| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

जनमेजय उवाच॥
य एते कीर्तिता ब्रह्मन्ये चान्ये नानुकीर्तिताः । सम्यक्ताञ्श्रोतुमिच्छामि राज्ञश्चान्यान्सुवर्चसः ॥१॥
ये एते कीर्तिताः ब्रह्मन् ये च अन्ये न अनुकीर्तिताः । सम्यक् तान् श्रोतुम् इच्छामि राज्ञः च अन्यान् सु वर्चसः ॥१॥
ye ete kīrtitāḥ brahman ye ca anye na anukīrtitāḥ . samyak tān śrotum icchāmi rājñaḥ ca anyān su varcasaḥ ..1..
यदर्थमिह सम्भूता देवकल्पा महारथाः । भुवि तन्मे महाभाग सम्यगाख्यातुमर्हसि ॥२॥
यद्-अर्थम् इह सम्भूताः देव-कल्पाः महा-रथाः । भुवि तत् मे महाभाग सम्यक् आख्यातुम् अर्हसि ॥२॥
yad-artham iha sambhūtāḥ deva-kalpāḥ mahā-rathāḥ . bhuvi tat me mahābhāga samyak ākhyātum arhasi ..2..
वैशम्पायन उवाच॥
रहस्यं खल्विदं राजन्देवानामिति नः श्रुतम् । तत्तु ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे ॥३॥
रहस्यम् खलु इदम् राजन् देवानाम् इति नः श्रुतम् । तत् तु ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे ॥३॥
rahasyam khalu idam rājan devānām iti naḥ śrutam . tat tu te kathayiṣyāmi namaskṛtvā svayambhuve ..3..
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां पुरा । जामदग्न्यस्तपस्तेपे महेन्द्रे पर्वतोत्तमे ॥४॥
त्रिस् सप्त-कृत्वस् पृथिवीम् कृत्वा निःक्षत्रियाम् पुरा । जामदग्न्यः तपः तेपे महेन्द्रे पर्वत-उत्तमे ॥४॥
tris sapta-kṛtvas pṛthivīm kṛtvā niḥkṣatriyām purā . jāmadagnyaḥ tapaḥ tepe mahendre parvata-uttame ..4..
तदा निःक्षत्रिये लोके भार्गवेण कृते सति । ब्राह्मणान्क्षत्रिया राजन्गर्भार्थिन्योऽभिचक्रमुः ॥५॥
तदा निःक्षत्रिये लोके भार्गवेण कृते सति । ब्राह्मणान् क्षत्रियाः राजन् गर्भ-अर्थिन्यः अभिचक्रमुः ॥५॥
tadā niḥkṣatriye loke bhārgaveṇa kṛte sati . brāhmaṇān kṣatriyāḥ rājan garbha-arthinyaḥ abhicakramuḥ ..5..
ताभिः सह समापेतुर्ब्राह्मणाः संशितव्रताः । ऋतावृतौ नरव्याघ्र न कामान्नानृतौ तथा ॥६॥
ताभिः सह समापेतुः ब्राह्मणाः संशित-व्रताः । ऋतौ ऋतौ नर-व्याघ्र न कामात् न अनृतौ तथा ॥६॥
tābhiḥ saha samāpetuḥ brāhmaṇāḥ saṃśita-vratāḥ . ṛtau ṛtau nara-vyāghra na kāmāt na anṛtau tathā ..6..
