| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः । एकादश सुताः स्थाणोः ख्याताः परममानसाः ॥१॥
ब्रह्मणः मानसाः पुत्राः विदिताः षष्-महा-ऋषयः । एकादश सुताः स्थाणोः ख्याताः परम-मानसाः ॥१॥
brahmaṇaḥ mānasāḥ putrāḥ viditāḥ ṣaṣ-mahā-ṛṣayaḥ . ekādaśa sutāḥ sthāṇoḥ khyātāḥ parama-mānasāḥ ..1..
मृगव्याधश्च शर्वश्च निरृतिश्च महायशाः । अजैकपादहिर्बुध्न्यः पिनाकी च परन्तपः ॥२॥
मृगव्याधः च शर्वः च निरृतिः च महा-यशाः । अजैकपाद् अहिर्बुध्न्यः पिनाकी च परन्तपः ॥२॥
mṛgavyādhaḥ ca śarvaḥ ca nirṛtiḥ ca mahā-yaśāḥ . ajaikapād ahirbudhnyaḥ pinākī ca parantapaḥ ..2..
दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः । स्थाणुर्भवश्च भगवान्रुद्रा एकादश स्मृताः ॥३॥
दहनः अथ ईश्वरः च एव कपाली च महा-द्युतिः । स्थाणुः भवः च भगवान् रुद्राः एकादश स्मृताः ॥३॥
dahanaḥ atha īśvaraḥ ca eva kapālī ca mahā-dyutiḥ . sthāṇuḥ bhavaḥ ca bhagavān rudrāḥ ekādaśa smṛtāḥ ..3..
मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः । षडेते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः ॥४॥
मरीचिः अङ्गिराः अत्रिः पुलस्त्यः पुलहः क्रतुः । षट् एते ब्रह्मणः पुत्राः वीर्यवन्तः महा-ऋषयः ॥४॥
marīciḥ aṅgirāḥ atriḥ pulastyaḥ pulahaḥ kratuḥ . ṣaṭ ete brahmaṇaḥ putrāḥ vīryavantaḥ mahā-ṛṣayaḥ ..4..
त्रयस्त्वङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः । बृहस्पतिरुतथ्यश्च संवर्तश्च धृतव्रताः ॥५॥
त्रयः तु अङ्गिरसः पुत्राः लोके सर्वत्र विश्रुताः । बृहस्पतिः उतथ्यः च संवर्तः च धृत-व्रताः ॥५॥
trayaḥ tu aṅgirasaḥ putrāḥ loke sarvatra viśrutāḥ . bṛhaspatiḥ utathyaḥ ca saṃvartaḥ ca dhṛta-vratāḥ ..5..
अत्रेस्तु बहवः पुत्राः श्रूयन्ते मनुजाधिप । सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः ॥६॥
अत्रेः तु बहवः पुत्राः श्रूयन्ते मनुज-अधिप । सर्वे वेद-विदः सिद्धाः शान्त-आत्मानः महा-ऋषयः ॥६॥
atreḥ tu bahavaḥ putrāḥ śrūyante manuja-adhipa . sarve veda-vidaḥ siddhāḥ śānta-ātmānaḥ mahā-ṛṣayaḥ ..6..
राक्षसास्तु पुलस्त्यस्य वानराः किंनरास्तथा । पुलहस्य मृगाः सिंहा व्याघ्राः किम्पुरुषास्तथा ॥७॥
राक्षसाः तु पुलस्त्यस्य वानराः किंनराः तथा । पुलहस्य मृगाः सिंहाः व्याघ्राः किम्पुरुषाः तथा ॥७॥
rākṣasāḥ tu pulastyasya vānarāḥ kiṃnarāḥ tathā . pulahasya mṛgāḥ siṃhāḥ vyāghrāḥ kimpuruṣāḥ tathā ..7..
क्रतोः क्रतुसमाः पुत्राः पतङ्गसहचारिणः । विश्रुतास्त्रिषु लोकेषु सत्यव्रतपरायणाः ॥८॥
क्रतोः क्रतु-समाः पुत्राः पतङ्ग-सहचारिणः । विश्रुताः त्रिषु लोकेषु सत्य-व्रत-परायणाः ॥८॥
kratoḥ kratu-samāḥ putrāḥ pataṅga-sahacāriṇaḥ . viśrutāḥ triṣu lokeṣu satya-vrata-parāyaṇāḥ ..8..
दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः । ब्रह्मणः पृथिवीपाल पुत्रः पुत्रवतां वरः ॥९॥
दक्षः तु अजायत अङ्गुष्ठात् दक्षिणात् भगवान् ऋषिः । ब्रह्मणः पृथिवी-पाल पुत्रः पुत्रवताम् वरः ॥९॥
dakṣaḥ tu ajāyata aṅguṣṭhāt dakṣiṇāt bhagavān ṛṣiḥ . brahmaṇaḥ pṛthivī-pāla putraḥ putravatām varaḥ ..9..
वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनः । तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः ॥१०॥
वामात् अजायत अङ्गुष्ठात् भार्या तस्य महात्मनः । तस्याम् पञ्चाशतम् कन्याः सः एव अजनयत् मुनिः ॥१०॥
vāmāt ajāyata aṅguṣṭhāt bhāryā tasya mahātmanaḥ . tasyām pañcāśatam kanyāḥ saḥ eva ajanayat muniḥ ..10..
ताः सर्वास्त्वनवद्याङ्ग्यः कन्याः कमललोचनाः । पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः ॥११॥
ताः सर्वाः तु अनवद्य-अङ्ग्यः कन्याः कमल-लोचनाः । पुत्रिकाः स्थापयामास नष्ट-पुत्रः प्रजापतिः ॥११॥
tāḥ sarvāḥ tu anavadya-aṅgyaḥ kanyāḥ kamala-locanāḥ . putrikāḥ sthāpayāmāsa naṣṭa-putraḥ prajāpatiḥ ..11..
ददौ स दश धर्माय सप्तविंशतिमिन्दवे । दिव्येन विधिना राजन्कश्यपाय त्रयोदश ॥१२॥
ददौ स दश धर्माय सप्तविंशतिम् इन्दवे । दिव्येन विधिना राजन् कश्यपाय त्रयोदश ॥१२॥
dadau sa daśa dharmāya saptaviṃśatim indave . divyena vidhinā rājan kaśyapāya trayodaśa ..12..
नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निबोध मे । कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा ॥१३॥
नामतः धर्म-पत्न्यः ताः कीर्त्यमानाः निबोध मे । कीर्तिः लक्ष्मीः धृतिः मेधा पुष्टिः श्रद्धा क्रिया तथा ॥१३॥
nāmataḥ dharma-patnyaḥ tāḥ kīrtyamānāḥ nibodha me . kīrtiḥ lakṣmīḥ dhṛtiḥ medhā puṣṭiḥ śraddhā kriyā tathā ..13..
बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश । द्वाराण्येतानि धर्मस्य विहितानि स्वयम्भुवा ॥१४॥
बुद्धिः लज्जा मतिः च एव पत्न्यः धर्मस्य ताः दश । द्वाराणि एतानि धर्मस्य विहितानि स्वयम्भुवा ॥१४॥
buddhiḥ lajjā matiḥ ca eva patnyaḥ dharmasya tāḥ daśa . dvārāṇi etāni dharmasya vihitāni svayambhuvā ..14..
सप्तविंशति सोमस्य पत्न्यो लोके परिश्रुताः । कालस्य नयने युक्ताः सोमपत्न्यः शुभव्रताः ॥१५॥ ( सर्वा नक्षत्रयोगिन्यो लोकयात्राविधौ स्थिताः ॥१५॥ )
सप्तविंशति सोमस्य पत्न्यः लोके परिश्रुताः । कालस्य नयने युक्ताः सोम-पत्न्यः शुभ-व्रताः ॥१५॥ ( सर्वाः नक्षत्र-योगिन्यः लोकयात्रा-विधौ स्थिताः ॥१५॥ )
saptaviṃśati somasya patnyaḥ loke pariśrutāḥ . kālasya nayane yuktāḥ soma-patnyaḥ śubha-vratāḥ ..15.. ( sarvāḥ nakṣatra-yoginyaḥ lokayātrā-vidhau sthitāḥ ..15.. )
पितामहो मुनिर्देवस्तस्य पुत्रः प्रजापतिः । तस्याष्टौ वसवः पुत्रास्तेषां वक्ष्यामि विस्तरम् ॥१६॥
पितामहः मुनिः देवः तस्य पुत्रः प्रजापतिः । तस्य अष्टौ वसवः पुत्राः तेषाम् वक्ष्यामि विस्तरम् ॥१६॥
pitāmahaḥ muniḥ devaḥ tasya putraḥ prajāpatiḥ . tasya aṣṭau vasavaḥ putrāḥ teṣām vakṣyāmi vistaram ..16..
धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविति स्मृताः ॥१७॥
धरः ध्रुवः च सोमः च अहर् च एव अनिलः अनलः । प्रत्यूषः च प्रभासः च वसवः अष्टौ इति स्मृताः ॥१७॥
dharaḥ dhruvaḥ ca somaḥ ca ahar ca eva anilaḥ analaḥ . pratyūṣaḥ ca prabhāsaḥ ca vasavaḥ aṣṭau iti smṛtāḥ ..17..
धूम्रायाश्च धरः पुत्रो ब्रह्मविद्यो ध्रुवस्तथा । चन्द्रमास्तु मनस्विन्याः श्वसायाः श्वसनस्तथा ॥१८॥
धूम्रायाः च धरः पुत्रः ब्रह्म-विद्यः ध्रुवः तथा । चन्द्रमाः तु मनस्विन्याः श्वसायाः श्वसनः तथा ॥१८॥
dhūmrāyāḥ ca dharaḥ putraḥ brahma-vidyaḥ dhruvaḥ tathā . candramāḥ tu manasvinyāḥ śvasāyāḥ śvasanaḥ tathā ..18..
