| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

शौनक उवाच॥
ये सर्पाः सर्पसत्रेऽस्मिन्पतिता हव्यवाहने । तेषां नामानि सर्वेषां श्रोतुमिच्छामि सूतज ॥१॥
ये सर्पाः सर्प-सत्रे अस्मिन् पतिताः हव्यवाहने । तेषाम् नामानि सर्वेषाम् श्रोतुम् इच्छामि सूतज ॥१॥
ye sarpāḥ sarpa-satre asmin patitāḥ havyavāhane . teṣām nāmāni sarveṣām śrotum icchāmi sūtaja ..1..
सूत उवाच॥
सहस्राणि बहून्यस्मिन्प्रयुतान्यर्बुदानि च । न शक्यं परिसङ्ख्यातुं बहुत्वाद्वेदवित्तम ॥२॥
सहस्राणि बहूनि अस्मिन् प्रयुतानि अर्बुदानि च । न शक्यम् परिसङ्ख्यातुम् बहु-त्वात् वेद-वित्तम ॥२॥
sahasrāṇi bahūni asmin prayutāni arbudāni ca . na śakyam parisaṅkhyātum bahu-tvāt veda-vittama ..2..
यथास्मृति तु नामानि पन्नगानां निबोध मे । उच्यमानानि मुख्यानां हुतानां जातवेदसि ॥३॥
यथास्मृति तु नामानि पन्नगानाम् निबोध मे । उच्यमानानि मुख्यानाम् हुतानाम् जातवेदसि ॥३॥
yathāsmṛti tu nāmāni pannagānām nibodha me . ucyamānāni mukhyānām hutānām jātavedasi ..3..
वासुकेः कुलजांस्तावत्प्राधान्येन निबोध मे । नीलरक्तान्सितान्घोरान्महाकायान्विषोल्बणान् ॥४॥
वासुकेः कुल-जान् तावत् प्राधान्येन निबोध मे । नील-रक्तान् सितान् घोरान् महा-कायान् विष-उल्बणान् ॥४॥
vāsukeḥ kula-jān tāvat prādhānyena nibodha me . nīla-raktān sitān ghorān mahā-kāyān viṣa-ulbaṇān ..4..
कोटिको मानसः पूर्णः सहः पैलो हलीसकः । पिच्छिलः कोणपश्चक्रः कोणवेगः प्रकालनः ॥५॥
। पिच्छिलः कोणपः चक्रः कोणवेगः प्रकालनः ॥५॥
. picchilaḥ koṇapaḥ cakraḥ koṇavegaḥ prakālanaḥ ..5..
हिरण्यवाहः शरणः कक्षकः कालदन्तकः । एते वासुकिजा नागाः प्रविष्टा हव्यवाहनम् ॥६॥
हिरण्यवाहः शरणः कक्षकः कालदन्तकः । एते वासुकि-जाः नागाः प्रविष्टाः हव्यवाहनम् ॥६॥
hiraṇyavāhaḥ śaraṇaḥ kakṣakaḥ kāladantakaḥ . ete vāsuki-jāḥ nāgāḥ praviṣṭāḥ havyavāhanam ..6..
तक्षकस्य कुले जातान्प्रवक्ष्यामि निबोध तान् । पुच्छण्डको मण्डलकः पिण्डभेत्ता रभेणकः ॥७॥
तक्षकस्य कुले जातान् प्रवक्ष्यामि निबोध तान् । पुच्छण्डकः मण्डलकः पिण्डभेत्ता रभेणकः ॥७॥
takṣakasya kule jātān pravakṣyāmi nibodha tān . pucchaṇḍakaḥ maṇḍalakaḥ piṇḍabhettā rabheṇakaḥ ..7..
