| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
अथ नारायणेनेन्द्रश्चकार सह संविदम् । अवतर्तुं महीं स्वर्गादंशतः सहितः सुरैः ॥१॥
अथ नारायणेन इन्द्रः चकार सह संविदम् । अवतर्तुम् महीम् स्वर्ग-आदंशतः सहितः सुरैः ॥१॥
atha nārāyaṇena indraḥ cakāra saha saṃvidam . avatartum mahīm svarga-ādaṃśataḥ sahitaḥ suraiḥ ..1..
आदिश्य च स्वयं शक्रः सर्वानेव दिवौकसः । निर्जगाम पुनस्तस्मात्क्षयान्नारायणस्य ह ॥२॥
आदिश्य च स्वयम् शक्रः सर्वान् एव दिवौकसः । निर्जगाम पुनर् तस्मात् क्षयात् नारायणस्य ह ॥२॥
ādiśya ca svayam śakraḥ sarvān eva divaukasaḥ . nirjagāma punar tasmāt kṣayāt nārāyaṇasya ha ..2..
तेऽमरारिविनाशाय सर्वलोकहिताय च । अवतेरुः क्रमेणेमां महीं स्वर्गाद्दिवौकसः ॥३॥
ते अमरारि-विनाशाय सर्व-लोक-हिताय च । अवतेरुः क्रमेण इमाम् महीम् स्वर्गात् दिवौकसः ॥३॥
te amarāri-vināśāya sarva-loka-hitāya ca . avateruḥ krameṇa imām mahīm svargāt divaukasaḥ ..3..
ततो ब्रह्मर्षिवंशेषु पार्थिवर्षिकुलेषु च । जज्ञिरे राजशार्दूल यथाकामं दिवौकसः ॥४॥
ततस् ब्रह्मर्षि-वंशेषु पार्थिव-ऋषि-कुलेषु च । जज्ञिरे राज-शार्दूल यथाकामम् दिवौकसः ॥४॥
tatas brahmarṣi-vaṃśeṣu pārthiva-ṛṣi-kuleṣu ca . jajñire rāja-śārdūla yathākāmam divaukasaḥ ..4..
दानवान्राक्षसांश्चैव गन्धर्वान्पन्नगांस्तथा । पुरुषादानि चान्यानि जघ्नुः सत्त्वान्यनेकशः ॥५॥
दानवान् राक्षसान् च एव गन्धर्वान् पन्नगान् तथा । पुरुष-आदानि च अन्यानि जघ्नुः सत्त्वानि अनेकशस् ॥५॥
dānavān rākṣasān ca eva gandharvān pannagān tathā . puruṣa-ādāni ca anyāni jaghnuḥ sattvāni anekaśas ..5..
दानवा राक्षसाश्चैव गन्धर्वाः पन्नगास्तथा । न तान्बलस्थान्बाल्येऽपि जघ्नुर्भरतसत्तम ॥६॥
दानवाः राक्षसाः च एव गन्धर्वाः पन्नगाः तथा । न तान् बलस्थान् बाल्ये अपि जघ्नुः भरत-सत्तम ॥६॥
dānavāḥ rākṣasāḥ ca eva gandharvāḥ pannagāḥ tathā . na tān balasthān bālye api jaghnuḥ bharata-sattama ..6..
जनमेजय उवाच॥
देवदानवसङ्घानां गन्धर्वाप्सरसां तथा । मानवानां च सर्वेषां तथा वै यक्षरक्षसाम् ॥७॥
देव-दानव-सङ्घानाम् गन्धर्व-अप्सरसाम् तथा । मानवानाम् च सर्वेषाम् तथा वै यक्ष-रक्षसाम् ॥७॥
deva-dānava-saṅghānām gandharva-apsarasām tathā . mānavānām ca sarveṣām tathā vai yakṣa-rakṣasām ..7..
