| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
इदमत्यद्भुतं चान्यदास्तीकस्यानुशुश्रुमः । तथा वरैश्छन्द्यमाने राज्ञा पारिक्षितेन ह ॥१॥
इदम् अत्यद्भुतम् च अन्यत् आस्तीकस्य अनुशुश्रुमः । तथा वरैः छन्द्यमाने राज्ञा पारिक्षितेन ह ॥१॥
idam atyadbhutam ca anyat āstīkasya anuśuśrumaḥ . tathā varaiḥ chandyamāne rājñā pārikṣitena ha ..1..
इन्द्रहस्ताच्च्युतो नागः ख एव यदतिष्ठत । ततश्चिन्तापरो राजा बभूव जनमेजयः ॥२॥
इन्द्र-हस्तात् च्युतः नागः खे एव यत् अतिष्ठत । ततस् चिन्ता-परः राजा बभूव जनमेजयः ॥२॥
indra-hastāt cyutaḥ nāgaḥ khe eva yat atiṣṭhata . tatas cintā-paraḥ rājā babhūva janamejayaḥ ..2..
हूयमाने भृशं दीप्ते विधिवत्पावके तदा । न स्म स प्रापतद्वह्नौ तक्षको भयपीडितः ॥३॥
हूयमाने भृशम् दीप्ते विधिवत् पावके तदा । न स्म स प्रापतत् वह्नौ तक्षकः भय-पीडितः ॥३॥
hūyamāne bhṛśam dīpte vidhivat pāvake tadā . na sma sa prāpatat vahnau takṣakaḥ bhaya-pīḍitaḥ ..3..
शौनक उवाच॥
किं सूत तेषां विप्राणां मन्त्रग्रामो मनीषिणाम् । न प्रत्यभात्तदाग्नौ यन्न पपात स तक्षकः ॥४॥
किम् सूत तेषाम् विप्राणाम् मन्त्र-ग्रामः मनीषिणाम् । न प्रत्यभात् तदा अग्नौ यत् न पपात स तक्षकः ॥४॥
kim sūta teṣām viprāṇām mantra-grāmaḥ manīṣiṇām . na pratyabhāt tadā agnau yat na papāta sa takṣakaḥ ..4..
सूत उवाच॥
तमिन्द्रहस्ताद्विस्रस्तं विसञ्ज्ञं पन्नगोत्तमम् । आस्तीकस्तिष्ठ तिष्ठेति वाचस्तिस्रोऽभ्युदैरयत् ॥५॥
तम् इन्द्र-हस्तात् विस्रस्तम् विसञ्ज्ञम् पन्नग-उत्तमम् । आस्तीकः तिष्ठ तिष्ठ इति वाचः तिस्रः अभ्युदैरयत् ॥५॥
tam indra-hastāt visrastam visañjñam pannaga-uttamam . āstīkaḥ tiṣṭha tiṣṭha iti vācaḥ tisraḥ abhyudairayat ..5..
वितस्थे सोऽन्तरिक्षेऽथ हृदयेन विदूयता । यथा तिष्ठेत वै कश्चिद्गोचक्रस्यान्तरा नरः ॥६॥
वितस्थे सः अन्तरिक्षे अथ हृदयेन विदूयता । यथा तिष्ठेत वै कश्चिद् गो-चक्रस्य अन्तरा नरः ॥६॥
vitasthe saḥ antarikṣe atha hṛdayena vidūyatā . yathā tiṣṭheta vai kaścid go-cakrasya antarā naraḥ ..6..
ततो राजाब्रवीद्वाक्यं सदस्यैश्चोदितो भृशम् । काममेतद्भवत्वेवं यथास्तीकस्य भाषितम् ॥७॥
ततस् राजा अब्रवीत् वाक्यम् सदस्यैः चोदितः भृशम् । कामम् एतत् भवतु एवम् यथा आस्तीकस्य भाषितम् ॥७॥
tatas rājā abravīt vākyam sadasyaiḥ coditaḥ bhṛśam . kāmam etat bhavatu evam yathā āstīkasya bhāṣitam ..7..
