| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
गुरवे प्राङ्नमस्कृत्य मनोबुद्धिसमाधिभिः । सम्पूज्य च द्विजान्सर्वांस्तथान्यान्विदुषो जनान् ॥१॥
गुरवे प्राक् नमस्कृत्य मनः-बुद्धि-समाधिभिः । सम्पूज्य च द्विजान् सर्वान् तथा अन्यान् विदुषः जनान् ॥१॥
gurave prāk namaskṛtya manaḥ-buddhi-samādhibhiḥ . sampūjya ca dvijān sarvān tathā anyān viduṣaḥ janān ..1..
महर्षेः सर्वलोकेषु विश्रुतस्यास्य धीमतः । प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥२॥
महा-ऋषेः सर्व-लोकेषु विश्रुतस्य अस्य धीमतः । प्रवक्ष्यामि मतम् कृत्स्नम् व्यासस्य अमित-तेजसः ॥२॥
mahā-ṛṣeḥ sarva-lokeṣu viśrutasya asya dhīmataḥ . pravakṣyāmi matam kṛtsnam vyāsasya amita-tejasaḥ ..2..
श्रोतुं पात्रं च राजंस्त्वं प्राप्येमां भारतीं कथाम् । गुरोर्वक्तुं परिस्पन्दो मुदा प्रोत्साहतीव माम् ॥३॥
श्रोतुम् पात्रम् च राजन् त्वम् प्राप्य इमाम् भारतीम् कथाम् । गुरोः वक्तुम् परिस्पन्दः मुदा प्रोत्साहति इव माम् ॥३॥
śrotum pātram ca rājan tvam prāpya imām bhāratīm kathām . guroḥ vaktum parispandaḥ mudā protsāhati iva mām ..3..
शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत् । राज्यार्थे द्यूतसम्भूतो वनवासस्तथैव च ॥४॥
शृणु राजन् यथा भेदः कुरु-पाण्डवयोः अभूत् । राज्य-अर्थे द्यूत-सम्भूतः वन-वासः तथा एव च ॥४॥
śṛṇu rājan yathā bhedaḥ kuru-pāṇḍavayoḥ abhūt . rājya-arthe dyūta-sambhūtaḥ vana-vāsaḥ tathā eva ca ..4..
यथा च युद्धमभवत्पृथिवीक्षयकारकम् । तत्तेऽहं सम्प्रवक्ष्यामि पृच्छते भरतर्षभ ॥५॥
यथा च युद्धम् अभवत् पृथिवी-क्षय-कारकम् । तत् ते अहम् सम्प्रवक्ष्यामि पृच्छते भरत-ऋषभ ॥५॥
yathā ca yuddham abhavat pṛthivī-kṣaya-kārakam . tat te aham sampravakṣyāmi pṛcchate bharata-ṛṣabha ..5..
मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम् । नचिरादिव विद्वांसो वेदे धनुषि चाभवन् ॥६॥
मृते पितरि ते वीराः वनात् एत्य स्व-मन्दिरम् । नचिरात् इव विद्वांसः वेदे धनुषि च अभवन् ॥६॥
mṛte pitari te vīrāḥ vanāt etya sva-mandiram . nacirāt iva vidvāṃsaḥ vede dhanuṣi ca abhavan ..6..
तांस्तथा रूपवीर्यौजःसम्पन्नान्पौरसंमतान् । नामृष्यन्कुरवो दृष्ट्वा पाण्डवाञ्श्रीयशोभृतः ॥७॥
तान् तथा रूप-वीर्य-ओजः-सम्पन्नान् पौर-संमतान् । न अ मृष्यन् कुरवः दृष्ट्वा पाण्डवान् श्री-यशः-भृतः ॥७॥
tān tathā rūpa-vīrya-ojaḥ-sampannān paura-saṃmatān . na a mṛṣyan kuravaḥ dṛṣṭvā pāṇḍavān śrī-yaśaḥ-bhṛtaḥ ..7..
ततो दुर्योधनः क्रूरः कर्णश्च सहसौबलः । तेषां निग्रहनिर्वासान्विविधांस्ते समाचरन् ॥८॥
ततस् दुर्योधनः क्रूरः कर्णः च सह सौबलः । तेषाम् निग्रह-निर्वासान् विविधान् ते समाचरन् ॥८॥
tatas duryodhanaḥ krūraḥ karṇaḥ ca saha saubalaḥ . teṣām nigraha-nirvāsān vividhān te samācaran ..8..