तेभ्यस्तु लेभिरे गर्भान्क्षत्रियास्ताः सहस्रशः । ततः सुषुविरे राजन्क्षत्रियान्वीर्यसंमतान् ॥७॥ ( कुमारांश्च कुमारीश्च पुनः क्षत्राभिवृद्धये ॥७॥ )
तेभ्यः तु लेभिरे गर्भान् क्षत्रियाः ताः सहस्रशस् । ततस् सुषुविरे राजन् क्षत्रियान् वीर्य-संमतान् ॥७॥ ( कुमारान् च कुमारीः च पुनर् क्षत्र-अभिवृद्धये ॥७॥ )
tebhyaḥ tu lebhire garbhān kṣatriyāḥ tāḥ sahasraśas . tatas suṣuvire rājan kṣatriyān vīrya-saṃmatān ..7.. ( kumārān ca kumārīḥ ca punar kṣatra-abhivṛddhaye ..7.. )
एवं तद्ब्राह्मणैः क्षत्रं क्षत्रियासु तपस्विभिः । जातमृध्यत धर्मेण सुदीर्घेणायुषान्वितम् ॥८॥ ( चत्वारोऽपि तदा वर्णा बभूवुर्ब्राह्मणोत्तराः ॥८॥ )
एवम् तत् ब्राह्मणैः क्षत्रम् क्षत्रियासु तपस्विभिः । जातम् ऋध्यत धर्मेण सु दीर्घेण आयुषा अन्वितम् ॥८॥ ( चत्वारः अपि तदा वर्णाः बभूवुः ब्राह्मण-उत्तराः ॥८॥ )
evam tat brāhmaṇaiḥ kṣatram kṣatriyāsu tapasvibhiḥ . jātam ṛdhyata dharmeṇa su dīrgheṇa āyuṣā anvitam ..8.. ( catvāraḥ api tadā varṇāḥ babhūvuḥ brāhmaṇa-uttarāḥ ..8.. )
अभ्यगच्छन्नृतौ नारीं न कामान्नानृतौ तथा । तथैवान्यानि भूतानि तिर्यग्योनिगतान्यपि ॥९॥ ( ऋतौ दारांश्च गच्छन्ति तदा स्म भरतर्षभ ॥९॥ )
अभ्यगच्छत् ऋतौ नारीम् न कामान् न अनृतौ तथा । तथा एव अन्यानि भूतानि तिर्यग्योनि-गतानि अपि ॥९॥ ( ऋतौ दारान् च गच्छन्ति तदा स्म भरत-ऋषभ ॥९॥ )
abhyagacchat ṛtau nārīm na kāmān na anṛtau tathā . tathā eva anyāni bhūtāni tiryagyoni-gatāni api ..9.. ( ṛtau dārān ca gacchanti tadā sma bharata-ṛṣabha ..9.. )
ततोऽवर्धन्त धर्मेण सहस्रशतजीविनः । ताः प्रजाः पृथिवीपाल धर्मव्रतपरायणाः ॥१०॥ ( आधिभिर्व्याधिभिश्चैव विमुक्ताः सर्वशो नराः ॥१०॥ )
ततस् अवर्धन्त धर्मेण सहस्र-शत-जीविनः । ताः प्रजाः पृथिवीपाल धर्म-व्रत-परायणाः ॥१०॥ ( आधिभिः व्याधिभिः च एव विमुक्ताः सर्वशस् नराः ॥१०॥ )
tatas avardhanta dharmeṇa sahasra-śata-jīvinaḥ . tāḥ prajāḥ pṛthivīpāla dharma-vrata-parāyaṇāḥ ..10.. ( ādhibhiḥ vyādhibhiḥ ca eva vimuktāḥ sarvaśas narāḥ ..10.. )
अथेमां सागरापाङ्गां गां गजेन्द्रगताखिलाम् । अध्यतिष्ठत्पुनः क्षत्रं सशैलवनकाननाम् ॥११॥
अथा इमाम् सागर-अपाङ्गाम् गाम् गज-इन्द्र-गत-अखिलाम् । अध्यतिष्ठत् पुनर् क्षत्रम् स शैल-वन-काननाम् ॥११॥
athā imām sāgara-apāṅgām gām gaja-indra-gata-akhilām . adhyatiṣṭhat punar kṣatram sa śaila-vana-kānanām ..11..
प्रशासति पुनः क्षत्रे धर्मेणेमां वसुन्धराम् । ब्राह्मणाद्यास्तदा वर्णा लेभिरे मुदमुत्तमाम् ॥१२॥
प्रशासति पुनर् क्षत्रे धर्मेण इमाम् वसुन्धराम् । ब्राह्मण-आद्याः तदा वर्णाः लेभिरे मुदम् उत्तमाम् ॥१२॥
praśāsati punar kṣatre dharmeṇa imām vasundharām . brāhmaṇa-ādyāḥ tadā varṇāḥ lebhire mudam uttamām ..12..
कामक्रोधोद्भवान्दोषान्निरस्य च नराधिपाः । दण्डं दण्ड्येषु धर्मेण प्रणयन्तोऽन्वपालयन् ॥१३॥
काम-क्रोध-उद्भवान् दोषान् निरस्य च नराधिपाः । दण्डम् दण्ड्येषु धर्मेण प्रणयन्तः अन्वपालयन् ॥१३॥
kāma-krodha-udbhavān doṣān nirasya ca narādhipāḥ . daṇḍam daṇḍyeṣu dharmeṇa praṇayantaḥ anvapālayan ..13..