उच्छिखः सुरसो द्रङ्गो बलहेडो विरोहणः । शिलीशलकरो मूकः सुकुमारः प्रवेपनः ॥८॥
उच्छिखः सुरसः द्रङ्गः बलहेडः विरोहणः । शिली-शलकरः मूकः सुकुमारः प्रवेपनः ॥८॥
ucchikhaḥ surasaḥ draṅgaḥ balaheḍaḥ virohaṇaḥ . śilī-śalakaraḥ mūkaḥ sukumāraḥ pravepanaḥ ..8..
मुद्गरः शशरोमा च सुमना वेगवाहनः । एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम् ॥९॥
मुद्गरः शशरोमा च सुमनाः वेगवाहनः । एते तक्षक-जाः नागाः प्रविष्टाः हव्यवाहनम् ॥९॥
mudgaraḥ śaśaromā ca sumanāḥ vegavāhanaḥ . ete takṣaka-jāḥ nāgāḥ praviṣṭāḥ havyavāhanam ..9..
पारावतः पारियात्रः पाण्डरो हरिणः कृशः । विहङ्गः शरभो मोदः प्रमोदः संहताङ्गदः ॥१०॥
पारावतः पारियात्रः पाण्डरः हरिणः कृशः । ॥१०॥
pārāvataḥ pāriyātraḥ pāṇḍaraḥ hariṇaḥ kṛśaḥ . ..10..
ऐरावतकुलादेते प्रैविष्टा हव्यवाहनम् । कौरव्यकुलजान्नागाञ्शृणु मे द्विजसत्तम ॥११॥
ऐरावत-कुलात् एते प्रैविष्टाः हव्यवाहनम् । कौरव्य-कुल-जान् नागान् शृणु मे द्विजसत्तम ॥११॥
airāvata-kulāt ete praiviṣṭāḥ havyavāhanam . kauravya-kula-jān nāgān śṛṇu me dvijasattama ..11..
ऐण्डिलः कुण्डलो मुण्डो वेणिस्कन्धः कुमारकः । बाहुकः शृङ्गवेगश्च धूर्तकः पातपातरौ ॥१२॥
ऐण्डिलः कुण्डलः मुण्डः वेणिस्कन्धः कुमारकः । बाहुकः शृङ्गवेगः च धूर्तकः पात-पातरौ ॥१२॥
aiṇḍilaḥ kuṇḍalaḥ muṇḍaḥ veṇiskandhaḥ kumārakaḥ . bāhukaḥ śṛṅgavegaḥ ca dhūrtakaḥ pāta-pātarau ..12..
धृतराष्ट्रकुले जाताञ्शृणु नागान्यथातथम् । कीर्त्यमानान्मया ब्रह्मन्वातवेगान्विषोल्बणान् ॥१३॥
धृतराष्ट्र-कुले जातान् शृणु नागान् यथातथम् । कीर्त्यमानान् मया ब्रह्मन् वात-वेगान् विष-उल्बणान् ॥१३॥
dhṛtarāṣṭra-kule jātān śṛṇu nāgān yathātatham . kīrtyamānān mayā brahman vāta-vegān viṣa-ulbaṇān ..13..
शङ्कुकर्णः पिङ्गलकः कुठारमुखमेचकौ । पूर्णाङ्गदः पूर्णमुखः प्रहसः शकुनिर्हरिः ॥१४॥
शङ्कुकर्णः पिङ्गलकः कुठारमुख-मेचकौ । पूर्णाङ्गदः पूर्णमुखः प्रहसः शकुनिः हरिः ॥१४॥
śaṅkukarṇaḥ piṅgalakaḥ kuṭhāramukha-mecakau . pūrṇāṅgadaḥ pūrṇamukhaḥ prahasaḥ śakuniḥ hariḥ ..14..
आमाहठः कोमठकः श्वसनो मानवो वटः । भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोद्रपारगः ॥१५॥
। भैरवः मुण्डवेदाङ्गः पिशङ्गः च उद्रपारगः ॥१५॥
. bhairavaḥ muṇḍavedāṅgaḥ piśaṅgaḥ ca udrapāragaḥ ..15..
