| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

जनमेजय उवाच॥
बालो वाक्यं स्थविर इव प्रभाषते; नायं बालः स्थविरोऽयं मतो मे । इच्छाम्यहं वरमस्मै प्रदातुं; तन्मे विप्रा वितरध्वं समेताः ॥१॥
बालः वाक्यम् स्थविरः इव प्रभाषते; न अयम् बालः स्थविरः अयम् मतः मे । इच्छामि अहम् वरम् अस्मै प्रदातुम्; तत् मे विप्राः वितरध्वम् समेताः ॥१॥
bālaḥ vākyam sthaviraḥ iva prabhāṣate; na ayam bālaḥ sthaviraḥ ayam mataḥ me . icchāmi aham varam asmai pradātum; tat me viprāḥ vitaradhvam sametāḥ ..1..
सदस्या ऊचुः॥
बालोऽपि विप्रो मान्य एवेह राज्ञां; यश्चाविद्वान्यश्च विद्वान्यथावत् । सर्वान्कामांस्त्वत्त एषोऽर्हतेऽद्य; यथा च नस्तक्षक एति शीघ्रम् ॥२॥
बालः अपि विप्रः मान्यः एवा इह राज्ञाम्; यः च अ विद्वान् यः च विद्वान् यथावत् । सर्वान् कामान् त्वत्तः एषः अर्हते अद्य; यथा च नः तक्षकः एति शीघ्रम् ॥२॥
bālaḥ api vipraḥ mānyaḥ evā iha rājñām; yaḥ ca a vidvān yaḥ ca vidvān yathāvat . sarvān kāmān tvattaḥ eṣaḥ arhate adya; yathā ca naḥ takṣakaḥ eti śīghram ..2..
सूत उवाच॥
व्याहर्तुकामे वरदे नृपे द्विजं; वरं वृणीष्वेति ततोऽभ्युवाच । होता वाक्यं नातिहृष्टान्तरात्मा; कर्मण्यस्मिंस्तक्षको नैति तावत् ॥३॥
व्याहर्तु-कामे वर-दे नृपे द्विजम्; वरम् वृणीष्व इति ततस् अभ्युवाच । होता वाक्यम् न अति हृष्ट-अन्तरात्मा; कर्मणि अस्मिन् तक्षकः न एति तावत् ॥३॥
vyāhartu-kāme vara-de nṛpe dvijam; varam vṛṇīṣva iti tatas abhyuvāca . hotā vākyam na ati hṛṣṭa-antarātmā; karmaṇi asmin takṣakaḥ na eti tāvat ..3..
जनमेजय उवाच॥
यथा चेदं कर्म समाप्यते मे; यथा च नस्तक्षक एति शीघ्रम् । तथा भवन्तः प्रयतन्तु सर्वे; परं शक्त्या स हि मे विद्विषाणः ॥४॥
यथा च इदम् कर्म समाप्यते मे; यथा च नः तक्षकः एति शीघ्रम् । तथा भवन्तः प्रयतन्तु सर्वे; परम् शक्त्या स हि मे विद्विषाणः ॥४॥
yathā ca idam karma samāpyate me; yathā ca naḥ takṣakaḥ eti śīghram . tathā bhavantaḥ prayatantu sarve; param śaktyā sa hi me vidviṣāṇaḥ ..4..
ऋत्विज ऊचुः॥
यथा शास्त्राणि नः प्राहुर्यथा शंसति पावकः । इन्द्रस्य भवने राजंस्तक्षको भयपीडितः ॥५॥
यथा शास्त्राणि नः प्राहुः यथा शंसति पावकः । इन्द्रस्य भवने राजन् तक्षकः भय-पीडितः ॥५॥
yathā śāstrāṇi naḥ prāhuḥ yathā śaṃsati pāvakaḥ . indrasya bhavane rājan takṣakaḥ bhaya-pīḍitaḥ ..5..