तथा धर्मपरे क्षत्रे सहस्राक्षः शतक्रतुः । स्वादु देशे च काले च ववर्षाप्याययन्प्रजाः ॥१४॥
तथा धर्म-परे क्षत्रे सहस्राक्षः शतक्रतुः । स्वादु देशे च काले च ववर्ष आप्याययन् प्रजाः ॥१४॥
tathā dharma-pare kṣatre sahasrākṣaḥ śatakratuḥ . svādu deśe ca kāle ca vavarṣa āpyāyayan prajāḥ ..14..
न बाल एव म्रियते तदा कश्चिन्नराधिप । न च स्त्रियं प्रजानाति कश्चिदप्राप्तयौवनः ॥१५॥
न बालः एव म्रियते तदा कश्चिद् नराधिप । न च स्त्रियम् प्रजानाति कश्चिद् अप्राप्त-यौवनः ॥१५॥
na bālaḥ eva mriyate tadā kaścid narādhipa . na ca striyam prajānāti kaścid aprāpta-yauvanaḥ ..15..
एवमायुष्मतीभिस्तु प्रजाभिर्भरतर्षभ । इयं सागरपर्यन्ता समापूर्यत मेदिनी ॥१६॥
एवम् आयुष्मतीभिः तु प्रजाभिः भरत-ऋषभ । इयम् सागर-पर्यन्ता समापूर्यत मेदिनी ॥१६॥
evam āyuṣmatībhiḥ tu prajābhiḥ bharata-ṛṣabha . iyam sāgara-paryantā samāpūryata medinī ..16..
ईजिरे च महायज्ञैः क्षत्रिया बहुदक्षिणैः । साङ्गोपनिषदान्वेदान्विप्राश्चाधीयते तदा ॥१७॥
ईजिरे च महा-यज्ञैः क्षत्रियाः बहु-दक्षिणैः । साङ्ग-उपनिषदान् वेदान् विप्राः च अधीयते तदा ॥१७॥
ījire ca mahā-yajñaiḥ kṣatriyāḥ bahu-dakṣiṇaiḥ . sāṅga-upaniṣadān vedān viprāḥ ca adhīyate tadā ..17..
न च विक्रीणते ब्रह्म ब्राह्मणाः स्म तदा नृप । न च शूद्रसमाभ्याशे वेदानुच्चारयन्त्युत ॥१८॥
न च विक्रीणते ब्रह्म ब्राह्मणाः स्म तदा नृप । न च शूद्र-सम-अभ्याशे वेदान् उच्चारयन्ति उत ॥१८॥
na ca vikrīṇate brahma brāhmaṇāḥ sma tadā nṛpa . na ca śūdra-sama-abhyāśe vedān uccārayanti uta ..18..
कारयन्तः कृषिं गोभिस्तथा वैश्याः क्षिताविह । न गामयुञ्जन्त धुरि कृशाङ्गाश्चाप्यजीवयन् ॥१९॥
कारयन्तः कृषिम् गोभिः तथा वैश्याः क्षितौ इह । न गाम् अयुञ्जन्त धुरि कृश-अङ्गाः च अपि अजीवयन् ॥१९॥
kārayantaḥ kṛṣim gobhiḥ tathā vaiśyāḥ kṣitau iha . na gām ayuñjanta dhuri kṛśa-aṅgāḥ ca api ajīvayan ..19..
फेनपांश्च तथा वत्सान्न दुहन्ति स्म मानवाः । न कूटमानैर्वणिजः पण्यं विक्रीणते तदा ॥२०॥
फेनपान् च तथा वत्सान् न दुहन्ति स्म मानवाः । न कूट-मानैः वणिजः पण्यम् विक्रीणते तदा ॥२०॥
phenapān ca tathā vatsān na duhanti sma mānavāḥ . na kūṭa-mānaiḥ vaṇijaḥ paṇyam vikrīṇate tadā ..20..
