| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
राजोपरिचरो नाम धर्मनित्यो महीपतिः । बभूव मृगयां गन्तुं स कदाचिद्धृतव्रतः ॥१॥
राजा उपरिचरः नाम धर्म-नित्यः महीपतिः । बभूव मृगयाम् गन्तुम् स कदाचिद् हृत-व्रतः ॥१॥
rājā uparicaraḥ nāma dharma-nityaḥ mahīpatiḥ . babhūva mṛgayām gantum sa kadācid hṛta-vrataḥ ..1..
स चेदिविषयं रम्यं वसुः पौरवनन्दनः । इन्द्रोपदेशाज्जग्राह ग्रहणीयं महीपतिः ॥२॥
स चेदि-विषयम् रम्यम् वसुः पौरव-नन्दनः । इन्द्र-उपदेशात् जग्राह ग्रहणीयम् महीपतिः ॥२॥
sa cedi-viṣayam ramyam vasuḥ paurava-nandanaḥ . indra-upadeśāt jagrāha grahaṇīyam mahīpatiḥ ..2..
तमाश्रमे न्यस्तशस्त्रं निवसन्तं तपोरतिम् । देवः साक्षात्स्वयं वज्री समुपायान्महीपतिम् ॥३॥
तम् आश्रमे न्यस्त-शस्त्रम् निवसन्तम् तपः-रतिम् । देवः साक्षात् स्वयम् वज्री समुपायात् महीपतिम् ॥३॥
tam āśrame nyasta-śastram nivasantam tapaḥ-ratim . devaḥ sākṣāt svayam vajrī samupāyāt mahīpatim ..3..
इन्द्रत्वमर्हो राजायं तपसेत्यनुचिन्त्य वै । तं सान्त्वेन नृपं साक्षात्तपसः संन्यवर्तयत् ॥४॥
इन्द्र-त्वम् अर्हः राजा अयम् तपसा इति अनुचिन्त्य वै । तम् सान्त्वेन नृपम् साक्षात् तपसः संन्यवर्तयत् ॥४॥
indra-tvam arhaḥ rājā ayam tapasā iti anucintya vai . tam sāntvena nṛpam sākṣāt tapasaḥ saṃnyavartayat ..4..
इन्द्र उवाच॥
न सङ्कीर्येत धर्मोऽयं पृथिव्यां पृथिवीपते । तं पाहि धर्मो हि धृतः कृत्स्नं धारयते जगत् ॥५॥
न सङ्कीर्येत धर्मः अयम् पृथिव्याम् पृथिवीपते । तम् पाहि धर्मः हि धृतः कृत्स्नम् धारयते जगत् ॥५॥
na saṅkīryeta dharmaḥ ayam pṛthivyām pṛthivīpate . tam pāhi dharmaḥ hi dhṛtaḥ kṛtsnam dhārayate jagat ..5..
लोक्यं धर्मं पालय त्वं नित्ययुक्तः समाहितः । धर्मयुक्तस्ततो लोकान्पुण्यानाप्स्यसि शाश्वतान् ॥६॥
लोक्यम् धर्मम् पालय त्वम् नित्य-युक्तः समाहितः । धर्म-युक्तः ततस् लोकान् पुण्यान् आप्स्यसि शाश्वतान् ॥६॥
lokyam dharmam pālaya tvam nitya-yuktaḥ samāhitaḥ . dharma-yuktaḥ tatas lokān puṇyān āpsyasi śāśvatān ..6..
दिविष्ठस्य भुविष्ठस्त्वं सखा भूत्वा मम प्रियः । ऊधः पृथिव्या यो देशस्तमावस नराधिप ॥७॥
दिविष्ठस्य भुविष्ठः त्वम् सखा भूत्वा मम प्रियः । ऊधर् पृथिव्याः यः देशः तम् आवस नराधिप ॥७॥
diviṣṭhasya bhuviṣṭhaḥ tvam sakhā bhūtvā mama priyaḥ . ūdhar pṛthivyāḥ yaḥ deśaḥ tam āvasa narādhipa ..7..
पशव्यश्चैव पुण्यश्च सुस्थिरो धनधान्यवान् । स्वारक्ष्यश्चैव सौम्यश्च भोग्यैर्भूमिगुणैर्युतः ॥८॥
पशव्यः च एव पुण्यः च सुस्थिरः धन-धान्यवान् । स्वारक्ष्यः च एव सौम्यः च भोग्यैः भूमि-गुणैः युतः ॥८॥
paśavyaḥ ca eva puṇyaḥ ca susthiraḥ dhana-dhānyavān . svārakṣyaḥ ca eva saumyaḥ ca bhogyaiḥ bhūmi-guṇaiḥ yutaḥ ..8..
अत्यन्यानेष देशो हि धनरत्नादिभिर्युतः । वसुपूर्णा च वसुधा वस चेदिषु चेदिप ॥९॥
अति अन्यान् एष देशः हि धन-रत्न-आदिभिः युतः । वसु-पूर्णा च वसुधा वस चेदिषु चेदिप ॥९॥
ati anyān eṣa deśaḥ hi dhana-ratna-ādibhiḥ yutaḥ . vasu-pūrṇā ca vasudhā vasa cediṣu cedipa ..9..
धर्मशीला जनपदाः सुसन्तोषाश्च साधवः । न च मिथ्याप्रलापोऽत्र स्वैरेष्वपि कुतोऽन्यथा ॥१०॥
धर्म-शीलाः जनपदाः सु सन्तोषाः च साधवः । न च मिथ्या प्रलापः अत्र स्वैरेषु अपि कुतस् अन्यथा ॥१०॥
dharma-śīlāḥ janapadāḥ su santoṣāḥ ca sādhavaḥ . na ca mithyā pralāpaḥ atra svaireṣu api kutas anyathā ..10..
न च पित्रा विभज्यन्ते नरा गुरुहिते रताः । युञ्जते धुरि नो गाश्च कृशाः सन्धुक्षयन्ति च ॥११॥
न च पित्रा विभज्यन्ते नराः गुरु-हिते रताः । युञ्जते धुरि नो गाः च कृशाः सन्धुक्षयन्ति च ॥११॥
na ca pitrā vibhajyante narāḥ guru-hite ratāḥ . yuñjate dhuri no gāḥ ca kṛśāḥ sandhukṣayanti ca ..11..
सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद । न तेऽस्त्यविदितं किञ्चित्त्रिषु लोकेषु यद्भवेत् ॥१२॥
सर्वे वर्णाः स्वधर्म-स्थाः सदा चेदिषु मानद । न ते अस्ति अविदितम् किञ्चिद् त्रिषु लोकेषु यत् भवेत् ॥१२॥
sarve varṇāḥ svadharma-sthāḥ sadā cediṣu mānada . na te asti aviditam kiñcid triṣu lokeṣu yat bhavet ..12..
देवोपभोग्यं दिव्यं च आकाशे स्फाटिकं महत् । आकाशगं त्वां मद्दत्तं विमानमुपपत्स्यते ॥१३॥
देव-उपभोग्यम् दिव्यम् च आकाशे स्फाटिकम् महत् । आकाश-गम् त्वाम् मद्-दत्तम् विमानम् उपपत्स्यते ॥१३॥
deva-upabhogyam divyam ca ākāśe sphāṭikam mahat . ākāśa-gam tvām mad-dattam vimānam upapatsyate ..13..
त्वमेकः सर्वमर्त्येषु विमानवरमास्थितः । चरिष्यस्युपरिस्थो वै देवो विग्रहवानिव ॥१४॥
त्वम् एकः सर्व-मर्त्येषु विमान-वरम् आस्थितः । चरिष्यसि उपरि स्थः वै देवः विग्रहवान् इव ॥१४॥
tvam ekaḥ sarva-martyeṣu vimāna-varam āsthitaḥ . cariṣyasi upari sthaḥ vai devaḥ vigrahavān iva ..14..
