| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत् । किमिदं साहसं ब्रह्मन्कृतवानसि साम्प्रतम् ॥१॥
शप्तः तु भृगुणा वह्निः क्रुद्धः वाक्यम् अथ अब्रवीत् । किम् इदम् साहसम् ब्रह्मन् कृतवान् असि साम्प्रतम् ॥१॥
śaptaḥ tu bhṛguṇā vahniḥ kruddhaḥ vākyam atha abravīt . kim idam sāhasam brahman kṛtavān asi sāmpratam ..1..
धर्मे प्रयतमानस्य सत्यं च वदतः समम् । पृष्टो यदब्रुवं सत्यं व्यभिचारोऽत्र को मम ॥२॥
धर्मे प्रयतमानस्य सत्यम् च वदतः समम् । पृष्टः यत् अब्रुवम् सत्यम् व्यभिचारः अत्र कः मम ॥२॥
dharme prayatamānasya satyam ca vadataḥ samam . pṛṣṭaḥ yat abruvam satyam vyabhicāraḥ atra kaḥ mama ..2..
पृष्टो हि साक्षी यः साक्ष्यं जानमानोऽन्यथा वदेत् । स पूर्वानात्मनः सप्त कुले हन्यात्तथा परान् ॥३॥
पृष्टः हि साक्षी यः साक्ष्यम् जानमानः अन्यथा वदेत् । स पूर्वान् आत्मनः सप्त कुले हन्यात् तथा परान् ॥३॥
pṛṣṭaḥ hi sākṣī yaḥ sākṣyam jānamānaḥ anyathā vadet . sa pūrvān ātmanaḥ sapta kule hanyāt tathā parān ..3..
यश्च कार्यार्थतत्त्वज्ञो जानमानो न भाषते । सोऽपि तेनैव पापेन लिप्यते नात्र संशयः ॥४॥
यः च कार्य-अर्थ-तत्त्व-ज्ञः जानमानः न भाषते । सः अपि तेन एव पापेन लिप्यते न अत्र संशयः ॥४॥
yaḥ ca kārya-artha-tattva-jñaḥ jānamānaḥ na bhāṣate . saḥ api tena eva pāpena lipyate na atra saṃśayaḥ ..4..
शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम । जानतोऽपि च ते व्यक्तं कथयिष्ये निबोध तत् ॥५॥
शक्तः अहम् अपि शप्तुम् त्वाम् मान्याः तु ब्राह्मणाः मम । जानतः अपि च ते व्यक्तम् कथयिष्ये निबोध तत् ॥५॥
śaktaḥ aham api śaptum tvām mānyāḥ tu brāhmaṇāḥ mama . jānataḥ api ca te vyaktam kathayiṣye nibodha tat ..5..
योगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु । अग्निहोत्रेषु सत्रेषु क्रियास्वथ मखेषु च ॥६॥
योगेन बहुधा आत्मानम् कृत्वा तिष्ठामि मूर्तिषु । अग्निहोत्रेषु सत्रेषु क्रियासु अथ मखेषु च ॥६॥
yogena bahudhā ātmānam kṛtvā tiṣṭhāmi mūrtiṣu . agnihotreṣu satreṣu kriyāsu atha makheṣu ca ..6..
वेदोक्तेन विधानेन मयि यद्धूयते हविः । देवताः पितरश्चैव तेन तृप्ता भवन्ति वै ॥७॥
वेद-उक्तेन विधानेन मयि यत् हूयते हविः । देवताः पितरः च एव तेन तृप्ताः भवन्ति वै ॥७॥
veda-uktena vidhānena mayi yat hūyate haviḥ . devatāḥ pitaraḥ ca eva tena tṛptāḥ bhavanti vai ..7..
आपो देवगणाः सर्वे आपः पितृगणास्तथा । दर्शश्च पौर्णमासश्च देवानां पितृभिः सह ॥८॥
आपः देव-गणाः सर्वे आपः पितृ-गणाः तथा । दर्शः च पौर्णमासः च देवानाम् पितृभिः सह ॥८॥
āpaḥ deva-gaṇāḥ sarve āpaḥ pitṛ-gaṇāḥ tathā . darśaḥ ca paurṇamāsaḥ ca devānām pitṛbhiḥ saha ..8..
देवताः पितरस्तस्मात्पितरश्चापि देवताः । एकीभूताश्च पूज्यन्ते पृथक्त्वेन च पर्वसु ॥९॥
देवताः पितरः तस्मात् पितरः च अपि देवताः । एकीभूताः च पूज्यन्ते पृथक्त्वेन च पर्वसु ॥९॥
devatāḥ pitaraḥ tasmāt pitaraḥ ca api devatāḥ . ekībhūtāḥ ca pūjyante pṛthaktvena ca parvasu ..9..
देवताः पितरश्चैव जुह्वते मयि यत्सदा । त्रिदशानां पितृणां च मुखमेवमहं स्मृतः ॥१०॥
देवताः पितरः च एव जुह्वते मयि यत् सदा । त्रिदशानाम् पितृणाम् च मुखम् एवम् अहम् स्मृतः ॥१०॥
devatāḥ pitaraḥ ca eva juhvate mayi yat sadā . tridaśānām pitṛṇām ca mukham evam aham smṛtaḥ ..10..
