| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
तत आहूय पुत्रं स्वं जरत्कारुर्भुजङ्गमा । वासुकेर्नागराजस्य वचनादिदमब्रवीत् ॥१॥
ततस् आहूय पुत्रम् स्वम् जरत्कारुः भुजङ्गमा । वासुकेः नाग-राजस्य वचनात् इदम् अब्रवीत् ॥१॥
tatas āhūya putram svam jaratkāruḥ bhujaṅgamā . vāsukeḥ nāga-rājasya vacanāt idam abravīt ..1..
अहं तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततः । कालः स चायं सम्प्राप्तस्तत्कुरुष्व यथातथम् ॥२॥
अहम् तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततः । कालः स च अयम् सम्प्राप्तः तत् कुरुष्व यथातथम् ॥२॥
aham tava pituḥ putra bhrātrā dattā nimittataḥ . kālaḥ sa ca ayam samprāptaḥ tat kuruṣva yathātatham ..2..
आस्तीक उवाच॥
किंनिमित्तं मम पितुर्दत्ता त्वं मातुलेन मे । तन्ममाचक्ष्व तत्त्वेन श्रुत्वा कर्तास्मि तत्तथा ॥३॥
किंनिमित्तम् मम पितुः दत्ता त्वम् मातुलेन मे । तत् मम आचक्ष्व तत्त्वेन श्रुत्वा कर्तास्मि तत् तथा ॥३॥
kiṃnimittam mama pituḥ dattā tvam mātulena me . tat mama ācakṣva tattvena śrutvā kartāsmi tat tathā ..3..
सूत उवाच॥
तत आचष्ट सा तस्मै बान्धवानां हितैषिणी । भगिनी नागराजस्य जरत्कारुरविक्लवा ॥४॥
ततस् आचष्ट सा तस्मै बान्धवानाम् हित-एषिणी । भगिनी नाग-राजस्य जरत्कारुः अविक्लवा ॥४॥
tatas ācaṣṭa sā tasmai bāndhavānām hita-eṣiṇī . bhaginī nāga-rājasya jaratkāruḥ aviklavā ..4..
भुजगानामशेषाणां माता कद्रूरिति श्रुतिः । तया शप्ता रुषितया सुता यस्मान्निबोध तत् ॥५॥
भुजगानाम् अशेषाणाम् माता कद्रूः इति श्रुतिः । तया शप्ता रुषितया सुता यस्मात् निबोध तत् ॥५॥
bhujagānām aśeṣāṇām mātā kadrūḥ iti śrutiḥ . tayā śaptā ruṣitayā sutā yasmāt nibodha tat ..5..
उच्छैःश्रवाः सोऽश्वराजो यन्मिथ्या न कृतो मम । विनतानिमित्तं पणिते दासभावाय पुत्रकाः ॥६॥
उच्छैःश्रवाः सः अश्व-राजः यत् मिथ्या न कृतः मम । विनता-निमित्तम् पणिते दास-भावाय पुत्रकाः ॥६॥
ucchaiḥśravāḥ saḥ aśva-rājaḥ yat mithyā na kṛtaḥ mama . vinatā-nimittam paṇite dāsa-bhāvāya putrakāḥ ..6..
जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः । तत्र पञ्चत्वमापन्नाः प्रेतलोकं गमिष्यथ ॥७॥
जनमेजयस्य वः यज्ञे धक्ष्यति अनिल-सारथिः । तत्र पञ्चत्वम् आपन्नाः प्रेत-लोकम् गमिष्यथ ॥७॥
janamejayasya vaḥ yajñe dhakṣyati anila-sārathiḥ . tatra pañcatvam āpannāḥ preta-lokam gamiṣyatha ..7..
तां च शप्तवतीमेवं साक्षाल्लोकपितामहः । एवमस्त्विति तद्वाक्यं प्रोवाचानुमुमोद च ॥८॥
ताम् च शप्तवतीम् एवम् साक्षात् लोकपितामहः । एवम् अस्तु इति तत् वाक्यम् प्रोवाच अनुमुमोद च ॥८॥
tām ca śaptavatīm evam sākṣāt lokapitāmahaḥ . evam astu iti tat vākyam provāca anumumoda ca ..8..
वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदा । अमृते मथिते तात देवाञ्शरणमीयिवान् ॥९॥
वासुकिः च अपि तत् श्रुत्वा पितामह-वचः तदा । अमृते मथिते तात देवान् शरणम् ईयिवान् ॥९॥
vāsukiḥ ca api tat śrutvā pitāmaha-vacaḥ tadā . amṛte mathite tāta devān śaraṇam īyivān ..9..
सिद्धार्थाश्च सुराः सर्वे प्राप्यामृतमनुत्तमम् । भ्रातरं मे पुरस्कृत्य प्रजापतिमुपागमन् ॥१०॥
सिद्धार्थाः च सुराः सर्वे प्राप्य अमृतम् अनुत्तमम् । भ्रातरम् मे पुरस्कृत्य प्रजापतिम् उपागमन् ॥१०॥
siddhārthāḥ ca surāḥ sarve prāpya amṛtam anuttamam . bhrātaram me puraskṛtya prajāpatim upāgaman ..10..
ते तं प्रसादयामासुर्देवाः सर्वे पितामहम् । राज्ञा वासुकिना सार्धं स शापो न भवेदिति ॥११॥
ते तम् प्रसादयामासुः देवाः सर्वे पितामहम् । राज्ञा वासुकिना सार्धम् स शापः न भवेत् इति ॥११॥
te tam prasādayāmāsuḥ devāḥ sarve pitāmaham . rājñā vāsukinā sārdham sa śāpaḥ na bhavet iti ..11..
वासुकिर्नागराजोऽयं दुःखितो ज्ञातिकारणात् । अभिशापः स मात्रास्य भगवन्न भवेदिति ॥१२॥
वासुकिः नाग-राजः अयम् दुःखितः ज्ञाति-कारणात् । अभिशापः स मात्रा अस्य भगवत् न भवेत् इति ॥१२॥
vāsukiḥ nāga-rājaḥ ayam duḥkhitaḥ jñāti-kāraṇāt . abhiśāpaḥ sa mātrā asya bhagavat na bhavet iti ..12..
ब्रह्मोवाच॥
जरत्कारुर्जरत्कारुं यां भार्यां समवाप्स्यति । तत्र जातो द्विजः शापाद्भुजगान्मोक्षयिष्यति ॥१३॥
जरत्कारुः जरत्कारुम् याम् भार्याम् समवाप्स्यति । तत्र जातः द्विजः शापात् भुजगान् मोक्षयिष्यति ॥१३॥
jaratkāruḥ jaratkārum yām bhāryām samavāpsyati . tatra jātaḥ dvijaḥ śāpāt bhujagān mokṣayiṣyati ..13..
जरत्कारुरुवाच॥
एतच्छ्रुत्वा तु वचनं वासुकिः पन्नगेश्वरः । प्रादान्माममरप्रख्य तव पित्रे महात्मने ॥१४॥ ( प्रागेवानागते काले तत्र त्वं मय्यजायथाः ॥१४॥ )
एतत् श्रुत्वा तु वचनम् वासुकिः पन्नग-ईश्वरः । प्रादात् माम् अमर-प्रख्य तव पित्रे महात्मने ॥१४॥ ( प्राक् एव अनागते काले तत्र त्वम् मयि अजायथाः ॥१४॥ )
etat śrutvā tu vacanam vāsukiḥ pannaga-īśvaraḥ . prādāt mām amara-prakhya tava pitre mahātmane ..14.. ( prāk eva anāgate kāle tatra tvam mayi ajāyathāḥ ..14.. )
अयं स कालः सम्प्राप्तो भयान्नस्त्रातुमर्हसि । भ्रातरं चैव मे तस्मात्त्रातुमर्हसि पावकात् ॥१५॥
अयम् स कालः सम्प्राप्तः भयात् नः त्रातुम् अर्हसि । भ्रातरम् च एव मे तस्मात् त्रातुम् अर्हसि पावकात् ॥१५॥
ayam sa kālaḥ samprāptaḥ bhayāt naḥ trātum arhasi . bhrātaram ca eva me tasmāt trātum arhasi pāvakāt ..15..
