| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमोदितः । आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः ॥१॥ ( ब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा ॥१॥ )
एवम् उक्त्वा ततस् श्रीमान् मन्त्रिभिः च अनुमोदितः । आरुरोह प्रतिज्ञाम् स सर्प-सत्राय पार्थिवः ॥१॥ ( ब्रह्मन् भरत-शार्दूलः राजा पारिक्षितः तदा ॥१॥ )
evam uktvā tatas śrīmān mantribhiḥ ca anumoditaḥ . āruroha pratijñām sa sarpa-satrāya pārthivaḥ ..1.. ( brahman bharata-śārdūlaḥ rājā pārikṣitaḥ tadā ..1.. )
पुरोहितमथाहूय ऋत्विजं वसुधाधिपः । अब्रवीद्वाक्यसम्पन्नः सम्पदर्थकरं वचः ॥२॥
पुरोहितम् अथ आहूय ऋत्विजम् वसुधाधिपः । अब्रवीत् वाक्य-सम्पन्नः सम्पद्-अर्थ-करम् वचः ॥२॥
purohitam atha āhūya ṛtvijam vasudhādhipaḥ . abravīt vākya-sampannaḥ sampad-artha-karam vacaḥ ..2..
यो मे हिंसितवांस्तातं तक्षकः स दुरात्मवान् । प्रतिकुर्यां यथा तस्य तद्भवन्तो ब्रुवन्तु मे ॥३॥
यः मे हिंसितवान् तातम् तक्षकः स दुरात्मवान् । प्रतिकुर्याम् यथा तस्य तत् भवन्तः ब्रुवन्तु मे ॥३॥
yaḥ me hiṃsitavān tātam takṣakaḥ sa durātmavān . pratikuryām yathā tasya tat bhavantaḥ bruvantu me ..3..
अपि तत्कर्म विदितं भवतां येन पन्नगम् । तक्षकं सम्प्रदीप्तेऽग्नौ प्राप्स्येऽहं सहबान्धवम् ॥४॥
अपि तत् कर्म विदितम् भवताम् येन पन्नगम् । तक्षकम् सम्प्रदीप्ते अग्नौ प्राप्स्ये अहम् सहबान्धवम् ॥४॥
api tat karma viditam bhavatām yena pannagam . takṣakam sampradīpte agnau prāpsye aham sahabāndhavam ..4..
यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना । तथाहमपि तं पापं दग्धुमिच्छामि पन्नगम् ॥५॥
यथा तेन पिता मह्यम् पूर्वम् दग्धः विष-अग्निना । तथा अहम् अपि तम् पापम् दग्धुम् इच्छामि पन्नगम् ॥५॥
yathā tena pitā mahyam pūrvam dagdhaḥ viṣa-agninā . tathā aham api tam pāpam dagdhum icchāmi pannagam ..5..
ऋत्विज ऊचुः॥
अस्ति राजन्महत्सत्रं त्वदर्थं देवनिर्मितम् । सर्पसत्रमिति ख्यातं पुराणे कथ्यते नृप ॥६॥
अस्ति राजन् महत् सत्रम् त्वद्-अर्थम् देव-निर्मितम् । सर्प-सत्रम् इति ख्यातम् पुराणे कथ्यते नृप ॥६॥
asti rājan mahat satram tvad-artham deva-nirmitam . sarpa-satram iti khyātam purāṇe kathyate nṛpa ..6..
आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप । इति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुः ॥७॥
आहर्ता तस्य सत्रस्य त्वत् न अन्यः अस्ति नराधिप । इति पौराणिकाः प्राहुः अस्माकम् च अस्ति स क्रतुः ॥७॥
āhartā tasya satrasya tvat na anyaḥ asti narādhipa . iti paurāṇikāḥ prāhuḥ asmākam ca asti sa kratuḥ ..7..
सूत उवाच॥
एवमुक्तः स राजर्षिर्मेने सर्पं हि तक्षकम् । हुताशनमुखं दीप्तं प्रविष्टमिति सत्तम ॥८॥
एवम् उक्तः स राजर्षिः मेने सर्पम् हि तक्षकम् । हुताशन-मुखम् दीप्तम् प्रविष्टम् इति सत्तम ॥८॥
evam uktaḥ sa rājarṣiḥ mene sarpam hi takṣakam . hutāśana-mukham dīptam praviṣṭam iti sattama ..8..
ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणांस्तदा । आहरिष्यामि तत्सत्रं सम्भाराः सम्भ्रियन्तु मे ॥९॥
ततस् अब्रवीत् मन्त्र-विदः तान् राजा ब्राह्मणान् तदा । आहरिष्यामि तत् सत्रम् सम्भाराः सम्भ्रियन्तु मे ॥९॥
tatas abravīt mantra-vidaḥ tān rājā brāhmaṇān tadā . āhariṣyāmi tat satram sambhārāḥ sambhriyantu me ..9..
