| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

शौनक उवाच॥
पुराणमखिलं तात पिता तेऽधीतवान्पुरा । कच्चित्त्वमपि तत्सर्वमधीषे लोमहर्षणे ॥१॥
पुराणम् अखिलम् तात पिता ते अधीतवान् पुरा । कच्चित् त्वम् अपि तत् सर्वम् अधीषे लोमहर्षणे ॥१॥
purāṇam akhilam tāta pitā te adhītavān purā . kaccit tvam api tat sarvam adhīṣe lomaharṣaṇe ..1..
पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम् । कथ्यन्ते ताः पुरास्माभिः श्रुताः पूर्वं पितुस्तव ॥२॥
पुराणे हि कथाः दिव्याः आदि-वंशाः च धीमताम् । कथ्यन्ते ताः पुरा अस्माभिः श्रुताः पूर्वम् पितुः तव ॥२॥
purāṇe hi kathāḥ divyāḥ ādi-vaṃśāḥ ca dhīmatām . kathyante tāḥ purā asmābhiḥ śrutāḥ pūrvam pituḥ tava ..2..
तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम् । कथयस्व कथामेतां कल्याः स्म श्रवणे तव ॥३॥
तत्र वंशम् अहम् पूर्वम् श्रोतुम् इच्छामि भार्गवम् । कथयस्व कथाम् एताम् कल्याः स्म श्रवणे तव ॥३॥
tatra vaṃśam aham pūrvam śrotum icchāmi bhārgavam . kathayasva kathām etām kalyāḥ sma śravaṇe tava ..3..
यदधीतं पुरा सम्यग्द्विजश्रेष्ठ महात्मभिः । वैशम्पायनविप्राद्यैस्तैश्चापि कथितं पुरा ॥४॥
यत् अधीतम् पुरा सम्यक् द्विजश्रेष्ठ महात्मभिः । वैशम्पायन-विप्र-आद्यैः तैः च अपि कथितम् पुरा ॥४॥
yat adhītam purā samyak dvijaśreṣṭha mahātmabhiḥ . vaiśampāyana-vipra-ādyaiḥ taiḥ ca api kathitam purā ..4..
सूत उवाच॥
यदधीतं च पित्रा मे सम्यक्चैव ततो मया । तत्तावच्छृणु यो देवैः सेन्द्रैः साग्निमरुद्गणैः ॥५॥ ( पूजितः प्रवरो वंशो भृगूणां भृगुनन्दन ॥५॥ )
यत् अधीतम् च पित्रा मे सम्यक् च एव ततस् मया । तत् तावत् शृणु यः देवैः स इन्द्रैः स अग्नि-मरुत्-गणैः ॥५॥ ( पूजितः प्रवरः वंशः भृगूणाम् भृगु-नन्दन ॥५॥ )
yat adhītam ca pitrā me samyak ca eva tatas mayā . tat tāvat śṛṇu yaḥ devaiḥ sa indraiḥ sa agni-marut-gaṇaiḥ ..5.. ( pūjitaḥ pravaraḥ vaṃśaḥ bhṛgūṇām bhṛgu-nandana ..5.. )
इमं वंशमहं ब्रह्मन्भार्गवं ते महामुने । निगदामि कथायुक्तं पुराणाश्रयसंयुतम् ॥६॥
इमम् वंशम् अहम् ब्रह्मन् भार्गवम् ते महा-मुने । निगदामि कथा-युक्तम् पुराण-आश्रय-संयुतम् ॥६॥
imam vaṃśam aham brahman bhārgavam te mahā-mune . nigadāmi kathā-yuktam purāṇa-āśraya-saṃyutam ..6..
भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः । च्यवनस्यापि दायादः प्रमतिर्नाम धार्मिकः ॥७॥ ( प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत ॥७॥ )
भृगोः सु दयितः पुत्रः च्यवनः नाम भार्गवः । च्यवनस्य अपि दायादः प्रमतिः नाम धार्मिकः ॥७॥ ( प्रमतेः अपि अभूत् पुत्रः घृताच्याम् रुरुः इति उत ॥७॥ )
bhṛgoḥ su dayitaḥ putraḥ cyavanaḥ nāma bhārgavaḥ . cyavanasya api dāyādaḥ pramatiḥ nāma dhārmikaḥ ..7.. ( pramateḥ api abhūt putraḥ ghṛtācyām ruruḥ iti uta ..7.. )
रुरोरपि सुतो जज्ञे शुनको वेदपारगः । प्रमद्वरायां धर्मात्मा तव पूर्वपितामहात् ॥८॥
रुरोः अपि सुतः जज्ञे शुनकः वेदपारगः । प्रमद्वरायाम् धर्म-आत्मा तव पूर्व-पितामहात् ॥८॥
ruroḥ api sutaḥ jajñe śunakaḥ vedapāragaḥ . pramadvarāyām dharma-ātmā tava pūrva-pitāmahāt ..8..
तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः । धर्मिष्ठः सत्यवादी च नियतो नियतेन्द्रियः ॥९॥
तपस्वी च यशस्वी च श्रुतवान् ब्रह्म-वित्तमः । धर्मिष्ठः सत्य-वादी च नियतः नियत-इन्द्रियः ॥९॥
tapasvī ca yaśasvī ca śrutavān brahma-vittamaḥ . dharmiṣṭhaḥ satya-vādī ca niyataḥ niyata-indriyaḥ ..9..
शौनक उवाच॥
सूतपुत्र यथा तस्य भार्गवस्य महात्मनः । च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः ॥१०॥
सूतपुत्र यथा तस्य भार्गवस्य महात्मनः । च्यवन-त्वम् परिख्यातम् तत् मम आचक्ष्व पृच्छतः ॥१०॥
sūtaputra yathā tasya bhārgavasya mahātmanaḥ . cyavana-tvam parikhyātam tat mama ācakṣva pṛcchataḥ ..10..
सूत उवाच॥
भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता । तस्यां गर्भः समभवद्भृगोर्वीर्यसमुद्भवः ॥११॥
भृगोः सु दयिता भार्या पुलोमा इति अभिविश्रुता । तस्याम् गर्भः समभवत् भृगोः वीर्य-समुद्भवः ॥११॥
bhṛgoḥ su dayitā bhāryā pulomā iti abhiviśrutā . tasyām garbhaḥ samabhavat bhṛgoḥ vīrya-samudbhavaḥ ..11..
तस्मिन्गर्भे सम्भृतेऽथ पुलोमायां भृगूद्वह । समये समशीलिन्यां धर्मपत्न्यां यशस्विनः ॥१२॥
तस्मिन् गर्भे सम्भृते अथ पुलोमायाम् भृगूद्वह । समये सम-शीलिन्याम् धर्मपत्न्याम् यशस्विनः ॥१२॥
tasmin garbhe sambhṛte atha pulomāyām bhṛgūdvaha . samaye sama-śīlinyām dharmapatnyām yaśasvinaḥ ..12..
अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे । आश्रमं तस्य रक्षोऽथ पुलोमाभ्याजगाम ह ॥१३॥
अभिषेकाय निष्क्रान्ते भृगौ धर्म-भृताम् वरे । आश्रमम् तस्य रक्षः अथ पुलोमा अभ्याजगाम ह ॥१३॥
abhiṣekāya niṣkrānte bhṛgau dharma-bhṛtām vare . āśramam tasya rakṣaḥ atha pulomā abhyājagāma ha ..13..
तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम् । हृच्छयेन समाविष्टो विचेताः समपद्यत ॥१४॥
तम् प्रविश्य आश्रमम् दृष्ट्वा भृगोः भार्याम् अनिन्दिताम् । हृच्छयेन समाविष्टः विचेताः समपद्यत ॥१४॥
tam praviśya āśramam dṛṣṭvā bhṛgoḥ bhāryām aninditām . hṛcchayena samāviṣṭaḥ vicetāḥ samapadyata ..14..
अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना । न्यमन्त्रयत वन्येन फलमूलादिना तदा ॥१५॥
अभ्यागतम् तु तत् रक्षः पुलोमा चारु-दर्शना । न्यमन्त्रयत वन्येन फल-मूल-आदिना तदा ॥१५॥
abhyāgatam tu tat rakṣaḥ pulomā cāru-darśanā . nyamantrayata vanyena phala-mūla-ādinā tadā ..15..