ददामि ते वैजयन्तीं मालामम्लानपङ्कजाम् । धारयिष्यति सङ्ग्रामे या त्वां शस्त्रैरविक्षतम् ॥१५॥
ददामि ते वैजयन्तीम् मालाम् अम्लान-पङ्कजाम् । धारयिष्यति सङ्ग्रामे या त्वाम् शस्त्रैः अविक्षतम् ॥१५॥
dadāmi te vaijayantīm mālām amlāna-paṅkajām . dhārayiṣyati saṅgrāme yā tvām śastraiḥ avikṣatam ..15..
लक्षणं चैतदेवेह भविता ते नराधिप । इन्द्रमालेति विख्यातं धन्यमप्रतिमं महत् ॥१६॥
लक्षणम् च एतत् एव इह भविता ते नराधिप । इन्द्र-माला इति विख्यातम् धन्यम् अप्रतिमम् महत् ॥१६॥
lakṣaṇam ca etat eva iha bhavitā te narādhipa . indra-mālā iti vikhyātam dhanyam apratimam mahat ..16..
वैशम्पायन उवाच॥
यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः । इष्टप्रदानमुद्दिश्य शिष्टानां परिपालिनीम् ॥१७॥
यष्टिम् च वैणवीम् तस्मै ददौ वृत्र-निषूदनः । इष्ट-प्रदानम् उद्दिश्य शिष्टानाम् परिपालिनीम् ॥१७॥
yaṣṭim ca vaiṇavīm tasmai dadau vṛtra-niṣūdanaḥ . iṣṭa-pradānam uddiśya śiṣṭānām paripālinīm ..17..
तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा । प्रवेशं कारयामास गते संवत्सरे तदा ॥१८॥
तस्याः शक्रस्य पूजा-अर्थम् भूमौ भूमिपतिः तदा । प्रवेशम् कारयामास गते संवत्सरे तदा ॥१८॥
tasyāḥ śakrasya pūjā-artham bhūmau bhūmipatiḥ tadā . praveśam kārayāmāsa gate saṃvatsare tadā ..18..
ततः प्रभृति चाद्यापि यष्ट्याः क्षितिपसत्तमैः । प्रवेशः क्रियते राजन्यथा तेन प्रवर्तितः ॥१९॥
ततस् प्रभृति च अद्य अपि यष्ट्याः क्षितिप-सत्तमैः । प्रवेशः क्रियते राजन् यथा तेन प्रवर्तितः ॥१९॥
tatas prabhṛti ca adya api yaṣṭyāḥ kṣitipa-sattamaiḥ . praveśaḥ kriyate rājan yathā tena pravartitaḥ ..19..
अपरेद्युस्तथा चास्याः क्रियते उच्छ्रयो नृपैः । अलङ्कृतायाः पिटकैर्गन्धैर्माल्यैश्च भूषणैः ॥२०॥ ( माल्यदामपरिक्षिप्ता विधिवत्क्रियतेऽपि च ॥२०॥ )
अपरेद्युस् तथा च अस्याः क्रियते उच्छ्रयः नृपैः । अलङ्कृतायाः पिटकैः गन्धैः माल्यैः च भूषणैः ॥२०॥ ( माल्य-दाम-परिक्षिप्ता विधिवत् क्रियते अपि च ॥२०॥ )
aparedyus tathā ca asyāḥ kriyate ucchrayaḥ nṛpaiḥ . alaṅkṛtāyāḥ piṭakaiḥ gandhaiḥ mālyaiḥ ca bhūṣaṇaiḥ ..20.. ( mālya-dāma-parikṣiptā vidhivat kriyate api ca ..20.. )
भगवान्पूज्यते चात्र हास्यरूपेण शङ्करः । स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः ॥२१॥
भगवान् पूज्यते च अत्र हास्य-रूपेण शङ्करः । स्वयम् एव गृहीतेन वसोः प्रीत्या महात्मनः ॥२१॥
bhagavān pūjyate ca atra hāsya-rūpeṇa śaṅkaraḥ . svayam eva gṛhītena vasoḥ prītyā mahātmanaḥ ..21..
एतां पूजां महेन्द्रस्तु दृष्ट्वा देव कृतां शुभाम् । वसुना राजमुख्येन प्रीतिमानब्रवीद्विभुः ॥२२॥
एताम् पूजाम् महा-इन्द्रः तु दृष्ट्वा देव कृताम् शुभाम् । वसुना राज-मुख्येन प्रीतिमान् अब्रवीत् विभुः ॥२२॥
etām pūjām mahā-indraḥ tu dṛṣṭvā deva kṛtām śubhām . vasunā rāja-mukhyena prītimān abravīt vibhuḥ ..22..
ये पूजयिष्यन्ति नरा राजानश्च महं मम । कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः ॥२३॥
ये पूजयिष्यन्ति नराः राजानः च महम् मम । कारयिष्यन्ति च मुदा यथा चेदि-पतिः नृपः ॥२३॥
ye pūjayiṣyanti narāḥ rājānaḥ ca maham mama . kārayiṣyanti ca mudā yathā cedi-patiḥ nṛpaḥ ..23..
तेषां श्रीर्विजयश्चैव सराष्ट्राणां भविष्यति । तथा स्फीतो जनपदो मुदितश्च भविष्यति ॥२४॥
तेषाम् श्रीः विजयः च एव सराष्ट्राणाम् भविष्यति । तथा स्फीतः जनपदः मुदितः च भविष्यति ॥२४॥
teṣām śrīḥ vijayaḥ ca eva sarāṣṭrāṇām bhaviṣyati . tathā sphītaḥ janapadaḥ muditaḥ ca bhaviṣyati ..24..
एवं महात्मना तेन महेन्द्रेण नराधिप । वसुः प्रीत्या मघवता महाराजोऽभिसत्कृतः ॥२५॥1.63.26
एवम् महात्मना तेन महा-इन्द्रेण नराधिप । वसुः प्रीत्या मघवता महा-राजः अभिसत्कृतः ॥२५॥१।६३।२६
evam mahātmanā tena mahā-indreṇa narādhipa . vasuḥ prītyā maghavatā mahā-rājaḥ abhisatkṛtaḥ ..25..1.63.26
उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः । भूमिदानादिभिर्दानैर्यथा पूता भवन्ति वै ॥२६॥ ( वरदानमहायज्ञैस्तथा शक्रोत्सवेन ते ॥२६॥ )
उत्सवम् कारयिष्यन्ति सदा शक्रस्य ये नराः । भूमि-दान-आदिभिः दानैः यथा पूताः भवन्ति वै ॥२६॥ ( वर-दान-महा-यज्ञैः तथा शक्र-उत्सवेन ते ॥२६॥ )
utsavam kārayiṣyanti sadā śakrasya ye narāḥ . bhūmi-dāna-ādibhiḥ dānaiḥ yathā pūtāḥ bhavanti vai ..26.. ( vara-dāna-mahā-yajñaiḥ tathā śakra-utsavena te ..26.. )
सम्पूजितो मघवता वसुश्चेदिपतिस्तदा । पालयामास धर्मेण चेदिस्थः पृथिवीमिमाम् ॥२७॥ ( इन्द्रप्रीत्या भूमिपतिश्चकारेन्द्रमहं वसुः ॥२७॥ )
सम्पूजितः मघवता वसुः चेदि-पतिः तदा । पालयामास धर्मेण चेदि-स्थः पृथिवीम् इमाम् ॥२७॥ ( इन्द्र-प्रीत्या भूमिपतिः चकार इन्द्र-महम् वसुः ॥२७॥ )
sampūjitaḥ maghavatā vasuḥ cedi-patiḥ tadā . pālayāmāsa dharmeṇa cedi-sthaḥ pṛthivīm imām ..27.. ( indra-prītyā bhūmipatiḥ cakāra indra-maham vasuḥ ..27.. )
पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः । नानाराज्येषु च सुतान्स सम्राडभ्यषेचयत् ॥२८॥
पुत्राः च अस्य महा-वीर्याः पञ्च आसन् अमित-ओजसः । नाना राज्येषु च सुतान् स सम्राज् अभ्यषेचयत् ॥२८॥
putrāḥ ca asya mahā-vīryāḥ pañca āsan amita-ojasaḥ . nānā rājyeṣu ca sutān sa samrāj abhyaṣecayat ..28..