ततस्ते ऋत्विजस्तस्य शास्त्रतो द्विजसत्तम । देशं तं मापयामासुर्यज्ञायतनकारणात् ॥१०॥ ( यथावज्ज्ञानविदुषः सर्वे बुद्ध्या परं गताः ॥१०॥ )
ततस् ते ऋत्विजः तस्य शास्त्रतः द्विजसत्तम । देशम् तम् मापयामासुः यज्ञ-आयतन-कारणात् ॥१०॥ ( यथावत् ज्ञान-विदुषः सर्वे बुद्ध्या परम् गताः ॥१०॥ )
tatas te ṛtvijaḥ tasya śāstrataḥ dvijasattama . deśam tam māpayāmāsuḥ yajña-āyatana-kāraṇāt ..10.. ( yathāvat jñāna-viduṣaḥ sarve buddhyā param gatāḥ ..10.. )
ऋद्ध्या परमया युक्तमिष्टं द्विजगणायुतम् । प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिवेशितम् ॥११॥
ऋद्ध्या परमया युक्तम् इष्टम् द्विज-गण-आयुतम् । प्रभूत-धन-धान्य-आढ्यम् ऋत्विग्भिः सु निवेशितम् ॥११॥
ṛddhyā paramayā yuktam iṣṭam dvija-gaṇa-āyutam . prabhūta-dhana-dhānya-āḍhyam ṛtvigbhiḥ su niveśitam ..11..
निर्माय चापि विधिवद्यज्ञायतनमीप्सितम् । राजानं दीक्षयामासुः सर्पसत्राप्तये तदा ॥१२॥
निर्माय च अपि विधिवत् यज्ञ-आयतनम् ईप्सितम् । राजानम् दीक्षयामासुः सर्प-सत्र-आप्तये तदा ॥१२॥
nirmāya ca api vidhivat yajña-āyatanam īpsitam . rājānam dīkṣayāmāsuḥ sarpa-satra-āptaye tadā ..12..
इदं चासीत्तत्र पूर्वं सर्पसत्रे भविष्यति । निमित्तं महदुत्पन्नं यज्ञविघ्नकरं तदा ॥१३॥
इदम् च आसीत् तत्र पूर्वम् सर्प-सत्रे भविष्यति । निमित्तम् महत् उत्पन्नम् यज्ञ-विघ्न-करम् तदा ॥१३॥
idam ca āsīt tatra pūrvam sarpa-satre bhaviṣyati . nimittam mahat utpannam yajña-vighna-karam tadā ..13..
यज्ञस्यायतने तस्मिन्क्रियमाणे वचोऽब्रवीत् । स्थपतिर्बुद्धिसम्पन्नो वास्तुविद्याविशारदः ॥१४॥
यज्ञस्य आयतने तस्मिन् क्रियमाणे वचः अब्रवीत् । स्थपतिः बुद्धि-सम्पन्नः वास्तु-विद्या-विशारदः ॥१४॥
yajñasya āyatane tasmin kriyamāṇe vacaḥ abravīt . sthapatiḥ buddhi-sampannaḥ vāstu-vidyā-viśāradaḥ ..14..
इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदा । यस्मिन्देशे च काले च मापनेयं प्रवर्तिता ॥१५॥ ( ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः ॥१५॥ )
इति अब्रवीत् सूत्रधारः सूतः पौराणिकः तदा । यस्मिन् देशे च काले च मापना इयम् प्रवर्तिता ॥१५॥ ( ब्राह्मणम् कारणम् कृत्वा न अयम् संस्थास्यते क्रतुः ॥१५॥ )
iti abravīt sūtradhāraḥ sūtaḥ paurāṇikaḥ tadā . yasmin deśe ca kāle ca māpanā iyam pravartitā ..15.. ( brāhmaṇam kāraṇam kṛtvā na ayam saṃsthāsyate kratuḥ ..15.. )
एतच्छ्रुत्वा तु राजा स प्राग्दीक्षाकालमब्रवीत् । क्षत्तारं नेह मे कश्चिदज्ञातः प्रविशेदिति ॥१६॥1.51.17
एतत् श्रुत्वा तु राजा स प्राच्-दीक्षा-कालम् अब्रवीत् । क्षत्तारम् न इह मे कश्चिद् अज्ञातः प्रविशेत् इति ॥१६॥१।५१।१७
etat śrutvā tu rājā sa prāc-dīkṣā-kālam abravīt . kṣattāram na iha me kaścid ajñātaḥ praviśet iti ..16..1.51.17
ततः कर्म प्रववृते सर्पसत्रे विधानतः । पर्यक्रामंश्च विधिवत्स्वे स्वे कर्मणि याजकाः ॥१७॥1.52.1
ततस् कर्म प्रववृते सर्प-सत्रे विधानतः । पर्यक्रामन् च विधिवत् स्वे स्वे कर्मणि याजकाः ॥१७॥१।५२।१
tatas karma pravavṛte sarpa-satre vidhānataḥ . paryakrāman ca vidhivat sve sve karmaṇi yājakāḥ ..17..1.52.1
परिधाय कृष्णवासांसि धूमसंरक्तलोचनाः । जुहुवुर्मन्त्रवच्चैव समिद्धं जातवेदसम् ॥१८॥
परिधाय कृष्ण-वासांसि धूम-संरक्त-लोचनाः । जुहुवुः मन्त्रवत् च एव समिद्धम् जातवेदसम् ॥१८॥
paridhāya kṛṣṇa-vāsāṃsi dhūma-saṃrakta-locanāḥ . juhuvuḥ mantravat ca eva samiddham jātavedasam ..18..
