| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

जनमेजय उवाच॥
देवानां दानवानां च यक्षाणामथ रक्षसाम् । अन्येषां चैव भूतानां सर्वेषां भगवन्नहम् ॥१॥
देवानाम् दानवानाम् च यक्षाणाम् अथ रक्षसाम् । अन्येषाम् च एव भूतानाम् सर्वेषाम् भगवन् अहम् ॥१॥
devānām dānavānām ca yakṣāṇām atha rakṣasām . anyeṣām ca eva bhūtānām sarveṣām bhagavan aham ..1..
श्रोतुमिच्छामि तत्त्वेन मानुषेषु महात्मनाम् । जन्म कर्म च भूतानामेतेषामनुपूर्वशः ॥२॥
श्रोतुम् इच्छामि तत्त्वेन मानुषेषु महात्मनाम् । जन्म कर्म च भूतानाम् एतेषाम् अनुपूर्वशस् ॥२॥
śrotum icchāmi tattvena mānuṣeṣu mahātmanām . janma karma ca bhūtānām eteṣām anupūrvaśas ..2..
वैशम्पायन उवाच॥
मानुषेषु मनुष्येन्द्र सम्भूता ये दिवौकसः । प्रथमं दानवांश्चैव तांस्ते वक्ष्यामि सर्वशः ॥३॥
मानुषेषु मनुष्य-इन्द्र सम्भूताः ये दिवौकसः । प्रथमम् दानवान् च एव तान् ते वक्ष्यामि सर्वशस् ॥३॥
mānuṣeṣu manuṣya-indra sambhūtāḥ ye divaukasaḥ . prathamam dānavān ca eva tān te vakṣyāmi sarvaśas ..3..
विप्रचित्तिरिति ख्यातो य आसीद्दानवर्षभः । जरासन्ध इति ख्यातः स आसीन्मनुजर्षभः ॥४॥
विप्रचित्तिः इति ख्यातः यः आसीत् दानव-ऋषभः । जरासन्धः इति ख्यातः सः आसीत् मनुज-ऋषभः ॥४॥
vipracittiḥ iti khyātaḥ yaḥ āsīt dānava-ṛṣabhaḥ . jarāsandhaḥ iti khyātaḥ saḥ āsīt manuja-ṛṣabhaḥ ..4..
दितेः पुत्रस्तु यो राजन्हिरण्यकशिपुः स्मृतः । स जज्ञे मानुषे लोके शिशुपालो नरर्षभः ॥५॥
दितेः पुत्रः तु यः राजन् हिरण्यकशिपुः स्मृतः । स जज्ञे मानुषे लोके शिशुपालः नर-ऋषभः ॥५॥
diteḥ putraḥ tu yaḥ rājan hiraṇyakaśipuḥ smṛtaḥ . sa jajñe mānuṣe loke śiśupālaḥ nara-ṛṣabhaḥ ..5..
संह्राद इति विख्यातः प्रह्रादस्यानुजस्तु यः । स शल्य इति विख्यातो जज्ञे बाह्लीकपुङ्गवः ॥६॥
संह्रादः इति विख्यातः प्रह्रादस्य अनुजः तु यः । स शल्यः इति विख्यातः जज्ञे वाह्लीक-पुङ्गवः ॥६॥
saṃhrādaḥ iti vikhyātaḥ prahrādasya anujaḥ tu yaḥ . sa śalyaḥ iti vikhyātaḥ jajñe vāhlīka-puṅgavaḥ ..6..
अनुह्रादस्तु तेजस्वी योऽभूत्ख्यातो जघन्यजः । धृष्टकेतुरिति ख्यातः स आसीन्मनुजेश्वरः ॥७॥
अनुह्रादः तु तेजस्वी यः अभूत् ख्यातः जघन्य-जः । धृष्टकेतुः इति ख्यातः सः आसीत् मनुज-ईश्वरः ॥७॥
anuhrādaḥ tu tejasvī yaḥ abhūt khyātaḥ jaghanya-jaḥ . dhṛṣṭaketuḥ iti khyātaḥ saḥ āsīt manuja-īśvaraḥ ..7..