महारथो मगधराड्विश्रुतो यो बृहद्रथः । प्रत्यग्रहः कुशाम्बश्च यमाहुर्मणिवाहनम् ॥२९॥ ( मच्छिल्लश्च यदुश्चैव राजन्यश्चापराजितः ॥२९॥ )
महा-रथः मगध-राज् विश्रुतः यः बृहद्रथः । प्रत्यग्रहः कुशाम्बः च यम् आहुः मणिवाहनम् ॥२९॥ ( मच्छिल्लः च यदुः च एव राजन्यः च अपराजितः ॥२९॥ )
mahā-rathaḥ magadha-rāj viśrutaḥ yaḥ bṛhadrathaḥ . pratyagrahaḥ kuśāmbaḥ ca yam āhuḥ maṇivāhanam ..29.. ( macchillaḥ ca yaduḥ ca eva rājanyaḥ ca aparājitaḥ ..29.. )
एते तस्य सुता राजन्राजर्षेर्भूरितेजसः । न्यवेशयन्नामभिः स्वैस्ते देशांश्च पुराणि च ॥३०॥ ( वासवाः पञ्च राजानः पृथग्वंशाश्च शाश्वताः ॥३०॥ )
एते तस्य सुताः राजन् राजर्षेः भूरि-तेजसः । न्यवेशयन् नामभिः स्वैः ते देशान् च पुराणि च ॥३०॥ ( वासवाः पञ्च राजानः पृथक् वंशाः च शाश्वताः ॥३०॥ )
ete tasya sutāḥ rājan rājarṣeḥ bhūri-tejasaḥ . nyaveśayan nāmabhiḥ svaiḥ te deśān ca purāṇi ca ..30.. ( vāsavāḥ pañca rājānaḥ pṛthak vaṃśāḥ ca śāśvatāḥ ..30.. )
वसन्तमिन्द्रप्रासादे आकाशे स्फाटिके च तम् । उपतस्थुर्महात्मानं गन्धर्वाप्सरसो नृपम् ॥३१॥ ( राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम् ॥३१॥ )
वसन्तम् इन्द्र-प्रासादे आकाशे स्फाटिके च तम् । उपतस्थुः महात्मानम् गन्धर्व-अप्सरसः नृपम् ॥३१॥ ( राजा उपरिचर-इति एवम् नाम तस्य अथ विश्रुतम् ॥३१॥ )
vasantam indra-prāsāde ākāśe sphāṭike ca tam . upatasthuḥ mahātmānam gandharva-apsarasaḥ nṛpam ..31.. ( rājā uparicara-iti evam nāma tasya atha viśrutam ..31.. )
पुरोपवाहिनीं तस्य नदीं शुक्तिमतीं गिरिः । अरौत्सीच्चेतनायुक्तः कामात्कोलाहलः किल ॥३२॥
पुरा उपवाहिनीम् तस्य नदीम् शुक्तिमतीम् गिरिः । अरौत्सीत् चेतना-युक्तः कामात् कोलाहलः किल ॥३२॥
purā upavāhinīm tasya nadīm śuktimatīm giriḥ . arautsīt cetanā-yuktaḥ kāmāt kolāhalaḥ kila ..32..
गिरिं कोलाहलं तं तु पदा वसुरताडयत् । निश्चक्राम नदी तेन प्रहारविवरेण सा ॥३३॥
गिरिम् कोलाहलम् तम् तु पदा वसुः अताडयत् । निश्चक्राम नदी तेन प्रहार-विवरेण सा ॥३३॥
girim kolāhalam tam tu padā vasuḥ atāḍayat . niścakrāma nadī tena prahāra-vivareṇa sā ..33..
तस्यां नद्यामजनयन्मिथुनं पर्वतः स्वयम् । तस्माद्विमोक्षणात्प्रीता नदी राज्ञे न्यवेदयत् ॥३४॥
तस्याम् नद्याम् अजनयत् मिथुनम् पर्वतः स्वयम् । तस्मात् विमोक्षणात् प्रीता नदी राज्ञे न्यवेदयत् ॥३४॥
tasyām nadyām ajanayat mithunam parvataḥ svayam . tasmāt vimokṣaṇāt prītā nadī rājñe nyavedayat ..34..
यः पुमानभवत्तत्र तं स राजर्षिसत्तमः । वसुर्वसुप्रदश्चक्रे सेनापतिमरिंदमम् ॥३५॥ ( चकार पत्नीं कन्यां तु दयितां गिरिकां नृपः ॥३५॥ )
यः पुमान् अभवत् तत्र तम् स राजर्षि-सत्तमः । वसुः वसु-प्रदः चक्रे सेनापतिम् अरिंदमम् ॥३५॥ ( चकार पत्नीम् कन्याम् तु दयिताम् गिरिकाम् नृपः ॥३५॥ )
yaḥ pumān abhavat tatra tam sa rājarṣi-sattamaḥ . vasuḥ vasu-pradaḥ cakre senāpatim ariṃdamam ..35.. ( cakāra patnīm kanyām tu dayitām girikām nṛpaḥ ..35.. )
वसोः पत्नी तु गिरिका कामात्काले न्यवेदयत् । ऋतुकालमनुप्राप्तं स्नाता पुंसवने शुचिः ॥३६॥
वसोः पत्नी तु गिरिका कामात् काले न्यवेदयत् । ऋतु-कालम् अनुप्राप्तम् स्नाता पुंसवने शुचिः ॥३६॥
vasoḥ patnī tu girikā kāmāt kāle nyavedayat . ṛtu-kālam anuprāptam snātā puṃsavane śuciḥ ..36..
तदहः पितरश्चैनमूचुर्जहि मृगानिति । तं राजसत्तमं प्रीतास्तदा मतिमतां वरम् ॥३७॥
तत् अहर् पितरः च एनम् ऊचुः जहि मृगान् इति । तम् राज-सत्तमम् प्रीताः तदा मतिमताम् वरम् ॥३७॥
tat ahar pitaraḥ ca enam ūcuḥ jahi mṛgān iti . tam rāja-sattamam prītāḥ tadā matimatām varam ..37..
स पितृणां नियोगं तमव्यतिक्रम्य पार्थिवः । चचार मृगयां कामी गिरिकामेव संस्मरन् ॥३८॥ ( अतीव रूपसम्पन्नां साक्षाच्छ्रियमिवापराम् ॥३८॥ )
स पितृणाम् नियोगम् तम् अ व्यतिक्रम्य पार्थिवः । चचार मृगयाम् कामी गिरिकाम् एव संस्मरन् ॥३८॥ ( अतीव रूप-सम्पन्नाम् साक्षात् श्रियम् इव अपराम् ॥३८॥ )
sa pitṛṇām niyogam tam a vyatikramya pārthivaḥ . cacāra mṛgayām kāmī girikām eva saṃsmaran ..38.. ( atīva rūpa-sampannām sākṣāt śriyam iva aparām ..38.. )
तस्य रेतः प्रचस्कन्द चरतो रुचिरे वने । स्कन्नमात्रं च तद्रेतो वृक्षपत्रेण भूमिपः ॥३९॥
तस्य रेतः प्रचस्कन्द चरतः रुचिरे वने । स्कन्न-मात्रम् च तत् रेतः वृक्ष-पत्रेण भूमिपः ॥३९॥
tasya retaḥ pracaskanda carataḥ rucire vane . skanna-mātram ca tat retaḥ vṛkṣa-patreṇa bhūmipaḥ ..39..
प्रतिजग्राह मिथ्या मे न स्कन्देद्रेत इत्युत । ऋतुश्च तस्याः पत्न्या मे न मोघः स्यादिति प्रभुः ॥४०॥
प्रतिजग्राह मिथ्या मे न स्कन्देत् रेतः इति उत । ऋतुः च तस्याः पत्न्याः मे न मोघः स्यात् इति प्रभुः ॥४०॥
pratijagrāha mithyā me na skandet retaḥ iti uta . ṛtuḥ ca tasyāḥ patnyāḥ me na moghaḥ syāt iti prabhuḥ ..40..