श्रोतुमिच्छामि तत्त्वेन सम्भवं कृत्स्नमादितः । प्राणिनां चैव सर्वेषां सर्वशः सर्वविद्ध्यसि ॥८॥
श्रोतुम् इच्छामि तत्त्वेन सम्भवम् कृत्स्नम् आदितस् । प्राणिनाम् च एव सर्वेषाम् सर्वशस् सर्व-विद् हि असि ॥८॥
śrotum icchāmi tattvena sambhavam kṛtsnam āditas . prāṇinām ca eva sarveṣām sarvaśas sarva-vid hi asi ..8..
वैशम्पायन उवाच॥
हन्त ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे । सुरादीनामहं सम्यग्लोकानां प्रभवाप्ययम् ॥९॥
हन्त ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे । सुर-आदीनाम् अहम् सम्यक् लोकानाम् प्रभव-अप्ययम् ॥९॥
hanta te kathayiṣyāmi namaskṛtvā svayambhuve . sura-ādīnām aham samyak lokānām prabhava-apyayam ..9..
ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः । मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ॥१०॥
ब्रह्मणः मानसाः पुत्राः विदिताः षष्-महा-ऋषयः । मरीचिः अत्रि-अङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ॥१०॥
brahmaṇaḥ mānasāḥ putrāḥ viditāḥ ṣaṣ-mahā-ṛṣayaḥ . marīciḥ atri-aṅgirasau pulastyaḥ pulahaḥ kratuḥ ..10..
मरीचेः कश्यपः पुत्रः कश्यपात्तु इमाः प्रजाः । प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश ॥११॥
मरीचेः कश्यपः पुत्रः कश्यपात् तु इमाः प्रजाः । प्रजज्ञिरे महाभागाः दक्ष-कन्याः त्रयोदश ॥११॥
marīceḥ kaśyapaḥ putraḥ kaśyapāt tu imāḥ prajāḥ . prajajñire mahābhāgāḥ dakṣa-kanyāḥ trayodaśa ..11..
अदितिर्दितिर्दनुः काला अनायुः सिंहिका मुनिः । क्रोधा प्रावा अरिष्टा च विनता कपिला तथा ॥१२॥
अदितिः दितिः दनुः काला सिंहिका मुनिः । क्रोधा प्रावा अरिष्टा च विनता कपिला तथा ॥१२॥
aditiḥ ditiḥ danuḥ kālā siṃhikā muniḥ . krodhā prāvā ariṣṭā ca vinatā kapilā tathā ..12..
कद्रूश्च मनुजव्याघ्र दक्षकन्यैव भारत । एतासां वीर्यसम्पन्नं पुत्रपौत्रमनन्तकम् ॥१३॥
कद्रूः च मनुज-व्याघ्र दक्ष-कन्या एव भारत । एतासाम् वीर्य-सम्पन्नम् पुत्र-पौत्रम् अनन्तकम् ॥१३॥
kadrūḥ ca manuja-vyāghra dakṣa-kanyā eva bhārata . etāsām vīrya-sampannam putra-pautram anantakam ..13..
अदित्यां द्वादशादित्याः सम्भूता भुवनेश्वराः । ये राजन्नामतस्तांस्ते कीर्तयिष्यामि भारत ॥१४॥
अदित्याम् द्वादश आदित्याः सम्भूताः भुवन-ईश्वराः । ये राजन् नामतः तान् ते कीर्तयिष्यामि भारत ॥१४॥
adityām dvādaśa ādityāḥ sambhūtāḥ bhuvana-īśvarāḥ . ye rājan nāmataḥ tān te kīrtayiṣyāmi bhārata ..14..
धाता मित्रोऽर्यमा शक्रो वरुणश्चांश एव च । भगो विवस्वान्पूषा च सविता दशमस्तथा ॥१५॥
धाता मित्रः अर्यमा शक्रः वरुणः च अंशः एव च । भगः विवस्वान् पूषा च सविता दशमः तथा ॥१५॥
dhātā mitraḥ aryamā śakraḥ varuṇaḥ ca aṃśaḥ eva ca . bhagaḥ vivasvān pūṣā ca savitā daśamaḥ tathā ..15..
एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते । जघन्यजः स सर्वेषामादित्यानां गुणाधिकः ॥१६॥
एकादशः तथा त्वष्टा विष्णुः द्वादशः उच्यते । जघन्य-जः स सर्वेषाम् आदित्यानाम् गुण-अधिकः ॥१६॥
ekādaśaḥ tathā tvaṣṭā viṣṇuḥ dvādaśaḥ ucyate . jaghanya-jaḥ sa sarveṣām ādityānām guṇa-adhikaḥ ..16..
एक एव दितेः पुत्रो हिरण्यकशिपुः स्मृतः । नाम्ना ख्यातास्तु तस्येमे पुत्राः पञ्च महात्मनः ॥१७॥
एकः एव दितेः पुत्रः हिरण्यकशिपुः स्मृतः । नाम्ना ख्याताः तु तस्य इमे पुत्राः पञ्च महात्मनः ॥१७॥
ekaḥ eva diteḥ putraḥ hiraṇyakaśipuḥ smṛtaḥ . nāmnā khyātāḥ tu tasya ime putrāḥ pañca mahātmanaḥ ..17..
प्रह्रादः पूर्वजस्तेषां संह्रादस्तदनन्तरम् । अनुह्रादस्तृतीयोऽभूत्तस्माच्च शिबिबाष्कलौ ॥१८॥
प्रह्रादः पूर्वजः तेषाम् संह्रादः तद्-अनन्तरम् । अनुह्रादः तृतीयः अभूत् तस्मात् च शिबि-बाष्कलौ ॥१८॥
prahrādaḥ pūrvajaḥ teṣām saṃhrādaḥ tad-anantaram . anuhrādaḥ tṛtīyaḥ abhūt tasmāt ca śibi-bāṣkalau ..18..
प्रह्रादस्य त्रयः पुत्राः ख्याताः सर्वत्र भारत । विरोचनश्च कुम्भश्च निकुम्भश्चेति विश्रुताः ॥१९॥
प्रह्रादस्य त्रयः पुत्राः ख्याताः सर्वत्र भारत । विरोचनः च कुम्भः च निकुम्भः च इति विश्रुताः ॥१९॥
prahrādasya trayaḥ putrāḥ khyātāḥ sarvatra bhārata . virocanaḥ ca kumbhaḥ ca nikumbhaḥ ca iti viśrutāḥ ..19..
विरोचनस्य पुत्रोऽभूद्बलिरेकः प्रतापवान् । बलेश्च प्रथितः पुत्रो बाणो नाम महासुरः ॥२०॥
विरोचनस्य पुत्रः अभूत् बलिः एकः प्रतापवान् । बलेः च प्रथितः पुत्रः बाणः नाम महा-असुरः ॥२०॥
virocanasya putraḥ abhūt baliḥ ekaḥ pratāpavān . baleḥ ca prathitaḥ putraḥ bāṇaḥ nāma mahā-asuraḥ ..20..
चत्वारिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारत । तेषां प्रथमजो राजा विप्रचित्तिर्महायशाः ॥२१॥
चत्वारिंशत् दनोः पुत्राः ख्याताः सर्वत्र भारत । तेषाम् प्रथम-जः राजा विप्रचित्तिः महा-यशाः ॥२१॥
catvāriṃśat danoḥ putrāḥ khyātāḥ sarvatra bhārata . teṣām prathama-jaḥ rājā vipracittiḥ mahā-yaśāḥ ..21..
शम्बरो नमुचिश्चैव पुलोमा चेति विश्रुतः । असिलोमा च केशी च दुर्जयश्चैव दानवः ॥२२॥
शम्बरः नमुचिः च एव पुलोमा च इति विश्रुतः । असिलोमा च केशी च दुर्जयः च एव दानवः ॥२२॥
śambaraḥ namuciḥ ca eva pulomā ca iti viśrutaḥ . asilomā ca keśī ca durjayaḥ ca eva dānavaḥ ..22..
अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान् । तथा गगनमूर्धा च वेगवान्केतुमांश्च यः ॥२३॥
अयः-शिराः अश्व-शिराः अयः-शङ्कुः च वीर्यवान् । तथा गगनमूर्धा च वेगवान् केतुमान् च यः ॥२३॥
ayaḥ-śirāḥ aśva-śirāḥ ayaḥ-śaṅkuḥ ca vīryavān . tathā gaganamūrdhā ca vegavān ketumān ca yaḥ ..23..
स्वर्भानुरश्वोऽश्वपतिर्वृषपर्वाजकस्तथा । अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महासुरः ॥२४॥
स्वर्भानुः अश्वः अश्वपतिः वृषपर्वा अजकः तथा । अश्वग्रीवः च सूक्ष्मः च तुहुण्डः च महा-असुरः ॥२४॥
svarbhānuḥ aśvaḥ aśvapatiḥ vṛṣaparvā ajakaḥ tathā . aśvagrīvaḥ ca sūkṣmaḥ ca tuhuṇḍaḥ ca mahā-asuraḥ ..24..
इसृपा एकचक्रश्च विरूपाक्षो हराहरौ । निचन्द्रश्च निकुम्भश्च कुपथः कापथस्तथा ॥२५॥
इसृपाः एकचक्रः च विरूपाक्षः हराहरौ । निचन्द्रः च निकुम्भः च कुपथः कापथः तथा ॥२५॥
isṛpāḥ ekacakraḥ ca virūpākṣaḥ harāharau . nicandraḥ ca nikumbhaḥ ca kupathaḥ kāpathaḥ tathā ..25..
शरभः शलभश्चैव सूर्याचन्द्रमसौ तथा । इति ख्याता दनोर्वंशे दानवाः परिकीर्तिताः ॥२६॥ ( अन्यौ तु खलु देवानां सूर्याचन्द्रमसौ स्मृतौ ॥२६॥ )
शरभः शलभः च एव सूर्याचन्द्रमसौ तथा । इति ख्याताः दनोः वंशे दानवाः परिकीर्तिताः ॥२६॥ ( अन्यौ तु खलु देवानाम् सूर्याचन्द्रमसौ स्मृतौ ॥२६॥ )
śarabhaḥ śalabhaḥ ca eva sūryācandramasau tathā . iti khyātāḥ danoḥ vaṃśe dānavāḥ parikīrtitāḥ ..26.. ( anyau tu khalu devānām sūryācandramasau smṛtau ..26.. )
इमे च वंशे प्रथिताः सत्त्ववन्तो महाबलाः । दनुपुत्रा महाराज दश दानवपुङ्गवाः ॥२७॥
इमे च वंशे प्रथिताः सत्त्ववन्तः महा-बलाः । दनु-पुत्राः महा-राज दश दानव-पुङ्गवाः ॥२७॥
ime ca vaṃśe prathitāḥ sattvavantaḥ mahā-balāḥ . danu-putrāḥ mahā-rāja daśa dānava-puṅgavāḥ ..27..
एकाक्षो मृतपा वीरः प्रलम्बनरकावपि । वातापिः शत्रुतपनः शठश्चैव महासुरः ॥२८॥
एकाक्षः मृतपाः वीरः प्रलम्ब-नरकौ अपि । वातापिः शत्रु-तपनः शठः च एव महा-असुरः ॥२८॥
ekākṣaḥ mṛtapāḥ vīraḥ pralamba-narakau api . vātāpiḥ śatru-tapanaḥ śaṭhaḥ ca eva mahā-asuraḥ ..28..