यस्तु राजञ्शिबिर्नाम दैतेयः परिकीर्तितः । द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः ॥८॥
यः तु राजन् शिबिः नाम दैतेयः परिकीर्तितः । द्रुमः इति अभिविख्यातः सः आसीत् भुवि पार्थिवः ॥८॥
yaḥ tu rājan śibiḥ nāma daiteyaḥ parikīrtitaḥ . drumaḥ iti abhivikhyātaḥ saḥ āsīt bhuvi pārthivaḥ ..8..
बाष्कलो नाम यस्तेषामासीदसुरसत्तमः । भगदत्त इति ख्यातः स आसीन्मनुजेश्वरः ॥९॥
बाष्कलः नाम यः तेषाम् आसीत् असुर-सत्तमः । भगदत्तः इति ख्यातः सः आसीत् मनुज-ईश्वरः ॥९॥
bāṣkalaḥ nāma yaḥ teṣām āsīt asura-sattamaḥ . bhagadattaḥ iti khyātaḥ saḥ āsīt manuja-īśvaraḥ ..9..
अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान् । तथा गगनमूर्धा च वेगवांश्चात्र पञ्चमः ॥१०॥
अयः-शिराः अश्व-शिराः अयः-शङ्कुः च वीर्यवान् । तथा गगनमूर्धा च वेगवान् च अत्र पञ्चमः ॥१०॥
ayaḥ-śirāḥ aśva-śirāḥ ayaḥ-śaṅkuḥ ca vīryavān . tathā gaganamūrdhā ca vegavān ca atra pañcamaḥ ..10..
पञ्चैते जज्ञिरे राजन्वीर्यवन्तो महासुराः । केकयेषु महात्मानः पार्थिवर्षभसत्तमाः ॥११॥
पञ्च एते जज्ञिरे राजन् वीर्यवन्तः महा-असुराः । केकयेषु महात्मानः पार्थिव-ऋषभ-सत्तमाः ॥११॥
pañca ete jajñire rājan vīryavantaḥ mahā-asurāḥ . kekayeṣu mahātmānaḥ pārthiva-ṛṣabha-sattamāḥ ..11..
केतुमानिति विख्यातो यस्ततोऽन्यः प्रतापवान् । अमितौजा इति ख्यातः पृथिव्यां सोऽभवन्न्नृपः ॥१२॥
केतुमान् इति विख्यातः यः ततस् अन्यः प्रतापवान् । अमितौजाः इति ख्यातः पृथिव्याम् सः अभवत् नृपः ॥१२॥
ketumān iti vikhyātaḥ yaḥ tatas anyaḥ pratāpavān . amitaujāḥ iti khyātaḥ pṛthivyām saḥ abhavat nṛpaḥ ..12..
स्वर्भानुरिति विख्यातः श्रीमान्यस्तु महासुरः । उग्रसेन इति ख्यात उग्रकर्मा नराधिपः ॥१३॥
स्वर्भानुः इति विख्यातः श्रीमान् यः तु महा-असुरः । उग्रसेनः इति ख्यातः उग्र-कर्मा नराधिपः ॥१३॥
svarbhānuḥ iti vikhyātaḥ śrīmān yaḥ tu mahā-asuraḥ . ugrasenaḥ iti khyātaḥ ugra-karmā narādhipaḥ ..13..
यस्त्वश्व इति विख्यातः श्रीमानासीन्महासुरः । अशोको नाम राजासीन्महावीर्यपराक्रमः ॥१४॥
यः तु अश्वः इति विख्यातः श्रीमान् आसीत् महा-असुरः । अशोकः नाम राजा आसीत् महा-वीर्य-पराक्रमः ॥१४॥
yaḥ tu aśvaḥ iti vikhyātaḥ śrīmān āsīt mahā-asuraḥ . aśokaḥ nāma rājā āsīt mahā-vīrya-parākramaḥ ..14..
तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः । दैतेयः सोऽभवद्राजा हार्दिक्यो मनुजर्षभः ॥१५॥
तस्मात् अवरजः यः तु राजन् अश्वपतिः स्मृतः । दैतेयः सः अभवत् राजा हार्दिक्यः मनुज-ऋषभः ॥१५॥
tasmāt avarajaḥ yaḥ tu rājan aśvapatiḥ smṛtaḥ . daiteyaḥ saḥ abhavat rājā hārdikyaḥ manuja-ṛṣabhaḥ ..15..
