| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

जनमेजय उवाच॥
कथितं वै समासेन त्वया सर्वं द्विजोत्तम । महाभारतमाख्यानं कुरूणां चरितं महत् ॥१॥
कथितम् वै समासेन त्वया सर्वम् द्विजोत्तम । महाभारतम् आख्यानम् कुरूणाम् चरितम् महत् ॥१॥
kathitam vai samāsena tvayā sarvam dvijottama . mahābhāratam ākhyānam kurūṇām caritam mahat ..1..
कथां त्वनघ चित्रार्थामिमां कथयति त्वयि । विस्तरश्रवणे जातं कौतूहलमतीव मे ॥२॥
कथाम् तु अनघ चित्र-अर्थाम् इमाम् कथयति त्वयि । विस्तर-श्रवणे जातम् कौतूहलम् अतीव मे ॥२॥
kathām tu anagha citra-arthām imām kathayati tvayi . vistara-śravaṇe jātam kautūhalam atīva me ..2..
स भवान्विस्तरेणेमां पुनराख्यातुमर्हति । न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥३॥
स भवान् विस्तरेण इमाम् पुनर् आख्यातुम् अर्हति । न हि तृप्यामि पूर्वेषाम् शृण्वानः चरितम् महत् ॥३॥
sa bhavān vistareṇa imām punar ākhyātum arhati . na hi tṛpyāmi pūrveṣām śṛṇvānaḥ caritam mahat ..3..
न तत्कारणमल्पं हि धर्मज्ञा यत्र पाण्डवाः । अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः ॥४॥
न तद्-कारणम् अल्पम् हि धर्म-ज्ञाः यत्र पाण्डवाः । अवध्यान् सर्वशस् जघ्नुः प्रशस्यन्ते च मानवैः ॥४॥
na tad-kāraṇam alpam hi dharma-jñāḥ yatra pāṇḍavāḥ . avadhyān sarvaśas jaghnuḥ praśasyante ca mānavaiḥ ..4..
किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसः । प्रयुज्यमानान्सङ्क्लेशान्क्षान्तवन्तो दुरात्मनाम् ॥५॥
किमर्थम् ते नर-व्याघ्राः शक्ताः सन्तः हि अनागसः । प्रयुज्यमानान् सङ्क्लेशान् क्षान्तवन्तः दुरात्मनाम् ॥५॥
kimartham te nara-vyāghrāḥ śaktāḥ santaḥ hi anāgasaḥ . prayujyamānān saṅkleśān kṣāntavantaḥ durātmanām ..5..
कथं नागायुतप्राणो बाहुशाली वृकोदरः । परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम ॥६॥
कथम् नाग-अयुत-प्राणः बाहु-शाली वृकोदरः । परिक्लिश्यन् अपि क्रोधम् धृतवान् वै द्विजोत्तम ॥६॥
katham nāga-ayuta-prāṇaḥ bāhu-śālī vṛkodaraḥ . parikliśyan api krodham dhṛtavān vai dvijottama ..6..
कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः । शक्ता सती धार्तराष्ट्रान्नादहद्घोरचक्षुषा ॥७॥
कथम् सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः । शक्ता सती धार्तराष्ट्रान् न अदहत् घोर-चक्षुषा ॥७॥
katham sā draupadī kṛṣṇā kliśyamānā durātmabhiḥ . śaktā satī dhārtarāṣṭrān na adahat ghora-cakṣuṣā ..7..
कथं व्यतिक्रमन्द्यूते पार्थौ माद्रीसुतौ तथा । अनुव्रजन्नरव्याघ्रं वञ्च्यमानं दुरात्मभिः ॥८॥
कथम् व्यतिक्रमन् द्यूते पार्थौ माद्री-सुतौ तथा । अनुव्रजन् नर-व्याघ्रम् वञ्च्यमानम् दुरात्मभिः ॥८॥
katham vyatikraman dyūte pārthau mādrī-sutau tathā . anuvrajan nara-vyāghram vañcyamānam durātmabhiḥ ..8..
कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित् । अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिरः ॥९॥
कथम् धर्म-भृताम् श्रेष्ठः सुतः धर्मस्य धर्म-विद् । अनर्हः परमम् क्लेशम् सोढवान् स युधिष्ठिरः ॥९॥
katham dharma-bhṛtām śreṣṭhaḥ sutaḥ dharmasya dharma-vid . anarhaḥ paramam kleśam soḍhavān sa yudhiṣṭhiraḥ ..9..
कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः । अस्यन्नेकोऽनयत्सर्वाः पितृलोकं धनञ्जयः ॥१०॥1.62.10
कथम् च बहुलाः सेनाः पाण्डवः कृष्णसारथिः । अस्यन् एकः अनयत् सर्वाः पितृ-लोकम् धनञ्जयः ॥१०॥१।६२।१०
katham ca bahulāḥ senāḥ pāṇḍavaḥ kṛṣṇasārathiḥ . asyan ekaḥ anayat sarvāḥ pitṛ-lokam dhanañjayaḥ ..10..1.62.10
एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधन । यद्यच्च कृतवन्तस्ते तत्र तत्र महारथाः ॥११॥
एतत् आचक्ष्व मे सर्वम् यथावृत्तम् तपोधन । यत् यत् च कृतवन्तः ते तत्र तत्र महा-रथाः ॥११॥
etat ācakṣva me sarvam yathāvṛttam tapodhana . yat yat ca kṛtavantaḥ te tatra tatra mahā-rathāḥ ..11..
वैशम्पायन उवाच॥
महर्षेः सर्वलोकेषु पूजितस्य महात्मनः । प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥१२॥
महा-ऋषेः सर्व-लोकेषु पूजितस्य महात्मनः । प्रवक्ष्यामि मतम् कृत्स्नम् व्यासस्य अमित-तेजसः ॥१२॥
mahā-ṛṣeḥ sarva-lokeṣu pūjitasya mahātmanaḥ . pravakṣyāmi matam kṛtsnam vyāsasya amita-tejasaḥ ..12..
इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम् । सत्यवत्यात्मजेनेह व्याख्यातममितौजसा ॥१३॥
इदम् शत-सहस्रम् हि श्लोकानाम् पुण्य-कर्मणाम् । सत्यवती-आत्मजेन इह व्याख्यातम् अमित-ओजसा ॥१३॥
idam śata-sahasram hi ślokānām puṇya-karmaṇām . satyavatī-ātmajena iha vyākhyātam amita-ojasā ..13..
य इदं श्रावयेद्विद्वान्यश्चेदं शृणुयान्नरः । ते ब्रह्मणः स्थानमेत्य प्राप्नुयुर्देवतुल्यताम् ॥१४॥
यः इदम् श्रावयेत् विद्वान् यः च इदम् शृणुयात् नरः । ते ब्रह्मणः स्थानम् एत्य प्राप्नुयुः देव-तुल्य-ताम् ॥१४॥
yaḥ idam śrāvayet vidvān yaḥ ca idam śṛṇuyāt naraḥ . te brahmaṇaḥ sthānam etya prāpnuyuḥ deva-tulya-tām ..14..
इदं हि वेदैः समितं पवित्रमपि चोत्तमम् । श्राव्याणामुत्तमं चेदं पुराणमृषिसंस्तुतम् ॥१५॥
इदम् हि वेदैः समितम् पवित्रम् अपि च उत्तमम् । श्राव्याणाम् उत्तमम् च इदम् पुराणम् ऋषि-संस्तुतम् ॥१५॥
idam hi vedaiḥ samitam pavitram api ca uttamam . śrāvyāṇām uttamam ca idam purāṇam ṛṣi-saṃstutam ..15..
अस्मिन्नर्थश्च धर्मश्च निखिलेनोपदिश्यते । इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी ॥१६॥
अस्मिन् अर्थः च धर्मः च निखिलेन उपदिश्यते । इतिहासे महा-पुण्ये बुद्धिः च परिनैष्ठिकी ॥१६॥
asmin arthaḥ ca dharmaḥ ca nikhilena upadiśyate . itihāse mahā-puṇye buddhiḥ ca parinaiṣṭhikī ..16..
