| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

शौनक उवाच॥
सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतः । जनमेजयस्य के त्वासन्नृत्विजः परमर्षयः ॥१॥
सर्प-सत्रे तदा राज्ञः पाण्डवेयस्य धीमतः । जनमेजयस्य के तु आसन् ऋत्विजः परम-ऋषयः ॥१॥
sarpa-satre tadā rājñaḥ pāṇḍaveyasya dhīmataḥ . janamejayasya ke tu āsan ṛtvijaḥ parama-ṛṣayaḥ ..1..
के सदस्या बभूवुश्च सर्पसत्रे सुदारुणे । विषादजननेऽत्यर्थं पन्नगानां महाभये ॥२॥
के सदस्याः बभूवुः च सर्प-सत्रे सु दारुणे । विषाद-जनने अत्यर्थम् पन्नगानाम् महा-भये ॥२॥
ke sadasyāḥ babhūvuḥ ca sarpa-satre su dāruṇe . viṣāda-janane atyartham pannagānām mahā-bhaye ..2..
सर्वं विस्तरतस्तात भवाञ्शंसितुमर्हति । सर्पसत्रविधानज्ञा विज्ञेयास्ते हि सूतज ॥३॥
सर्वम् विस्तरतः तात भवान् शंसितुम् अर्हति । सर्प-सत्र-विधान-ज्ञाः विज्ञेयाः ते हि सूतज ॥३॥
sarvam vistarataḥ tāta bhavān śaṃsitum arhati . sarpa-satra-vidhāna-jñāḥ vijñeyāḥ te hi sūtaja ..3..
सूत उवाच॥
हन्त ते कथयिष्यामि नामानीह मनीषिणाम् । ये ऋत्विजः सदस्याश्च तस्यासन्नृपतेस्तदा ॥४॥
हन्त ते कथयिष्यामि नामानि इह मनीषिणाम् । ये ऋत्विजः सदस्याः च तस्य आसन् नृपतेः तदा ॥४॥
hanta te kathayiṣyāmi nāmāni iha manīṣiṇām . ye ṛtvijaḥ sadasyāḥ ca tasya āsan nṛpateḥ tadā ..4..
तत्र होता बभूवाथ ब्राह्मणश्चण्डभार्गवः । च्यवनस्यान्वये जातः ख्यातो वेदविदां वरः ॥५॥
तत्र होता बभूव अथ ब्राह्मणः चण्डभार्गवः । च्यवनस्य अन्वये जातः ख्यातः वेद-विदाम् वरः ॥५॥
tatra hotā babhūva atha brāhmaṇaḥ caṇḍabhārgavaḥ . cyavanasya anvaye jātaḥ khyātaḥ veda-vidām varaḥ ..5..
उद्गाता ब्राह्मणो वृद्धो विद्वान्कौत्सार्यजैमिनिः । ब्रह्माभवच्छार्ङ्गरवो अध्वर्युर्बोधपिङ्गलः ॥६॥
उद्गाता ब्राह्मणः वृद्धः विद्वान् कौत्स-आर्य-जैमिनिः । ब्रह्मा अभवत् शार्ङ्गरवः अध्वर्युः बोध-पिङ्गलः ॥६॥
udgātā brāhmaṇaḥ vṛddhaḥ vidvān kautsa-ārya-jaiminiḥ . brahmā abhavat śārṅgaravaḥ adhvaryuḥ bodha-piṅgalaḥ ..6..
सदस्यश्चाभवद्व्यासः पुत्रशिष्यसहायवान् । उद्दालकः शमठकः श्वेतकेतुश्च पञ्चमः ॥७॥
सदस्यः च अभवत् व्यासः पुत्र-शिष्य-सहायवान् । उद्दालकः शमठकः श्वेतकेतुः च पञ्चमः ॥७॥
sadasyaḥ ca abhavat vyāsaḥ putra-śiṣya-sahāyavān . uddālakaḥ śamaṭhakaḥ śvetaketuḥ ca pañcamaḥ ..7..
असितो देवलश्चैव नारदः पर्वतस्तथा । आत्रेयः कुण्डजठरो द्विजः कुटिघटस्तथा ॥८॥
असितः देवलः च एव नारदः पर्वतः तथा । आत्रेयः कुण्डजठरः द्विजः कुटिघटः तथा ॥८॥
asitaḥ devalaḥ ca eva nāradaḥ parvataḥ tathā . ātreyaḥ kuṇḍajaṭharaḥ dvijaḥ kuṭighaṭaḥ tathā ..8..
वात्स्यः श्रुतश्रवा वृद्धस्तपःस्वाध्यायशीलवान् । कहोडो देवशर्मा च मौद्गल्यः शमसौभरः ॥९॥
वात्स्यः श्रुतश्रवाः वृद्धः तपः-स्वाध्याय-शीलवान् । कहोडः देवशर्मा च मौद्गल्यः शम-सौभरः ॥९॥
vātsyaḥ śrutaśravāḥ vṛddhaḥ tapaḥ-svādhyāya-śīlavān . kahoḍaḥ devaśarmā ca maudgalyaḥ śama-saubharaḥ ..9..
एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः । सदस्या अभवंस्तत्र सत्रे पारिक्षितस्य ह ॥१०॥
एते च अन्ये च बहवः ब्राह्मणाः संशित-व्रताः । सदस्याः अभवन् तत्र सत्रे पारिक्षितस्य ह ॥१०॥
ete ca anye ca bahavaḥ brāhmaṇāḥ saṃśita-vratāḥ . sadasyāḥ abhavan tatra satre pārikṣitasya ha ..10..
जुह्वत्स्वृत्विक्ष्वथ तदा सर्पसत्रे महाक्रतौ । अहयः प्रापतंस्तत्र घोराः प्राणिभयावहाः ॥११॥
जुह्वत्सु ऋत्विक्षु अथ तदा सर्प-सत्रे महा-क्रतौ । अहयः प्रापतन् तत्र घोराः प्राणि-भय-आवहाः ॥११॥
juhvatsu ṛtvikṣu atha tadā sarpa-satre mahā-kratau . ahayaḥ prāpatan tatra ghorāḥ prāṇi-bhaya-āvahāḥ ..11..
वसामेदोवहाः कुल्या नागानां सम्प्रवर्तिताः । ववौ गन्धश्च तुमुलो दह्यतामनिशं तदा ॥१२॥
वसा-मेदः-वहाः कुल्याः नागानाम् सम्प्रवर्तिताः । ववौ गन्धः च तुमुलः दह्यताम् अनिशम् तदा ॥१२॥
vasā-medaḥ-vahāḥ kulyāḥ nāgānām sampravartitāḥ . vavau gandhaḥ ca tumulaḥ dahyatām aniśam tadā ..12..
पततां चैव नागानां धिष्ठितानां तथाम्बरे । अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम् ॥१३॥
पतताम् च एव नागानाम् धिष्ठितानाम् तथा अम्बरे । अश्रूयत अनिशम् शब्दः पच्यताम् च अग्निना भृशम् ॥१३॥
patatām ca eva nāgānām dhiṣṭhitānām tathā ambare . aśrūyata aniśam śabdaḥ pacyatām ca agninā bhṛśam ..13..
तक्षकस्तु स नागेन्द्रः पुरंदरनिवेशनम् । गतः श्रुत्वैव राजानं दीक्षितं जनमेजयम् ॥१४॥
तक्षकः तु स नाग-इन्द्रः पुरंदर-निवेशनम् । गतः श्रुत्वा एव राजानम् दीक्षितम् जनमेजयम् ॥१४॥
takṣakaḥ tu sa nāga-indraḥ puraṃdara-niveśanam . gataḥ śrutvā eva rājānam dīkṣitam janamejayam ..14..
ततः सर्वं यथावृत्तमाख्याय भुजगोत्तमः । अगच्छच्छरणं भीत आगस्कृत्वा पुरंदरम् ॥१५॥
ततस् सर्वम् यथावृत्तम् आख्याय भुजग-उत्तमः । अगच्छत् शरणम् भीतः आगस्कृत्वा पुरंदरम् ॥१५॥
tatas sarvam yathāvṛttam ākhyāya bhujaga-uttamaḥ . agacchat śaraṇam bhītaḥ āgaskṛtvā puraṃdaram ..15..
तमिन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षक । भयं नागेन्द्र तस्माद्वै सर्पसत्रात्कथञ्चन ॥१६॥
तम् इन्द्रः प्राह सु प्रीतः न तव अस्ति इह तक्षक । भयम् नाग-इन्द्र तस्मात् वै सर्प-सत्रात् कथञ्चन ॥१६॥
tam indraḥ prāha su prītaḥ na tava asti iha takṣaka . bhayam nāga-indra tasmāt vai sarpa-satrāt kathañcana ..16..
प्रसादितो मया पूर्वं तवार्थाय पितामहः । तस्मात्तव भयं नास्ति व्येतु ते मानसो ज्वरः ॥१७॥
प्रसादितः मया पूर्वम् तव अर्थाय पितामहः । तस्मात् तव भयम् ना अस्ति व्येतु ते मानसः ज्वरः ॥१७॥
prasāditaḥ mayā pūrvam tava arthāya pitāmahaḥ . tasmāt tava bhayam nā asti vyetu te mānasaḥ jvaraḥ ..17..
एवमाश्वासितस्तेन ततः स भुजगोत्तमः । उवास भवने तत्र शक्रस्य मुदितः सुखी ॥१८॥
एवम् आश्वासितः तेन ततस् स भुजग-उत्तमः । उवास भवने तत्र शक्रस्य मुदितः सुखी ॥१८॥
evam āśvāsitaḥ tena tatas sa bhujaga-uttamaḥ . uvāsa bhavane tatra śakrasya muditaḥ sukhī ..18..