वृषपर्वेति विख्यातः श्रीमान्यस्तु महासुरः । दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥१६॥
वृषपर्वा इति विख्यातः श्रीमान् यः तु महा-असुरः । दीर्घप्रज्ञः इति ख्यातः पृथिव्याम् सः अभवत् नृपः ॥१६॥
vṛṣaparvā iti vikhyātaḥ śrīmān yaḥ tu mahā-asuraḥ . dīrghaprajñaḥ iti khyātaḥ pṛthivyām saḥ abhavat nṛpaḥ ..16..
अजकस्त्वनुजो राजन्य आसीद्वृषपर्वणः । स मल्ल इति विख्यातः पृथिव्यामभवन्नृपः ॥१७॥
अजकः तु अनुजः राजन्यः आसीत् वृषपर्वणः । स मल्लः इति विख्यातः पृथिव्याम् अभवत् नृपः ॥१७॥
ajakaḥ tu anujaḥ rājanyaḥ āsīt vṛṣaparvaṇaḥ . sa mallaḥ iti vikhyātaḥ pṛthivyām abhavat nṛpaḥ ..17..
अश्वग्रीव इति ख्यातः सत्त्ववान्यो महासुरः । रोचमान इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥१८॥
अश्वग्रीवः इति ख्यातः सत्त्ववान् यः महा-असुरः । रोचमानः इति ख्यातः पृथिव्याम् सः अभवत् नृपः ॥१८॥
aśvagrīvaḥ iti khyātaḥ sattvavān yaḥ mahā-asuraḥ . rocamānaḥ iti khyātaḥ pṛthivyām saḥ abhavat nṛpaḥ ..18..
सूक्ष्मस्तु मतिमान्राजन्कीर्तिमान्यः प्रकीर्तितः । बृहन्त इति विख्यातः क्षितावासीत्स पार्थिवः ॥१९॥
सूक्ष्मः तु मतिमान् राजन् कीर्तिमान् यः प्रकीर्तितः । बृहन्तः इति विख्यातः क्षितौ आसीत् स पार्थिवः ॥१९॥
sūkṣmaḥ tu matimān rājan kīrtimān yaḥ prakīrtitaḥ . bṛhantaḥ iti vikhyātaḥ kṣitau āsīt sa pārthivaḥ ..19..
तुहुण्ड इति विख्यातो य आसीदसुरोत्तमः । सेनाबिन्दुरिति ख्यातः स बभूव नराधिपः ॥२०॥
तुहुण्डः इति विख्यातः यः आसीत् असुर-उत्तमः । सेनाबिन्दुः इति ख्यातः स बभूव नर-अधिपः ॥२०॥
tuhuṇḍaḥ iti vikhyātaḥ yaḥ āsīt asura-uttamaḥ . senābinduḥ iti khyātaḥ sa babhūva nara-adhipaḥ ..20..
इसृपा नाम यस्तेषामसुराणां बलाधिकः । पापजिन्नाम राजासीद्भुवि विख्यातविक्रमः ॥२१॥
इसृपाः नाम यः तेषाम् असुराणाम् बल-अधिकः । पापजित् नाम राजा आसीत् भुवि विख्यात-विक्रमः ॥२१॥
isṛpāḥ nāma yaḥ teṣām asurāṇām bala-adhikaḥ . pāpajit nāma rājā āsīt bhuvi vikhyāta-vikramaḥ ..21..
एकचक्र इति ख्यात आसीद्यस्तु महासुरः । प्रतिविन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ ॥२२॥
एकचक्रः इति ख्यातः आसीत् यः तु महा-असुरः । प्रतिविन्ध्यः इति ख्यातः बभूव प्रथितः क्षितौ ॥२२॥
ekacakraḥ iti khyātaḥ āsīt yaḥ tu mahā-asuraḥ . prativindhyaḥ iti khyātaḥ babhūva prathitaḥ kṣitau ..22..
विरूपाक्षस्तु दैतेयश्चित्रयोधी महासुरः । चित्रवर्मेति विख्यातः क्षितावासीत्स पार्थिवः ॥२३॥
विरूपाक्षः तु दैतेयः चित्र-योधी महा-असुरः । चित्रवर्मा इति विख्यातः क्षितौ आसीत् स पार्थिवः ॥२३॥
virūpākṣaḥ tu daiteyaḥ citra-yodhī mahā-asuraḥ . citravarmā iti vikhyātaḥ kṣitau āsīt sa pārthivaḥ ..23..
