| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम् । अभ्यागच्छदृषिर्विद्वान्कृष्णद्वैपायनस्तदा ॥१॥
श्रुत्वा तु सर्प-सत्राय दीक्षितम् जनमेजयम् । अभ्यागच्छत् ऋषिः विद्वान् कृष्णद्वैपायनः तदा ॥१॥
śrutvā tu sarpa-satrāya dīkṣitam janamejayam . abhyāgacchat ṛṣiḥ vidvān kṛṣṇadvaipāyanaḥ tadā ..1..
जनयामास यं काली शक्तेः पुत्रात्पराशरात् । कन्यैव यमुनाद्वीपे पाण्डवानां पितामहम् ॥२॥
जनयामास यम् काली शक्तेः पुत्रात् पराशरात् । कन्या एव यमुना-द्वीपे पाण्डवानाम् पितामहम् ॥२॥
janayāmāsa yam kālī śakteḥ putrāt parāśarāt . kanyā eva yamunā-dvīpe pāṇḍavānām pitāmaham ..2..
जातमात्रश्च यः सद्य इष्ट्या देहमवीवृधत् । वेदांश्चाधिजगे साङ्गान्सेतिहासान्महायशाः ॥३॥
जात-मात्रः च यः सद्यस् इष्ट्या देहम् अवीवृधत् । वेदान् च अधिजगे स अङ्गान् स इतिहासान् महा-यशाः ॥३॥
jāta-mātraḥ ca yaḥ sadyas iṣṭyā deham avīvṛdhat . vedān ca adhijage sa aṅgān sa itihāsān mahā-yaśāḥ ..3..
यं नातितपसा कश्चिन्न वेदाध्ययनेन च । न व्रतैर्नोपवासैश्च न प्रसूत्या न मन्युना ॥४॥
यम् न अति तपसा कश्चिद् न वेद-अध्ययनेन च । न व्रतैः न उपवासैः च न प्रसूत्या न मन्युना ॥४॥
yam na ati tapasā kaścid na veda-adhyayanena ca . na vrataiḥ na upavāsaiḥ ca na prasūtyā na manyunā ..4..
विव्यासैकं चतुर्धा यो वेदं वेदविदां वरः । परावरज्ञो ब्रह्मर्षिः कविः सत्यव्रतः शुचिः ॥५॥
चतुर्धा यः वेदम् वेद-विदाम् वरः । परावर-ज्ञः ब्रह्मर्षिः कविः सत्य-व्रतः शुचिः ॥५॥
caturdhā yaḥ vedam veda-vidām varaḥ . parāvara-jñaḥ brahmarṣiḥ kaviḥ satya-vrataḥ śuciḥ ..5..
यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्यजीजनत् । शन्तनोः सन्ततिं तन्वन्पुण्यकीर्तिर्महायशाः ॥६॥
यः पाण्डुम् धृतराष्ट्रम् च विदुरम् च अपि अजीजनत् । शन्तनोः सन्ततिम् तन्वन् पुण्य-कीर्तिः महा-यशाः ॥६॥
yaḥ pāṇḍum dhṛtarāṣṭram ca viduram ca api ajījanat . śantanoḥ santatim tanvan puṇya-kīrtiḥ mahā-yaśāḥ ..6..
जनमेजयस्य राजर्षेः स तद्यज्ञसदस्तदा । विवेश शिष्यैः सहितो वेदवेदाङ्गपारगैः ॥७॥
जनमेजयस्य राजर्षेः स तत् यज्ञ-सदः तदा । विवेश शिष्यैः सहितः वेद-वेदाङ्ग-पारगैः ॥७॥
janamejayasya rājarṣeḥ sa tat yajña-sadaḥ tadā . viveśa śiṣyaiḥ sahitaḥ veda-vedāṅga-pāragaiḥ ..7..
तत्र राजानमासीनं ददर्श जनमेजयम् । वृतं सदस्यैर्बहुभिर्देवैरिव पुरंदरम् ॥८॥
तत्र राजानम् आसीनम् ददर्श जनमेजयम् । वृतम् सदस्यैः बहुभिः देवैः इव पुरंदरम् ॥८॥
tatra rājānam āsīnam dadarśa janamejayam . vṛtam sadasyaiḥ bahubhiḥ devaiḥ iva puraṃdaram ..8..