ददावथ विषं पापो भीमाय धृतराष्ट्रजः । जरयामास तद्वीरः सहान्नेन वृकोदरः ॥९॥
ददौ अथ विषम् पापः भीमाय धृतराष्ट्र-जः । जरयामास तत् वीरः सह अन्नेन वृकोदरः ॥९॥
dadau atha viṣam pāpaḥ bhīmāya dhṛtarāṣṭra-jaḥ . jarayāmāsa tat vīraḥ saha annena vṛkodaraḥ ..9..
प्रमाणकोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरम् । तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत् ॥१०॥
प्रमाणकोट्याम् संसुप्तम् पुनर् बद्ध्वा वृकोदरम् । तोयेषु भीमम् गङ्गायाः प्रक्षिप्य पुरम् आव्रजत् ॥१०॥
pramāṇakoṭyām saṃsuptam punar baddhvā vṛkodaram . toyeṣu bhīmam gaṅgāyāḥ prakṣipya puram āvrajat ..10..
यदा प्रबुद्धः कौन्तेयस्तदा सञ्छिद्य बन्धनम् । उदतिष्ठन्महाराज भीमसेनो गतव्यथः ॥११॥
यदा प्रबुद्धः कौन्तेयः तदा सञ्छिद्य बन्धनम् । उदतिष्ठत् महा-राज भीमसेनः गत-व्यथः ॥११॥
yadā prabuddhaḥ kaunteyaḥ tadā sañchidya bandhanam . udatiṣṭhat mahā-rāja bhīmasenaḥ gata-vyathaḥ ..11..
आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत् । सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा ॥१२॥
आशीविषैः कृष्ण-सर्पैः सुप्तम् च एनम् अदंशयत् । सर्वेषु एव अङ्ग-देशेषु न ममार च शत्रु-हा ॥१२॥
āśīviṣaiḥ kṛṣṇa-sarpaiḥ suptam ca enam adaṃśayat . sarveṣu eva aṅga-deśeṣu na mamāra ca śatru-hā ..12..
तेषां तु विप्रकारेषु तेषु तेषु महामतिः । मोक्षणे प्रतिघाते च विदुरोऽवहितोऽभवत् ॥१३॥
तेषाम् तु विप्रकारेषु तेषु तेषु महामतिः । मोक्षणे प्रतिघाते च विदुरः अवहितः अभवत् ॥१३॥
teṣām tu viprakāreṣu teṣu teṣu mahāmatiḥ . mokṣaṇe pratighāte ca viduraḥ avahitaḥ abhavat ..13..
स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः । पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः ॥१४॥
स्वर्ग-स्थः जीव-लोकस्य यथा शक्रः सुख-आवहः । पाण्डवानाम् तथा नित्यम् विदुरः अपि सुख-आवहः ॥१४॥
svarga-sthaḥ jīva-lokasya yathā śakraḥ sukha-āvahaḥ . pāṇḍavānām tathā nityam viduraḥ api sukha-āvahaḥ ..14..
यदा तु विविधोपायैः संवृतैर्विवृतैरपि । नाशक्नोद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान् ॥१५॥ 1.61.16
यदा तु विविध-उपायैः संवृतैः विवृतैः अपि । न अशक्नोत् विनिहन्तुम् तान् दैव-भावि-अर्थ-रक्षितान् ॥१५॥ १।६१।१६
yadā tu vividha-upāyaiḥ saṃvṛtaiḥ vivṛtaiḥ api . na aśaknot vinihantum tān daiva-bhāvi-artha-rakṣitān ..15.. 1.61.16
ततः संमन्त्र्य सचिवैर्वृषदुःशासनादिभिः । धृतराष्ट्रमनुज्ञाप्य जातुषं गृहमादिशत् ॥१६॥
ततस् संमन्त्र्य सचिवैः वृष-दुःशासन-आदिभिः । धृतराष्ट्रम् अनुज्ञाप्य जातुषम् गृहम् आदिशत् ॥१६॥
tatas saṃmantrya sacivaiḥ vṛṣa-duḥśāsana-ādibhiḥ . dhṛtarāṣṭram anujñāpya jātuṣam gṛham ādiśat ..16..
तत्र तान्वासयामास पाण्डवानमितौजसः । अदाहयच्च विस्रब्धान्पावकेन पुनस्तदा ॥१७॥
तत्र तान् वासयामास पाण्डवान् अमित-ओजसः । अदाहयत् च विस्रब्धान् पावकेन पुनर् तदा ॥१७॥
tatra tān vāsayāmāsa pāṇḍavān amita-ojasaḥ . adāhayat ca visrabdhān pāvakena punar tadā ..17..