समाप्यतामिदं कर्म पन्नगाः सन्त्वनामयाः । प्रीयतामयमास्तीकः सत्यं सूतवचोऽस्तु तत् ॥८॥
समाप्यताम् इदम् कर्म पन्नगाः सन्तु अनामयाः । प्रीयताम् अयम् आस्तीकः सत्यम् सूत-वचः अस्तु तत् ॥८॥
samāpyatām idam karma pannagāḥ santu anāmayāḥ . prīyatām ayam āstīkaḥ satyam sūta-vacaḥ astu tat ..8..
ततो हलहलाशब्दः प्रीतिजः समवर्तत । आस्तीकस्य वरे दत्ते तथैवोपरराम च ॥९॥
ततस् हलहला शब्दः प्रीति-जः समवर्तत । आस्तीकस्य वरे दत्ते तथा एव उपरराम च ॥९॥
tatas halahalā śabdaḥ prīti-jaḥ samavartata . āstīkasya vare datte tathā eva upararāma ca ..9..
स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह । प्रीतिमांश्चाभवद्राजा भारतो जनमेजयः ॥१०॥
स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह । प्रीतिमान् च अभवत् राजा भारतः जनमेजयः ॥१०॥
sa yajñaḥ pāṇḍaveyasya rājñaḥ pārikṣitasya ha . prītimān ca abhavat rājā bhārataḥ janamejayaḥ ..10..
ऋत्विग्भ्यः ससदस्येभ्यो ये तत्रासन्समागताः । तेभ्यश्च प्रददौ वित्तं शतशोऽथ सहस्रशः ॥११॥
ऋत्विग्भ्यः ससदस्येभ्यः ये तत्र आसन् समागताः । तेभ्यः च प्रददौ वित्तम् शतशस् अथ सहस्रशस् ॥११॥
ṛtvigbhyaḥ sasadasyebhyaḥ ye tatra āsan samāgatāḥ . tebhyaḥ ca pradadau vittam śataśas atha sahasraśas ..11..
लोहिताक्षाय सूताय तथा स्थपतये विभुः । येनोक्तं तत्र सत्राग्रे यज्ञस्य विनिवर्तनम् ॥१२॥
लोहिताक्षाय सूताय तथा स्थपतये विभुः । येन उक्तम् तत्र सत्र-अग्रे यज्ञस्य विनिवर्तनम् ॥१२॥
lohitākṣāya sūtāya tathā sthapataye vibhuḥ . yena uktam tatra satra-agre yajñasya vinivartanam ..12..
निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहु । ततश्चकारावभृथं विधिदृष्टेन कर्मणा ॥१३॥
निमित्तम् ब्राह्मणः इति तस्मै वित्तम् ददौ बहु । ततस् चकार अवभृथम् विधि-दृष्टेन कर्मणा ॥१३॥
nimittam brāhmaṇaḥ iti tasmai vittam dadau bahu . tatas cakāra avabhṛtham vidhi-dṛṣṭena karmaṇā ..13..
आस्तीकं प्रेषयामास गृहानेव सुसत्कृतम् । राजा प्रीतमनाः प्रीतं कृतकृत्यं मनीषिणम् ॥१४॥
आस्तीकम् प्रेषयामास गृहान् एव सु सत्कृतम् । राजा प्रीत-मनाः प्रीतम् कृतकृत्यम् मनीषिणम् ॥१४॥
āstīkam preṣayāmāsa gṛhān eva su satkṛtam . rājā prīta-manāḥ prītam kṛtakṛtyam manīṣiṇam ..14..
पुनरागमनं कार्यमिति चैनं वचोऽब्रवीत् । भविष्यसि सदस्यो मे वाजिमेधे महाक्रतौ ॥१५॥
पुनरागमनम् कार्यम् इति च एनम् वचः अब्रवीत् । भविष्यसि सदस्यः मे वाजिमेधे महा-क्रतौ ॥१५॥
punarāgamanam kāryam iti ca enam vacaḥ abravīt . bhaviṣyasi sadasyaḥ me vājimedhe mahā-kratau ..15..
तथेत्युक्त्वा प्रदुद्राव स चास्तीको मुदा युतः । कृत्वा स्वकार्यमतुलं तोषयित्वा च पार्थिवम् ॥१६॥
तथा इति उक्त्वा प्रदुद्राव स च आस्तीकः मुदा युतः । कृत्वा स्व-कार्यम् अतुलम् तोषयित्वा च पार्थिवम् ॥१६॥
tathā iti uktvā pradudrāva sa ca āstīkaḥ mudā yutaḥ . kṛtvā sva-kāryam atulam toṣayitvā ca pārthivam ..16..