अमोघं नः कृतं तत्स्याद्यदहं तव धीमते । पित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे ॥१६॥
अमोघम् नः कृतम् तत् स्यात् यत् अहम् तव धीमते । पित्रे दत्ताः विमोक्ष-अर्थम् कथम् वा पुत्र मन्यसे ॥१६॥
amogham naḥ kṛtam tat syāt yat aham tava dhīmate . pitre dattāḥ vimokṣa-artham katham vā putra manyase ..16..
सूत उवाच॥
एवमुक्तस्तथेत्युक्त्वा सोऽस्तीको मातरं तदा । अब्रवीद्दुःखसन्तप्तं वासुकिं जीवयन्निव ॥१७॥
एवम् उक्तः तथा इति उक्त्वा सः अस्तीकः मातरम् तदा । अब्रवीत् दुःख-सन्तप्तम् वासुकिम् जीवयन् इव ॥१७॥
evam uktaḥ tathā iti uktvā saḥ astīkaḥ mātaram tadā . abravīt duḥkha-santaptam vāsukim jīvayan iva ..17..
अहं त्वां मोक्षयिष्यामि वासुके पन्नगोत्तम । तस्माच्छापान्महासत्त्व सत्यमेतद्ब्रवीमि ते ॥१८॥
अहम् त्वाम् मोक्षयिष्यामि वासुके पन्नग-उत्तम । तस्मात् शापात् महा-सत्त्व सत्यम् एतत् ब्रवीमि ते ॥१८॥
aham tvām mokṣayiṣyāmi vāsuke pannaga-uttama . tasmāt śāpāt mahā-sattva satyam etat bravīmi te ..18..
भव स्वस्थमना नाग न हि ते विद्यते भयम् । प्रयतिष्ये तथा सौम्य यथा श्रेयो भविष्यति ॥१९॥ ( न मे वागनृतं प्राह स्वैरेष्वपि कुतोऽन्यथा ॥१९॥ )
भव स्वस्थ-मनाः नाग न हि ते विद्यते भयम् । प्रयतिष्ये तथा सौम्य यथा श्रेयः भविष्यति ॥१९॥ ( न मे वाच्-अनृतम् प्राह स्वैरेषु अपि कुतस् अन्यथा ॥१९॥ )
bhava svastha-manāḥ nāga na hi te vidyate bhayam . prayatiṣye tathā saumya yathā śreyaḥ bhaviṣyati ..19.. ( na me vāc-anṛtam prāha svaireṣu api kutas anyathā ..19.. )
तं वै नृपवरं गत्वा दीक्षितं जनमेजयम् । वाग्भिर्मङ्गलयुक्ताभिस्तोषयिष्येऽद्य मातुल ॥२०॥ ( यथा स यज्ञो नृपतेर्निर्वर्तिष्यति सत्तम ॥२०॥ )
तम् वै नृप-वरम् गत्वा दीक्षितम् जनमेजयम् । वाग्भिः मङ्गल-युक्ताभिः तोषयिष्ये अद्य मातुल ॥२०॥ ( यथा स यज्ञः नृपतेः निर्वर्तिष्यति सत्तम ॥२०॥ )
tam vai nṛpa-varam gatvā dīkṣitam janamejayam . vāgbhiḥ maṅgala-yuktābhiḥ toṣayiṣye adya mātula ..20.. ( yathā sa yajñaḥ nṛpateḥ nirvartiṣyati sattama ..20.. )
स सम्भावय नागेन्द्र मयि सर्वं महामते । न ते मयि मनो जातु मिथ्या भवितुमर्हति ॥२१॥
स सम्भावय नाग-इन्द्र मयि सर्वम् महामते । न ते मयि मनः जातु मिथ्या भवितुम् अर्हति ॥२१॥
sa sambhāvaya nāga-indra mayi sarvam mahāmate . na te mayi manaḥ jātu mithyā bhavitum arhati ..21..