सञ्चिन्त्यैवं तदा राजा विचार्य च पुनः पुनः । अमोघत्वं च विज्ञाय रेतसो राजसत्तमः ॥४१॥
सञ्चिन्त्य एवम् तदा राजा विचार्य च पुनर् पुनर् । अमोघ-त्वम् च विज्ञाय रेतसः राज-सत्तमः ॥४१॥
sañcintya evam tadā rājā vicārya ca punar punar . amogha-tvam ca vijñāya retasaḥ rāja-sattamaḥ ..41..
शुक्रप्रस्थापने कालं महिष्याः प्रसमीक्ष्य सः । अभिमन्त्र्याथ तच्छुक्रमारात्तिष्ठन्तमाशुगम् ॥४२॥ ( सूक्ष्मधर्मार्थतत्त्वज्ञो ज्ञात्वा श्येनं ततोऽब्रवीत् ॥४२॥ )
शुक्र-प्रस्थापने कालम् महिष्याः प्रसमीक्ष्य सः । अभिमन्त्र्य अथ तत् शुक्रम् आरात् तिष्ठन्तम् आशुगम् ॥४२॥ ( सूक्ष्म-धर्म-अर्थ-तत्त्व-ज्ञः ज्ञात्वा श्येनम् ततस् अब्रवीत् ॥४२॥ )
śukra-prasthāpane kālam mahiṣyāḥ prasamīkṣya saḥ . abhimantrya atha tat śukram ārāt tiṣṭhantam āśugam ..42.. ( sūkṣma-dharma-artha-tattva-jñaḥ jñātvā śyenam tatas abravīt ..42.. )
मत्प्रियार्थमिदं सौम्य शुक्रं मम गृहं नय । गिरिकायाः प्रयच्छाशु तस्या ह्यार्तवमद्य वै ॥४३॥
मद्-प्रिय-अर्थम् इदम् सौम्य शुक्रम् मम गृहम् नय । गिरिकायाः प्रयच्छ आशु तस्याः हि आर्तवम् अद्य वै ॥४३॥
mad-priya-artham idam saumya śukram mama gṛham naya . girikāyāḥ prayaccha āśu tasyāḥ hi ārtavam adya vai ..43..
गृहीत्वा तत्तदा श्येनस्तूर्णमुत्पत्य वेगवान् । जवं परममास्थाय प्रदुद्राव विहङ्गमः ॥४४॥
गृहीत्वा तत् तदा श्येनः तूर्णम् उत्पत्य वेगवान् । जवम् परमम् आस्थाय प्रदुद्राव विहङ्गमः ॥४४॥
gṛhītvā tat tadā śyenaḥ tūrṇam utpatya vegavān . javam paramam āsthāya pradudrāva vihaṅgamaḥ ..44..
तमपश्यदथायान्तं श्येनं श्येनस्तथापरः । अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कया ॥४५॥
तम् अपश्यत् अथ आयान्तम् श्येनम् श्येनः तथा अपरः । अभ्यद्रवत् च तम् सद्यस् दृष्ट्वा एव आमिष-शङ्कया ॥४५॥
tam apaśyat atha āyāntam śyenam śyenaḥ tathā aparaḥ . abhyadravat ca tam sadyas dṛṣṭvā eva āmiṣa-śaṅkayā ..45..
तुण्डयुद्धमथाकाशे तावुभौ सम्प्रचक्रतुः । युध्यतोरपतद्रेतस्तच्चापि यमुनाम्भसि ॥४६॥
तुण्ड-युद्धम् अथ आकाशे तौ उभौ सम्प्रचक्रतुः । युध्यतोः अपतत् रेतः तत् च अपि यमुना-अम्भसि ॥४६॥
tuṇḍa-yuddham atha ākāśe tau ubhau sampracakratuḥ . yudhyatoḥ apatat retaḥ tat ca api yamunā-ambhasi ..46..
तत्राद्रिकेति विख्याता ब्रह्मशापाद्वराप्सराः । मीनभावमनुप्राप्ता बभूव यमुनाचरी ॥४७॥
तत्र अद्रिका इति विख्याता ब्रह्म-शापात् वर-अप्सराः । मीन-भावम् अनुप्राप्ता बभूव यमुना-चरी ॥४७॥
tatra adrikā iti vikhyātā brahma-śāpāt vara-apsarāḥ . mīna-bhāvam anuprāptā babhūva yamunā-carī ..47..
श्येनपादपरिभ्रष्टं तद्वीर्यमथ वासवम् । जग्राह तरसोपेत्य साद्रिका मत्स्यरूपिणी ॥४८॥
श्येन-पाद-परिभ्रष्टम् तद्-वीर्यम् अथ वासवम् । जग्राह तरसा उपेत्य सा अद्रिका मत्स्य-रूपिणी ॥४८॥
śyena-pāda-paribhraṣṭam tad-vīryam atha vāsavam . jagrāha tarasā upetya sā adrikā matsya-rūpiṇī ..48..
कदाचिदथ मत्सीं तां बबन्धुर्मत्स्यजीविनः । मासे च दशमे प्राप्ते तदा भरतसत्तम ॥४९॥ ( उज्जह्रुरुदरात्तस्याः स्त्रीपुमांसं च मानुषम् ॥४९॥ )
कदाचिद् अथ मत्सीम् ताम् बबन्धुः मत्स्य-जीविनः । मासे च दशमे प्राप्ते तदा भरत-सत्तम ॥४९॥ ( उज्जह्रुः उदरात् तस्याः स्त्री-पुमांसम् च मानुषम् ॥४९॥ )
kadācid atha matsīm tām babandhuḥ matsya-jīvinaḥ . māse ca daśame prāpte tadā bharata-sattama ..49.. ( ujjahruḥ udarāt tasyāḥ strī-pumāṃsam ca mānuṣam ..49.. )
आश्चर्यभूतं मत्वा तद्राज्ञस्ते प्रत्यवेदयन् । काये मत्स्या इमौ राजन्सम्भूतौ मानुषाविति ॥५०॥1.63.62
आश्चर्य-भूतम् मत्वा तत् राज्ञः ते प्रत्यवेदयन् । काये मत्स्याः इमौ राजन् सम्भूतौ मानुषौ इति ॥५०॥१।६३।६२
āścarya-bhūtam matvā tat rājñaḥ te pratyavedayan . kāye matsyāḥ imau rājan sambhūtau mānuṣau iti ..50..1.63.62
तयोः पुमांसं जग्राह राजोपरिचरस्तदा । स मत्स्यो नाम राजासीद्धार्मिकः सत्यसङ्गरः ॥५१॥
तयोः पुमांसम् जग्राह राजा उपरिचरः तदा । स मत्स्यः नाम राजा आसीत् धार्मिकः सत्य-सङ्गरः ॥५१॥
tayoḥ pumāṃsam jagrāha rājā uparicaraḥ tadā . sa matsyaḥ nāma rājā āsīt dhārmikaḥ satya-saṅgaraḥ ..51..