ऋषभो वेगवान्नाम पिण्डारकमहाहनू । रक्ताङ्गः सर्वसारङ्गः समृद्धः पाटराक्षसौ ॥१६॥
ऋषभः वेगवान् नाम पिण्डारक-महाहनू । रक्ताङ्गः सर्वसारङ्गः समृद्धः पाट-राक्षसौ ॥१६॥
ṛṣabhaḥ vegavān nāma piṇḍāraka-mahāhanū . raktāṅgaḥ sarvasāraṅgaḥ samṛddhaḥ pāṭa-rākṣasau ..16..
वराहको वारणकः सुमित्रश्चित्रवेदिकः । पराशरस्तरुणको मणिस्कन्धस्तथारुणिः ॥१७॥
वराहकः वारणकः सुमित्रः चित्रवेदिकः । पराशरः तरुणकः मणिस्कन्धः तथा अरुणिः ॥१७॥
varāhakaḥ vāraṇakaḥ sumitraḥ citravedikaḥ . parāśaraḥ taruṇakaḥ maṇiskandhaḥ tathā aruṇiḥ ..17..
इति नागा मया ब्रह्मन्कीर्तिताः कीर्तिवर्धनाः । प्राधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः ॥१८॥
इति नागाः मया ब्रह्मन् कीर्तिताः कीर्ति-वर्धनाः । प्राधान्येन बहु-त्वात् तु न सर्वे परिकीर्तिताः ॥१८॥
iti nāgāḥ mayā brahman kīrtitāḥ kīrti-vardhanāḥ . prādhānyena bahu-tvāt tu na sarve parikīrtitāḥ ..18..
एतेषां पुत्रपौत्रास्तु प्रसवस्य च सन्ततिः । न शक्याः परिसङ्ख्यातुं ये दीप्तं पावकं गताः ॥१९॥
एतेषाम् पुत्र-पौत्राः तु प्रसवस्य च सन्ततिः । न शक्याः परिसङ्ख्यातुम् ये दीप्तम् पावकम् गताः ॥१९॥
eteṣām putra-pautrāḥ tu prasavasya ca santatiḥ . na śakyāḥ parisaṅkhyātum ye dīptam pāvakam gatāḥ ..19..
सप्तशीर्षा द्विशीर्षाश्च पञ्चशीर्षास्तथापरे । कालानलविषा घोरा हुताः शतसहस्रशः ॥२०॥
सप्त-शीर्षाः द्वि-शीर्षाः च पञ्च-शीर्षाः तथा अपरे । काल-अनल-विषाः घोराः हुताः शत-सहस्रशस् ॥२०॥
sapta-śīrṣāḥ dvi-śīrṣāḥ ca pañca-śīrṣāḥ tathā apare . kāla-anala-viṣāḥ ghorāḥ hutāḥ śata-sahasraśas ..20..
महाकाया महावीर्याः शैलशृङ्गसमुच्छ्रयाः । योजनायामविस्तारा द्वियोजनसमायताः ॥२१॥
महा-कायाः महा-वीर्याः शैल-शृङ्ग-समुच्छ्रयाः । योजन-आयाम-विस्ताराः द्वि-योजन-समायताः ॥२१॥
mahā-kāyāḥ mahā-vīryāḥ śaila-śṛṅga-samucchrayāḥ . yojana-āyāma-vistārāḥ dvi-yojana-samāyatāḥ ..21..
कामरूपाः कामगमा दीप्तानलविषोल्बणाः । दग्धास्तत्र महासत्रे ब्रह्मदण्डनिपीडिताः ॥२२॥ 1.57.24
काम-रूपाः काम-गमाः दीप्त-अनल-विष-उल्बणाः । दग्धाः तत्र महा-सत्रे ब्रह्म-दण्ड-निपीडिताः ॥२२॥ १।५७।२४
kāma-rūpāḥ kāma-gamāḥ dīpta-anala-viṣa-ulbaṇāḥ . dagdhāḥ tatra mahā-satre brahma-daṇḍa-nipīḍitāḥ ..22.. 1.57.24

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In