तां तु रक्षस्ततो ब्रह्मन्हृच्छयेनाभिपीडितम् । दृष्ट्वा हृष्टमभूत्तत्र जिहीर्षुस्तामनिन्दिताम् ॥१६॥
ताम् तु रक्षः ततस् ब्रह्मन् हृच्छयेन अभिपीडितम् । दृष्ट्वा हृष्टम् अभूत् तत्र जिहीर्षुः ताम् अनिन्दिताम् ॥१६॥
tām tu rakṣaḥ tatas brahman hṛcchayena abhipīḍitam . dṛṣṭvā hṛṣṭam abhūt tatra jihīrṣuḥ tām aninditām ..16..
अथाग्निशरणेऽपश्यज्ज्वलितं जातवेदसम् । तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा ॥१७॥
अथ अग्नि-शरणे अपश्यत् ज्वलितम् जातवेदसम् । तम् अपृच्छत् ततस् रक्षः पावकम् ज्वलितम् तदा ॥१७॥
atha agni-śaraṇe apaśyat jvalitam jātavedasam . tam apṛcchat tatas rakṣaḥ pāvakam jvalitam tadā ..17..
शंस मे कस्य भार्येयमग्ने पृष्ट ऋतेन वै । सत्यस्त्वमसि सत्यं मे वद पावक पृच्छते ॥१८॥
शंस मे कस्य भार्या इयम् अग्ने पृष्टः ऋतेन वै । सत्यः त्वम् असि सत्यम् मे वद पावक पृच्छते ॥१८॥
śaṃsa me kasya bhāryā iyam agne pṛṣṭaḥ ṛtena vai . satyaḥ tvam asi satyam me vada pāvaka pṛcchate ..18..
मया हीयं पूर्ववृता भार्यार्थे वरवर्णिनी । पश्चात्त्विमां पिता प्रादाद्भृगवेऽनृतकारिणे ॥१९॥
मया हि इयम् पूर्व-वृता भार्या-अर्थे वरवर्णिनी । पश्चात् तु इमाम् पिता प्रादात् भृगवे अनृत-कारिणे ॥१९॥
mayā hi iyam pūrva-vṛtā bhāryā-arthe varavarṇinī . paścāt tu imām pitā prādāt bhṛgave anṛta-kāriṇe ..19..
सेयं यदि वरारोहा भृगोर्भार्या रहोगता । तथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम् ॥२०॥
सा इयम् यदि वर-आरोहा भृगोः भार्या रहः-गता । तथा सत्यम् समाख्याहि जिहीर्षामि आश्रमात् इमाम् ॥२०॥
sā iyam yadi vara-ārohā bhṛgoḥ bhāryā rahaḥ-gatā . tathā satyam samākhyāhi jihīrṣāmi āśramāt imām ..20..
मन्युर्हि हृदयं मेऽद्य प्रदहन्निव तिष्ठति । मत्पुर्वभार्यां यदिमां भृगुः प्राप सुमध्यमाम् ॥२१॥
मन्युः हि हृदयम् मे अद्य प्रदहन् इव तिष्ठति । मद्-पुर्व-भार्याम् यत् इमाम् भृगुः प्राप सुमध्यमाम् ॥२१॥
manyuḥ hi hṛdayam me adya pradahan iva tiṣṭhati . mad-purva-bhāryām yat imām bhṛguḥ prāpa sumadhyamām ..21..
तद्रक्ष एवमामन्त्र्य ज्वलितं जातवेदसम् । शङ्कमानो भृगोर्भार्यां पुनः पुनरपृच्छत ॥२२॥
तत् रक्षः एवम् आमन्त्र्य ज्वलितम् जातवेदसम् । शङ्कमानः भृगोः भार्याम् पुनर् पुनर् अपृच्छत ॥२२॥
tat rakṣaḥ evam āmantrya jvalitam jātavedasam . śaṅkamānaḥ bhṛgoḥ bhāryām punar punar apṛcchata ..22..
त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा । साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः ॥२३॥
त्वम् अग्ने सर्व-भूतानाम् अन्तर् चरसि नित्यदा । साक्षि-वत् पुण्य-पापेषु सत्यम् ब्रूहि कवे वचः ॥२३॥
tvam agne sarva-bhūtānām antar carasi nityadā . sākṣi-vat puṇya-pāpeṣu satyam brūhi kave vacaḥ ..23..