साप्सरा मुक्तशापा च क्षणेन समपद्यत । पुरोक्ता या भगवता तिर्यग्योनिगता शुभे ॥५२॥ ( मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि ॥५२॥ )
सा अप्सराः मुक्त-शापा च क्षणेन समपद्यत । पुरा उक्ता या भगवता तिर्यग्योनि-गता शुभे ॥५२॥ ( मानुषौ जनयित्वा त्वम् शाप-मोक्षम् अवाप्स्यसि ॥५२॥ )
sā apsarāḥ mukta-śāpā ca kṣaṇena samapadyata . purā uktā yā bhagavatā tiryagyoni-gatā śubhe ..52.. ( mānuṣau janayitvā tvam śāpa-mokṣam avāpsyasi ..52.. )
ततः सा जनयित्वा तौ विशस्ता मत्स्यघातिना । सन्त्यज्य मत्स्यरूपं सा दिव्यं रूपमवाप्य च ॥५३॥ ( सिद्धर्षिचारणपथं जगामाथ वराप्सराः ॥५३॥ )
ततस् सा जनयित्वा तौ विशस्ता मत्स्य-घातिना । सन् त्यज्य मत्स्य-रूपम् सा दिव्यम् रूपम् अवाप्य च ॥५३॥ ( सिद्ध-ऋषि-चारण-पथम् जगाम अथ वर-अप्सराः ॥५३॥ )
tatas sā janayitvā tau viśastā matsya-ghātinā . san tyajya matsya-rūpam sā divyam rūpam avāpya ca ..53.. ( siddha-ṛṣi-cāraṇa-patham jagāma atha vara-apsarāḥ ..53.. )
या कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी । राज्ञा दत्ताथ दाशाय इयं तव भवत्विति ॥५४॥ ( रूपसत्त्वसमायुक्ता सर्वैः समुदिता गुणैः ॥५४॥ )
या कन्या दुहिता तस्याः मत्स्याः मत्स्य-सगन्धिनी । राज्ञा दत्ता अथ दाशाय इयम् तव भवतु इति ॥५४॥ ( रूप-सत्त्व-समायुक्ता सर्वैः समुदिता गुणैः ॥५४॥ )
yā kanyā duhitā tasyāḥ matsyāḥ matsya-sagandhinī . rājñā dattā atha dāśāya iyam tava bhavatu iti ..54.. ( rūpa-sattva-samāyuktā sarvaiḥ samuditā guṇaiḥ ..54.. )
सा तु सत्यवती नाम मत्स्यघात्यभिसंश्रयात् । आसीन्मत्स्यसगन्धैव कञ्चित्कालं शुचिस्मिता ॥५५॥
सा तु सत्यवती नाम मत्स्यघाति-अभिसंश्रयात् । आसीत् मत्स्य-सगन्धा एव कञ्चिद् कालम् शुचि-स्मिता ॥५५॥
sā tu satyavatī nāma matsyaghāti-abhisaṃśrayāt . āsīt matsya-sagandhā eva kañcid kālam śuci-smitā ..55..
शुश्रूषार्थं पितुर्नावं तां तु वाहयतीं जले । तीर्थयात्रां परिक्रामन्नपश्यद्वै पराशरः ॥५६॥
शुश्रूषा-अर्थम् पितुः नावम् ताम् तु वाहयतीम् जले । तीर्थ-यात्राम् परिक्रामन् अपश्यत् वै पराशरः ॥५६॥
śuśrūṣā-artham pituḥ nāvam tām tu vāhayatīm jale . tīrtha-yātrām parikrāman apaśyat vai parāśaraḥ ..56..
अतीव रूपसम्पन्नां सिद्धानामपि काङ्क्षिताम् । दृष्ट्वैव च स तां धीमांश्चकमे चारुदर्शनाम् ॥५७॥ ( विद्वांस्तां वासवीं कन्यां कार्यवान्मुनिपुङ्गवः ॥५७॥ )
अतीव रूप-सम्पन्नाम् सिद्धानाम् अपि काङ्क्षिताम् । दृष्ट्वा एव च स ताम् धीमान् चकमे चारु-दर्शनाम् ॥५७॥ ( विद्वान् ताम् वासवीम् कन्याम् कार्यवान् मुनि-पुङ्गवः ॥५७॥ )
atīva rūpa-sampannām siddhānām api kāṅkṣitām . dṛṣṭvā eva ca sa tām dhīmān cakame cāru-darśanām ..57.. ( vidvān tām vāsavīm kanyām kāryavān muni-puṅgavaḥ ..57.. )
साब्रवीत्पश्य भगवन्पारावारे ऋषीन्स्थितान् । आवयोर्दृश्यतोरेभिः कथं नु स्यात्समागमः ॥५८॥
सा ब्रवीत् पश्य भगवन् पारावारे ऋषीन् स्थितान् । आवयोः दृश्यतोः एभिः कथम् नु स्यात् समागमः ॥५८॥
sā bravīt paśya bhagavan pārāvāre ṛṣīn sthitān . āvayoḥ dṛśyatoḥ ebhiḥ katham nu syāt samāgamaḥ ..58..
एवं तयोक्तो भगवान्नीहारमसृजत्प्रभुः । येन देशः स सर्वस्तु तमोभूत इवाभवत् ॥५९॥
एवम् तया उक्तः भगवान् नीहारम् असृजत् प्रभुः । येन देशः स सर्वः तु तमः-भूतः इव अभवत् ॥५९॥
evam tayā uktaḥ bhagavān nīhāram asṛjat prabhuḥ . yena deśaḥ sa sarvaḥ tu tamaḥ-bhūtaḥ iva abhavat ..59..
दृष्ट्वा सृष्टं तु नीहारं ततस्तं परमर्षिणा । विस्मिता चाब्रवीत्कन्या व्रीडिता च मनस्विनी ॥६०॥
दृष्ट्वा सृष्टम् तु नीहारम् ततस् तम् परम-ऋषिणा । विस्मिता च अब्रवीत् कन्या व्रीडिता च मनस्विनी ॥६०॥
dṛṣṭvā sṛṣṭam tu nīhāram tatas tam parama-ṛṣiṇā . vismitā ca abravīt kanyā vrīḍitā ca manasvinī ..60..
विद्धि मां भगवन्कन्यां सदा पितृवशानुगाम् । त्वत्संयोगाच्च दुष्येत कन्याभावो ममानघ ॥६१॥
विद्धि माम् भगवन् कन्याम् सदा पितृ-वश-अनुगाम् । त्वद्-संयोगात् च दुष्येत कन्या-भावः मम अनघ ॥६१॥
viddhi mām bhagavan kanyām sadā pitṛ-vaśa-anugām . tvad-saṃyogāt ca duṣyeta kanyā-bhāvaḥ mama anagha ..61..
कन्यात्वे दूषिते चापि कथं शक्ष्ये द्विजोत्तम । गन्तुं गृहं गृहे चाहं धीमन्न स्थातुमुत्सहे ॥६२॥ ( एतत्सञ्चिन्त्य भगवन्विधत्स्व यदनन्तरम् ॥६२॥ )
कन्या-त्वे दूषिते च अपि कथम् शक्ष्ये द्विजोत्तम । गन्तुम् गृहम् गृहे च अहम् धीमन् न स्थातुम् उत्सहे ॥६२॥ ( एतत् सञ्चिन्त्य भगवन् विधत्स्व यत् अनन्तरम् ॥६२॥ )
kanyā-tve dūṣite ca api katham śakṣye dvijottama . gantum gṛham gṛhe ca aham dhīman na sthātum utsahe ..62.. ( etat sañcintya bhagavan vidhatsva yat anantaram ..62.. )
एवमुक्तवतीं तां तु प्रीतिमानृषिसत्तमः । उवाच मत्प्रियं कृत्वा कन्यैव त्वं भविष्यसि ॥६३॥
एवम् उक्तवतीम् ताम् तु प्रीतिमान् ऋषि-सत्तमः । उवाच मद्-प्रियम् कृत्वा कन्या एव त्वम् भविष्यसि ॥६३॥
evam uktavatīm tām tu prītimān ṛṣi-sattamaḥ . uvāca mad-priyam kṛtvā kanyā eva tvam bhaviṣyasi ..63..
वृणीष्व च वरं भीरु यं त्वमिच्छसि भामिनि । वृथा हि न प्रसादो मे भूतपूर्वः शुचिस्मिते ॥६४॥
वृणीष्व च वरम् भीरु यम् त्वम् इच्छसि भामिनि । वृथा हि न प्रसादः मे भूत-पूर्वः शुचि-स्मिते ॥६४॥
vṛṇīṣva ca varam bhīru yam tvam icchasi bhāmini . vṛthā hi na prasādaḥ me bhūta-pūrvaḥ śuci-smite ..64..
एवमुक्ता वरं वव्रे गात्रसौगन्ध्यमुत्तमम् । स चास्यै भगवान्प्रादान्मनसः काङ्क्षितं प्रभुः ॥६५॥
एवम् उक्ता वरम् वव्रे गात्र-सौगन्ध्यम् उत्तमम् । स च अस्यै भगवान् प्रादात् मनसः काङ्क्षितम् प्रभुः ॥६५॥
evam uktā varam vavre gātra-saugandhyam uttamam . sa ca asyai bhagavān prādāt manasaḥ kāṅkṣitam prabhuḥ ..65..
ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता । जगाम सह संसर्गमृषिणाद्भुतकर्मणा ॥६६॥
ततस् लब्ध-वरा प्रीता स्त्री-भाव-गुण-भूषिता । जगाम सह संसर्गम् ऋषिणा अद्भुत-कर्मणा ॥६६॥
tatas labdha-varā prītā strī-bhāva-guṇa-bhūṣitā . jagāma saha saṃsargam ṛṣiṇā adbhuta-karmaṇā ..66..
तेन गन्धवतीत्येव नामास्याः प्रथितं भुवि । तस्यास्तु योजनाद्गन्धमाजिघ्रन्ति नरा भुवि ॥६७॥
तेन गन्धवती इति एव नाम अस्याः प्रथितम् भुवि । तस्याः तु योजनात् गन्धम् आजिघ्रन्ति नराः भुवि ॥६७॥
tena gandhavatī iti eva nāma asyāḥ prathitam bhuvi . tasyāḥ tu yojanāt gandham ājighranti narāḥ bhuvi ..67..
ततो योजनगन्धेति तस्या नाम परिश्रुतम् । पराशरोऽपि भगवाञ्जगाम स्वं निवेशनम् ॥६८॥
ततस् योजनगन्धा इति तस्याः नाम परिश्रुतम् । पराशरः अपि भगवान् जगाम स्वम् निवेशनम् ॥६८॥
tatas yojanagandhā iti tasyāḥ nāma pariśrutam . parāśaraḥ api bhagavān jagāma svam niveśanam ..68..
इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम् । पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा ॥६९॥ ( जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान् ॥६९॥ )
इति सत्यवती हृष्टा लब्ध्वा वरम् अनुत्तमम् । पराशरेण संयुक्ता सद्यस् गर्भम् सुषाव सा ॥६९॥ ( जज्ञे च यमुना-द्वीपे पाराशर्यः स वीर्यवान् ॥६९॥ )
iti satyavatī hṛṣṭā labdhvā varam anuttamam . parāśareṇa saṃyuktā sadyas garbham suṣāva sā ..69.. ( jajñe ca yamunā-dvīpe pārāśaryaḥ sa vīryavān ..69.. )
स मातरमुपस्थाय तपस्येव मनो दधे । स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत् ॥७०॥
स मातरम् उपस्थाय तपसि एव मनः दधे । स्मृतः अहम् दर्शयिष्यामि कृत्येषु इति च सः अब्रवीत् ॥७०॥
sa mātaram upasthāya tapasi eva manaḥ dadhe . smṛtaḥ aham darśayiṣyāmi kṛtyeṣu iti ca saḥ abravīt ..70..
एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् । द्वीपे न्यस्तः स यद्बालस्तस्माद्द्वैपायनोऽभवत् ॥७१॥
एवम् द्वैपायनः जज्ञे सत्यवत्याम् पराशरात् । द्वीपे न्यस्तः स यत् बालः तस्मात् द्वैपायनः अभवत् ॥७१॥
evam dvaipāyanaḥ jajñe satyavatyām parāśarāt . dvīpe nyastaḥ sa yat bālaḥ tasmāt dvaipāyanaḥ abhavat ..71..
पादापसारिणं धर्मं विद्वान्स तु युगे युगे । आयुः शक्तिं च मर्त्यानां युगानुगमवेक्ष्य च ॥७२॥
पाद-अपसारिणम् धर्मम् विद्वान् स तु युगे युगे । आयुः शक्तिम् च मर्त्यानाम् युग-अनुगम् अवेक्ष्य च ॥७२॥
pāda-apasāriṇam dharmam vidvān sa tu yuge yuge . āyuḥ śaktim ca martyānām yuga-anugam avekṣya ca ..72..
ब्रह्मणो ब्राह्मणानां च तथानुग्रहकाम्यया । विव्यास वेदान्यस्माच्च तस्माद्व्यास इति स्मृतः ॥७३॥
ब्रह्मणः ब्राह्मणानाम् च तथा अनुग्रह-काम्यया । विव्यास वेद अन्यस्मात् च तस्मात् व्यासः इति स्मृतः ॥७३॥
brahmaṇaḥ brāhmaṇānām ca tathā anugraha-kāmyayā . vivyāsa veda anyasmāt ca tasmāt vyāsaḥ iti smṛtaḥ ..73..
वेदानध्यापयामास महाभारतपञ्चमान् । सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम् ॥७४॥
वेदान् अध्यापयामास महाभारत-पञ्चमान् । सुमन्तुम् जैमिनिम् पैलम् शुकम् च एव स्वम् आत्मजम् ॥७४॥
vedān adhyāpayāmāsa mahābhārata-pañcamān . sumantum jaiminim pailam śukam ca eva svam ātmajam ..74..
प्रभुर्वरिष्ठो वरदो वैशम्पायनमेव च । संहितास्तैः पृथक्त्वेन भारतस्य प्रकाशिताः ॥७५॥1.63.90
प्रभुः वरिष्ठः वर-दः वैशम्पायनम् एव च । संहिताः तैः पृथक्त्वेन भारतस्य प्रकाशिताः ॥७५॥१।६३।९०
prabhuḥ variṣṭhaḥ vara-daḥ vaiśampāyanam eva ca . saṃhitāḥ taiḥ pṛthaktvena bhāratasya prakāśitāḥ ..75..1.63.90
तथा भीष्मः शान्तनवो गङ्गायाममितद्युतिः । वसुवीर्यात्समभवन्महावीर्यो महायशाः ॥७६॥
तथा भीष्मः शान्तनवः गङ्गायाम् अमित-द्युतिः । वसु-वीर्यात् समभवत् महा-वीर्यः महा-यशाः ॥७६॥
tathā bhīṣmaḥ śāntanavaḥ gaṅgāyām amita-dyutiḥ . vasu-vīryāt samabhavat mahā-vīryaḥ mahā-yaśāḥ ..76..
शूले प्रोतः पुराणर्षिरचोरश्चोरशङ्कया । अणीमाण्डव्य इति वै विख्यातः सुमहायशाः ॥७७॥
शूले प्रोतः पुराण-ऋषिः अ चोरः चोर-शङ्कया । अणीमाण्डव्यः इति वै विख्यातः सु महा-यशाः ॥७७॥
śūle protaḥ purāṇa-ṛṣiḥ a coraḥ cora-śaṅkayā . aṇīmāṇḍavyaḥ iti vai vikhyātaḥ su mahā-yaśāḥ ..77..
स धर्ममाहूय पुरा महर्षिरिदमुक्तवान् । इषीकया मया बाल्यादेका विद्धा शकुन्तिका ॥७८॥
स धर्मम् आहूय पुरा महा-ऋषिः इदम् उक्तवान् । इषीकया मया बाल्यात् एका विद्धा शकुन्तिका ॥७८॥
sa dharmam āhūya purā mahā-ṛṣiḥ idam uktavān . iṣīkayā mayā bālyāt ekā viddhā śakuntikā ..78..
तत्किल्बिषं स्मरे धर्म नान्यत्पापमहं स्मरे । तन्मे सहस्रसमितं कस्मान्नेहाजयत्तपः ॥७९॥
तत् किल्बिषम् स्मरे धर्म न अन्यत् पापम् अहम् स्मरे । तत् मे सहस्र-समितम् कस्मात् न इह अजयत् तपः ॥७९॥
tat kilbiṣam smare dharma na anyat pāpam aham smare . tat me sahasra-samitam kasmāt na iha ajayat tapaḥ ..79..
गरीयान्ब्राह्मणवधः सर्वभूतवधाद्यतः । तस्मात्त्वं किल्बिषादस्माच्छूद्रयोनौ जनिष्यसि ॥८०॥
गरीयान् ब्राह्मण-वधः सर्व-भूत-वधात् यतस् । तस्मात् त्वम् किल्बिषात् अस्मात् शूद्र-योनौ जनिष्यसि ॥८०॥
garīyān brāhmaṇa-vadhaḥ sarva-bhūta-vadhāt yatas . tasmāt tvam kilbiṣāt asmāt śūdra-yonau janiṣyasi ..80..