वासुकिरुवाच॥
आस्तीक परिघूर्णामि हृदयं मे विदीर्यते । दिशश्च न प्रजानामि ब्रह्मदण्डनिपीडितः ॥२२॥
आस्तीक परिघूर्णामि हृदयम् मे विदीर्यते । दिशः च न प्रजानामि ब्रह्मदण्ड-निपीडितः ॥२२॥
āstīka parighūrṇāmi hṛdayam me vidīryate . diśaḥ ca na prajānāmi brahmadaṇḍa-nipīḍitaḥ ..22..
आस्तीक उवाच॥
न सन्तापस्त्वया कार्यः कथञ्चित्पन्नगोत्तम । दीप्तादग्नेः समुत्पन्नं नाशयिष्यामि ते भयम् ॥२३॥
न सन्तापः त्वया कार्यः कथञ्चिद् पन्नग-उत्तम । दीप्तात् अग्नेः समुत्पन्नम् नाशयिष्यामि ते भयम् ॥२३॥
na santāpaḥ tvayā kāryaḥ kathañcid pannaga-uttama . dīptāt agneḥ samutpannam nāśayiṣyāmi te bhayam ..23..
ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम् । नाशयिष्यामि मात्र त्वं भयं कार्षीः कथञ्चन ॥२४॥
ब्रह्मदण्डम् महा-घोरम् कालाग्नि-सम-तेजसम् । नाशयिष्यामि मा अत्र त्वम् भयम् कार्षीः कथञ्चन ॥२४॥
brahmadaṇḍam mahā-ghoram kālāgni-sama-tejasam . nāśayiṣyāmi mā atra tvam bhayam kārṣīḥ kathañcana ..24..
सूत उवाच॥
ततः स वासुकेर्घोरमपनीय मनोज्वरम् । आधाय चात्मनोऽङ्गेषु जगाम त्वरितो भृशम् ॥२५॥
ततस् स वासुकेः घोरम् अपनीय मनः-ज्वरम् । आधाय च आत्मनः अङ्गेषु जगाम त्वरितः भृशम् ॥२५॥
tatas sa vāsukeḥ ghoram apanīya manaḥ-jvaram . ādhāya ca ātmanaḥ aṅgeṣu jagāma tvaritaḥ bhṛśam ..25..
जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः । मोक्षाय भुजगेन्द्राणामास्तीको द्विजसत्तमः ॥२६॥
जनमेजयस्य तम् यज्ञम् सर्वैः समुदितम् गुणैः । मोक्षाय भुजग-इन्द्राणाम् आस्तीकः द्विजसत्तमः ॥२६॥
janamejayasya tam yajñam sarvaiḥ samuditam guṇaiḥ . mokṣāya bhujaga-indrāṇām āstīkaḥ dvijasattamaḥ ..26..
स गत्वापश्यदास्तीको यज्ञायतनमुत्तमम् । वृतं सदस्यैर्बहुभिः सूर्यवह्निसमप्रभैः ॥२७॥
स गत्वा अपश्यत् आस्तीकः यज्ञ-आयतनम् उत्तमम् । वृतम् सदस्यैः बहुभिः सूर्य-वह्नि-सम-प्रभैः ॥२७॥
sa gatvā apaśyat āstīkaḥ yajña-āyatanam uttamam . vṛtam sadasyaiḥ bahubhiḥ sūrya-vahni-sama-prabhaiḥ ..27..
स तत्र वारितो द्वाःस्थैः प्रविशन्द्विजसत्तमः । अभितुष्टाव तं यज्ञं प्रवेशार्थी द्विजोत्तमः ॥२८॥ 1.54.29
स तत्र वारितः द्वाःस्थैः प्रविशन् द्विजसत्तमः । अभितुष्टाव तम् यज्ञम् प्रवेश-अर्थी द्विजोत्तमः ॥२८॥ १।५४।२९
sa tatra vāritaḥ dvāḥsthaiḥ praviśan dvijasattamaḥ . abhituṣṭāva tam yajñam praveśa-arthī dvijottamaḥ ..28.. 1.54.29

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In