कर्माणि च नरव्याघ्र धर्मोपेतानि मानवाः । धर्ममेवानुपश्यन्तश्चक्रुर्धर्मपरायणाः ॥२१॥
कर्माणि च नर-व्याघ्र धर्म-उपेतानि मानवाः । धर्मम् एव अनुपश्यन्तः चक्रुः धर्म-परायणाः ॥२१॥
karmāṇi ca nara-vyāghra dharma-upetāni mānavāḥ . dharmam eva anupaśyantaḥ cakruḥ dharma-parāyaṇāḥ ..21..
स्वकर्मनिरताश्चासन्सर्वे वर्णा नराधिप । एवं तदा नरव्याघ्र धर्मो न ह्रसते क्वचित् ॥२२॥
स्व-कर्म-निरताः च आसन् सर्वे वर्णाः नराधिप । एवम् तदा नर-व्याघ्र धर्मः न ह्रसते क्वचिद् ॥२२॥
sva-karma-niratāḥ ca āsan sarve varṇāḥ narādhipa . evam tadā nara-vyāghra dharmaḥ na hrasate kvacid ..22..
काले गावः प्रसूयन्ते नार्यश्च भरतर्षभ । फलन्त्यृतुषु वृक्षाश्च पुष्पाणि च फलानि च ॥२३॥
काले गावः प्रसूयन्ते नार्यः च भरत-ऋषभ । फलन्ति ऋतुषु वृक्षाः च पुष्पाणि च फलानि च ॥२३॥
kāle gāvaḥ prasūyante nāryaḥ ca bharata-ṛṣabha . phalanti ṛtuṣu vṛkṣāḥ ca puṣpāṇi ca phalāni ca ..23..
एवं कृतयुगे सम्यग्वर्तमाने तदा नृप । आपूर्यत मही कृत्स्ना प्राणिभिर्बहुभिर्भृशम् ॥२४॥
एवम् कृत-युगे सम्यक् वर्तमाने तदा नृप । आपूर्यत मही कृत्स्ना प्राणिभिः बहुभिः भृशम् ॥२४॥
evam kṛta-yuge samyak vartamāne tadā nṛpa . āpūryata mahī kṛtsnā prāṇibhiḥ bahubhiḥ bhṛśam ..24..
ततः समुदिते लोके मानुषे भरतर्षभ । असुरा जज्ञिरे क्षेत्रे राज्ञां मनुजपुङ्गव ॥२५॥
ततस् समुदिते लोके मानुषे भरत-ऋषभ । असुराः जज्ञिरे क्षेत्रे राज्ञाम् मनुज-पुङ्गव ॥२५॥
tatas samudite loke mānuṣe bharata-ṛṣabha . asurāḥ jajñire kṣetre rājñām manuja-puṅgava ..25..
आदित्यैर्हि तदा दैत्या बहुशो निर्जिता युधि । ऐश्वर्याद्भ्रंशिताश्चापि सम्बभूवुः क्षिताविह ॥२६॥
आदित्यैः हि तदा दैत्याः बहुशस् निर्जिताः युधि । ऐश्वर्यात् भ्रंशिताः च अपि सम्बभूवुः क्षितौ इह ॥२६॥
ādityaiḥ hi tadā daityāḥ bahuśas nirjitāḥ yudhi . aiśvaryāt bhraṃśitāḥ ca api sambabhūvuḥ kṣitau iha ..26..
इह देवत्वमिच्छन्तो मानुषेषु मनस्विनः । जज्ञिरे भुवि भूतेषु तेषु तेष्वसुरा विभो ॥२७॥
इह देव-त्वम् इच्छन्तः मानुषेषु मनस्विनः । जज्ञिरे भुवि भूतेषु तेषु तेषु असुराः विभो ॥२७॥
iha deva-tvam icchantaḥ mānuṣeṣu manasvinaḥ . jajñire bhuvi bhūteṣu teṣu teṣu asurāḥ vibho ..27..
गोष्वश्वेषु च राजेन्द्र खरोष्ट्रमहिषेषु च । क्रव्यादेषु च भूतेषु गजेषु च मृगेषु च ॥२८॥
गोषु अश्वेषु च राज-इन्द्र खर-उष्ट्र-महिषेषु च । क्रव्यादेषु च भूतेषु गजेषु च मृगेषु च ॥२८॥
goṣu aśveṣu ca rāja-indra khara-uṣṭra-mahiṣeṣu ca . kravyādeṣu ca bhūteṣu gajeṣu ca mṛgeṣu ca ..28..