गविष्ठश्च दनायुश्च दीर्घजिह्वश्च दानवः । असङ्ख्येयाः स्मृतास्तेषां पुत्राः पौत्राश्च भारत ॥२९॥
गविष्ठः च दनायुः च दीर्घजिह्वः च दानवः । असङ्ख्येयाः स्मृताः तेषाम् पुत्राः पौत्राः च भारत ॥२९॥
gaviṣṭhaḥ ca danāyuḥ ca dīrghajihvaḥ ca dānavaḥ . asaṅkhyeyāḥ smṛtāḥ teṣām putrāḥ pautrāḥ ca bhārata ..29..
सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम् । सुचन्द्रं चन्द्रहन्तारं तथा चन्द्रविमर्दनम् ॥३०॥
सिंहिका सुषुवे पुत्रम् राहुम् चन्द्र-अर्क-मर्दनम् । सुचन्द्रम् चन्द्रहन्तारम् तथा चन्द्र-विमर्दनम् ॥३०॥
siṃhikā suṣuve putram rāhum candra-arka-mardanam . sucandram candrahantāram tathā candra-vimardanam ..30..
क्रूरस्वभावं क्रूरायाः पुत्रपौत्रमनन्तकम् । गणः क्रोधवशो नाम क्रूरकर्मारिमर्दनः ॥३१॥
क्रूर-स्वभावम् क्रूरायाः पुत्र-पौत्रम् अनन्तकम् । गणः क्रोध-वशः नाम क्रूर-कर्मा अरि-मर्दनः ॥३१॥
krūra-svabhāvam krūrāyāḥ putra-pautram anantakam . gaṇaḥ krodha-vaśaḥ nāma krūra-karmā ari-mardanaḥ ..31..
अनायुषः पुनः पुत्राश्चत्वारोऽसुरपुङ्गवाः । विक्षरो बलवीरौ च वृत्रश्चैव महासुरः ॥३२॥
अनायुषः पुनर् पुत्राः चत्वारः असुर-पुङ्गवाः । विक्षरः बल-वीरौ च वृत्रः च एव महा-असुरः ॥३२॥
anāyuṣaḥ punar putrāḥ catvāraḥ asura-puṅgavāḥ . vikṣaraḥ bala-vīrau ca vṛtraḥ ca eva mahā-asuraḥ ..32..
कालायाः प्रथिताः पुत्राः कालकल्पाः प्रहारिणः । भुवि ख्याता महावीर्या दानवेषु परन्तपाः ॥३३॥
कालायाः प्रथिताः पुत्राः काल-कल्पाः प्रहारिणः । भुवि ख्याताः महा-वीर्याः दानवेषु परन्तपाः ॥३३॥
kālāyāḥ prathitāḥ putrāḥ kāla-kalpāḥ prahāriṇaḥ . bhuvi khyātāḥ mahā-vīryāḥ dānaveṣu parantapāḥ ..33..
विनाशनश्च क्रोधश्च हन्ता क्रोधस्य चापरः । क्रोधशत्रुस्तथैवान्यः कालेया इति विश्रुताः ॥३४॥
विनाशनः च क्रोधः च हन्ता क्रोधस्य च अपरः । क्रोधशत्रुः तथा एव अन्यः कालेयाः इति विश्रुताः ॥३४॥
vināśanaḥ ca krodhaḥ ca hantā krodhasya ca aparaḥ . krodhaśatruḥ tathā eva anyaḥ kāleyāḥ iti viśrutāḥ ..34..
असुराणामुपाध्यायः शुक्रस्त्वृषिसुतोऽभवत् । ख्याताश्चोशनसः पुत्राश्चत्वारोऽसुरयाजकाः ॥३५॥
असुराणाम् उपाध्यायः शुक्रः तु ऋषि-सुतः अभवत् । ख्याताः च उशनसः पुत्राः चत्वारः असुर-याजकाः ॥३५॥
asurāṇām upādhyāyaḥ śukraḥ tu ṛṣi-sutaḥ abhavat . khyātāḥ ca uśanasaḥ putrāḥ catvāraḥ asura-yājakāḥ ..35..