तेन शापेन धर्मोऽपि शूद्रयोनावजायत । विद्वान्विदुररूपेण धार्मी तनुरकिल्बिषी ॥८१॥
तेन शापेन धर्मः अपि शूद्र-योनौ अजायत । विद्वान् विदुर-रूपेण धार्मी तनुः अकिल्बिषी ॥८१॥
tena śāpena dharmaḥ api śūdra-yonau ajāyata . vidvān vidura-rūpeṇa dhārmī tanuḥ akilbiṣī ..81..
सञ्जयो मुनिकल्पस्तु जज्ञे सूतो गवल्गणात् । सूर्याच्च कुन्तिकन्यायां जज्ञे कर्णो महारथः ॥८२॥ ( सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः ॥८२॥ )
सञ्जयः मुनि-कल्पः तु जज्ञे सूतः गवल्गणात् । सूर्यात् च कुन्ति-कन्यायाम् जज्ञे कर्णः महा-रथः ॥८२॥ ( सहजम् कवचम् बिभ्रत् कुण्डल-उद्द्योतित-आननः ॥८२॥ )
sañjayaḥ muni-kalpaḥ tu jajñe sūtaḥ gavalgaṇāt . sūryāt ca kunti-kanyāyām jajñe karṇaḥ mahā-rathaḥ ..82.. ( sahajam kavacam bibhrat kuṇḍala-uddyotita-ānanaḥ ..82.. )
अनुग्रहार्थं लोकानां विष्णुर्लोकनमस्कृतः । वसुदेवात्तु देवक्यां प्रादुर्भूतो महायशाः ॥८३॥
अनुग्रह-अर्थम् लोकानाम् विष्णुः लोक-नमस्कृतः । वसुदेवात् तु देवक्याम् प्रादुर्भूतः महा-यशाः ॥८३॥
anugraha-artham lokānām viṣṇuḥ loka-namaskṛtaḥ . vasudevāt tu devakyām prādurbhūtaḥ mahā-yaśāḥ ..83..
अनादिनिधनो देवः स कर्ता जगतः प्रभुः । अव्यक्तमक्षरं ब्रह्म प्रधानं निर्गुणात्मकम् ॥८४॥
अन् आदि-निधनः देवः स कर्ता जगतः प्रभुः । अव्यक्तम् अक्षरम् ब्रह्म प्रधानम् निर्गुण-आत्मकम् ॥८४॥
an ādi-nidhanaḥ devaḥ sa kartā jagataḥ prabhuḥ . avyaktam akṣaram brahma pradhānam nirguṇa-ātmakam ..84..
आत्मानमव्ययं चैव प्रकृतिं प्रभवं परम् । पुरुषं विश्वकर्माणं सत्त्वयोगं ध्रुवाक्षरम् ॥८५॥
आत्मानम् अव्ययम् च एव प्रकृतिम् प्रभवम् परम् । पुरुषम् विश्वकर्माणम् सत्त्व-योगम् ध्रुवाक्षरम् ॥८५॥
ātmānam avyayam ca eva prakṛtim prabhavam param . puruṣam viśvakarmāṇam sattva-yogam dhruvākṣaram ..85..
अनन्तमचलं देवं हंसं नारायणं प्रभुम् । धातारमजरं नित्यं तमाहुः परमव्ययम् ॥८६॥
अनन्तम् अचलम् देवम् हंसम् नारायणम् प्रभुम् । धातारम् अजरम् नित्यम् तम् आहुः परम् अव्ययम् ॥८६॥
anantam acalam devam haṃsam nārāyaṇam prabhum . dhātāram ajaram nityam tam āhuḥ param avyayam ..86..
पुरुषः स विभुः कर्ता सर्वभूतपितामहः । धर्मसंवर्धनार्थाय प्रजज्ञेऽन्धकवृष्णिषु ॥८७॥
पुरुषः स विभुः कर्ता सर्व-भूत-पितामहः । धर्म-संवर्धन-अर्थाय प्रजज्ञे अन्धक-वृष्णिषु ॥८७॥
puruṣaḥ sa vibhuḥ kartā sarva-bhūta-pitāmahaḥ . dharma-saṃvardhana-arthāya prajajñe andhaka-vṛṣṇiṣu ..87..
अस्त्रज्ञौ तु महावीर्यौ सर्वशस्त्रविशारदौ । सात्यकिः कृतवर्मा च नारायणमनुव्रतौ ॥८८॥ ( सत्यकाद्धृदिकाच्चैव जज्ञातेऽस्त्रविशारदौ ॥८८॥ )
अस्त्र-ज्ञौ तु महा-वीर्यौ सर्व-शस्त्र-विशारदौ । सात्यकिः कृतवर्मा च नारायणम् अनुव्रतौ ॥८८॥ ( सत्यकात् हृदिकात् च एव जज्ञाते अस्त्र-विशारदौ ॥८८॥ )
astra-jñau tu mahā-vīryau sarva-śastra-viśāradau . sātyakiḥ kṛtavarmā ca nārāyaṇam anuvratau ..88.. ( satyakāt hṛdikāt ca eva jajñāte astra-viśāradau ..88.. )
भरद्वाजस्य च स्कन्नं द्रोण्यां शुक्रमवर्धत । महर्षेरुग्रतपसस्तस्माद्द्रोणो व्यजायत ॥८९॥
भरद्वाजस्य च स्कन्नम् द्रोण्याम् शुक्रम् अवर्धत । महा-ऋषेः उग्र-तपसः तस्मात् द्रोणः व्यजायत ॥८९॥
bharadvājasya ca skannam droṇyām śukram avardhata . mahā-ṛṣeḥ ugra-tapasaḥ tasmāt droṇaḥ vyajāyata ..89..
गौतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः । अश्वत्थाम्नश्च जननी कृपश्चैव महाबलः ॥९०॥ ( अश्वत्थामा ततो जज्ञे द्रोणादस्त्रभृतां वरः ॥९०॥ )
गौतमात् मिथुनम् जज्ञे शरस्तम्बात् शरद्वतः । अश्वत्थाम्नः च जननी कृपः च एव महा-बलः ॥९०॥ ( अश्वत्थामा ततस् जज्ञे द्रोणात् अस्त्र-भृताम् वरः ॥९०॥ )
gautamāt mithunam jajñe śarastambāt śaradvataḥ . aśvatthāmnaḥ ca jananī kṛpaḥ ca eva mahā-balaḥ ..90.. ( aśvatthāmā tatas jajñe droṇāt astra-bhṛtām varaḥ ..90.. )
तथैव धृष्टद्युम्नोऽपि साक्षादग्निसमद्युतिः । वैताने कर्मणि तते पावकात्समजायत ॥९१॥ ( वीरो द्रोणविनाशाय धनुषा सह वीर्यवान् ॥९१॥ )
तथा एव धृष्टद्युम्नः अपि साक्षात् अग्नि-सम-द्युतिः । वैताने कर्मणि तते पावकात् समजायत ॥९१॥ ( वीरः द्रोण-विनाशाय धनुषा सह वीर्यवान् ॥९१॥ )
tathā eva dhṛṣṭadyumnaḥ api sākṣāt agni-sama-dyutiḥ . vaitāne karmaṇi tate pāvakāt samajāyata ..91.. ( vīraḥ droṇa-vināśāya dhanuṣā saha vīryavān ..91.. )
तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा । विभ्राजमाना वपुषा बिभ्रती रूपमुत्तमम् ॥९२॥
तथा एव वेद्याम् कृष्णा अपि जज्ञे तेजस्विनी शुभा । विभ्राजमाना वपुषा बिभ्रती रूपम् उत्तमम् ॥९२॥
tathā eva vedyām kṛṣṇā api jajñe tejasvinī śubhā . vibhrājamānā vapuṣā bibhratī rūpam uttamam ..92..