स गत्वा परमप्रीतो मातरं मातुलं च तम् । अभिगम्योपसङ्गृह्य यथावृत्तं न्यवेदयत् ॥१७॥
स गत्वा परम-प्रीतः मातरम् मातुलम् च तम् । अभिगम्य उपसङ्गृह्य यथावृत्तम् न्यवेदयत् ॥१७॥
sa gatvā parama-prītaḥ mātaram mātulam ca tam . abhigamya upasaṅgṛhya yathāvṛttam nyavedayat ..17..
एतच्छ्रुत्वा प्रीयमाणाः समेता; ये तत्रासन्पन्नगा वीतमोहाः । तेऽऽस्तीके वै प्रीतिमन्तो बभूवु; रूचुश्चैनं वरमिष्टं वृणीष्व ॥१८॥
एतत् श्रुत्वा प्रीयमाणाः समेता; ये तत्र आसन् पन्नगाः वीत-मोहाः । ते आस्तीके वै प्रीतिमन्तः बभूवुः; रूचुः च एनम् वरम् इष्टम् वृणीष्व ॥१८॥
etat śrutvā prīyamāṇāḥ sametā; ye tatra āsan pannagāḥ vīta-mohāḥ . te āstīke vai prītimantaḥ babhūvuḥ; rūcuḥ ca enam varam iṣṭam vṛṇīṣva ..18..
भूयो भूयः सर्वशस्तेऽब्रुवंस्तं; किं ते प्रियं करवामोऽद्य विद्वन् । प्रीता वयं मोक्षिताश्चैव सर्वे; कामं किं ते करवामोऽद्य वत्स ॥१९॥
भूयस् भूयस् सर्वशस् ते अब्रुवन् तम्; किम् ते प्रियम् करवामः अद्य विद्वन् । प्रीताः वयम् मोक्षिताः च एव सर्वे; कामम् किम् ते करवामः अद्य वत्स ॥१९॥
bhūyas bhūyas sarvaśas te abruvan tam; kim te priyam karavāmaḥ adya vidvan . prītāḥ vayam mokṣitāḥ ca eva sarve; kāmam kim te karavāmaḥ adya vatsa ..19..
आस्तीक उवाच॥
सायं प्रातः सुप्रसन्नात्मरूपा; लोके विप्रा मानवाश्चेतरेऽपि । धर्माख्यानं ये वदेयुर्ममेदं; तेषां युष्मद्भ्यो नैव किञ्चिद्भयं स्यात् ॥२०॥
सायम् प्रातर् सु प्रसन्न-आत्म-रूपा; लोके विप्राः मानवाः च इतरे अपि । धर्म-आख्यानम् ये वदेयुः मम इदम्; तेषाम् युष्मद्भ्यः न एव किञ्चिद् भयम् स्यात् ॥२०॥
sāyam prātar su prasanna-ātma-rūpā; loke viprāḥ mānavāḥ ca itare api . dharma-ākhyānam ye vadeyuḥ mama idam; teṣām yuṣmadbhyaḥ na eva kiñcid bhayam syāt ..20..
सूत उवाच॥
तैश्चाप्युक्तो भागिनेयः प्रसन्नै; रेतत्सत्यं काममेवं चरन्तः । प्रीत्या युक्ता ईप्सितं सर्वशस्ते; कर्तारः स्म प्रवणा भागिनेय ॥२१॥
तैः च अपि उक्तः भागिनेयः; रेतत् सत्यम् कामम् एवम् चरन्तः । प्रीत्या युक्ताः ईप्सितम् सर्वशस् ते; कर्तारः स्म प्रवणाः भागिनेय ॥२१॥
taiḥ ca api uktaḥ bhāgineyaḥ; retat satyam kāmam evam carantaḥ . prītyā yuktāḥ īpsitam sarvaśas te; kartāraḥ sma pravaṇāḥ bhāgineya ..21..