विदुरस्यैव वचनात्खनित्री विहिता ततः । मोक्षयामास योगेन ते मुक्ताः प्राद्रवन्भयात् ॥१८॥
विदुरस्य एव वचनात् खनित्री विहिता ततस् । मोक्षयामास योगेन ते मुक्ताः प्राद्रवन् भयात् ॥१८॥
vidurasya eva vacanāt khanitrī vihitā tatas . mokṣayāmāsa yogena te muktāḥ prādravan bhayāt ..18..
ततो महावने घोरे हिडिम्बं नाम राक्षसम् । भीमसेनोऽवधीत्क्रुद्धो भुवि भीमपराक्रमः ॥१९॥
ततस् महा-वने घोरे हिडिम्बम् नाम राक्षसम् । भीमसेनः अवधीत् क्रुद्धः भुवि भीम-पराक्रमः ॥१९॥
tatas mahā-vane ghore hiḍimbam nāma rākṣasam . bhīmasenaḥ avadhīt kruddhaḥ bhuvi bhīma-parākramaḥ ..19..
अथ सन्धाय ते वीरा एकचक्रां व्रजंस्तदा । ब्रह्मरूपधरा भूत्वा मात्रा सह परन्तपाः ॥२०॥
अथ सन्धाय ते वीराः एकचक्राम् व्रजन् तदा । ब्रह्म-रूप-धराः भूत्वा मात्रा सह परन्तपाः ॥२०॥
atha sandhāya te vīrāḥ ekacakrām vrajan tadā . brahma-rūpa-dharāḥ bhūtvā mātrā saha parantapāḥ ..20..
तत्र ते ब्राह्मणार्थाय बकं हत्वा महाबलम् । ब्राह्मणैः सहिता जग्मुः पाञ्चालानां पुरं ततः ॥२१॥
तत्र ते ब्राह्मण-अर्थाय बकम् हत्वा महा-बलम् । ब्राह्मणैः सहिताः जग्मुः पाञ्चालानाम् पुरम् ततस् ॥२१॥
tatra te brāhmaṇa-arthāya bakam hatvā mahā-balam . brāhmaṇaiḥ sahitāḥ jagmuḥ pāñcālānām puram tatas ..21..
ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः । विदिता हास्तिनपुरं प्रत्याजग्मुररिंदमाः ॥२२॥
ते तत्र द्रौपदीम् लब्ध्वा परिसंवत्सर-उषिताः । विदिताः हास्तिनपुरम् प्रत्याजग्मुः अरिंदमाः ॥२२॥
te tatra draupadīm labdhvā parisaṃvatsara-uṣitāḥ . viditāḥ hāstinapuram pratyājagmuḥ ariṃdamāḥ ..22..
त उक्ता धृतराष्ट्रेण राज्ञा शान्तनवेन च । भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति ॥२३॥1.61.32 ॥ ( अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽनुचिन्तितः ॥२३॥ )
ते उक्ताः धृतराष्ट्रेण राज्ञा शान्तनवेन च । भ्रातृभिः विग्रहः तात कथम् वः न भवेत् इति ॥२३॥१।६१।३२ ॥ ( अस्माभिः खाण्डवप्रस्थे युष्मद्-वासः अनुचिन्तितः ॥२३॥ )
te uktāḥ dhṛtarāṣṭreṇa rājñā śāntanavena ca . bhrātṛbhiḥ vigrahaḥ tāta katham vaḥ na bhavet iti ..23..1.61.32 .. ( asmābhiḥ khāṇḍavaprasthe yuṣmad-vāsaḥ anucintitaḥ ..23.. )
तस्माज्जनपदोपेतं सुविभक्तमहापथम् । वासाय खाण्डवप्रस्थं व्रजध्वं गतमन्यवः ॥२४॥
तस्मात् जनपद-उपेतम् सुविभक्त-महापथम् । वासाय खाण्डवप्रस्थम् व्रजध्वम् गत-मन्यवः ॥२४॥
tasmāt janapada-upetam suvibhakta-mahāpatham . vāsāya khāṇḍavaprastham vrajadhvam gata-manyavaḥ ..24..
तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैः । नगरं खाण्डवप्रस्थं रत्नान्यादाय सर्वशः ॥२५॥
तयोः ते वचनात् जग्मुः सह सर्वैः सुहृद्-जनैः । नगरम् खाण्डवप्रस्थम् रत्नानि आदाय सर्वशस् ॥२५॥
tayoḥ te vacanāt jagmuḥ saha sarvaiḥ suhṛd-janaiḥ . nagaram khāṇḍavaprastham ratnāni ādāya sarvaśas ..25..