जातैरिह महीपाल जायमानैश्च तैर्मही । न शशाकात्मनात्मानमियं धारयितुं धरा ॥२९॥
जातैः इह महीपाल जायमानैः च तैः मही । न शशाक आत्मना आत्मानम् इयम् धारयितुम् धरा ॥२९॥
jātaiḥ iha mahīpāla jāyamānaiḥ ca taiḥ mahī . na śaśāka ātmanā ātmānam iyam dhārayitum dharā ..29..
अथ जाता महीपालाः केचिद्बलसमन्विताः । दितेः पुत्रा दनोश्चैव तस्माल्लोकादिह च्युताः ॥३०॥
अथ जाताः महीपालाः केचिद् बल-समन्विताः । दितेः पुत्राः दनोः च एव तस्मात् लोकात् इह च्युताः ॥३०॥
atha jātāḥ mahīpālāḥ kecid bala-samanvitāḥ . diteḥ putrāḥ danoḥ ca eva tasmāt lokāt iha cyutāḥ ..30..
वीर्यवन्तोऽवलिप्तास्ते नानारूपधरा महीम् । इमां सागरपर्यन्तां परीयुररिमर्दनाः ॥३१॥
वीर्यवन्तः अवलिप्ताः ते नाना रूप-धराः महीम् । इमाम् सागर-पर्यन्ताम् परीयुः अरि-मर्दनाः ॥३१॥
vīryavantaḥ avaliptāḥ te nānā rūpa-dharāḥ mahīm . imām sāgara-paryantām parīyuḥ ari-mardanāḥ ..31..
ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्चैवाप्यपीडयन् । अन्यानि चैव भूतानि पीडयामासुरोजसा ॥३२॥
ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रान् च एव अपि अपीडयन् । अन्यानि च एव भूतानि पीडयामासुः ओजसा ॥३२॥
brāhmaṇān kṣatriyān vaiśyān śūdrān ca eva api apīḍayan . anyāni ca eva bhūtāni pīḍayāmāsuḥ ojasā ..32..
त्रासयन्तो विनिघ्नन्तस्तांस्तान्भूतगणांश्च ते । विचेरुः सर्वतो राजन्महीं शतसहस्रशः ॥३३॥
त्रासयन्तः विनिघ्नन्तः तान् तान् भूत-गणान् च ते । विचेरुः सर्वतस् राजन् महीम् शत-सहस्रशस् ॥३३॥
trāsayantaḥ vinighnantaḥ tān tān bhūta-gaṇān ca te . viceruḥ sarvatas rājan mahīm śata-sahasraśas ..33..
आश्रमस्थान्महर्षींश्च धर्षयन्तस्ततस्ततः । अब्रह्मण्या वीर्यमदा मत्ता मदबलेन च ॥३४॥
आश्रम-स्थान् महा-ऋषीन् च धर्षयन्तः ततस् ततस् । अब्रह्मण्याः वीर्य-मदाः मत्ताः मद-बलेन च ॥३४॥
āśrama-sthān mahā-ṛṣīn ca dharṣayantaḥ tatas tatas . abrahmaṇyāḥ vīrya-madāḥ mattāḥ mada-balena ca ..34..
एवं वीर्यबलोत्सिक्तैर्भूरियं तैर्महासुरैः । पीड्यमाना महीपाल ब्रह्माणमुपचक्रमे ॥३५॥
एवम् वीर्य-बल-उत्सिक्तैः भूः इयम् तैः महा-असुरैः । पीड्यमाना महीपाल ब्रह्माणम् उपचक्रमे ॥३५॥
evam vīrya-bala-utsiktaiḥ bhūḥ iyam taiḥ mahā-asuraiḥ . pīḍyamānā mahīpāla brahmāṇam upacakrame ..35..
न हीमां पवनो राजन्न नागा न नगा महीम् । तदा धारयितुं शेकुराक्रान्तां दानवैर्बलात् ॥३६॥
न हि इमाम् पवनः राजन् न नागाः न नगाः महीम् । तदा धारयितुम् शेकुः आक्रान्ताम् दानवैः बलात् ॥३६॥
na hi imām pavanaḥ rājan na nāgāḥ na nagāḥ mahīm . tadā dhārayitum śekuḥ ākrāntām dānavaiḥ balāt ..36..