अजस्रं निपतत्स्वग्नौ नागेषु भृशदुःखितः । अल्पशेषपरीवारो वासुकिः पर्यतप्यत ॥१९॥
अजस्रम् निपतत्सु अग्नौ नागेषु भृश-दुःखितः । अल्प-शेष-परीवारः वासुकिः पर्यतप्यत ॥१९॥
ajasram nipatatsu agnau nāgeṣu bhṛśa-duḥkhitaḥ . alpa-śeṣa-parīvāraḥ vāsukiḥ paryatapyata ..19..
कश्मलं चाविशद्घोरं वासुकिं पन्नगेश्वरम् । स घूर्णमानहृदयो भगिनीमिदमब्रवीत् ॥२०॥
कश्मलम् च आविशत् घोरम् वासुकिम् पन्नग-ईश्वरम् । स घूर्णमान-हृदयः भगिनीम् इदम् अब्रवीत् ॥२०॥
kaśmalam ca āviśat ghoram vāsukim pannaga-īśvaram . sa ghūrṇamāna-hṛdayaḥ bhaginīm idam abravīt ..20..
दह्यन्तेऽङ्गानि मे भद्रे दिशो न प्रतिभान्ति च । सीदामीव च संमोहाद्घूर्णतीव च मे मनः ॥२१॥
दह्यन्ते अङ्गानि मे भद्रे दिशः न प्रतिभान्ति च । सीदामि इव च संमोहात् घूर्णति इव च मे मनः ॥२१॥
dahyante aṅgāni me bhadre diśaḥ na pratibhānti ca . sīdāmi iva ca saṃmohāt ghūrṇati iva ca me manaḥ ..21..
दृष्टिर्भ्रमति मेऽतीव हृदयं दीर्यतीव च । पतिष्याम्यवशोऽद्याहं तस्मिन्दीप्ते विभावसौ ॥२२॥
दृष्टिः भ्रमति मे अतीव हृदयम् दीर्यति इव च । पतिष्यामि अवशः अद्य अहम् तस्मिन् दीप्ते विभावसौ ॥२२॥
dṛṣṭiḥ bhramati me atīva hṛdayam dīryati iva ca . patiṣyāmi avaśaḥ adya aham tasmin dīpte vibhāvasau ..22..
पारिक्षितस्य यज्ञोऽसौ वर्ततेऽस्मज्जिघांसया । व्यक्तं मयापि गन्तव्यं पितृराजनिवेशनम् ॥२३॥
पारिक्षितस्य यज्ञः असौ वर्तते अस्मद्-जिघांसया । व्यक्तम् मया अपि गन्तव्यम् पितृराज-निवेशनम् ॥२३॥
pārikṣitasya yajñaḥ asau vartate asmad-jighāṃsayā . vyaktam mayā api gantavyam pitṛrāja-niveśanam ..23..
अयं स कालः सम्प्राप्तो यदर्थमसि मे स्वसः । जरत्कारोः पुरा दत्ता सा त्राह्यस्मान्सबान्धवान् ॥२४॥
अयम् स कालः सम्प्राप्तः यद्-अर्थम् असि मे स्वसः । जरत्कारोः पुरा दत्ता सा त्राहि अस्मान् स बान्धवान् ॥२४॥
ayam sa kālaḥ samprāptaḥ yad-artham asi me svasaḥ . jaratkāroḥ purā dattā sā trāhi asmān sa bāndhavān ..24..
आस्तीकः किल यज्ञं तं वर्तन्तं भुजगोत्तमे । प्रतिषेत्स्यति मां पूर्वं स्वयमाह पितामहः ॥२५॥
आस्तीकः किल यज्ञम् तम् वर्तन्तम् भुजग-उत्तमे । प्रतिषेत्स्यति माम् पूर्वम् स्वयम् आह पितामहः ॥२५॥
āstīkaḥ kila yajñam tam vartantam bhujaga-uttame . pratiṣetsyati mām pūrvam svayam āha pitāmahaḥ ..25..
तद्वत्से ब्रूहि वत्सं स्वं कुमारं वृद्धसंमतम् । ममाद्य त्वं सभृत्यस्य मोक्षार्थं वेदवित्तमम् ॥२६॥1.53.26
तत् वत्से ब्रूहि वत्सम् स्वम् कुमारम् वृद्ध-संमतम् । मम अद्य त्वम् स भृत्यस्य मोक्ष-अर्थम् वेद-वित्तमम् ॥२६॥१।५३।२६
tat vatse brūhi vatsam svam kumāram vṛddha-saṃmatam . mama adya tvam sa bhṛtyasya mokṣa-artham veda-vittamam ..26..1.53.26

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In