जरत्कारोर्जरत्कार्वां समुत्पन्नो महायशाः । आस्तीकः सत्यसन्धो मां पन्नगेभ्योऽभिरक्षतु ॥२२॥
जरत्कारोः जरत्कार्वाम् समुत्पन्नः महा-यशाः । आस्तीकः सत्य-सन्धः माम् पन्नगेभ्यः अभिरक्षतु ॥२२॥
jaratkāroḥ jaratkārvām samutpannaḥ mahā-yaśāḥ . āstīkaḥ satya-sandhaḥ mām pannagebhyaḥ abhirakṣatu ..22..
असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत् । दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत् ॥२३॥1.58.23
असितम् च आर्तिमन्तम् च सुनीथम् च अपि यः स्मरेत् । दिवा वा यदि वा रात्रौ न अस्य सर्प-भयम् भवेत् ॥२३॥१।५८।२३
asitam ca ārtimantam ca sunītham ca api yaḥ smaret . divā vā yadi vā rātrau na asya sarpa-bhayam bhavet ..23..1.58.23
सूत उवाच॥
मोक्षयित्वा स भुजगान्सर्पसत्राद्द्विजोत्तमः । जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान् ॥२४॥1.58.28
मोक्षयित्वा स भुजगान् सर्प-सत्रात् द्विजोत्तमः । जगाम काले धर्म-आत्मा दिष्टान्तम् पुत्र-पौत्रवान् ॥२४॥१।५८।२८
mokṣayitvā sa bhujagān sarpa-satrāt dvijottamaḥ . jagāma kāle dharma-ātmā diṣṭāntam putra-pautravān ..24..1.58.28
इत्याख्यानं मयास्तीकं यथावत्कीर्तितं तव । यत्कीर्तयित्वा सर्पेभ्यो न भयं विद्यते क्वचित् ॥२५॥
इति आख्यानम् मया आस्तीकम् यथावत् कीर्तितम् तव । यत् कीर्तयित्वा सर्पेभ्यः न भयम् विद्यते क्वचिद् ॥२५॥
iti ākhyānam mayā āstīkam yathāvat kīrtitam tava . yat kīrtayitvā sarpebhyaḥ na bhayam vidyate kvacid ..25..
श्रुत्वा धर्मिष्ठमाख्यानमास्तीकं पुण्यवर्धनम् । आस्तीकस्य कवेर्विप्र श्रीमच्चरितमादितः ॥२६॥ 1.58.32
श्रुत्वा धर्मिष्ठम् आख्यानम् आस्तीकम् पुण्य-वर्धनम् । आस्तीकस्य कवेः विप्र श्रीमत्-चरितम् आदितस् ॥२६॥ १।५८।३२
śrutvā dharmiṣṭham ākhyānam āstīkam puṇya-vardhanam . āstīkasya kaveḥ vipra śrīmat-caritam āditas ..26.. 1.58.32
शौनक उवाच॥
भृगुवंशात्प्रभृत्येव त्वया मे कथितं महत् । आख्यानमखिलं तात सौते प्रीतोऽस्मि तेन ते ॥२७॥1.59.1
भृगु-वंशात् प्रभृति एव त्वया मे कथितम् महत् । आख्यानम् अखिलम् तात सौते प्रीतः अस्मि तेन ते ॥२७॥१।५९।१
bhṛgu-vaṃśāt prabhṛti eva tvayā me kathitam mahat . ākhyānam akhilam tāta saute prītaḥ asmi tena te ..27..1.59.1
प्रक्ष्यामि चैव भूयस्त्वां यथावत्सूतनन्दन । यां कथां व्याससम्पन्नां तां च भूयः प्रचक्ष्व मे ॥२८॥
प्रक्ष्यामि च एव भूयस् त्वाम् यथावत् सूत-नन्दन । याम् कथाम् व्यास-सम्पन्नाम् ताम् च भूयस् प्रचक्ष्व मे ॥२८॥
prakṣyāmi ca eva bhūyas tvām yathāvat sūta-nandana . yām kathām vyāsa-sampannām tām ca bhūyas pracakṣva me ..28..
तस्मिन्परमदुष्प्रापे सर्पसत्रे महात्मनाम् । कर्मान्तरेषु विधिवत्सदस्यानां महाकवे ॥२९॥
तस्मिन् परम-दुष्प्रापे सर्प-सत्रे महात्मनाम् । कर्म-अन्तरेषु विधिवत् सदस्यानाम् महा-कवे ॥२९॥
tasmin parama-duṣprāpe sarpa-satre mahātmanām . karma-antareṣu vidhivat sadasyānām mahā-kave ..29..
