| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

आस्तीक उवाच॥
सोमस्य यज्ञो वरुणस्य यज्ञः; प्रजापतेर्यज्ञ आसीत्प्रयागे । तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥१॥
सोमस्य यज्ञः वरुणस्य यज्ञः; प्रजापतेः यज्ञः आसीत् प्रयागे । तथा यज्ञः अयम् तव भारत-अग्र्य; पारिक्षित स्वस्ति नः अस्तु प्रियेभ्यः ॥१॥
somasya yajñaḥ varuṇasya yajñaḥ; prajāpateḥ yajñaḥ āsīt prayāge . tathā yajñaḥ ayam tava bhārata-agrya; pārikṣita svasti naḥ astu priyebhyaḥ ..1..
शक्रस्य यज्ञः शतसङ्ख्य उक्त; स्तथापरस्तुल्यसङ्ख्यः शतं वै । तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥२॥
शक्रस्य यज्ञः शत-सङ्ख्यः उक्त; शतम् वै । तथा यज्ञः अयम् तव भारत-अग्र्य; पारिक्षित स्वस्ति नः अस्तु प्रियेभ्यः ॥२॥
śakrasya yajñaḥ śata-saṅkhyaḥ ukta; śatam vai . tathā yajñaḥ ayam tava bhārata-agrya; pārikṣita svasti naḥ astu priyebhyaḥ ..2..
यमस्य यज्ञो हरिमेधसश्च; यथा यज्ञो रन्तिदेवस्य राज्ञः । तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥३॥
यमस्य यज्ञः हरिमेधसः च; यथा यज्ञः रन्तिदेवस्य राज्ञः । तथा यज्ञः अयम् तव भारत-अग्र्य; पारिक्षित स्वस्ति नः अस्तु प्रियेभ्यः ॥३॥
yamasya yajñaḥ harimedhasaḥ ca; yathā yajñaḥ rantidevasya rājñaḥ . tathā yajñaḥ ayam tava bhārata-agrya; pārikṣita svasti naḥ astu priyebhyaḥ ..3..
गयस्य यज्ञः शशबिन्दोश्च राज्ञो; यज्ञस्तथा वैश्रवणस्य राज्ञः । तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥४॥
गयस्य यज्ञः शशबिन्दोः च राज्ञः; यज्ञः तथा वैश्रवणस्य राज्ञः । तथा यज्ञः अयम् तव भारत-अग्र्य; पारिक्षित स्वस्ति नः अस्तु प्रियेभ्यः ॥४॥
gayasya yajñaḥ śaśabindoḥ ca rājñaḥ; yajñaḥ tathā vaiśravaṇasya rājñaḥ . tathā yajñaḥ ayam tava bhārata-agrya; pārikṣita svasti naḥ astu priyebhyaḥ ..4..
नृगस्य यज्ञस्त्वजमीढस्य चासी; द्यथा यज्ञो दाशरथेश्च राज्ञः । तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥५॥
नृगस्य यज्ञः तु अजमीढस्य च आसी; द्यथा यज्ञः दाशरथेः च राज्ञः । तथा यज्ञः अयम् तव भारत-अग्र्य; पारिक्षित स्वस्ति नः अस्तु प्रियेभ्यः ॥५॥
nṛgasya yajñaḥ tu ajamīḍhasya ca āsī; dyathā yajñaḥ dāśaratheḥ ca rājñaḥ . tathā yajñaḥ ayam tava bhārata-agrya; pārikṣita svasti naḥ astu priyebhyaḥ ..5..
यज्ञः श्रुतो नो दिवि देवसूनो; र्युधिष्ठिरस्याजमीढस्य राज्ञः । तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥६॥
यज्ञः श्रुतः नः दिवि देव-सूनो; र्युधिष्ठिरस्य अजमीढस्य राज्ञः । तथा यज्ञः अयम् तव भारत-अग्र्य; पारिक्षित स्वस्ति नः अस्तु प्रियेभ्यः ॥६॥
yajñaḥ śrutaḥ naḥ divi deva-sūno; ryudhiṣṭhirasya ajamīḍhasya rājñaḥ . tathā yajñaḥ ayam tava bhārata-agrya; pārikṣita svasti naḥ astu priyebhyaḥ ..6..