तत्र ते न्यवसन्राजन्संवत्सरगणान्बहून् । वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः ॥२६॥
तत्र ते न्यवसन् राजन् संवत्सर-गणान् बहून् । वशे शस्त्र-प्रतापेन कुर्वन्तः अन्यान् महीक्षितः ॥२६॥
tatra te nyavasan rājan saṃvatsara-gaṇān bahūn . vaśe śastra-pratāpena kurvantaḥ anyān mahīkṣitaḥ ..26..
एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः । अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तोऽहितांस्तदा ॥२७॥
एवम् धर्म-प्रधानाः ते सत्य-व्रत-परायणाः । अप्रमत्त-उत्थिताः क्षान्ताः प्रतपन्तः अहितान् तदा ॥२७॥
evam dharma-pradhānāḥ te satya-vrata-parāyaṇāḥ . apramatta-utthitāḥ kṣāntāḥ pratapantaḥ ahitān tadā ..27..
अजयद्भीमसेनस्तु दिशं प्राचीं महाबलः । उदीचीमर्जुनो वीरः प्रतीचीं नकुलस्तथा ॥२८॥
अजयत् भीमसेनः तु दिशम् प्राचीम् महा-बलः । उदीचीम् अर्जुनः वीरः प्रतीचीम् नकुलः तथा ॥२८॥
ajayat bhīmasenaḥ tu diśam prācīm mahā-balaḥ . udīcīm arjunaḥ vīraḥ pratīcīm nakulaḥ tathā ..28..
दक्षिणां सहदेवस्तु विजिग्ये परवीरहा । एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुन्धराम् ॥२९॥
दक्षिणाम् सहदेवः तु विजिग्ये पर-वीर-हा । एवम् चक्रुः इमाम् सर्वे वशे कृत्स्नाम् वसुन्धराम् ॥२९॥
dakṣiṇām sahadevaḥ tu vijigye para-vīra-hā . evam cakruḥ imām sarve vaśe kṛtsnām vasundharām ..29..
पञ्चभिः सूर्यसङ्काशैः सूर्येण च विराजता । षट्सूर्येवाबभौ पृथ्वी पाण्डवैः सत्यविक्रमैः ॥३०॥
पञ्चभिः सूर्य-सङ्काशैः सूर्येण च विराजता । षष्-सूर्या इव आबभौ पृथ्वी पाण्डवैः सत्य-विक्रमैः ॥३०॥
pañcabhiḥ sūrya-saṅkāśaiḥ sūryeṇa ca virājatā . ṣaṣ-sūryā iva ābabhau pṛthvī pāṇḍavaiḥ satya-vikramaiḥ ..30..
ततो निमित्ते कस्मिंश्चिद्धर्मराजो युधिष्ठिरः । वनं प्रस्थापयामास भ्रातरं वै धनञ्जयम् ॥३१॥
ततस् निमित्ते कस्मिंश्चिद् धर्मराजः युधिष्ठिरः । वनम् प्रस्थापयामास भ्रातरम् वै धनञ्जयम् ॥३१॥
tatas nimitte kasmiṃścid dharmarājaḥ yudhiṣṭhiraḥ . vanam prasthāpayāmāsa bhrātaram vai dhanañjayam ..31..
स वै संवत्सरं पूर्णं मासं चैकं वनेऽवसत् । ततोऽगच्छद्धृषीकेशं द्वारवत्यां कदाचन ॥३२॥
स वै संवत्सरम् पूर्णम् मासम् च एकम् वने अवसत् । ततस् अगच्छत् हृषीकेशम् द्वारवत्याम् कदाचन ॥३२॥
sa vai saṃvatsaram pūrṇam māsam ca ekam vane avasat . tatas agacchat hṛṣīkeśam dvāravatyām kadācana ..32..
लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम् । अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम् ॥३३॥1.61.43
लब्धवान् तत्र बीभत्सुः भार्याम् राजीव-लोचनाम् । अनुजाम् वासुदेवस्य सुभद्राम् भद्र-भाषिणीम् ॥३३॥१।६१।४३
labdhavān tatra bībhatsuḥ bhāryām rājīva-locanām . anujām vāsudevasya subhadrām bhadra-bhāṣiṇīm ..33..1.61.43
सा शचीव महेन्द्रेण श्रीः कृष्णेनेव सङ्गता । सुभद्रा युयुजे प्रीता पाण्डवेनार्जुनेन ह ॥३४॥
सा शची इव महा-इन्द्रेण श्रीः कृष्णेन इव सङ्ग-ता । सुभद्रा युयुजे प्रीता पाण्डवेन अर्जुनेन ह ॥३४॥
sā śacī iva mahā-indreṇa śrīḥ kṛṣṇena iva saṅga-tā . subhadrā yuyuje prītā pāṇḍavena arjunena ha ..34..
