tava ..22..
प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना । ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः ॥२३॥
प्रासाद-स्थम् यत् तम् अपि दग्धवान् विष-वह्निना । ततस् त्वम् पुरुष-व्याघ्र विजयाय अभिषेचितः ॥२३॥
prāsāda-stham yat tam api dagdhavān viṣa-vahninā . tatas tvam puruṣa-vyāghra vijayāya abhiṣecitaḥ ..23..
एतद्दृष्टं श्रुतं चापि यथावन्नृपसत्तम । अस्माभिर्निखिलं सर्वं कथितं ते सुदारुणम् ॥२४॥
एतत् दृष्टम् श्रुतम् च अपि यथावत् नृप-सत्तम । अस्माभिः निखिलम् सर्वम् कथितम् ते सु दारुणम् ॥२४॥
etat dṛṣṭam śrutam ca api yathāvat nṛpa-sattama . asmābhiḥ nikhilam sarvam kathitam te su dāruṇam ..24..
श्रुत्वा चैतं नृपश्रेष्ठ पार्थिवस्य पराभवम् । अस्य चर्षेरुत्तङ्कस्य विधत्स्व यदनन्तरम् ॥२५॥
श्रुत्वा च एतम् नृप-श्रेष्ठ पार्थिवस्य पराभवम् । अस्य च ऋषेः उत्तङ्कस्य विधत्स्व यत् अनन्तरम् ॥२५॥
śrutvā ca etam nṛpa-śreṣṭha pārthivasya parābhavam . asya ca ṛṣeḥ uttaṅkasya vidhatsva yat anantaram ..25..
जनमेजय उवाच॥
एतत्तु श्रोतुमिच्छामि अटव्यां निर्जने वने । संवादं पन्नगेन्द्रस्य काश्यपस्य च यत्तदा ॥२६॥
एतत् तु श्रोतुम् इच्छामि अटव्याम् निर्जने वने । संवादम् पन्नग-इन्द्रस्य काश्यपस्य च यत् तदा ॥२६॥
etat tu śrotum icchāmi aṭavyām nirjane vane . saṃvādam pannaga-indrasya kāśyapasya ca yat tadā ..26..
केन दृष्टं श्रुतं चापि भवतां श्रोत्रमागतम् । श्रुत्वा चाथ विधास्यामि पन्नगान्तकरीं मतिम् ॥२७॥
केन दृष्टम् श्रुतम् च अपि भवताम् श्रोत्रम् आगतम् । श्रुत्वा च अथ विधास्यामि पन्नग-अन्त-करीम् मतिम् ॥२७॥
kena dṛṣṭam śrutam ca api bhavatām śrotram āgatam . śrutvā ca atha vidhāsyāmi pannaga-anta-karīm matim ..27..
मन्त्रिण ऊचुः॥
शृणु राजन्यथास्माकं येनैतत्कथितं पुरा । समागमं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि ॥२८॥
शृणु राजन् यथा अस्माकम् येन एतत् कथितम् पुरा । समागमम् द्विज-इन्द्रस्य पन्नग-इन्द्रस्य च अध्वनि ॥२८॥
śṛṇu rājan yathā asmākam yena etat kathitam purā . samāgamam dvija-indrasya pannaga-indrasya ca adhvani ..28..
तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिव । विचिन्वन्पूर्वमारूढः शुष्कशाखं वनस्पतिम् ॥२९॥ ( अबुध्यमानौ तं तत्र वृक्षस्थं पन्नगद्विजौ ॥२९॥ )
तस्मिन् वृक्षे नरः कश्चिद् इन्धन-अर्थाय पार्थिव । विचिन्वन् पूर्वम् आरूढः शुष्क-शाखम् वनस्पतिम् ॥२९॥ ( अ बुध्यमानौ तम् तत्र वृक्ष-स्थम् पन्नग-द्विजौ ॥२९॥ )
tasmin vṛkṣe naraḥ kaścid indhana-arthāya pārthiva . vicinvan pūrvam ārūḍhaḥ śuṣka-śākham vanaspatim ..29.. ( a budhyamānau tam tatra vṛkṣa-stham pannaga-dvijau ..29.. )
स तु तेनैव वृक्षेण भस्मीभूतोऽभवत्तदा । द्विजप्रभावाद्राजेन्द्र जीवितः सवनस्पतिः ॥३०॥
स तु तेन एव वृक्षेण भस्मीभूतः अभवत् तदा । द्विज-प्रभावात् राज-इन्द्र जीवितः सवनस्पतिः ॥३०॥
sa tu tena eva vṛkṣeṇa bhasmībhūtaḥ abhavat tadā . dvija-prabhāvāt rāja-indra jīvitaḥ savanaspatiḥ ..30..
तेन गत्वा नृपश्रेष्ठ नगरेऽस्मिन्निवेदितम् । यथावृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च ॥३१॥
तेन गत्वा नृप-श्रेष्ठ नगरे अस्मिन् निवेदितम् । यथावृत्तम् तु तत् सर्वम् तक्षकस्य द्विजस्य च ॥३१॥
tena gatvā nṛpa-śreṣṭha nagare asmin niveditam . yathāvṛttam tu tat sarvam takṣakasya dvijasya ca ..31..