कृष्णस्य यज्ञः सत्यवत्याः सुतस्य; स्वयं च कर्म प्रचकार यत्र । तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ॥७॥
कृष्णस्य यज्ञः सत्यवत्याः सुतस्य; स्वयम् च कर्म प्रचकार यत्र । तथा यज्ञः अयम् तव भारत-अग्र्य; पारिक्षित स्वस्ति नः अस्तु प्रियेभ्यः ॥७॥
kṛṣṇasya yajñaḥ satyavatyāḥ sutasya; svayam ca karma pracakāra yatra . tathā yajñaḥ ayam tava bhārata-agrya; pārikṣita svasti naḥ astu priyebhyaḥ ..7..
इमे हि ते सूर्यहुताशवर्चसः; समासते वृत्रहणः क्रतुं यथा । नैषां ज्ञानं विद्यते ज्ञातुमद्य; दत्तं येभ्यो न प्रणश्येत्कथञ्चित् ॥८॥
इमे हि ते सूर्य-हुताश-वर्चसः; समासते वृत्र-हणः क्रतुम् यथा । न एषाम् ज्ञानम् विद्यते ज्ञातुम् अद्य; दत्तम् येभ्यः न प्रणश्येत् कथञ्चिद् ॥८॥
ime hi te sūrya-hutāśa-varcasaḥ; samāsate vṛtra-haṇaḥ kratum yathā . na eṣām jñānam vidyate jñātum adya; dattam yebhyaḥ na praṇaśyet kathañcid ..8..
ऋत्विक्समो नास्ति लोकेषु चैव; द्वैपायनेनेति विनिश्चितं मे । एतस्य शिष्या हि क्षितिं चरन्ति; सर्वर्त्विजः कर्मसु स्वेषु दक्षाः ॥९॥
ऋत्विज्-समः न अस्ति लोकेषु च एव; द्वैपायनेन इति विनिश्चितम् मे । एतस्य शिष्याः हि क्षितिम् चरन्ति; सर्व-ऋत्विजः कर्मसु स्वेषु दक्षाः ॥९॥
ṛtvij-samaḥ na asti lokeṣu ca eva; dvaipāyanena iti viniścitam me . etasya śiṣyāḥ hi kṣitim caranti; sarva-ṛtvijaḥ karmasu sveṣu dakṣāḥ ..9..
विभावसुश्चित्रभानुर्महात्मा; हिरण्यरेता विश्वभुक्कृष्णवर्त्मा । प्रदक्षिणावर्तशिखः प्रदीप्तो; हव्यं तवेदं हुतभुग्वष्टि देवः ॥१०॥
विभावसुः चित्रभानुः महात्मा; हिरण्यरेताः विश्वभुज् कृष्णवर्त्मा । प्रदक्षिण-आवर्त-शिखः; हव्यम् तव इदम् हुतभुज् वष्टि देवः ॥१०॥
vibhāvasuḥ citrabhānuḥ mahātmā; hiraṇyaretāḥ viśvabhuj kṛṣṇavartmā . pradakṣiṇa-āvarta-śikhaḥ; havyam tava idam hutabhuj vaṣṭi devaḥ ..10..
नेह त्वदन्यो विद्यते जीवलोके; समो नृपः पालयिता प्रजानाम् । धृत्या च ते प्रीतमनाः सदाहं; त्वं वा राजा धर्मराजो यमो वा ॥११॥
न इह त्वत् अन्यः विद्यते जीव-लोके; समः नृपः पालयिता प्रजानाम् । धृत्या च ते प्रीत-मनाः सदा अहम्; त्वम् वा राजा धर्म-राजः यमः वा ॥११॥
na iha tvat anyaḥ vidyate jīva-loke; samaḥ nṛpaḥ pālayitā prajānām . dhṛtyā ca te prīta-manāḥ sadā aham; tvam vā rājā dharma-rājaḥ yamaḥ vā ..11..
शक्रः साक्षाद्वज्रपाणिर्यथेह; त्राता लोकेऽस्मिंस्त्वं तथेह प्रजानाम् । मतस्त्वं नः पुरुषेन्द्रेह लोके; न च त्वदन्यो गृहपतिरस्ति यज्ञे ॥१२॥
शक्रः साक्षात् वज्रपाणिः यथा इह; त्राता लोके अस्मिन् त्वम् तथा इह प्रजानाम् । मतः त्वम् नः पुरुष-इन्द्र इह लोके; न च त्वत् अन्यः गृहपतिः अस्ति यज्ञे ॥१२॥
śakraḥ sākṣāt vajrapāṇiḥ yathā iha; trātā loke asmin tvam tathā iha prajānām . mataḥ tvam naḥ puruṣa-indra iha loke; na ca tvat anyaḥ gṛhapatiḥ asti yajñe ..12..