सूत उवाच॥
यथा सूतो लोहिताक्षो महात्मा; पौराणिको वेदितवान्पुरस्तात् । स राजानं प्राह पृष्टस्तदानीं; यथाहुर्विप्रास्तद्वदेतन्नृदेव ॥६॥
यथा सूतः लोहित-अक्षः महात्मा; पौराणिकः वेदितवान् पुरस्तात् । स राजानम् प्राह पृष्टः तदानीम्; यथा आहुः विप्राः तद्वत् एतत् नृदेव ॥६॥
yathā sūtaḥ lohita-akṣaḥ mahātmā; paurāṇikaḥ veditavān purastāt . sa rājānam prāha pṛṣṭaḥ tadānīm; yathā āhuḥ viprāḥ tadvat etat nṛdeva ..6..
पुराणमागम्य ततो ब्रवीम्यहं; दत्तं तस्मै वरमिन्द्रेण राजन् । वसेह त्वं मत्सकाशे सुगुप्तो; न पावकस्त्वां प्रदहिष्यतीति ॥७॥
पुराणम् आगम्य ततस् ब्रवीमि अहम्; दत्तम् तस्मै वरम् इन्द्रेण राजन् । वस इह त्वम् मद्-सकाशे सु गुप्तो; न पावकः त्वाम् प्रदहिष्यति इति ॥७॥
purāṇam āgamya tatas bravīmi aham; dattam tasmai varam indreṇa rājan . vasa iha tvam mad-sakāśe su gupto; na pāvakaḥ tvām pradahiṣyati iti ..7..
एतच्छ्रुत्वा दीक्षितस्तप्यमान; आस्ते होतारं चोदयन्कर्मकाले । होता च यत्तः स जुहाव मन्त्रै; रथो इन्द्रः स्वयमेवाजगाम ॥८॥
एतत् श्रुत्वा दीक्षितः तप्यमान; आस्ते होतारम् चोदयन् कर्म-काले । होता च यत्तः स जुहाव मन्त्रैः; रथः उ इन्द्रः स्वयम् एव आजगाम ॥८॥
etat śrutvā dīkṣitaḥ tapyamāna; āste hotāram codayan karma-kāle . hotā ca yattaḥ sa juhāva mantraiḥ; rathaḥ u indraḥ svayam eva ājagāma ..8..
विमानमारुह्य महानुभावः; सर्वैर्देवैः परिसंस्तूयमानः । बलाहकैश्चाप्यनुगम्यमानो; विद्याधरैरप्सरसां गणैश्च ॥९॥
विमानम् आरुह्य महा-अनुभावः; सर्वैः देवैः परिसंस्तूयमानः । बलाहकैः च अपि अनुगम्यमानः; विद्याधरैः अप्सरसाम् गणैः च ॥९॥
vimānam āruhya mahā-anubhāvaḥ; sarvaiḥ devaiḥ parisaṃstūyamānaḥ . balāhakaiḥ ca api anugamyamānaḥ; vidyādharaiḥ apsarasām gaṇaiḥ ca ..9..
तस्योत्तरीये निहितः स नागो; भयोद्विग्नः शर्म नैवाभ्यगच्छत् । ततो राजा मन्त्रविदोऽब्रवीत्पुनः; क्रुद्धो वाक्यं तक्षकस्यान्तमिच्छन् ॥१०॥
तस्य उत्तरीये निहितः स नागः; भय-उद्विग्नः शर्म न एव अभ्यगच्छत् । ततस् राजा मन्त्र-विदः अब्रवीत् पुनर्; क्रुद्धः वाक्यम् तक्षकस्य अन्तम् इच्छन् ॥१०॥
tasya uttarīye nihitaḥ sa nāgaḥ; bhaya-udvignaḥ śarma na eva abhyagacchat . tatas rājā mantra-vidaḥ abravīt punar; kruddhaḥ vākyam takṣakasya antam icchan ..10..
इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः । तमिन्द्रेणैव सहितं पातयध्वं विभावसौ ॥११॥
इन्द्रस्य भवने विप्राः यदि नागः स तक्षकः । तम् इन्द्रेण एव सहितम् पातयध्वम् विभावसौ ॥११॥
indrasya bhavane viprāḥ yadi nāgaḥ sa takṣakaḥ . tam indreṇa eva sahitam pātayadhvam vibhāvasau ..11..
ऋत्विज ऊचुः॥
अयमायाति वै तूर्णं तक्षकस्ते वशं नृप । श्रूयतेऽस्य महान्नादो रुवतो भैरवं भयात् ॥१२॥
अयम् आयाति वै तूर्णम् तक्षकः ते वशम् नृप । श्रूयते अस्य महान् नादः रुवतः भैरवम् भयात् ॥१२॥
ayam āyāti vai tūrṇam takṣakaḥ te vaśam nṛpa . śrūyate asya mahān nādaḥ ruvataḥ bhairavam bhayāt ..12..
नूनं मुक्तो वज्रभृता स नागो; भ्रष्टश्चाङ्कान्मन्त्रविस्रस्तकायः । घूर्णन्नाकाशे नष्टसञ्ज्ञोऽभ्युपैति; तीव्रान्निःश्वासान्निःश्वसन्पन्नगेन्द्रः ॥१३॥
नूनम् मुक्तः वज्रभृता स नागः; भ्रष्टः च अङ्कात् मन्त्र-विस्रस्त-कायः । घूर्णन् आकाशे नष्ट-सञ्ज्ञः अभ्युपैति; तीव्रान् निःश्वासान् निःश्वसन् पन्नग-इन्द्रः ॥१३॥
nūnam muktaḥ vajrabhṛtā sa nāgaḥ; bhraṣṭaḥ ca aṅkāt mantra-visrasta-kāyaḥ . ghūrṇan ākāśe naṣṭa-sañjñaḥ abhyupaiti; tīvrān niḥśvāsān niḥśvasan pannaga-indraḥ ..13..
वर्तते तव राजेन्द्र कर्मैतद्विधिवत्प्रभो । अस्मै तु द्विजमुख्याय वरं त्वं दातुमर्हसि ॥१४॥
वर्तते तव राज-इन्द्र कर्म एतत् विधिवत् प्रभो । अस्मै तु द्विजमुख्याय वरम् त्वम् दातुम् अर्हसि ॥१४॥
vartate tava rāja-indra karma etat vidhivat prabho . asmai tu dvijamukhyāya varam tvam dātum arhasi ..14..
जनमेजय उवाच॥
बालाभिरूपस्य तवाप्रमेय; वरं प्रयच्छामि यथानुरूपम् । वृणीष्व यत्तेऽभिमतं हृदि स्थितं; तत्ते प्रदास्याम्यपि चेददेयम् ॥१५॥
बाल-अभिरूपस्य तव अप्रमेय; वरम् प्रयच्छामि यथा अनुरूपम् । वृणीष्व यत् ते अभिमतम् हृदि स्थितम्; तत् ते प्रदास्यामि अपि चेद् अदेयम् ॥१५॥
bāla-abhirūpasya tava aprameya; varam prayacchāmi yathā anurūpam . vṛṇīṣva yat te abhimatam hṛdi sthitam; tat te pradāsyāmi api ced adeyam ..15..
सूत उवाच॥
पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि । इदमन्तरमित्येवं तदास्तीकोऽभ्यचोदयत् ॥१६॥
पतिष्यमाणे नाग-इन्द्रे तक्षके जातवेदसि । इदम् अन्तरम् इति एवम् तत् आस्तीकः अभ्यचोदयत् ॥१६॥
patiṣyamāṇe nāga-indre takṣake jātavedasi . idam antaram iti evam tat āstīkaḥ abhyacodayat ..16..