कम्पयन्तश्च सर्वेषामुरगाणां मनांसि ते । सर्पानाजुहुवुस्तत्र सर्वानग्निमुखे तदा ॥१९॥
कम्पयन्तः च सर्वेषाम् उरगाणाम् मनांसि ते । सर्पान् आजुहुवुः तत्र सर्वान् अग्नि-मुखे तदा ॥१९॥
kampayantaḥ ca sarveṣām uragāṇām manāṃsi te . sarpān ājuhuvuḥ tatra sarvān agni-mukhe tadā ..19..
ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहने । विवेष्टमानाः कृपणा आह्वयन्तः परस्परम् ॥२०॥
ततस् सर्पाः समापेतुः प्रदीप्ते हव्यवाहने । विवेष्टमानाः कृपणाः आह्वयन्तः परस्परम् ॥२०॥
tatas sarpāḥ samāpetuḥ pradīpte havyavāhane . viveṣṭamānāḥ kṛpaṇāḥ āhvayantaḥ parasparam ..20..
विस्फुरन्तः श्वसन्तश्च वेष्टयन्तस्तथा परे । पुच्छैः शिरोभिश्च भृशं चित्रभानुं प्रपेदिरे ॥२१॥
विस्फुरन्तः श्वसन्तः च वेष्टयन्तः तथा परे । पुच्छैः शिरोभिः च भृशम् चित्रभानुम् प्रपेदिरे ॥२१॥
visphurantaḥ śvasantaḥ ca veṣṭayantaḥ tathā pare . pucchaiḥ śirobhiḥ ca bhṛśam citrabhānum prapedire ..21..
श्वेताः कृष्णाश्च नीलाश्च स्थविराः शिशवस्तथा । रुवन्तो भैरवान्नादान्पेतुर्दीप्ते विभावसौ ॥२२॥
श्वेताः कृष्णाः च नीलाः च स्थविराः शिशवः तथा । रुवन्तः भैरवान् नादान् पेतुः दीप्ते विभावसौ ॥२२॥
śvetāḥ kṛṣṇāḥ ca nīlāḥ ca sthavirāḥ śiśavaḥ tathā . ruvantaḥ bhairavān nādān petuḥ dīpte vibhāvasau ..22..
एवं शतसहस्राणि प्रयुतान्यर्बुदानि च । अवशानि विनष्टानि पन्नगानां द्विजोत्तम ॥२३॥
एवम् शत-सहस्राणि प्रयुतानि अर्बुदानि च । अवशानि विनष्टानि पन्नगानाम् द्विजोत्तम ॥२३॥
evam śata-sahasrāṇi prayutāni arbudāni ca . avaśāni vinaṣṭāni pannagānām dvijottama ..23..
इन्दुरा इव तत्रान्ये हस्तिहस्ता इवापरे । मत्ता इव च मातङ्गा महाकाया महाबलाः ॥२४॥
इन्दुराः इव तत्र अन्ये हस्ति-हस्ताः इव अपरे । मत्ताः इव च मातङ्गाः महा-कायाः महा-बलाः ॥२४॥
indurāḥ iva tatra anye hasti-hastāḥ iva apare . mattāḥ iva ca mātaṅgāḥ mahā-kāyāḥ mahā-balāḥ ..24..
उच्चावचाश्च बहवो नानावर्णा विषोल्बणाः । घोराश्च परिघप्रख्या दन्दशूका महाबलाः ॥२५॥ ( प्रपेतुरग्नावुरगा मातृवाग्दण्डपीडिताः ॥२५॥1.52.10 )
उच्चावचाः च बहवः नाना वर्णाः विष-उल्बणाः । घोराः च परिघ-प्रख्याः दन्दशूकाः महा-बलाः ॥२५॥ ( प्रपेतुः अग्नौ उरगाः मातृ-वाग्दण्ड-पीडिताः ॥२५॥१।५२।१० )
uccāvacāḥ ca bahavaḥ nānā varṇāḥ viṣa-ulbaṇāḥ . ghorāḥ ca parigha-prakhyāḥ dandaśūkāḥ mahā-balāḥ ..25.. ( prapetuḥ agnau uragāḥ mātṛ-vāgdaṇḍa-pīḍitāḥ ..25..1.52.10 )

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In