खट्वाङ्गनाभागदिलीपकल्पो; ययातिमान्धातृसमप्रभावः । आदित्यतेजःप्रतिमानतेजा; भीष्मो यथा भ्राजसि सुव्रतस्त्वम् ॥१३॥
खट्वाङ्ग-नाभाग-दिलीप-कल्पः; ययाति-मान्धातृ-सम-प्रभावः । आदित्य-तेजः-प्रतिमान-तेजाः; भीष्मः यथा भ्राजसि सुव्रतः त्वम् ॥१३॥
khaṭvāṅga-nābhāga-dilīpa-kalpaḥ; yayāti-māndhātṛ-sama-prabhāvaḥ . āditya-tejaḥ-pratimāna-tejāḥ; bhīṣmaḥ yathā bhrājasi suvrataḥ tvam ..13..
वाल्मीकिवत्ते निभृतं सुधैर्यं; वसिष्ठवत्ते नियतश्च कोपः । प्रभुत्वमिन्द्रेण समं मतं मे; द्युतिश्च नारायणवद्विभाति ॥१४॥
वाल्मीकि-वत् ते निभृतम् सु धैर्यम्; वसिष्ठ-वत् ते नियतः च कोपः । प्रभु-त्वम् इन्द्रेण समम् मतम् मे; द्युतिः च नारायण-वत् विभाति ॥१४॥
vālmīki-vat te nibhṛtam su dhairyam; vasiṣṭha-vat te niyataḥ ca kopaḥ . prabhu-tvam indreṇa samam matam me; dyutiḥ ca nārāyaṇa-vat vibhāti ..14..
यमो यथा धर्मविनिश्चयज्ञः; कृष्णो यथा सर्वगुणोपपन्नः । श्रियां निवासोऽसि यथा वसूनां; निधानभूतोऽसि तथा क्रतूनाम् ॥१५॥
यमः यथा धर्म-विनिश्चय-ज्ञः; कृष्णः यथा सर्व-गुण-उपपन्नः । श्रियाम् निवासः असि यथा वसूनाम्; निधान-भूतः असि तथा क्रतूनाम् ॥१५॥
yamaḥ yathā dharma-viniścaya-jñaḥ; kṛṣṇaḥ yathā sarva-guṇa-upapannaḥ . śriyām nivāsaḥ asi yathā vasūnām; nidhāna-bhūtaḥ asi tathā kratūnām ..15..
दम्भोद्भवेनासि समो बलेन; रामो यथा शस्त्रविदस्त्रविच्च । और्वत्रिताभ्यामसि तुल्यतेजा; दुष्प्रेक्षणीयोऽसि भगीरथो वा ॥१६॥
दम्भोद्भवेन असि समः बलेन; रामः यथा शस्त्र-विद् अस्त्र-विद् च । और्व-त्रिताभ्याम् असि तुल्य-तेजाः; दुष्प्रेक्षणीयः असि भगीरथः वा ॥१६॥
dambhodbhavena asi samaḥ balena; rāmaḥ yathā śastra-vid astra-vid ca . aurva-tritābhyām asi tulya-tejāḥ; duṣprekṣaṇīyaḥ asi bhagīrathaḥ vā ..16..
सूत उवाच॥
एवं स्तुताः सर्व एव प्रसन्ना; राजा सदस्या ऋत्विजो हव्यवाहः । तेषां दृष्ट्वा भावितानीङ्गितानि; प्रोवाच राजा जनमेजयोऽथ ॥१७॥ 1.55.17
एवम् स्तुताः सर्वे एव प्रसन्ना; राजा सदस्याः ऋत्विजः हव्यवाहः । तेषाम् दृष्ट्वा भावितानि इङ्गितानि; प्रोवाच राजा जनमेजयः अथ ॥१७॥ १।५५।१७
evam stutāḥ sarve eva prasannā; rājā sadasyāḥ ṛtvijaḥ havyavāhaḥ . teṣām dṛṣṭvā bhāvitāni iṅgitāni; provāca rājā janamejayaḥ atha ..17.. 1.55.17

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In