अक्षुद्रान्दानशीलांश्च सत्यशीलाननास्तिकान् । कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते ॥१७॥
अक्षुद्रान् दान-शीलान् च सत्य-शीलान् अनास्तिकान् । कार्ष्णम् वेदम् इमम् विद्वान् श्रावयित्वा अर्थम् अश्नुते ॥१७॥
akṣudrān dāna-śīlān ca satya-śīlān anāstikān . kārṣṇam vedam imam vidvān śrāvayitvā artham aśnute ..17..
भ्रूणहत्याकृतं चापि पापं जह्यादसंशयम् । इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः ॥१८॥
भ्रूणहत्या-कृतम् च अपि पापम् जह्यात् असंशयम् । इतिहासम् इमम् श्रुत्वा पुरुषः अपि सु दारुणः ॥१८॥
bhrūṇahatyā-kṛtam ca api pāpam jahyāt asaṃśayam . itihāsam imam śrutvā puruṣaḥ api su dāruṇaḥ ..18..
जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा । महीं विजयते सर्वां शत्रूंश्चापि पराजयेत् ॥१९॥
जयः नाम इतिहासः अयम् श्रोतव्यः विजिगीषुणा । महीम् विजयते सर्वाम् शत्रून् च अपि पराजयेत् ॥१९॥
jayaḥ nāma itihāsaḥ ayam śrotavyaḥ vijigīṣuṇā . mahīm vijayate sarvām śatrūn ca api parājayet ..19..
इदं पुंसवनं श्रेष्ठमिदं स्वस्त्ययनं महत् । महिषीयुवराजाभ्यां श्रोतव्यं बहुशस्तथा ॥२०॥1.62.21
इदम् पुंसवनम् श्रेष्ठम् इदम् स्वस्त्ययनम् महत् । महिषी-युवराजाभ्याम् श्रोतव्यम् बहुशस् तथा ॥२०॥१।६२।२१
idam puṃsavanam śreṣṭham idam svastyayanam mahat . mahiṣī-yuvarājābhyām śrotavyam bahuśas tathā ..20..1.62.21
अर्थशास्त्रमिदं पुण्यं धर्मशास्त्रमिदं परम् । मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना ॥२१॥
अर्थ-शास्त्रम् इदम् पुण्यम् धर्म-शास्त्रम् इदम् परम् । मोक्ष-शास्त्रम् इदम् प्रोक्तम् व्यासेन अमित-बुद्धिना ॥२१॥
artha-śāstram idam puṇyam dharma-śāstram idam param . mokṣa-śāstram idam proktam vyāsena amita-buddhinā ..21..
सम्प्रत्याचक्षते चैव आख्यास्यन्ति तथापरे । पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः ॥२२॥
सम्प्रति आचक्षते च एव आख्यास्यन्ति तथा अपरे । पुत्राः शुश्रूषवः सन्ति प्रेष्याः च प्रिय-कारिणः ॥२२॥
samprati ācakṣate ca eva ākhyāsyanti tathā apare . putrāḥ śuśrūṣavaḥ santi preṣyāḥ ca priya-kāriṇaḥ ..22..
शरीरेण कृतं पापं वाचा च मनसैव च । सर्वं तत्त्यजति क्षिप्रमिदं शृण्वन्नरः सदा ॥२३॥
शरीरेण कृतम् पापम् वाचा च मनसा एव च । सर्वम् तत् त्यजति क्षिप्रम् इदम् शृण्वन् नरः सदा ॥२३॥
śarīreṇa kṛtam pāpam vācā ca manasā eva ca . sarvam tat tyajati kṣipram idam śṛṇvan naraḥ sadā ..23..
भारतानां महज्जन्म शृण्वतामनसूयताम् । नास्ति व्याधिभयं तेषां परलोकभयं कुतः ॥२४॥
भारतानाम् महत् जन्म शृण्वताम् अनसूयताम् । न अस्ति व्याधि-भयम् तेषाम् पर-लोक-भयम् कुतस् ॥२४॥
bhāratānām mahat janma śṛṇvatām anasūyatām . na asti vyādhi-bhayam teṣām para-loka-bhayam kutas ..24..