त्वष्टावरस्तथात्रिश्च द्वावन्यौ मन्त्रकर्मिणौ । तेजसा सूर्यसङ्काशा ब्रह्मलोकप्रभावनाः ॥३६॥
त्वष्टा अवरः तथा अत्रिः च द्वौ अन्यौ मन्त्र-कर्मिणौ । तेजसा सूर्य-सङ्काशाः ब्रह्म-लोक-प्रभावनाः ॥३६॥
tvaṣṭā avaraḥ tathā atriḥ ca dvau anyau mantra-karmiṇau . tejasā sūrya-saṅkāśāḥ brahma-loka-prabhāvanāḥ ..36..
इत्येष वंशप्रभवः कथितस्ते तरस्विनाम् । असुराणां सुराणां च पुराणे संश्रुतो मया ॥३७॥
इति एष वंश-प्रभवः कथितः ते तरस्विनाम् । असुराणाम् सुराणाम् च पुराणे संश्रुतः मया ॥३७॥
iti eṣa vaṃśa-prabhavaḥ kathitaḥ te tarasvinām . asurāṇām surāṇām ca purāṇe saṃśrutaḥ mayā ..37..
एतेषां यदपत्यं तु न शक्यं तदशेषतः । प्रसङ्ख्यातुं महीपाल गुणभूतमनन्तकम् ॥३८॥
एतेषाम् यत् अपत्यम् तु न शक्यम् तत् अशेषतस् । प्रसङ्ख्यातुम् महीपाल गुण-भूतम् अनन्तकम् ॥३८॥
eteṣām yat apatyam tu na śakyam tat aśeṣatas . prasaṅkhyātum mahīpāla guṇa-bhūtam anantakam ..38..
तार्क्ष्यश्चारिष्टनेमिश्च तथैव गरुडारुणौ । आरुणिर्वारुणिश्चैव वैनतेया इति स्मृताः ॥३९॥
तार्क्ष्यः च अरिष्टनेमिः च तथा एव गरुड-अरुणौ । आरुणिः वारुणिः च एव वैनतेयाः इति स्मृताः ॥३९॥
tārkṣyaḥ ca ariṣṭanemiḥ ca tathā eva garuḍa-aruṇau . āruṇiḥ vāruṇiḥ ca eva vainateyāḥ iti smṛtāḥ ..39..
शेषोऽनन्तो वासुकिश्च तक्षकश्च भुजङ्गमः । कूर्मश्च कुलिकश्चैव काद्रवेया महाबलाः ॥४०॥
शेषः अनन्तः वासुकिः च तक्षकः च भुजङ्गमः । कूर्मः च कुलिकः च एव काद्रवेयाः महा-बलाः ॥४०॥
śeṣaḥ anantaḥ vāsukiḥ ca takṣakaḥ ca bhujaṅgamaḥ . kūrmaḥ ca kulikaḥ ca eva kādraveyāḥ mahā-balāḥ ..40..
भीमसेनोग्रसेनौ च सुपर्णो वरुणस्तथा । गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः ॥४१॥
भीमसेन-उग्रसेनौ च सुपर्णः वरुणः तथा । गोपतिः धृतराष्ट्रः च सूर्यवर्चाः च सप्तमः ॥४१॥
bhīmasena-ugrasenau ca suparṇaḥ varuṇaḥ tathā . gopatiḥ dhṛtarāṣṭraḥ ca sūryavarcāḥ ca saptamaḥ ..41..
पत्रवानर्कपर्णश्च प्रयुतश्चैव विश्रुतः । भीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी ॥४२॥
पत्रवान् अर्कपर्णः च प्रयुतः च एव विश्रुतः । भीमः चित्ररथः च एव विख्यातः सर्व-विद्-वशी ॥४२॥
patravān arkaparṇaḥ ca prayutaḥ ca eva viśrutaḥ . bhīmaḥ citrarathaḥ ca eva vikhyātaḥ sarva-vid-vaśī ..42..