तथा मूर्धावसिक्तैश्च नानाजनपदेश्वरैः । ऋत्विग्भिर्देवकल्पैश्च कुशलैर्यज्ञसंस्तरे ॥९॥
तथा मूर्धावसिक्तैः च नाना जनपद-ईश्वरैः । ऋत्विग्भिः देव-कल्पैः च कुशलैः यज्ञ-संस्तरे ॥९॥
tathā mūrdhāvasiktaiḥ ca nānā janapada-īśvaraiḥ . ṛtvigbhiḥ deva-kalpaiḥ ca kuśalaiḥ yajña-saṃstare ..9..
जनमेजयस्तु राजर्षिर्दृष्ट्वा तमृषिमागतम् । सगणोऽब्युद्ययौ तूर्णं प्रीत्या भरतसत्तमः ॥१०॥
जनमेजयः तु राजर्षिः दृष्ट्वा तम् ऋषिम् आगतम् । स गणः अब्युद्ययौ तूर्णम् प्रीत्या भरत-सत्तमः ॥१०॥
janamejayaḥ tu rājarṣiḥ dṛṣṭvā tam ṛṣim āgatam . sa gaṇaḥ abyudyayau tūrṇam prītyā bharata-sattamaḥ ..10..
काञ्चनं विष्टरं तस्मै सदस्यानुमते प्रभुः । आसनं कल्पयामास यथा शक्रो बृहस्पतेः ॥११॥
काञ्चनम् विष्टरम् तस्मै सदस्य-अनुमते प्रभुः । आसनम् कल्पयामास यथा शक्रः बृहस्पतेः ॥११॥
kāñcanam viṣṭaram tasmai sadasya-anumate prabhuḥ . āsanam kalpayāmāsa yathā śakraḥ bṛhaspateḥ ..11..
तत्रोपविष्टं वरदं देवर्षिगणपूजितम् । पूजयामास राजेन्द्रः शास्त्रदृष्टेन कर्मणा ॥१२॥
तत्र उपविष्टम् वर-दम् देव-ऋषि-गण-पूजितम् । पूजयामास राज-इन्द्रः शास्त्र-दृष्टेन कर्मणा ॥१२॥
tatra upaviṣṭam vara-dam deva-ṛṣi-gaṇa-pūjitam . pūjayāmāsa rāja-indraḥ śāstra-dṛṣṭena karmaṇā ..12..
पाद्यमाचमनीयं च अर्घ्यं गां च विधानतः । पितामहाय कृष्णाय तदर्हाय न्यवेदयत् ॥१३॥
पाद्यम् आचमनीयम् च अर्घ्यम् गाम् च विधानतः । पितामहाय कृष्णाय तद्-अर्हाय न्यवेदयत् ॥१३॥
pādyam ācamanīyam ca arghyam gām ca vidhānataḥ . pitāmahāya kṛṣṇāya tad-arhāya nyavedayat ..13..
प्रतिगृह्य च तां पूजां पाण्डवाज्जनमेजयात् । गां चैव समनुज्ञाय व्यासः प्रीतोऽभवत्तदा ॥१४॥
प्रतिगृह्य च ताम् पूजाम् पाण्डवात् जनमेजयात् । गाम् च एव समनुज्ञाय व्यासः प्रीतः अभवत् तदा ॥१४॥
pratigṛhya ca tām pūjām pāṇḍavāt janamejayāt . gām ca eva samanujñāya vyāsaḥ prītaḥ abhavat tadā ..14..
तथा सम्पूजयित्वा तं यत्नेन प्रपितामहम् । उपोपविश्य प्रीतात्मा पर्यपृच्छदनामयम् ॥१५॥
तथा सम्पूजयित्वा तम् यत्नेन प्रपितामहम् । उपोपविश्य प्रीत-आत्मा पर्यपृच्छत् अनामयम् ॥१५॥
tathā sampūjayitvā tam yatnena prapitāmaham . upopaviśya prīta-ātmā paryapṛcchat anāmayam ..15..
भगवानपि तं दृष्ट्वा कुशलं प्रतिवेद्य च । सदस्यैः पूजितः सर्वैः सदस्यानभ्यपूजयत् ॥१६॥
भगवान् अपि तम् दृष्ट्वा कुशलम् प्रतिवेद्य च । सदस्यैः पूजितः सर्वैः सदस्यान् अभ्यपूजयत् ॥१६॥
bhagavān api tam dṛṣṭvā kuśalam prativedya ca . sadasyaiḥ pūjitaḥ sarvaiḥ sadasyān abhyapūjayat ..16..