रतायाश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनः । प्रत्यूषश्च प्रभासश्च प्रभातायाः सुतौ स्मृतौ ॥१९॥
रतायाः च अपि अहर् पुत्रः शाण्डिल्याः च हुताशनः । प्रत्यूषः च प्रभासः च प्रभातायाः सुतौ स्मृतौ ॥१९॥
ratāyāḥ ca api ahar putraḥ śāṇḍilyāḥ ca hutāśanaḥ . pratyūṣaḥ ca prabhāsaḥ ca prabhātāyāḥ sutau smṛtau ..19..
धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा । ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ॥२०॥
धरस्य पुत्रः द्रविणः हुतहव्यवहः तथा । ध्रुवस्य पुत्रः भगवान् कालः लोक-प्रकालनः ॥२०॥
dharasya putraḥ draviṇaḥ hutahavyavahaḥ tathā . dhruvasya putraḥ bhagavān kālaḥ loka-prakālanaḥ ..20..
सोमस्य तु सुतो वर्चा वर्चस्वी येन जायते । मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा ॥२१॥
सोमस्य तु सुतः वर्चाः वर्चस्वी येन जायते । मनोहरायाः शिशिरः प्राणः अथ रमणः तथा ॥२१॥
somasya tu sutaḥ varcāḥ varcasvī yena jāyate . manoharāyāḥ śiśiraḥ prāṇaḥ atha ramaṇaḥ tathā ..21..
अह्नः सुतः स्मृतो ज्योतिः श्रमः शान्तस्तथा मुनिः । अग्नेः पुत्रः कुमारस्तु श्रीमाञ्शरवणालयः ॥२२॥
अह्नः सुतः स्मृतः ज्योतिः श्रमः शान्तः तथा मुनिः । अग्नेः पुत्रः कुमारः तु श्रीमान् शरवण-आलयः ॥२२॥
ahnaḥ sutaḥ smṛtaḥ jyotiḥ śramaḥ śāntaḥ tathā muniḥ . agneḥ putraḥ kumāraḥ tu śrīmān śaravaṇa-ālayaḥ ..22..
तस्य शाखो विशाखश्च नैगमेशश्च पृष्ठजः । कृत्तिकाभ्युपपत्तेश्च कार्त्तिकेय इति स्मृतः ॥२३॥
तस्य शाखः विशाखः च नैगम-ईशः च पृष्ठजः । कृत्तिका-अभ्युपपत्तेः च कार्त्तिकेयः इति स्मृतः ॥२३॥
tasya śākhaḥ viśākhaḥ ca naigama-īśaḥ ca pṛṣṭhajaḥ . kṛttikā-abhyupapatteḥ ca kārttikeyaḥ iti smṛtaḥ ..23..
अनिलस्य शिवा भार्या तस्याः पुत्रः पुरोजवः । अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ॥२४॥
अनिलस्य शिवा भार्या तस्याः पुत्रः पुरोजवः । अविज्ञातगतिः च एव द्वौ पुत्रौ अनिलस्य तु ॥२४॥
anilasya śivā bhāryā tasyāḥ putraḥ purojavaḥ . avijñātagatiḥ ca eva dvau putrau anilasya tu ..24..
प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाथ देवलम् । द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ॥२५॥
प्रत्यूषस्य विदुः पुत्रम् ऋषिम् नाम्ना अथ देवलम् । द्वौ पुत्रौ देवलस्य अपि क्षमावन्तौ मनीषिणौ ॥२५॥
pratyūṣasya viduḥ putram ṛṣim nāmnā atha devalam . dvau putrau devalasya api kṣamāvantau manīṣiṇau ..25..
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी । योगसिद्धा जगत्सर्वमसक्तं विचरत्युत ॥२६॥ ( प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह ॥२६॥ )
बृहस्पतेः तु भगिनी वर-स्त्री ब्रह्मचारिणी । योग-सिद्धा जगत् सर्वम् असक्तम् विचरति उत ॥२६॥ ( प्रभासस्य तु भार्या सा वसूनाम् अष्टमस्य ह ॥२६॥ )
bṛhaspateḥ tu bhaginī vara-strī brahmacāriṇī . yoga-siddhā jagat sarvam asaktam vicarati uta ..26.. ( prabhāsasya tu bhāryā sā vasūnām aṣṭamasya ha ..26.. )
विश्वकर्मा महाभागो जज्ञे शिल्पप्रजापतिः । कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः ॥२७॥
विश्वकर्मा महाभागः जज्ञे शिल्पप्रजापतिः । कर्ता शिल्प-सहस्राणाम् त्रिदशानाम् च वर्धकिः ॥२७॥
viśvakarmā mahābhāgaḥ jajñe śilpaprajāpatiḥ . kartā śilpa-sahasrāṇām tridaśānām ca vardhakiḥ ..27..
भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः । यो दिव्यानि विमानानि देवतानां चकार ह ॥२८॥
भूषणानाम् च सर्वेषाम् कर्ता शिल्पवताम् वरः । यः दिव्यानि विमानानि देवतानाम् चकार ह ॥२८॥
bhūṣaṇānām ca sarveṣām kartā śilpavatām varaḥ . yaḥ divyāni vimānāni devatānām cakāra ha ..28..
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः । पूजयन्ति च यं नित्यं विश्वकर्माणमव्ययम् ॥२९॥
मनुष्याः च उपजीवन्ति यस्य शिल्पम् महात्मनः । पूजयन्ति च यम् नित्यम् विश्वकर्माणम् अव्ययम् ॥२९॥
manuṣyāḥ ca upajīvanti yasya śilpam mahātmanaḥ . pūjayanti ca yam nityam viśvakarmāṇam avyayam ..29..
स्तनं तु दक्षिणं भित्त्वा ब्रह्मणो नरविग्रहः । निःसृतो भगवान्धर्मः सर्वलोकसुखावहः ॥३०॥
स्तनम् तु दक्षिणम् भित्त्वा ब्रह्मणः नर-विग्रहः । निःसृतः भगवान् धर्मः सर्व-लोक-सुख-आवहः ॥३०॥
stanam tu dakṣiṇam bhittvā brahmaṇaḥ nara-vigrahaḥ . niḥsṛtaḥ bhagavān dharmaḥ sarva-loka-sukha-āvahaḥ ..30..
त्रयस्तस्य वराः पुत्राः सर्वभूतमनोहराः । शमः कामश्च हर्षश्च तेजसा लोकधारिणः ॥३१॥
त्रयः तस्य वराः पुत्राः सर्व-भूत-मनोहराः । शमः कामः च हर्षः च तेजसा लोक-धारिणः ॥३१॥
trayaḥ tasya varāḥ putrāḥ sarva-bhūta-manoharāḥ . śamaḥ kāmaḥ ca harṣaḥ ca tejasā loka-dhāriṇaḥ ..31..
कामस्य तु रतिर्भार्या शमस्य प्राप्तिरङ्गना । नन्दी तु भार्या हर्षस्य यत्र लोकाः प्रतिष्ठिताः ॥३२॥
कामस्य तु रतिः भार्या शमस्य प्राप्तिः अङ्गना । नन्दी तु भार्या हर्षस्य यत्र लोकाः प्रतिष्ठिताः ॥३२॥
kāmasya tu ratiḥ bhāryā śamasya prāptiḥ aṅganā . nandī tu bhāryā harṣasya yatra lokāḥ pratiṣṭhitāḥ ..32..
मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः । जज्ञिरे नृपशार्दूल लोकानां प्रभवस्तु सः ॥३३॥
मरीचेः कश्यपः पुत्रः कश्यपस्य सुर-असुराः । जज्ञिरे नृप-शार्दूल लोकानाम् प्रभवः तु सः ॥३३॥
marīceḥ kaśyapaḥ putraḥ kaśyapasya sura-asurāḥ . jajñire nṛpa-śārdūla lokānām prabhavaḥ tu saḥ ..33..
त्वाष्ट्री तु सवितुर्भार्या वडवारूपधारिणी । असूयत महाभागा सान्तरिक्षेऽश्विनावुभौ ॥३४॥
त्वाष्ट्री तु सवितुः भार्या वडवा-रूप-धारिणी । असूयत महाभागा सा अन्तरिक्षे अश्विनौ उभौ ॥३४॥
tvāṣṭrī tu savituḥ bhāryā vaḍavā-rūpa-dhāriṇī . asūyata mahābhāgā sā antarikṣe aśvinau ubhau ..34..
द्वादशैवादितेः पुत्राः शक्रमुख्या नराधिप । तेषामवरजो विष्णुर्यत्र लोकाः प्रतिष्ठिताः ॥३५॥
द्वादश एव अदितेः पुत्राः शक्र-मुख्याः नराधिप । तेषाम् अवरजः विष्णुः यत्र लोकाः प्रतिष्ठिताः ॥३५॥
dvādaśa eva aditeḥ putrāḥ śakra-mukhyāḥ narādhipa . teṣām avarajaḥ viṣṇuḥ yatra lokāḥ pratiṣṭhitāḥ ..35..
त्रयस्त्रिंशत इत्येते देवास्तेषामहं तव । अन्वयं सम्प्रवक्ष्यामि पक्षैश्च कुलतो गणान् ॥३६॥
त्रयस्त्रिंशतः इति एते देवाः तेषाम् अहम् तव । अन्वयम् सम्प्रवक्ष्यामि पक्षैः च कुलतः गणान् ॥३६॥
trayastriṃśataḥ iti ete devāḥ teṣām aham tava . anvayam sampravakṣyāmi pakṣaiḥ ca kulataḥ gaṇān ..36..