तथा शालिशिरा राजन्प्रद्युम्नश्च चतुर्दशः । कलिः पञ्चदशश्चैव नारदश्चैव षोडशः ॥४३॥ ( इत्येते देवगन्धर्वा मौनेयाः परिकीर्तिताः ॥४३॥ )
तथा शालिशिराः राजन् प्रद्युम्नः च चतुर्दशः । कलिः पञ्चदशः च एव नारदः च एव षोडशः ॥४३॥ ( इति एते देवगन्धर्वाः मौनेयाः परिकीर्तिताः ॥४३॥ )
tathā śāliśirāḥ rājan pradyumnaḥ ca caturdaśaḥ . kaliḥ pañcadaśaḥ ca eva nāradaḥ ca eva ṣoḍaśaḥ ..43.. ( iti ete devagandharvāḥ mauneyāḥ parikīrtitāḥ ..43.. )
अतस्तु भूतान्यन्यानि कीर्तयिष्यामि भारत । अनवद्यामनुवशामनूनामरुणां प्रियाम् ॥४४॥ ( अनूपां सुभगां भासीमिति प्रावा व्यजायत ॥४४॥ )
अतस् तु भूतानि अन्यानि कीर्तयिष्यामि भारत । अनवद्याम् अनुवशाम् अनूनाम् अरुणाम् प्रियाम् ॥४४॥ ( अनूपाम् सुभगाम् भासीम् इति प्रावा व्यजायत ॥४४॥ )
atas tu bhūtāni anyāni kīrtayiṣyāmi bhārata . anavadyām anuvaśām anūnām aruṇām priyām ..44.. ( anūpām subhagām bhāsīm iti prāvā vyajāyata ..44.. )
सिद्धः पूर्णश्च बर्ही च पूर्णाशश्च महायशाः । ब्रह्मचारी रतिगुणः सुपर्णश्चैव सप्तमः ॥४५॥
सिद्धः पूर्णः च बर्ही च पूर्णाशः च महा-यशाः । ब्रह्मचारी रतिगुणः सुपर्णः च एव सप्तमः ॥४५॥
siddhaḥ pūrṇaḥ ca barhī ca pūrṇāśaḥ ca mahā-yaśāḥ . brahmacārī ratiguṇaḥ suparṇaḥ ca eva saptamaḥ ..45..
विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा । इत्येते देवगन्धर्वाः प्रावेयाः परिकीर्तिताः ॥४६॥
विश्वावसुः च भानुः च सुचन्द्रः दशमः तथा । इति एते देवगन्धर्वाः प्रावेयाः परिकीर्तिताः ॥४६॥
viśvāvasuḥ ca bhānuḥ ca sucandraḥ daśamaḥ tathā . iti ete devagandharvāḥ prāveyāḥ parikīrtitāḥ ..46..
इमं त्वप्सरसां वंशं विदितं पुण्यलक्षणम् । प्रावासूत महाभागा देवी देवर्षितः पुरा ॥४७॥
इमम् तु अप्सरसाम् वंशम् विदितम् पुण्य-लक्षणम् । प्रावा असूत महाभागा देवी देवर्षितः पुरा ॥४७॥
imam tu apsarasām vaṃśam viditam puṇya-lakṣaṇam . prāvā asūta mahābhāgā devī devarṣitaḥ purā ..47..
अलम्बुसा मिश्रकेषी विद्युत्पर्णा तुलानघा । अरुणा रक्षिता चैव रम्भा तद्वन्मनोरमा ॥४८॥
। अरुणा रक्षिता च एव रम्भा तद्वत् मनोरमा ॥४८॥
. aruṇā rakṣitā ca eva rambhā tadvat manoramā ..48..