ततस्तं सत्कृतं सर्वैः सदस्यैर्जनमेजयः । इदं पश्चाद्द्विजश्रेष्ठं पर्यपृच्छत्कृताञ्जलिः ॥१७॥
ततस् तम् सत्कृतम् सर्वैः सदस्यैः जनमेजयः । इदम् पश्चात् द्विजश्रेष्ठम् पर्यपृच्छत् कृताञ्जलिः ॥१७॥
tatas tam satkṛtam sarvaiḥ sadasyaiḥ janamejayaḥ . idam paścāt dvijaśreṣṭham paryapṛcchat kṛtāñjaliḥ ..17..
कुरूणां पाण्डवानां च भवान्प्रत्यक्षदर्शिवान् । तेषां चरितमिच्छामि कथ्यमानं त्वया द्विज ॥१८॥
कुरूणाम् पाण्डवानाम् च भवान् प्रत्यक्ष-दर्शिवान् । तेषाम् चरितम् इच्छामि कथ्यमानम् त्वया द्विज ॥१८॥
kurūṇām pāṇḍavānām ca bhavān pratyakṣa-darśivān . teṣām caritam icchāmi kathyamānam tvayā dvija ..18..
कथं समभवद्भेदस्तेषामक्लिष्टकर्मणाम् । तच्च युद्धं कथं वृत्तं भूतान्तकरणं महत् ॥१९॥
कथम् समभवत् भेदः तेषाम् अक्लिष्ट-कर्मणाम् । तत् च युद्धम् कथम् वृत्तम् भूत-अन्त-करणम् महत् ॥१९॥
katham samabhavat bhedaḥ teṣām akliṣṭa-karmaṇām . tat ca yuddham katham vṛttam bhūta-anta-karaṇam mahat ..19..
पितामहानां सर्वेषां दैवेनाविष्टचेतसाम् । कार्त्स्न्येनैतत्समाचक्ष्व भगवन्कुशलो ह्यसि ॥२०॥
पितामहानाम् सर्वेषाम् दैवेन आविष्ट-चेतसाम् । कार्त्स्न्येन एतत् समाचक्ष्व भगवन् कुशलः हि असि ॥२०॥
pitāmahānām sarveṣām daivena āviṣṭa-cetasām . kārtsnyena etat samācakṣva bhagavan kuśalaḥ hi asi ..20..
तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा । शशास शिष्यमासीनं वैशम्पायनमन्तिके ॥२१॥
तस्य तत् वचनम् श्रुत्वा कृष्णद्वैपायनः तदा । शशास शिष्यम् आसीनम् वैशम्पायनम् अन्तिके ॥२१॥
tasya tat vacanam śrutvā kṛṣṇadvaipāyanaḥ tadā . śaśāsa śiṣyam āsīnam vaiśampāyanam antike ..21..
कुरूणां पाण्डवानां च यथा भेदोऽभवत्पुरा । तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि ॥२२॥
कुरूणाम् पाण्डवानाम् च यथा भेदः अभवत् पुरा । तत् अस्मै सर्वम् आचक्ष्व यत् मत्तः श्रुतवान् असि ॥२२॥
kurūṇām pāṇḍavānām ca yathā bhedaḥ abhavat purā . tat asmai sarvam ācakṣva yat mattaḥ śrutavān asi ..22..
गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा । आचचक्षे ततः सर्वमितिहासं पुरातनम् ॥२३॥
गुरोः वचनम् आज्ञाय स तु विप्र-ऋषभः तदा । आचचक्षे ततस् सर्वम् इतिहासम् पुरातनम् ॥२३॥
guroḥ vacanam ājñāya sa tu vipra-ṛṣabhaḥ tadā . ācacakṣe tatas sarvam itihāsam purātanam ..23..
तस्मै राज्ञे सदस्येभ्यः क्षत्रियेभ्यश्च सर्वशः । भेदं राज्यविनाशं च कुरुपाण्डवयोस्तदा ॥२४॥1.60.24
तस्मै राज्ञे सदस्येभ्यः क्षत्रियेभ्यः च सर्वशस् । भेदम् राज्य-विनाशम् च कुरु-पाण्डवयोः तदा ॥२४॥१।६०।२४
tasmai rājñe sadasyebhyaḥ kṣatriyebhyaḥ ca sarvaśas . bhedam rājya-vināśam ca kuru-pāṇḍavayoḥ tadā ..24..1.60.24

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In