ततो मही महीपाल भारार्ता भयपीडिता । जगाम शरणं देवं सर्वभूतपितामहम् ॥३७॥
ततस् मही महीपाल भार-आर्ता भय-पीडिता । जगाम शरणम् देवम् सर्व-भूत-पितामहम् ॥३७॥
tatas mahī mahīpāla bhāra-ārtā bhaya-pīḍitā . jagāma śaraṇam devam sarva-bhūta-pitāmaham ..37..
सा संवृतं महाभागैर्देवद्विजमहर्षिभिः । ददर्श देवं ब्रह्माणं लोककर्तारमव्ययम् ॥३८॥
सा संवृतम् महाभागैः देव-द्विज-महा-ऋषिभिः । ददर्श देवम् ब्रह्माणम् लोककर्तारम् अव्ययम् ॥३८॥
sā saṃvṛtam mahābhāgaiḥ deva-dvija-mahā-ṛṣibhiḥ . dadarśa devam brahmāṇam lokakartāram avyayam ..38..
गन्धर्वैरप्सरोभिश्च बन्दिकर्मसु निष्ठितैः । वन्द्यमानं मुदोपेतैर्ववन्दे चैनमेत्य सा ॥३९॥
गन्धर्वैः अप्सरोभिः च बन्दि-कर्मसु निष्ठितैः । वन्द्यमानम् मुदा उपेतैः ववन्दे च एनम् एत्य सा ॥३९॥
gandharvaiḥ apsarobhiḥ ca bandi-karmasu niṣṭhitaiḥ . vandyamānam mudā upetaiḥ vavande ca enam etya sā ..39..
अथ विज्ञापयामास भूमिस्तं शरणार्थिनी । संनिधौ लोकपालानां सर्वेषामेव भारत ॥४०॥
अथ विज्ञापयामास भूमिः तम् शरण-अर्थिनी । संनिधौ लोकपालानाम् सर्वेषाम् एव भारत ॥४०॥
atha vijñāpayāmāsa bhūmiḥ tam śaraṇa-arthinī . saṃnidhau lokapālānām sarveṣām eva bhārata ..40..
तत्प्रधानात्मनस्तस्य भूमेः कृत्यं स्वयम्भुवः । पूर्वमेवाभवद्राजन्विदितं परमेष्ठिनः ॥४१॥
तद्-प्रधान-आत्मनः तस्य भूमेः कृत्यम् स्वयम्भुवः । पूर्वम् एव भवत् राजन् विदितम् परमेष्ठिनः ॥४१॥
tad-pradhāna-ātmanaḥ tasya bhūmeḥ kṛtyam svayambhuvaḥ . pūrvam eva bhavat rājan viditam parameṣṭhinaḥ ..41..
स्रष्टा हि जगतः कस्मान्न सम्बुध्येत भारत । सुरासुराणां लोकानामशेषेण मनोगतम् ॥४२॥
स्रष्टा हि जगतः कस्मात् न सम्बुध्येत भारत । सुर-असुराणाम् लोकानाम् अशेषेण मनोगतम् ॥४२॥
sraṣṭā hi jagataḥ kasmāt na sambudhyeta bhārata . sura-asurāṇām lokānām aśeṣeṇa manogatam ..42..
तमुवाच महाराज भूमिं भूमिपतिर्विभुः । प्रभवः सर्वभूतानामीशः शम्भुः प्रजापतिः ॥४३॥
तम् उवाच महा-राज भूमिम् भूमिपतिः विभुः । प्रभवः सर्व-भूतानाम् ईशः शम्भुः प्रजापतिः ॥४३॥
tam uvāca mahā-rāja bhūmim bhūmipatiḥ vibhuḥ . prabhavaḥ sarva-bhūtānām īśaḥ śambhuḥ prajāpatiḥ ..43..
यदर्थमसि सम्प्राप्ता मत्सकाशं वसुन्धरे । तदर्थं संनियोक्ष्यामि सर्वानेव दिवौकसः ॥४४॥
यद्-अर्थम् असि सम्प्राप्ता मद्-सकाशम् वसुन्धरे । तद्-अर्थम् संनियोक्ष्यामि सर्वान् एव दिवौकसः ॥४४॥
yad-artham asi samprāptā mad-sakāśam vasundhare . tad-artham saṃniyokṣyāmi sarvān eva divaukasaḥ ..44..