असिता च सुबाहुश्च सुव्रता सुभुजा तथा । सुप्रिया चातिबाहुश्च विख्यातौ च हहाहुहू ॥४९॥ ( तुम्बुरुश्चेति चत्वारः स्मृता गन्धर्वसत्तमाः ॥४९॥ )
असिता च सुबाहुः च सुव्रता सुभुजा तथा । सुप्रिया च अतिबाहुः च विख्यातौ च हहा-हुहू ॥४९॥ ( तुम्बुरुः च इति चत्वारः स्मृताः गन्धर्व-सत्तमाः ॥४९॥ )
asitā ca subāhuḥ ca suvratā subhujā tathā . supriyā ca atibāhuḥ ca vikhyātau ca hahā-huhū ..49.. ( tumburuḥ ca iti catvāraḥ smṛtāḥ gandharva-sattamāḥ ..49.. )
अमृतं ब्राह्मणा गावो गन्धर्वाप्सरसस्तथा । अपत्यं कपिलायास्तु पुराणे परिकीर्तितम् ॥५०॥
अमृतम् ब्राह्मणाः गावः गन्धर्व-अप्सरसः तथा । अपत्यम् कपिलायाः तु पुराणे परिकीर्तितम् ॥५०॥
amṛtam brāhmaṇāḥ gāvaḥ gandharva-apsarasaḥ tathā . apatyam kapilāyāḥ tu purāṇe parikīrtitam ..50..
इति ते सर्वभूतानां सम्भवः कथितो मया । यथावत्परिसङ्ख्यातो गन्धर्वाप्सरसां तथा ॥५१॥
इति ते सर्व-भूतानाम् सम्भवः कथितः मया । यथावत् परिसङ्ख्यातः गन्धर्व-अप्सरसाम् तथा ॥५१॥
iti te sarva-bhūtānām sambhavaḥ kathitaḥ mayā . yathāvat parisaṅkhyātaḥ gandharva-apsarasām tathā ..51..
भुजगानां सुपर्णानां रुद्राणां मरुतां तथा । गवां च ब्राह्मणानां च श्रीमतां पुण्यकर्मणाम् ॥५२॥
भुजगानाम् सुपर्णानाम् रुद्राणाम् मरुताम् तथा । गवाम् च ब्राह्मणानाम् च श्रीमताम् पुण्य-कर्मणाम् ॥५२॥
bhujagānām suparṇānām rudrāṇām marutām tathā . gavām ca brāhmaṇānām ca śrīmatām puṇya-karmaṇām ..52..
आयुष्यश्चैव पुण्यश्च धन्यः श्रुतिसुखावहः । श्रोतव्यश्चैव सततं श्राव्यश्चैवानसूयता ॥५३॥
आयुष्यः च एव पुण्यः च धन्यः श्रुति-सुख-आवहः । श्रोतव्यः च एव सततम् श्राव्यः च एव अनसूयता ॥५३॥
āyuṣyaḥ ca eva puṇyaḥ ca dhanyaḥ śruti-sukha-āvahaḥ . śrotavyaḥ ca eva satatam śrāvyaḥ ca eva anasūyatā ..53..
इमं तु वंशं नियमेन यः पठे; न्महात्मनां ब्राह्मणदेवसंनिधौ । अपत्यलाभं लभते स पुष्कलं; श्रियं यशः प्रेत्य च शोभनां गतिम् ॥५४॥ 1.65.56
इमम् तु वंशम् नियमेन यः पठे; ब्राह्मण-देव-संनिधौ । अपत्य-लाभम् लभते स पुष्कलम्; श्रियम् यशः प्रेत्य च शोभनाम् गतिम् ॥५४॥ १।६५।५६
imam tu vaṃśam niyamena yaḥ paṭhe; brāhmaṇa-deva-saṃnidhau . apatya-lābham labhate sa puṣkalam; śriyam yaśaḥ pretya ca śobhanām gatim ..54.. 1.65.56

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In