वरं ददासि चेन्मह्यं वृणोमि जनमेजय । सत्रं ते विरमत्वेतन्न पतेयुरिहोरगाः ॥१७॥
वरम् ददासि चेद् मह्यम् वृणोमि जनमेजय । सत्रम् ते विरमतु एतत् न पतेयुः इह उरगाः ॥१७॥
varam dadāsi ced mahyam vṛṇomi janamejaya . satram te viramatu etat na pateyuḥ iha uragāḥ ..17..
एवमुक्तस्ततो राजा ब्रह्मन्पारिक्षितस्तदा । नातिहृष्टमना वाक्यमास्तीकमिदमब्रवीत् ॥१८॥
एवम् उक्तः ततस् राजा ब्रह्मन् पारिक्षितः तदा । न अति हृष्ट-मनाः वाक्यम् आस्तीकम् इदम् अब्रवीत् ॥१८॥
evam uktaḥ tatas rājā brahman pārikṣitaḥ tadā . na ati hṛṣṭa-manāḥ vākyam āstīkam idam abravīt ..18..
सुवर्णं रजतं गाश्च यच्चान्यन्मन्यसे विभो । तत्ते दद्यां वरं विप्र न निवर्तेत्क्रतुर्मम ॥१९॥
सुवर्णम् रजतम् गाः च यत् च अन्यत् मन्यसे विभो । तत् ते दद्याम् वरम् विप्र न निवर्तेत् क्रतुः मम ॥१९॥
suvarṇam rajatam gāḥ ca yat ca anyat manyase vibho . tat te dadyām varam vipra na nivartet kratuḥ mama ..19..
आस्तीक उवाच॥
सुवर्णं रजतं गाश्च न त्वां राजन्वृणोम्यहम् । सत्रं ते विरमत्वेतत्स्वस्ति मातृकुलस्य नः ॥२०॥
सुवर्णम् रजतम् गाः च न त्वाम् राजन् वृणोमि अहम् । सत्रम् ते विरमतु एतत् स्वस्ति मातृ-कुलस्य नः ॥२०॥
suvarṇam rajatam gāḥ ca na tvām rājan vṛṇomi aham . satram te viramatu etat svasti mātṛ-kulasya naḥ ..20..
सूत उवाच॥
आस्तीकेनैवमुक्तस्तु राजा पारिक्षितस्तदा । पुनः पुनरुवाचेदमास्तीकं वदतां वरम् ॥२१॥
आस्तीकेन एवम् उक्तः तु राजा पारिक्षितः तदा । पुनर् पुनर् उवाच इदम् आस्तीकम् वदताम् वरम् ॥२१॥
āstīkena evam uktaḥ tu rājā pārikṣitaḥ tadā . punar punar uvāca idam āstīkam vadatām varam ..21..
अन्यं वरय भद्रं ते वरं द्विजवरोत्तम । अयाचत न चाप्यन्यं वरं स भृगुनन्दन ॥२२॥
अन्यम् वरय भद्रम् ते वरम् द्विजवर-उत्तम । अयाचत न च अपि अन्यम् वरम् स भृगुनन्दन ॥२२॥
anyam varaya bhadram te varam dvijavara-uttama . ayācata na ca api anyam varam sa bhṛgunandana ..22..
ततो वेदविदस्तत्र सदस्याः सर्व एव तम् । राजानमूचुः सहिता लभतां ब्राह्मणो वरम् ॥२३॥ 1.56.27
ततस् वेद-विदः तत्र सदस्याः सर्वे एव तम् । राजानम् ऊचुः सहिताः लभताम् ब्राह्मणः वरम् ॥२३॥ १।५६।२७
tatas veda-vidaḥ tatra sadasyāḥ sarve eva tam . rājānam ūcuḥ sahitāḥ labhatām brāhmaṇaḥ varam ..23.. 1.56.27

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In