रुद्राणामपरः पक्षः साध्यानां मरुतां तथा । वसूनां भार्गवं विद्याद्विश्वेदेवांस्तथैव च ॥३७॥
रुद्राणाम् अपरः पक्षः साध्यानाम् मरुताम् तथा । वसूनाम् भार्गवम् विद्यात् विश्वेदेवान् तथा एव च ॥३७॥
rudrāṇām aparaḥ pakṣaḥ sādhyānām marutām tathā . vasūnām bhārgavam vidyāt viśvedevān tathā eva ca ..37..
वैनतेयस्तु गरुडो बलवानरुणस्तथा । बृहस्पतिश्च भगवानादित्येष्वेव गण्यते ॥३८॥
वैनतेयः तु गरुडः बलवान् अरुणः तथा । बृहस्पतिः च भगवान् आदित्येषु एव गण्यते ॥३८॥
vainateyaḥ tu garuḍaḥ balavān aruṇaḥ tathā . bṛhaspatiḥ ca bhagavān ādityeṣu eva gaṇyate ..38..
अश्विभ्यां गुह्यकान्विद्धि सर्वौषध्यस्तथा पशून् । एष देवगणो राजन्कीर्तितस्तेऽनुपूर्वशः ॥३९॥ ( यं कीर्तयित्वा मनुजः सर्वपापैः प्रमुच्यते ॥३९॥ )
अश्विभ्याम् गुह्यकान् विद्धि सर्व-ओषध्यः तथा पशून् । एष देव-गणः राजन् कीर्तितः ते अनुपूर्वशस् ॥३९॥ ( यम् कीर्तयित्वा मनुजः सर्व-पापैः प्रमुच्यते ॥३९॥ )
aśvibhyām guhyakān viddhi sarva-oṣadhyaḥ tathā paśūn . eṣa deva-gaṇaḥ rājan kīrtitaḥ te anupūrvaśas ..39.. ( yam kīrtayitvā manujaḥ sarva-pāpaiḥ pramucyate ..39.. )
ब्रह्मणो हृदयं भित्त्वा निःसृतो भगवान्भृगुः । भृगोः पुत्रः कविर्विद्वाञ्शुक्रः कविसुतो ग्रहः ॥४०॥
ब्रह्मणः हृदयम् भित्त्वा निःसृतः भगवान् भृगुः । भृगोः पुत्रः कविः विद्वान् शुक्रः कवि-सुतः ग्रहः ॥४०॥
brahmaṇaḥ hṛdayam bhittvā niḥsṛtaḥ bhagavān bhṛguḥ . bhṛgoḥ putraḥ kaviḥ vidvān śukraḥ kavi-sutaḥ grahaḥ ..40..
त्रैलोक्यप्राणयात्रार्थे वर्षावर्षे भयाभये । स्वयम्भुवा नियुक्तः सन्भुवनं परिधावति ॥४१॥
त्रैलोक्य-प्राणयात्रा-अर्थे वर्ष-अवर्षे भय-अभये । स्वयम्भुवा नियुक्तः सन् भुवनम् परिधावति ॥४१॥
trailokya-prāṇayātrā-arthe varṣa-avarṣe bhaya-abhaye . svayambhuvā niyuktaḥ san bhuvanam paridhāvati ..41..
योगाचार्यो महाबुद्धिर्दैत्यानामभवद्गुरुः । सुराणां चापि मेधावी ब्रह्मचारी यतव्रतः ॥४२॥
योग-आचार्यः महा-बुद्धिः दैत्यानाम् अभवत् गुरुः । सुराणाम् च अपि मेधावी ब्रह्मचारी यत-व्रतः ॥४२॥
yoga-ācāryaḥ mahā-buddhiḥ daityānām abhavat guruḥ . surāṇām ca api medhāvī brahmacārī yata-vrataḥ ..42..
तस्मिन्नियुक्ते विभुना योगक्षेमाय भार्गवे । अन्यमुत्पादयामास पुत्रं भृगुरनिन्दितम् ॥४३॥
तस्मिन् नियुक्ते विभुना योगक्षेमाय भार्गवे । अन्यम् उत्पादयामास पुत्रम् भृगुः अनिन्दितम् ॥४३॥
tasmin niyukte vibhunā yogakṣemāya bhārgave . anyam utpādayāmāsa putram bhṛguḥ aninditam ..43..
च्यवनं दीप्ततपसं धर्मात्मानं मनीषिणम् । यः स रोषाच्च्युतो गर्भान्मातुर्मोक्षाय भारत ॥४४॥
च्यवनम् दीप्त-तपसम् धर्म-आत्मानम् मनीषिणम् । यः स रोषात् च्युतः गर्भात् मातुः मोक्षाय भारत ॥४४॥
cyavanam dīpta-tapasam dharma-ātmānam manīṣiṇam . yaḥ sa roṣāt cyutaḥ garbhāt mātuḥ mokṣāya bhārata ..44..
आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः । और्वस्तस्यां समभवदूरुं भित्त्वा महायशाः ॥४५॥ ( महातपा महातेजा बाल एव गुणैर्युतः ॥४५॥ )
आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः । और्वः तस्याम् समभवत् ऊरुम् भित्त्वा महा-यशाः ॥४५॥ ( महा-तपाः महा-तेजाः बालः एव गुणैः युतः ॥४५॥ )
āruṣī tu manoḥ kanyā tasya patnī manīṣiṇaḥ . aurvaḥ tasyām samabhavat ūrum bhittvā mahā-yaśāḥ ..45.. ( mahā-tapāḥ mahā-tejāḥ bālaḥ eva guṇaiḥ yutaḥ ..45.. )
ऋचीकस्तस्य पुत्रस्तु जमदग्निस्ततोऽभवत् । जमदग्नेस्तु चत्वार आसन्पुत्रा महात्मनः ॥४६॥
ऋचीकः तस्य पुत्रः तु जमदग्निः ततस् अभवत् । जमदग्नेः तु चत्वारः आसन् पुत्राः महात्मनः ॥४६॥
ṛcīkaḥ tasya putraḥ tu jamadagniḥ tatas abhavat . jamadagneḥ tu catvāraḥ āsan putrāḥ mahātmanaḥ ..46..
रामस्तेषां जघन्योऽभूदजघन्यैर्गुणैर्युतः । सर्वशस्त्रास्त्रकुशलः क्षत्रियान्तकरो वशी ॥४७॥
रामः तेषाम् जघन्यः अभूत् अजघन्यैः गुणैः युतः । ॥४७॥
rāmaḥ teṣām jaghanyaḥ abhūt ajaghanyaiḥ guṇaiḥ yutaḥ . ..47..
और्वस्यासीत्पुत्रशतं जमदग्निपुरोगमम् । तेषां पुत्रसहस्राणि बभूवुर्भृगुविस्तरः ॥४८॥
और्वस्य आसीत् पुत्र-शतम् जमदग्नि-पुरोगमम् । तेषाम् पुत्र-सहस्राणि बभूवुः भृगु-विस्तरः ॥४८॥
aurvasya āsīt putra-śatam jamadagni-purogamam . teṣām putra-sahasrāṇi babhūvuḥ bhṛgu-vistaraḥ ..48..
द्वौ पुत्रौ ब्रह्मणस्त्वन्यौ ययोस्तिष्ठति लक्षणम् । लोके धाता विधाता च यौ स्थितौ मनुना सह ॥४९॥
द्वौ पुत्रौ ब्रह्मणः तु अन्यौ ययोः तिष्ठति लक्षणम् । लोके धाता विधाता च यौ स्थितौ मनुना सह ॥४९॥
dvau putrau brahmaṇaḥ tu anyau yayoḥ tiṣṭhati lakṣaṇam . loke dhātā vidhātā ca yau sthitau manunā saha ..49..
तयोरेव स्वसा देवी लक्ष्मीः पद्मगृहा शुभा । तस्यास्तु मानसाः पुत्रास्तुरगा व्योमचारिणः ॥५०॥
तयोः एव स्वसा देवी लक्ष्मीः पद्मगृहा शुभा । तस्याः तु मानसाः पुत्राः तुरगाः व्योम-चारिणः ॥५०॥
tayoḥ eva svasā devī lakṣmīḥ padmagṛhā śubhā . tasyāḥ tu mānasāḥ putrāḥ turagāḥ vyoma-cāriṇaḥ ..50..
वरुणस्य भार्या ज्येष्ठा तु शुक्राद्देवी व्यजायत । तस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम् ॥५१॥
वरुणस्य भार्या ज्येष्ठा तु शुक्रात् देवी व्यजायत । तस्याः पुत्रम् बलम् विद्धि सुराम् च सुर-नन्दिनीम् ॥५१॥
varuṇasya bhāryā jyeṣṭhā tu śukrāt devī vyajāyata . tasyāḥ putram balam viddhi surām ca sura-nandinīm ..51..
प्रजानामन्नकामानामन्योन्यपरिभक्षणात् । अधर्मस्तत्र सञ्जातः सर्वभूतविनाशनः ॥५२॥
प्रजानाम् अन्न-कामानाम् अन्योन्य-परिभक्षणात् । अधर्मः तत्र सञ्जातः सर्व-भूत-विनाशनः ॥५२॥
prajānām anna-kāmānām anyonya-paribhakṣaṇāt . adharmaḥ tatra sañjātaḥ sarva-bhūta-vināśanaḥ ..52..