एतत्ते कथितं राजन्यथावृत्तं यथाश्रुतम् । श्रुत्वा तु नृपशार्दूल प्रकुरुष्व यथेप्सितम् ॥३२॥
एतत् ते कथितम् राजन् यथावृत्तम् यथाश्रुतम् । श्रुत्वा तु नृप-शार्दूल प्रकुरुष्व यथा ईप्सितम् ॥३२॥
etat te kathitam rājan yathāvṛttam yathāśrutam . śrutvā tu nṛpa-śārdūla prakuruṣva yathā īpsitam ..32..
सूत उवाच॥
मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः । पर्यतप्यत दुःखार्तः प्रत्यपिंषत्करे करम् ॥३३॥
मन्त्रिणाम् तु वचः श्रुत्वा स राजा जनमेजयः । पर्यतप्यत दुःख-आर्तः प्रत्यपिंषत् करे करम् ॥३३॥
mantriṇām tu vacaḥ śrutvā sa rājā janamejayaḥ . paryatapyata duḥkha-ārtaḥ pratyapiṃṣat kare karam ..33..
निःश्वासमुष्णमसकृद्दीर्घं राजीवलोचनः । मुमोचाश्रूणि च तदा नेत्राभ्यां प्रततं नृपः ॥३४॥ ( उवाच च महीपालो दुःखशोकसमन्वितः ॥३४॥ )
निःश्वासम् उष्णम् असकृत् दीर्घम् राजीव-लोचनः । मुमोच अश्रूणि च तदा नेत्राभ्याम् प्रततम् नृपः ॥३४॥ ( उवाच च महीपालः दुःख-शोक-समन्वितः ॥३४॥ )
niḥśvāsam uṣṇam asakṛt dīrgham rājīva-locanaḥ . mumoca aśrūṇi ca tadā netrābhyām pratatam nṛpaḥ ..34.. ( uvāca ca mahīpālaḥ duḥkha-śoka-samanvitaḥ ..34.. )
श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति । निश्चितेयं मम मतिर्या वै तां मे निबोधत ॥३५॥
श्रुत्वा एतत् भवताम् वाक्यम् पितुः मे स्वर्गतिम् प्रति । निश्चिता इयम् मम मतिः या वै ताम् मे निबोधत ॥३५॥
śrutvā etat bhavatām vākyam pituḥ me svargatim prati . niścitā iyam mama matiḥ yā vai tām me nibodhata ..35..
अनन्तरमहं मन्ये तक्षकाय दुरात्मने । प्रतिकर्तव्यमित्येव येन मे हिंसितः पिता ॥३६॥
अनन्तरम् अहम् मन्ये तक्षकाय दुरात्मने । प्रतिकर्तव्यम् इति एव येन मे हिंसितः पिता ॥३६॥
anantaram aham manye takṣakāya durātmane . pratikartavyam iti eva yena me hiṃsitaḥ pitā ..36..
ऋषेर्हि शृङ्गेर्वचनं कृत्वा दग्ध्वा च पार्थिवम् । यदि गच्छेदसौ पापो ननु जीवेत्पिता मम ॥३७॥
ऋषेः हि शृङ्गेः वचनम् कृत्वा दग्ध्वा च पार्थिवम् । यदि गच्छेत् असौ पापः ननु जीवेत् पिता मम ॥३७॥
ṛṣeḥ hi śṛṅgeḥ vacanam kṛtvā dagdhvā ca pārthivam . yadi gacchet asau pāpaḥ nanu jīvet pitā mama ..37..
परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः । काश्यपस्य प्रसादेन मन्त्रिणां सुनयेन च ॥३८॥
परिहीयेत किम् तस्य यदि जीवेत् स पार्थिवः । काश्यपस्य प्रसादेन मन्त्रिणाम् सुनयेन च ॥३८॥
parihīyeta kim tasya yadi jīvet sa pārthivaḥ . kāśyapasya prasādena mantriṇām sunayena ca ..38..
स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम् । सञ्जिजीवयिषुं प्राप्तं राजानमपराजितम् ॥३९॥
स तु वारितवान् मोहात् काश्यपम् द्विजसत्तमम् । सञ्जिजीवयिषुम् प्राप्तम् राजानम् अपराजितम् ॥३९॥
sa tu vāritavān mohāt kāśyapam dvijasattamam . sañjijīvayiṣum prāptam rājānam aparājitam ..39..
महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः । द्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति ॥४०॥
महान् अतिक्रमः हि एष तक्षकस्य दुरात्मनः । द्विजस्य यः अददत् द्रव्यम् मा नृपम् जीवयेत् इति ॥४०॥
mahān atikramaḥ hi eṣa takṣakasya durātmanaḥ . dvijasya yaḥ adadat dravyam mā nṛpam jīvayet iti ..40..
उत्तङ्कस्य प्रियं कुर्वन्नात्मनश्च महत्प्रियम् । भवतां चैव सर्वेषां यास्याम्यपचितिं पितुः ॥४१॥ 1.50.54
उत्तङ्कस्य प्रियम् कुर्वन् आत्मनः च महत् प्रियम् । भवताम् च एव सर्वेषाम् यास्यामि अपचितिम् पितुः ॥४१॥ १।५०।५४
uttaṅkasya priyam kurvan ātmanaḥ ca mahat priyam . bhavatām ca eva sarveṣām yāsyāmi apacitim pituḥ ..41.. 1.50.54

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In