प्रह्रादशिष्यो नग्नजित्सुबलश्चाभवत्ततः । तस्य प्रजा धर्महन्त्री जज्ञे देवप्रकोपनात् ॥९३॥
प्रह्राद-शिष्यः नग्नजित् सुबलः च अभवत् ततस् । तस्य प्रजा धर्म-हन्त्री जज्ञे देव-प्रकोपनात् ॥९३॥
prahrāda-śiṣyaḥ nagnajit subalaḥ ca abhavat tatas . tasya prajā dharma-hantrī jajñe deva-prakopanāt ..93..
गान्धारराजपुत्रोऽभूच्छकुनिः सौबलस्तथा । दुर्योधनस्य माता च जज्ञातेऽर्थविदावुभौ ॥९४॥
गान्धार-राज-पुत्रः अभूत् शकुनिः सौबलः तथा । दुर्योधनस्य माता च जज्ञाते अर्थ-विदौ उभौ ॥९४॥
gāndhāra-rāja-putraḥ abhūt śakuniḥ saubalaḥ tathā . duryodhanasya mātā ca jajñāte artha-vidau ubhau ..94..
कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः । क्षेत्रे विचित्रवीर्यस्य पाण्डुश्चैव महाबलः ॥९५॥
कृष्णद्वैपायनात् जज्ञे धृतराष्ट्रः जनेश्वरः । क्षेत्रे विचित्र-वीर्यस्य पाण्डुः च एव महा-बलः ॥९५॥
kṛṣṇadvaipāyanāt jajñe dhṛtarāṣṭraḥ janeśvaraḥ . kṣetre vicitra-vīryasya pāṇḍuḥ ca eva mahā-balaḥ ..95..
पाण्डोस्तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक् । द्वयोः स्त्रियोर्गुणज्येष्ठस्तेषामासीद्युधिष्ठिरः ॥९६॥
पाण्डोः तु जज्ञिरे पञ्च पुत्राः देव-समाः पृथक् । द्वयोः स्त्रियोः गुण-ज्येष्ठः तेषाम् आसीत् युधिष्ठिरः ॥९६॥
pāṇḍoḥ tu jajñire pañca putrāḥ deva-samāḥ pṛthak . dvayoḥ striyoḥ guṇa-jyeṣṭhaḥ teṣām āsīt yudhiṣṭhiraḥ ..96..
धर्माद्युधिष्ठिरो जज्ञे मारुतात्तु वृकोदरः । इन्द्राद्धनञ्जयः श्रीमान्सर्वशस्त्रभृतां वरः ॥९७॥
धर्मात् युधिष्ठिरः जज्ञे मारुतात् तु वृकोदरः । इन्द्रात् हनञ्जयः श्रीमान् सर्व-शस्त्रभृताम् वरः ॥९७॥
dharmāt yudhiṣṭhiraḥ jajñe mārutāt tu vṛkodaraḥ . indrāt hanañjayaḥ śrīmān sarva-śastrabhṛtām varaḥ ..97..
जज्ञाते रूपसम्पन्नावश्विभ्यां तु यमावुभौ । नकुलः सहदेवश्च गुरुशुश्रूषणे रतौ ॥९८॥
जज्ञाते रूप-सम्पन्नौ अश्विभ्याम् तु यमौ उभौ । नकुलः सहदेवः च गुरु-शुश्रूषणे रतौ ॥९८॥
jajñāte rūpa-sampannau aśvibhyām tu yamau ubhau . nakulaḥ sahadevaḥ ca guru-śuśrūṣaṇe ratau ..98..
तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः । दुर्योधनप्रभृतयो युयुत्सुः करणस्तथा ॥९९॥
तथा पुत्र-शतम् जज्ञे धृतराष्ट्रस्य धीमतः । दुर्योधन-प्रभृतयः युयुत्सुः करणः तथा ॥९९॥
tathā putra-śatam jajñe dhṛtarāṣṭrasya dhīmataḥ . duryodhana-prabhṛtayaḥ yuyutsuḥ karaṇaḥ tathā ..99..
अभिमन्युः सुभद्रायामर्जुनादभ्यजायत । स्वस्रीयो वासुदेवस्य पौत्रः पाण्डोर्महात्मनः ॥१००॥
अभिमन्युः सुभद्रायाम् अर्जुनात् अभ्यजायत । स्वस्रीयः वासुदेवस्य पौत्रः पाण्डोः महात्मनः ॥१००॥
abhimanyuḥ subhadrāyām arjunāt abhyajāyata . svasrīyaḥ vāsudevasya pautraḥ pāṇḍoḥ mahātmanaḥ ..100..
पाण्डवेभ्योऽपि पञ्चभ्यः कृष्णायां पञ्च जज्ञिरे । कुमारा रूपसम्पन्नाः सर्वशस्त्रविशारदाः ॥१०१॥
पाण्डवेभ्यः अपि पञ्चभ्यः कृष्णायाम् पञ्च जज्ञिरे । कुमाराः रूप-सम्पन्नाः सर्व-शस्त्र-विशारदाः ॥१०१॥
pāṇḍavebhyaḥ api pañcabhyaḥ kṛṣṇāyām pañca jajñire . kumārāḥ rūpa-sampannāḥ sarva-śastra-viśāradāḥ ..101..
प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात् । अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ॥१०२॥
प्रतिविन्ध्यः युधिष्ठिरात् सुतसोमः वृकोदरात् । अर्जुनात् श्रुतकीर्तिः तु शतानीकः तु नाकुलिः ॥१०२॥
prativindhyaḥ yudhiṣṭhirāt sutasomaḥ vṛkodarāt . arjunāt śrutakīrtiḥ tu śatānīkaḥ tu nākuliḥ ..102..
तथैव सहदेवाच्च श्रुतसेनः प्रतापवान् । हिडिम्बायां च भीमेन वने जज्ञे घटोत्कचः ॥१०३॥
तथा एव सहदेवात् च श्रुतसेनः प्रतापवान् । हिडिम्बायाम् च भीमेन वने जज्ञे घटोत्कचः ॥१०३॥
tathā eva sahadevāt ca śrutasenaḥ pratāpavān . hiḍimbāyām ca bhīmena vane jajñe ghaṭotkacaḥ ..103..
शिखण्डी द्रुपदाज्जज्ञे कन्या पुत्रत्वमागता । यां यक्षः पुरुषं चक्रे स्थूणः प्रियचिकीर्षया ॥१०४॥
शिखण्डी द्रुपदात् जज्ञे कन्या पुत्र-त्वम् आगता । याम् यक्षः पुरुषम् चक्रे स्थूणः प्रिय-चिकीर्षया ॥१०४॥
śikhaṇḍī drupadāt jajñe kanyā putra-tvam āgatā . yām yakṣaḥ puruṣam cakre sthūṇaḥ priya-cikīrṣayā ..104..
कुरूणां विग्रहे तस्मिन्समागच्छन्बहून्यथ । राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे ॥१०५॥
कुरूणाम् विग्रहे तस्मिन् समागच्छन् बहूनि अथ । राज्ञाम् शत-सहस्राणि योत्स्यमानानि संयुगे ॥१०५॥
kurūṇām vigrahe tasmin samāgacchan bahūni atha . rājñām śata-sahasrāṇi yotsyamānāni saṃyuge ..105..
तेषामपरिमेयानि नामधेयानि सर्वशः । न शक्यं परिसङ्ख्यातुं वर्षाणामयुतैरपि ॥१०६॥
तेषाम् अपरिमेयानि नामधेयानि सर्वशस् । न शक्यम् परिसङ्ख्यातुम् वर्षाणाम् अयुतैः अपि ॥१०६॥
teṣām aparimeyāni nāmadheyāni sarvaśas . na śakyam parisaṅkhyātum varṣāṇām ayutaiḥ api ..106..
एते तु कीर्तिता मुख्या यैराख्यानमिदं ततम् ॥१०६॥ 1.63.127
एते तु कीर्तिताः मुख्याः यैः आख्यानम् इदम् ततम् ॥१०६॥ १।६३।१२७
ete tu kīrtitāḥ mukhyāḥ yaiḥ ākhyānam idam tatam ..106.. 1.63.127

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In