तस्यापि निरृतिर्भार्या नैरृता येन राक्षसाः । घोरास्तस्यास्त्रयः पुत्राः पापकर्मरताः सदा ॥५३॥ ( भयो महाभयश्चैव मृत्युर्भूतान्तकस्तथा ॥५३॥ )
तस्य अपि निरृतिः भार्या नैरृताः येन राक्षसाः । घोराः तस्याः त्रयः पुत्राः पाप-कर्म-रताः सदा ॥५३॥ ( भयः महाभयः च एव मृत्युः भूतान्तकः तथा ॥५३॥ )
tasya api nirṛtiḥ bhāryā nairṛtāḥ yena rākṣasāḥ . ghorāḥ tasyāḥ trayaḥ putrāḥ pāpa-karma-ratāḥ sadā ..53.. ( bhayaḥ mahābhayaḥ ca eva mṛtyuḥ bhūtāntakaḥ tathā ..53.. )
काकीं श्येनीं च भासीं च धृतराष्ट्रीं तथा शुकीम् । ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः ॥५४॥
काकीम् श्येनीम् च भासीम् च धृतराष्ट्रीम् तथा शुकीम् । ताम्रा तु सुषुवे देवी पञ्च एताः लोक-विश्रुताः ॥५४॥
kākīm śyenīm ca bhāsīm ca dhṛtarāṣṭrīm tathā śukīm . tāmrā tu suṣuve devī pañca etāḥ loka-viśrutāḥ ..54..
उलूकान्सुषुवे काकी श्येनी श्येनान्व्यजायत । भासी भासानजनयद्गृध्रांश्चैव जनाधिप ॥५५॥
उलूकान् सुषुवे काकी श्येनी श्येनान् व्यजायत । भासी भासान् अजनयत् गृध्रान् च एव जनाधिप ॥५५॥
ulūkān suṣuve kākī śyenī śyenān vyajāyata . bhāsī bhāsān ajanayat gṛdhrān ca eva janādhipa ..55..
धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः । चक्रवाकांश्च भद्रं ते प्रजज्ञे सा तु भामिनी ॥५६॥
धृतराष्ट्री तु हंसान् च कलहंसान् च सर्वशस् । चक्रवाकान् च भद्रम् ते प्रजज्ञे सा तु भामिनी ॥५६॥
dhṛtarāṣṭrī tu haṃsān ca kalahaṃsān ca sarvaśas . cakravākān ca bhadram te prajajñe sā tu bhāminī ..56..
शुकी विजज्ञे धर्मज्ञ शुकानेव मनस्विनी । कल्याणगुणसम्पन्ना सर्वलक्षणपूजिता ॥५७॥
शुकी विजज्ञे धर्म-ज्ञ शुकान् एव मनस्विनी । कल्याण-गुण-सम्पन्ना सर्व-लक्षण-पूजिता ॥५७॥
śukī vijajñe dharma-jña śukān eva manasvinī . kalyāṇa-guṇa-sampannā sarva-lakṣaṇa-pūjitā ..57..
नव क्रोधवशा नारीः प्रजज्ञेऽप्यात्मसम्भवाः । मृगीं च मृगमन्दां च हरिं भद्रमनामपि ॥५८॥
नव क्रोध-वशाः नारीः प्रजज्ञे अपि आत्म-सम्भवाः । मृगीम् च मृगमन्दाम् च हरिम् भद्रमनाम् अपि ॥५८॥
nava krodha-vaśāḥ nārīḥ prajajñe api ātma-sambhavāḥ . mṛgīm ca mṛgamandām ca harim bhadramanām api ..58..
मातङ्गीमथ शार्दूलीं श्वेतां सुरभिमेव च । सर्वलक्षणसम्पन्नां सुरसां च यशस्विनीम् ॥५९॥
मातङ्गीम् अथ शार्दूलीम् श्वेताम् सुरभिम् एव च । सर्व-लक्षण-सम्पन्नाम् सु रसाम् च यशस्विनीम् ॥५९॥
mātaṅgīm atha śārdūlīm śvetām surabhim eva ca . sarva-lakṣaṇa-sampannām su rasām ca yaśasvinīm ..59..
अपत्यं तु मृगाः सर्वे मृग्या नरवरात्मज । ऋक्षाश्च मृगमन्दायाः सृमराश्चमरा अपि ॥६०॥
अपत्यम् तु मृगाः सर्वे मृग्याः नर-वर-आत्मज । ऋक्षाः च मृगमन्दायाः सृमराः चमराः अपि ॥६०॥
apatyam tu mṛgāḥ sarve mṛgyāḥ nara-vara-ātmaja . ṛkṣāḥ ca mṛgamandāyāḥ sṛmarāḥ camarāḥ api ..60..
ततस्त्वैरावतं नागं जज्ञे भद्रमना सुतम् । ऐरावतः सुतस्तस्या देवनागो महागजः ॥६१॥
ततस् तु ऐरावतम् नागम् जज्ञे भद्रमनाः सुतम् । ऐरावतः सुतः तस्याः देव-नागः महा-गजः ॥६१॥
tatas tu airāvatam nāgam jajñe bhadramanāḥ sutam . airāvataḥ sutaḥ tasyāḥ deva-nāgaḥ mahā-gajaḥ ..61..