या बभूवुः कथाश्चित्रा येष्वर्थेषु यथातथम् । त्वत्त इच्छामहे श्रोतुं सौते त्वं वै विचक्षणः ॥३०॥
याः बभूवुः कथाः चित्राः येषु अर्थेषु यथातथम् । त्वत्तः इच्छामहे श्रोतुम् सौते त्वम् वै विचक्षणः ॥३०॥
yāḥ babhūvuḥ kathāḥ citrāḥ yeṣu artheṣu yathātatham . tvattaḥ icchāmahe śrotum saute tvam vai vicakṣaṇaḥ ..30..
सूत उवाच॥
कर्मान्तरेष्वकथयन्द्विजा वेदाश्रयाः कथाः । व्यासस्त्वकथयन्नित्यमाख्यानं भारतं महत् ॥३१॥
कर्म-अन्तरेषु अकथयन् द्विजाः वेद-आश्रयाः कथाः । व्यासः तु अकथयत् नित्यम् आख्यानम् भारतम् महत् ॥३१॥
karma-antareṣu akathayan dvijāḥ veda-āśrayāḥ kathāḥ . vyāsaḥ tu akathayat nityam ākhyānam bhāratam mahat ..31..
शौनक उवाच॥
महाभारतमाख्यानं पाण्डवानां यशस्करम् । जनमेजयेन यत्पृष्टः कृष्णद्वैपायनस्तदा ॥३२॥
महाभारतम् आख्यानम् पाण्डवानाम् यशस्करम् । जनमेजयेन यत् पृष्टः कृष्णद्वैपायनः तदा ॥३२॥
mahābhāratam ākhyānam pāṇḍavānām yaśaskaram . janamejayena yat pṛṣṭaḥ kṛṣṇadvaipāyanaḥ tadā ..32..
श्रावयामास विधिवत्तदा कर्मान्तरेषु सः । तामहं विधिवत्पुण्यां श्रोतुमिच्छामि वै कथाम् ॥३३॥
श्रावयामास विधिवत् तदा कर्म-अन्तरेषु सः । ताम् अहम् विधिवत् पुण्याम् श्रोतुम् इच्छामि वै कथाम् ॥३३॥
śrāvayāmāsa vidhivat tadā karma-antareṣu saḥ . tām aham vidhivat puṇyām śrotum icchāmi vai kathām ..33..
मनःसागरसम्भूतां महर्षेः पुण्यकर्मणः । कथयस्व सतां श्रेष्ठ न हि तृप्यामि सूतज ॥३४॥
मनः-सागर-सम्भूताम् महा-ऋषेः पुण्य-कर्मणः । कथयस्व सताम् श्रेष्ठ न हि तृप्यामि सूतज ॥३४॥
manaḥ-sāgara-sambhūtām mahā-ṛṣeḥ puṇya-karmaṇaḥ . kathayasva satām śreṣṭha na hi tṛpyāmi sūtaja ..34..
सूत उवाच॥
हन्त ते कथयिष्यामि महदाख्यानमुत्तमम् । कृष्णद्वैपायनमतं महाभारतमादितः ॥३५॥
हन्त ते कथयिष्यामि महत् आख्यानम् उत्तमम् । कृष्णद्वैपायन-मतम् महाभारतम् आदितः ॥३५॥
hanta te kathayiṣyāmi mahat ākhyānam uttamam . kṛṣṇadvaipāyana-matam mahābhāratam āditaḥ ..35..
तज्जुषस्वोत्तममते कथ्यमानं मया द्विज । शंसितुं तन्मनोहर्षो ममापीह प्रवर्तते ॥३६॥ 1.59.10
तत् जुषस्व उत्तम-मते कथ्यमानम् मया द्विज । शंसितुम् तत् मनः-हर्षः मम अपि इह प्रवर्तते ॥३६॥ १।५९।१०
tat juṣasva uttama-mate kathyamānam mayā dvija . śaṃsitum tat manaḥ-harṣaḥ mama api iha pravartate ..36.. 1.59.10

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In