धन्यं यशस्यमायुष्यं स्वर्ग्यं पुण्यं तथैव च । कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा ॥२५॥1.62.27
धन्यम् यशस्यम् आयुष्यम् स्वर्ग्यम् पुण्यम् तथा एव च । कृष्णद्वैपायनेन इदम् कृतम् पुण्य-चिकीर्षुणा ॥२५॥१।६२।२७
dhanyam yaśasyam āyuṣyam svargyam puṇyam tathā eva ca . kṛṣṇadvaipāyanena idam kṛtam puṇya-cikīrṣuṇā ..25..1.62.27
कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् । अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् ॥२६॥
कीर्तिम् प्रथयता लोके पाण्डवानाम् महात्मनाम् । अन्येषाम् क्षत्रियाणाम् च भूरि-द्रविण-तेजसाम् ॥२६॥
kīrtim prathayatā loke pāṇḍavānām mahātmanām . anyeṣām kṣatriyāṇām ca bhūri-draviṇa-tejasām ..26..
यथा समुद्रो भगवान्यथा च हिमवान्गिरिः । ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते ॥२७॥
यथा समुद्रः भगवान् यथा च हिमवान् गिरिः । ख्यातौ उभौ रत्न-निधी तथा भारतम् उच्यते ॥२७॥
yathā samudraḥ bhagavān yathā ca himavān giriḥ . khyātau ubhau ratna-nidhī tathā bhāratam ucyate ..27..
य इदं श्रावयेद्विद्वान्ब्राह्मणानिह पर्वसु । धूतपाप्मा जितस्वर्गो ब्रह्मभूयं स गच्छति ॥२८॥
यः इदम् श्रावयेत् विद्वान् ब्राह्मणान् इह पर्वसु । धूत-पाप्मा जित-स्वर्गः ब्रह्म-भूयम् स गच्छति ॥२८॥
yaḥ idam śrāvayet vidvān brāhmaṇān iha parvasu . dhūta-pāpmā jita-svargaḥ brahma-bhūyam sa gacchati ..28..
यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः । अक्षय्यं तस्य तच्छ्राद्धमुपतिष्ठेत्पितृनपि ॥२९॥1.62.37
यः च इदम् श्रावयेत् श्राद्धे ब्राह्मणान् पादम् अन्ततस् । अक्षय्यम् तस्य तत् श्राद्धम् उपतिष्ठेत् पितृन् अपि ॥२९॥१।६२।३७
yaḥ ca idam śrāvayet śrāddhe brāhmaṇān pādam antatas . akṣayyam tasya tat śrāddham upatiṣṭhet pitṛn api ..29..1.62.37
अह्ना यदेनश्चाज्ञानात्प्रकरोति नरश्चरन् । तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते ॥३०॥
अह्ना यत् एनः च अज्ञानात् प्रकरोति नरः चरन् । तत् महाभारत-आख्यानम् श्रुत्वा एव प्रविलीयते ॥३०॥
ahnā yat enaḥ ca ajñānāt prakaroti naraḥ caran . tat mahābhārata-ākhyānam śrutvā eva pravilīyate ..30..
भारतानां महज्जन्म महाभारतमुच्यते । निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥३१॥
भारतानाम् महत् जन्म महाभारतम् उच्यते । निरुक्तम् अस्य यः वेद सर्व-पापैः प्रमुच्यते ॥३१॥
bhāratānām mahat janma mahābhāratam ucyate . niruktam asya yaḥ veda sarva-pāpaiḥ pramucyate ..31..
त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः । महाभारतमाख्यानं कृतवानिदमुत्तमम् ॥३२॥
त्रिभिः वर्षैः सदा उत्थायी कृष्णद्वैपायनः मुनिः । महाभारतम् आख्यानम् कृतवान् इदम् उत्तमम् ॥३२॥
tribhiḥ varṣaiḥ sadā utthāyī kṛṣṇadvaipāyanaḥ muniḥ . mahābhāratam ākhyānam kṛtavān idam uttamam ..32..
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ । यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ॥३३॥1.62.53
धर्मे च अर्थे च कामे च मोक्षे च भरत-ऋषभ । यत् इह अस्ति तत् अन्यत्र यत् न इह अस्ति न तत् क्वचिद् ॥३३॥१।६२।५३
dharme ca arthe ca kāme ca mokṣe ca bharata-ṛṣabha . yat iha asti tat anyatra yat na iha asti na tat kvacid ..33..1.62.53

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In