इत्युक्त्वा स महीं देवो ब्रह्मा राजन्विसृज्य च । आदिदेश तदा सर्वान्विबुधान्भूतकृत्स्वयम् ॥४५॥
इति उक्त्वा स महीम् देवः ब्रह्मा राजन् विसृज्य च । आदिदेश तदा सर्वान् विबुधान् भूतकृत् स्वयम् ॥४५॥
iti uktvā sa mahīm devaḥ brahmā rājan visṛjya ca . ādideśa tadā sarvān vibudhān bhūtakṛt svayam ..45..
अस्या भूमेर्निरसितुं भारं भागैः पृथक्पृथक् । अस्यामेव प्रसूयध्वं विरोधायेति चाब्रवीत् ॥४६॥
अस्याः भूमेः निरसितुम् भारम् भागैः पृथक् पृथक् । अस्याम् एव प्रसूयध्वम् विरोधाय इति च अब्रवीत् ॥४६॥
asyāḥ bhūmeḥ nirasitum bhāram bhāgaiḥ pṛthak pṛthak . asyām eva prasūyadhvam virodhāya iti ca abravīt ..46..
तथैव च समानीय गन्धर्वाप्सरसां गणान् । उवाच भगवान्सर्वानिदं वचनमुत्तमम् ॥४७॥ ( स्वैरंशैः सम्प्रसूयध्वं यथेष्टं मानुषेष्विति ॥४७॥ )
तथा एव च समानीय गन्धर्व-अप्सरसाम् गणान् । उवाच भगवान् सर्वान् इदम् वचनम् उत्तमम् ॥४७॥ ( स्वैः अंशैः सम्प्रसूयध्वम् यथा इष्टम् मानुषेषु इति ॥४७॥ )
tathā eva ca samānīya gandharva-apsarasām gaṇān . uvāca bhagavān sarvān idam vacanam uttamam ..47.. ( svaiḥ aṃśaiḥ samprasūyadhvam yathā iṣṭam mānuṣeṣu iti ..47.. )
अथ शक्रादयः सर्वे श्रुत्वा सुरगुरोर्वचः । तथ्यमर्थ्यं च पथ्यं च तस्य ते जगृहुस्तदा ॥४८॥
अथ शक्र-आदयः सर्वे श्रुत्वा सुरगुरोः वचः । तथ्यम् अर्थ्यम् च पथ्यम् च तस्य ते जगृहुः तदा ॥४८॥
atha śakra-ādayaḥ sarve śrutvā suraguroḥ vacaḥ . tathyam arthyam ca pathyam ca tasya te jagṛhuḥ tadā ..48..
अथ ते सर्वशोंऽशैः स्वैर्गन्तुं भूमिं कृतक्षणाः । नारायणममित्रघ्नं वैकुण्ठमुपचक्रमुः ॥४९॥
अथ ते सर्वशस् ॐऽशैः स्वैः गन्तुम् भूमिम् कृतक्षणाः । नारायणम् अमित्र-घ्नम् वैकुण्ठम् उपचक्रमुः ॥४९॥
atha te sarvaśas oṃ'śaiḥ svaiḥ gantum bhūmim kṛtakṣaṇāḥ . nārāyaṇam amitra-ghnam vaikuṇṭham upacakramuḥ ..49..
यः स चक्रगदापाणिः पीतवासासितप्रभः । पद्मनाभः सुरारिघ्नः पृथुचार्वञ्चितेक्षणः ॥५०॥
यः स चक्र-गदा-पाणिः पीत-वासा-सित-प्रभः । ॥५०॥
yaḥ sa cakra-gadā-pāṇiḥ pīta-vāsā-sita-prabhaḥ . ..50..
तं भुवः शोधनायेन्द्र उवाच पुरुषोत्तमम् । अंशेनावतरस्वेति तथेत्याह च तं हरिः ॥५१॥1.64.54
तम् भुवः शोधनाय इन्द्रः उवाच पुरुषोत्तमम् । अंशेन अवतरस्व इति तथा इति आह च तम् हरिः ॥५१॥१।६४।५४
tam bhuvaḥ śodhanāya indraḥ uvāca puruṣottamam . aṃśena avatarasva iti tathā iti āha ca tam hariḥ ..51..1.64.54

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In