हर्याश्च हरयोऽपत्यं वानराश्च तरस्विनः । गोलाङ्गूलांश्च भद्रं ते हर्याः पुत्रान्प्रचक्षते ॥६२॥
हर्याः च हरयः अपत्यम् वानराः च तरस्विनः । गोलाङ्गूलान् च भद्रम् ते हर्याः पुत्रान् प्रचक्षते ॥६२॥
haryāḥ ca harayaḥ apatyam vānarāḥ ca tarasvinaḥ . golāṅgūlān ca bhadram te haryāḥ putrān pracakṣate ..62..
प्रजज्ञे त्वथ शार्दूली सिंहान्व्याघ्रांश्च भारत । द्वीपिनश्च महाभाग सर्वानेव न संशयः ॥६३॥
प्रजज्ञे तु अथ शार्दूली सिंहान् व्याघ्रान् च भारत । द्वीपिनः च महाभाग सर्वान् एव न संशयः ॥६३॥
prajajñe tu atha śārdūlī siṃhān vyāghrān ca bhārata . dvīpinaḥ ca mahābhāga sarvān eva na saṃśayaḥ ..63..
मातङ्ग्यास्त्वथ मातङ्गा अपत्यानि नराधिप । दिशागजं तु श्वेताख्यं श्वेताजनयदाशुगम् ॥६४॥
मातङ्ग्याः तु अथ मातङ्गाः अपत्यानि नराधिप । दिशागजम् तु श्वेत-आख्यम् श्वेता जनयत् आशु-गम् ॥६४॥
mātaṅgyāḥ tu atha mātaṅgāḥ apatyāni narādhipa . diśāgajam tu śveta-ākhyam śvetā janayat āśu-gam ..64..
तथा दुहितरौ राजन्सुरभिर्वै व्यजायत । रोहिणीं चैव भद्रं ते गन्धर्वीं च यशस्विनीम् ॥६५॥ ( रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनः सुताः ॥६५॥ )
तथा दुहितरौ राजन् सुरभिः वै व्यजायत । रोहिणीम् च एव भद्रम् ते गन्धर्वीम् च यशस्विनीम् ॥६५॥ ( रोहिण्याम् जज्ञिरे गावः गन्धर्व्याम् वाजिनः सुताः ॥६५॥ )
tathā duhitarau rājan surabhiḥ vai vyajāyata . rohiṇīm ca eva bhadram te gandharvīm ca yaśasvinīm ..65.. ( rohiṇyām jajñire gāvaḥ gandharvyām vājinaḥ sutāḥ ..65.. )
सुरसाजनयन्नागान्राजन्कद्रूश्च पन्नगान् । सप्त पिण्डफलान्वृक्षाननलापि व्यजायत ॥६६॥ ( अनलायाः शुकी पुत्री कद्र्वास्तु सुरसा सुता ॥६६॥ )
सुरसा जनयत् नागान् राजन् कद्रूः च पन्नगान् । सप्त पिण्डफलान् वृक्षान् अनला अपि व्यजायत ॥६६॥ ( अनलायाः शुकी पुत्री कद्र्वाः तु सुरसा सुता ॥६६॥ )
surasā janayat nāgān rājan kadrūḥ ca pannagān . sapta piṇḍaphalān vṛkṣān analā api vyajāyata ..66.. ( analāyāḥ śukī putrī kadrvāḥ tu surasā sutā ..66.. )
अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ । सम्पातिं जनयामास तथैव च जटायुषम् ॥६७॥ ( द्वौ पुत्रौ विनतायास्तु विख्यातौ गरुडारुणौ ॥६७॥ )
अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महा-बलौ । सम्पातिम् जनयामास तथा एव च जटायुषम् ॥६७॥ ( द्वौ पुत्रौ विनतायाः तु विख्यातौ गरुड-अरुणौ ॥६७॥ )
aruṇasya bhāryā śyenī tu vīryavantau mahā-balau . sampātim janayāmāsa tathā eva ca jaṭāyuṣam ..67.. ( dvau putrau vinatāyāḥ tu vikhyātau garuḍa-aruṇau ..67.. )
इत्येष सर्वभूतानां महतां मनुजाधिप । प्रभवः कीर्तितः सम्यङ्मया मतिमतां वर ॥६८॥
इति एष सर्व-भूतानाम् महताम् मनुज-अधिप । प्रभवः कीर्तितः सम्यक् मया मतिमताम् वर ॥६८॥
iti eṣa sarva-bhūtānām mahatām manuja-adhipa . prabhavaḥ kīrtitaḥ samyak mayā matimatām vara ..68..
यं श्रुत्वा पुरुषः सम्यक्पूतो भवति पाप्मनः । सर्वज्ञतां च लभते गतिमग्र्यां च विन्दति ॥६९॥ 1.66.72
यम् श्रुत्वा पुरुषः सम्यक् पूतः भवति पाप्मनः । सर्वज्ञ-ताम् च लभते गतिम् अग्र्याम् च विन्दति ॥६९॥ १।६६।७२
yam śrutvā puruṣaḥ samyak pūtaḥ bhavati pāpmanaḥ . sarvajña-tām ca labhate gatim agryām ca vindati ..69.. 1.66.72

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In