अतर्पयच्च कौन्तेयः खाण्डवे हव्यवाहनम् । बीभत्सुर्वासुदेवेन सहितो नृपसत्तम ॥३५॥
अतर्पयत् च कौन्तेयः खाण्डवे हव्यवाहनम् । बीभत्सुः वासुदेवेन सहितः नृप-सत्तम ॥३५॥
atarpayat ca kaunteyaḥ khāṇḍave havyavāhanam . bībhatsuḥ vāsudevena sahitaḥ nṛpa-sattama ..35..
नातिभारो हि पार्थस्य केशवेनाभवत्सह । व्यवसायसहायस्य विष्णोः शत्रुवधेष्विव ॥३६॥
न अतिभारः हि पार्थस्य केशवेन अभवत् सह । व्यवसाय-सहायस्य विष्णोः शत्रु-वधेषु इव ॥३६॥
na atibhāraḥ hi pārthasya keśavena abhavat saha . vyavasāya-sahāyasya viṣṇoḥ śatru-vadheṣu iva ..36..
पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम् । इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम् ॥३७॥
पार्थाय अग्निः ददौ च अपि गाण्डीवम् धनुः उत्तमम् । इषुधी च अक्षयैः बाणैः रथम् च कपि-लक्षणम् ॥३७॥
pārthāya agniḥ dadau ca api gāṇḍīvam dhanuḥ uttamam . iṣudhī ca akṣayaiḥ bāṇaiḥ ratham ca kapi-lakṣaṇam ..37..
मोक्षयामास बीभत्सुर्मयं तत्र महासुरम् । स चकार सभां दिव्यां सर्वरत्नसमाचिताम् ॥३८॥
मोक्षयामास बीभत्सुः मयम् तत्र महा-असुरम् । स चकार सभाम् दिव्याम् सर्व-रत्न-समाचिताम् ॥३८॥
mokṣayāmāsa bībhatsuḥ mayam tatra mahā-asuram . sa cakāra sabhām divyām sarva-ratna-samācitām ..38..
तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः । ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम् ॥३९॥
तस्याम् दुर्योधनः मन्दः लोभम् चक्रे सु दुर्मतिः । ततस् अक्षैः वञ्चयित्वा च सौबलेन युधिष्ठिरम् ॥३९॥
tasyām duryodhanaḥ mandaḥ lobham cakre su durmatiḥ . tatas akṣaiḥ vañcayitvā ca saubalena yudhiṣṭhiram ..39..
वनं प्रस्थापयामास सप्त वर्षाणि पञ्च च । अज्ञातमेकं राष्ट्रे च तथा वर्षं त्रयोदशम् ॥४०॥
वनम् प्रस्थापयामास सप्त वर्षाणि पञ्च च । अज्ञातम् एकम् राष्ट्रे च तथा वर्षम् त्रयोदशम् ॥४०॥
vanam prasthāpayāmāsa sapta varṣāṇi pañca ca . ajñātam ekam rāṣṭre ca tathā varṣam trayodaśam ..40..
ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसु । नालभन्त महाराज ततो युद्धमवर्तत ॥४१॥
ततस् चतुर्दशे वर्षे याचमानाः स्वकम् वसु । न अलभन्त महा-राज ततस् युद्धम् अवर्तत ॥४१॥
tatas caturdaśe varṣe yācamānāḥ svakam vasu . na alabhanta mahā-rāja tatas yuddham avartata ..41..
ततस्ते सर्वमुत्साद्य हत्वा दुर्योधनं नृपम् । राज्यं विद्रुतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः ॥४२॥
ततस् ते सर्वम् उत्साद्य हत्वा दुर्योधनम् नृपम् । राज्यम् विद्रुत-भूयिष्ठम् प्रत्यपद्यन्त पाण्डवाः ॥४२॥
tatas te sarvam utsādya hatvā duryodhanam nṛpam . rājyam vidruta-bhūyiṣṭham pratyapadyanta pāṇḍavāḥ ..42..
एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम् । भेदो राज्यविनाशश्च जयश्च जयतां वर ॥४३॥ 1.61.53
एवम् एतत् पुरावृत्तम् तेषाम् अक्लिष्ट-कर्मणाम् । भेदः राज्य-विनाशः च जयः च जयताम् वर ॥४३॥ १।६१।५३
evam etat purāvṛttam teṣām akliṣṭa-karmaṇām . bhedaḥ rājya-vināśaḥ ca jayaḥ ca jayatām vara ..43.. 1.61.53

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In