अमावास्यां च पितरः पौर्णमास्यां च देवताः । मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः ॥११॥ ( सर्वभक्षः कथं तेषां भविष्यामि मुखं त्वहम् ॥११॥ )
अमावास्याम् च पितरः पौर्णमास्याम् च देवताः । मद्-मुखेन एव हूयन्ते भुञ्जते च हुतम् हविः ॥११॥ ( सर्व-भक्षः कथम् तेषाम् भविष्यामि मुखम् तु अहम् ॥११॥ )
amāvāsyām ca pitaraḥ paurṇamāsyām ca devatāḥ . mad-mukhena eva hūyante bhuñjate ca hutam haviḥ ..11.. ( sarva-bhakṣaḥ katham teṣām bhaviṣyāmi mukham tu aham ..11.. )
चिन्तयित्वा ततो वह्निश्चक्रे संहारमात्मनः । द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च ॥१२॥
चिन्तयित्वा ततस् वह्निः चक्रे संहारम् आत्मनः । द्विजानाम् अग्निहोत्रेषु यज्ञ-सत्र-क्रियासु च ॥१२॥
cintayitvā tatas vahniḥ cakre saṃhāram ātmanaḥ . dvijānām agnihotreṣu yajña-satra-kriyāsu ca ..12..
निरोङ्कारवषट्काराः स्वधास्वाहाविवर्जिताः । विनाग्निना प्रजाः सर्वास्तत आसन्सुदुःखिताः ॥१३॥
निः ओङ्कार-वषट्काराः स्वधा-स्वाहा-विवर्जिताः । विना अग्निना प्रजाः सर्वाः ततस् आसन् सु दुःखिताः ॥१३॥
niḥ oṅkāra-vaṣaṭkārāḥ svadhā-svāhā-vivarjitāḥ . vinā agninā prajāḥ sarvāḥ tatas āsan su duḥkhitāḥ ..13..
अथर्षयः समुद्विग्ना देवान्गत्वाब्रुवन्वचः । अग्निनाशात्क्रियाभ्रंशाद्भ्रान्ता लोकास्त्रयोऽनघाः ॥१४॥ ( विधध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा ॥१४॥ )
अथ ऋषयः समुद्विग्नाः देवान् गत्वा अब्रुवन् वचः । अग्नि-नाशात् क्रिया-भ्रंशात् भ्रान्ताः लोकाः त्रयः अनघाः ॥१४॥ ( विधध्वम् अत्र यत् कार्यम् न स्यात् काल-अत्ययः यथा ॥१४॥ )
atha ṛṣayaḥ samudvignāḥ devān gatvā abruvan vacaḥ . agni-nāśāt kriyā-bhraṃśāt bhrāntāḥ lokāḥ trayaḥ anaghāḥ ..14.. ( vidhadhvam atra yat kāryam na syāt kāla-atyayaḥ yathā ..14.. )
अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु । अग्नेरावेदयञ्शापं क्रियासंहारमेव च ॥१५॥
अथ ऋषयः च देवाः च ब्रह्माणम् उपगम्य तु । अग्नेः आवेदयन् शापम् क्रिया-संहारम् एव च ॥१५॥
atha ṛṣayaḥ ca devāḥ ca brahmāṇam upagamya tu . agneḥ āvedayan śāpam kriyā-saṃhāram eva ca ..15..
भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे । कथं देवमुखो भूत्वा यज्ञभागाग्रभुक्तथा ॥१६॥ ( हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति ॥१६॥ )
भृगुणा वै महाभाग शप्तः अग्निः कारण-अन्तरे । कथम् देव-मुखः भूत्वा यज्ञ-भाग-अग्र-भुज् तथा ॥१६॥ ( हुतभुज् सर्व-लोकेषु सर्व-भक्ष-त्वम् एष्यति ॥१६॥ )
bhṛguṇā vai mahābhāga śaptaḥ agniḥ kāraṇa-antare . katham deva-mukhaḥ bhūtvā yajña-bhāga-agra-bhuj tathā ..16.. ( hutabhuj sarva-lokeṣu sarva-bhakṣa-tvam eṣyati ..16.. )
श्रुत्वा तु तद्वचस्तेषामग्निमाहूय लोककृत् । उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम् ॥१७॥
श्रुत्वा तु तत् वचः तेषाम् अग्निम् आहूय लोककृत् । उवाच वचनम् श्लक्ष्णम् भूत-भावनम् अव्ययम् ॥१७॥
śrutvā tu tat vacaḥ teṣām agnim āhūya lokakṛt . uvāca vacanam ślakṣṇam bhūta-bhāvanam avyayam ..17..
लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च । त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः ॥१८॥ ( स तथा कुरु लोकेश नोच्छिद्येरन्क्रिया यथा ॥१८॥ )
लोकानाम् इह सर्वेषाम् त्वम् कर्ता च अन्तः एव च । त्वम् धारयसि लोकान् त्रीन् क्रियाणाम् च प्रवर्तकः ॥१८॥ ( स तथा कुरु लोकेश न उच्छिद्येरन् क्रियाः यथा ॥१८॥ )
lokānām iha sarveṣām tvam kartā ca antaḥ eva ca . tvam dhārayasi lokān trīn kriyāṇām ca pravartakaḥ ..18.. ( sa tathā kuru lokeśa na ucchidyeran kriyāḥ yathā ..18.. )
कस्मादेवं विमूढस्त्वमीश्वरः सन्हुताशनः । त्वं पवित्रं यदा लोके सर्वभूतगतश्च ह ॥१९॥
कस्मात् एवम् विमूढः त्वम् ईश्वरः सन् हुताशनः । त्वम् पवित्रम् यदा लोके सर्व-भूत-गतः च ह ॥१९॥
kasmāt evam vimūḍhaḥ tvam īśvaraḥ san hutāśanaḥ . tvam pavitram yadā loke sarva-bhūta-gataḥ ca ha ..19..
न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि । उपादानेऽर्चिषो यास्ते सर्वं धक्ष्यन्ति ताः शिखिन् ॥२०॥
न त्वम् सर्व-शरीरेण सर्व-भक्ष-त्वम् एष्यसि । उपादाने अर्चिषः याः ते सर्वम् धक्ष्यन्ति ताः शिखिन् ॥२०॥
na tvam sarva-śarīreṇa sarva-bhakṣa-tvam eṣyasi . upādāne arciṣaḥ yāḥ te sarvam dhakṣyanti tāḥ śikhin ..20..
यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते । तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति ॥२१॥
यथा सूर्य-अंशुभिः स्पृष्टम् सर्वम् शुचि विभाव्यते । तथा त्वद्-अर्चिः-निर्दग्धम् सर्वम् शुचि भविष्यति ॥२१॥
yathā sūrya-aṃśubhiḥ spṛṣṭam sarvam śuci vibhāvyate . tathā tvad-arciḥ-nirdagdham sarvam śuci bhaviṣyati ..21..
तदग्ने त्वं महत्तेजः स्वप्रभावाद्विनिर्गतम् । स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो ॥२२॥ ( देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम् ॥२२॥ )
तत् अग्ने त्वम् महत् तेजः स्व-प्रभावात् विनिर्गतम् । स्व-तेजसा एव तम् शापम् कुरु सत्यम् ऋषेः विभो ॥२२॥ ( देवानाम् च आत्मनः भागम् गृहाण त्वम् मुखे हुतम् ॥२२॥ )
tat agne tvam mahat tejaḥ sva-prabhāvāt vinirgatam . sva-tejasā eva tam śāpam kuru satyam ṛṣeḥ vibho ..22.. ( devānām ca ātmanaḥ bhāgam gṛhāṇa tvam mukhe hutam ..22.. )
एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम् । जगाम शासनं कर्तुं देवस्य परमेष्ठिनः ॥२३॥
एवम् अस्तु इति तम् वह्निः प्रत्युवाच पितामहम् । जगाम शासनम् कर्तुम् देवस्य परमेष्ठिनः ॥२३॥
evam astu iti tam vahniḥ pratyuvāca pitāmaham . jagāma śāsanam kartum devasya parameṣṭhinaḥ ..23..
देवर्षयश्च मुदितास्ततो जग्मुर्यथागतम् । ऋषयश्च यथापूर्वं क्रियाः सर्वाः प्रचक्रिरे ॥२४॥
देवर्षयः च मुदिताः ततस् जग्मुः यथागतम् । ऋषयः च यथापूर्वम् क्रियाः सर्वाः प्रचक्रिरे ॥२४॥
devarṣayaḥ ca muditāḥ tatas jagmuḥ yathāgatam . ṛṣayaḥ ca yathāpūrvam kriyāḥ sarvāḥ pracakrire ..24..
दिवि देवा मुमुदिरे भूतसङ्घाश्च लौकिकाः । अग्निश्च परमां प्रीतिमवाप हतकल्मषः ॥२५॥
दिवि देवाः मुमुदिरे भूत-सङ्घाः च लौकिकाः । अग्निः च परमाम् प्रीतिम् अवाप हत-कल्मषः ॥२५॥
divi devāḥ mumudire bhūta-saṅghāḥ ca laukikāḥ . agniḥ ca paramām prītim avāpa hata-kalmaṣaḥ ..25..
एवमेष पुरावृत्त इतिहासोऽग्निशापजः । पुलोमस्य विनाशश्च च्यवनस्य च सम्भवः ॥२६॥1.7.29
एवम् एष पुरावृत्तः इतिहासः अग्नि-शाप-जः । पुलोमस्य विनाशः च च्यवनस्य च सम्भवः ॥२६॥१।७।२९
evam eṣa purāvṛttaḥ itihāsaḥ agni-śāpa-jaḥ . pulomasya vināśaḥ ca cyavanasya ca sambhavaḥ ..26..1.7.29

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In