मत्पूर्वभार्यापहृता भृगुणानृतकारिणा । सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि ॥२४॥
मद्-पूर्व-भार्या अपहृता भृगुणा अनृत-कारिणा । सा इयम् यदि तथा मे त्वम् सत्यम् आख्यातुम् अर्हसि ॥२४॥
mad-pūrva-bhāryā apahṛtā bhṛguṇā anṛta-kāriṇā . sā iyam yadi tathā me tvam satyam ākhyātum arhasi ..24..
श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्यहमाश्रमात् । जातवेदः पश्यतस्ते वद सत्यां गिरं मम ॥२५॥
श्रुत्वा त्वत्तः भृगोः भार्याम् हरिष्यामि अहम् आश्रमात् । जातवेदः पश्यतः ते वद सत्याम् गिरम् मम ॥२५॥
śrutvā tvattaḥ bhṛgoḥ bhāryām hariṣyāmi aham āśramāt . jātavedaḥ paśyataḥ te vada satyām giram mama ..25..
तस्य तद्वचनं श्रुत्वा सप्तार्चिर्दुःखितो भृशम् । भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः ॥२६॥1.5.30
तस्य तत् वचनम् श्रुत्वा सप्तार्चिः दुःखितः भृशम् । भीतः अनृतात् च शापात् च भृगोः इति अब्रवीत् शनैस् ॥२६॥१।५।३०
tasya tat vacanam śrutvā saptārciḥ duḥkhitaḥ bhṛśam . bhītaḥ anṛtāt ca śāpāt ca bhṛgoḥ iti abravīt śanais ..26..1.5.30
सूत उवाच॥
अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम् । ब्रह्मन्वराहरूपेण मनोमारुतरंहसा ॥१॥
अग्नेः अथ वचः श्रुत्वा तत् रक्षः प्रजहार ताम् । ब्रह्मन् वराह-रूपेण मनः-मारुत-रंहसा ॥१॥
agneḥ atha vacaḥ śrutvā tat rakṣaḥ prajahāra tām . brahman varāha-rūpeṇa manaḥ-māruta-raṃhasā ..1..
ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वह । रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत् ॥२॥
ततस् स गर्भः निवसन् कुक्षौ भृगु-कुल-उद्वह । रोषात् मातुः च्युतः कुक्षेः च्यवनः तेन सः अभवत् ॥२॥
tatas sa garbhaḥ nivasan kukṣau bhṛgu-kula-udvaha . roṣāt mātuḥ cyutaḥ kukṣeḥ cyavanaḥ tena saḥ abhavat ..2..
तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम् । तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम् ॥३॥
तम् दृष्ट्वा मातुः उदरात् च्युतम् आदित्य-वर्चसम् । तत् रक्षः भस्मसात् भूतम् पपात परिमुच्य ताम् ॥३॥
tam dṛṣṭvā mātuḥ udarāt cyutam āditya-varcasam . tat rakṣaḥ bhasmasāt bhūtam papāta parimucya tām ..3..
सा तमादाय सुश्रोणी ससार भृगुनन्दनम् । च्यवनं भार्गवं ब्रह्मन्पुलोमा दुःखमूर्च्छिता ॥४॥
सा तम् आदाय सुश्रोणी ससार भृगुनन्दनम् । च्यवनम् भार्गवम् ब्रह्मन् पुलोमा दुःख-मूर्च्छिता ॥४॥
sā tam ādāya suśroṇī sasāra bhṛgunandanam . cyavanam bhārgavam brahman pulomā duḥkha-mūrcchitā ..4..
तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः । रुदतीं बाष्पपूर्णाक्षीं भृगोर्भार्यामनिन्दिताम् ॥५॥ ( सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः ॥५॥ )
ताम् ददर्श स्वयम् ब्रह्मा सर्व-लोक-पितामहः । रुदतीम् बाष्प-पूर्ण-अक्षीम् भृगोः भार्याम् अनिन्दिताम् ॥५॥ ( सान्त्वयामास भगवान् वधूम् ब्रह्मा पितामहः ॥५॥ )
tām dadarśa svayam brahmā sarva-loka-pitāmahaḥ . rudatīm bāṣpa-pūrṇa-akṣīm bhṛgoḥ bhāryām aninditām ..5.. ( sāntvayāmāsa bhagavān vadhūm brahmā pitāmahaḥ ..5.. )
अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी । अनुवर्तती सृतिं तस्या भृगोः पत्न्या यशस्विनः ॥६॥
अश्रु-बिन्दु-उद्भवा तस्याः प्रावर्तत महा-नदी । अनुवर्तती सृतिम् तस्याः भृगोः पत्न्या यशस्विनः ॥६॥
aśru-bindu-udbhavā tasyāḥ prāvartata mahā-nadī . anuvartatī sṛtim tasyāḥ bhṛgoḥ patnyā yaśasvinaḥ ..6..
तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा । नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः ॥७॥ ( वधूसरेति भगवांश्च्यवनस्याश्रमं प्रति ॥७॥ )
तस्याः मार्गम् सृतवतीम् दृष्ट्वा तु सरितम् तदा । नाम तस्याः तदा नद्याः चक्रे लोकपितामहः ॥७॥ ( वधूसरा इति भगवान् च्यवनस्य आश्रमम् प्रति ॥७॥ )
tasyāḥ mārgam sṛtavatīm dṛṣṭvā tu saritam tadā . nāma tasyāḥ tadā nadyāḥ cakre lokapitāmahaḥ ..7.. ( vadhūsarā iti bhagavān cyavanasya āśramam prati ..7.. )
स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान् । तं ददर्श पिता तत्र च्यवनं तां च भामिनीम् ॥८॥
सः एवम् च्यवनः जज्ञे भृगोः पुत्रः प्रतापवान् । तम् ददर्श पिता तत्र च्यवनम् ताम् च भामिनीम् ॥८॥
saḥ evam cyavanaḥ jajñe bhṛgoḥ putraḥ pratāpavān . tam dadarśa pitā tatra cyavanam tām ca bhāminīm ..8..
स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः । केनासि रक्षसे तस्मै कथितेह जिहीर्षवे ॥९॥ ( न हि त्वां वेद तद्रक्षो मद्भार्यां चारुहासिनीम् ॥९॥ )
स पुलोमाम् ततस् भार्याम् पप्रच्छ कुपितः भृगुः । केन असि रक्षसे तस्मै कथिता इह जिहीर्षवे ॥९॥ ( न हि त्वाम् वेद तत् रक्षः मद्-भार्याम् चारु-हासिनीम् ॥९॥ )
sa pulomām tatas bhāryām papraccha kupitaḥ bhṛguḥ . kena asi rakṣase tasmai kathitā iha jihīrṣave ..9.. ( na hi tvām veda tat rakṣaḥ mad-bhāryām cāru-hāsinīm ..9.. )
तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा । बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः ॥१०॥
तत् त्वम् आख्याहि तम् हि अद्य शप्तुम् इच्छामि अहम् रुषा । बिभेति कः न शापात् मे कस्य च अयम् व्यतिक्रमः ॥१०॥
tat tvam ākhyāhi tam hi adya śaptum icchāmi aham ruṣā . bibheti kaḥ na śāpāt me kasya ca ayam vyatikramaḥ ..10..
पुलोमोवाच॥
अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता । ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव ॥११॥
अग्निना भगवन् तस्मै रक्षसे अहम् निवेदिता । ततस् माम् अनयत् रक्षः क्रोशन्तीम् कुररीम् इव ॥११॥
agninā bhagavan tasmai rakṣase aham niveditā . tatas mām anayat rakṣaḥ krośantīm kurarīm iva ..11..
साहं तव सुतस्यास्य तेजसा परिमोक्षिता । भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै ॥१२॥
सा अहम् तव सुतस्य अस्य तेजसा परिमोक्षिता । भस्मीभूतम् च तत् रक्षः माम् उत्सृज्य पपात वै ॥१२॥
sā aham tava sutasya asya tejasā parimokṣitā . bhasmībhūtam ca tat rakṣaḥ mām utsṛjya papāta vai ..12..
सूत उवाच॥
इति श्रुत्वा पुलोमाया भृगुः परममन्युमान् । शशापाग्निमभिक्रुद्धः सर्वभक्षो भविष्यसि ॥१३॥1.6.14
इति श्रुत्वा पुलोमायाः भृगुः परम-मन्युमान् । शशाप अग्निम् अभिक्रुद्धः सर्व-भक्षः भविष्यसि ॥१३॥१।६।१४
iti śrutvā pulomāyāḥ bhṛguḥ parama-manyumān . śaśāpa agnim abhikruddhaḥ sarva-bhakṣaḥ bhaviṣyasi ..13..1.6.14

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In