हरस्त्वरिहरो वीर आसीद्यो दानवोत्तमः । सुवास्तुरिति विख्यातः स जज्ञे मनुजर्षभः ॥२४॥
हरः तु अरि-हरः वीरः आसीत् यः दानव-उत्तमः । सुवास्तुः इति विख्यातः स जज्ञे मनुज-ऋषभः ॥२४॥
haraḥ tu ari-haraḥ vīraḥ āsīt yaḥ dānava-uttamaḥ . suvāstuḥ iti vikhyātaḥ sa jajñe manuja-ṛṣabhaḥ ..24..
अहरस्तु महातेजाः शत्रुपक्षक्षयङ्करः । बाह्लीको नाम राजा स बभूव प्रथितः क्षितौ ॥२५॥
अहरः तु महा-तेजाः शत्रु-पक्ष-क्षयङ्करः । बाह्लीकः नाम राजा स बभूव प्रथितः क्षितौ ॥२५॥
aharaḥ tu mahā-tejāḥ śatru-pakṣa-kṣayaṅkaraḥ . bāhlīkaḥ nāma rājā sa babhūva prathitaḥ kṣitau ..25..
निचन्द्रश्चन्द्रवक्त्रश्च य आसीदसुरोत्तमः । मुञ्जकेश इति ख्यातः श्रीमानासीत्स पार्थिवः ॥२६॥
निचन्द्रः चन्द्रवक्त्रः च यः आसीत् असुर-उत्तमः । मुञ्जकेशः इति ख्यातः श्रीमान् आसीत् स पार्थिवः ॥२६॥
nicandraḥ candravaktraḥ ca yaḥ āsīt asura-uttamaḥ . muñjakeśaḥ iti khyātaḥ śrīmān āsīt sa pārthivaḥ ..26..
निकुम्भस्त्वजितः सङ्ख्ये महामतिरजायत । भूमौ भूमिपतिः श्रेष्ठो देवाधिप इति स्मृतः ॥२७॥
निकुम्भः तु अजितः सङ्ख्ये महामतिः अजायत । भूमौ भूमिपतिः श्रेष्ठः देवाधिपः इति स्मृतः ॥२७॥
nikumbhaḥ tu ajitaḥ saṅkhye mahāmatiḥ ajāyata . bhūmau bhūmipatiḥ śreṣṭhaḥ devādhipaḥ iti smṛtaḥ ..27..
शरभो नाम यस्तेषां दैतेयानां महासुरः । पौरवो नाम राजर्षिः स बभूव नरेष्विह ॥२८॥
शरभः नाम यः तेषाम् दैतेयानाम् महा-असुरः । पौरवः नाम राजर्षिः स बभूव नरेषु इह ॥२८॥
śarabhaḥ nāma yaḥ teṣām daiteyānām mahā-asuraḥ . pauravaḥ nāma rājarṣiḥ sa babhūva nareṣu iha ..28..
द्वितीयः शलभस्तेषामसुराणां बभूव यः । प्रह्रादो नाम बाह्लीकः स बभूव नराधिपः ॥२९॥
द्वितीयः शलभः तेषाम् असुराणाम् बभूव यः । प्रह्रादः नाम वाह्लीकः स बभूव नर-अधिपः ॥२९॥
dvitīyaḥ śalabhaḥ teṣām asurāṇām babhūva yaḥ . prahrādaḥ nāma vāhlīkaḥ sa babhūva nara-adhipaḥ ..29..
चन्द्रस्तु दितिजश्रेष्ठो लोके ताराधिपोपमः । ऋषिको नाम राजर्षिर्बभूव नृपसत्तमः ॥३०॥
चन्द्रः तु दितिज-श्रेष्ठः लोके ताराधिप-उपमः । ऋषिकः नाम राजर्षिः बभूव नृप-सत्तमः ॥३०॥
candraḥ tu ditija-śreṣṭhaḥ loke tārādhipa-upamaḥ . ṛṣikaḥ nāma rājarṣiḥ babhūva nṛpa-sattamaḥ ..30..
मृतपा इति विख्यातो य आसीदसुरोत्तमः । पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम ॥३१॥
मृतपाः इति विख्यातः यः आसीत् असुर-उत्तमः । पश्चिमानूपकम् विद्धि तम् नृपम् नृप-सत्तम ॥३१॥
mṛtapāḥ iti vikhyātaḥ yaḥ āsīt asura-uttamaḥ . paścimānūpakam viddhi tam nṛpam nṛpa-sattama ..31..
गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः । द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥३२॥
गविष्ठः तु महा-तेजाः यः प्रख्यातः महा-असुरः । द्रुमसेनः इति ख्यातः पृथिव्याम् सः अभवत् नृपः ॥३२॥
gaviṣṭhaḥ tu mahā-tejāḥ yaḥ prakhyātaḥ mahā-asuraḥ . drumasenaḥ iti khyātaḥ pṛthivyām saḥ abhavat nṛpaḥ ..32..
मयूर इति विख्यातः श्रीमान्यस्तु महासुरः । स विश्व इति विख्यातो बभूव पृथिवीपतिः ॥३३॥
मयूरः इति विख्यातः श्रीमान् यः तु महा-असुरः । स विश्वः इति विख्यातः बभूव पृथिवीपतिः ॥३३॥
mayūraḥ iti vikhyātaḥ śrīmān yaḥ tu mahā-asuraḥ . sa viśvaḥ iti vikhyātaḥ babhūva pṛthivīpatiḥ ..33..
सुपर्ण इति विख्यातस्तस्मादवरजस्तु यः । कालकीर्तिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥३४॥
सुपर्णः इति विख्यातः तस्मात् अवरजः तु यः । कालकीर्तिः इति ख्यातः पृथिव्याम् सः अभवत् नृपः ॥३४॥
suparṇaḥ iti vikhyātaḥ tasmāt avarajaḥ tu yaḥ . kālakīrtiḥ iti khyātaḥ pṛthivyām saḥ abhavat nṛpaḥ ..34..
चन्द्रहन्तेति यस्तेषां कीर्तितः प्रवरोऽसुरः । शुनको नाम राजर्षिः स बभूव नराधिपः ॥३५॥
चन्द्रहन्ता इति यः तेषाम् कीर्तितः प्रवरः असुरः । शुनकः नाम राजर्षिः स बभूव नर-अधिपः ॥३५॥
candrahantā iti yaḥ teṣām kīrtitaḥ pravaraḥ asuraḥ . śunakaḥ nāma rājarṣiḥ sa babhūva nara-adhipaḥ ..35..
विनाशनस्तु चन्द्रस्य य आख्यातो महासुरः । जानकिर्नाम राजर्षिः स बभूव नराधिपः ॥३६॥
विनाशनः तु चन्द्रस्य यः आख्यातः महा-असुरः । जानकिः नाम राजर्षिः स बभूव नर-अधिपः ॥३६॥
vināśanaḥ tu candrasya yaḥ ākhyātaḥ mahā-asuraḥ . jānakiḥ nāma rājarṣiḥ sa babhūva nara-adhipaḥ ..36..
दीर्घजिह्वस्तु कौरव्य य उक्तो दानवर्षभः । काशिराज इति ख्यातः पृथिव्यां पृथिवीपतिः ॥३७॥
दीर्घजिह्वः तु कौरव्य यः उक्तः दानव-ऋषभः । काशिराजः इति ख्यातः पृथिव्याम् पृथिवीपतिः ॥३७॥
dīrghajihvaḥ tu kauravya yaḥ uktaḥ dānava-ṛṣabhaḥ . kāśirājaḥ iti khyātaḥ pṛthivyām pṛthivīpatiḥ ..37..
ग्रहं तु सुषुवे यं तं सिंही चन्द्रार्कमर्दनम् । क्राथ इत्यभिविख्यातः सोऽभवन्मनुजाधिपः ॥३८॥
ग्रहम् तु सुषुवे यम् तम् सिंही चन्द्र-अर्क-मर्दनम् । क्राथः इति अभिविख्यातः सः अभवत् मनुज-अधिपः ॥३८॥
graham tu suṣuve yam tam siṃhī candra-arka-mardanam . krāthaḥ iti abhivikhyātaḥ saḥ abhavat manuja-adhipaḥ ..38..
अनायुषस्तु पुत्राणां चतुर्णां प्रवरोऽसुरः । विक्षरो नाम तेजस्वी वसुमित्रोऽभवन्नृपः ॥३९॥
अनायुषः तु पुत्राणाम् चतुर्णाम् प्रवरः असुरः । विक्षरः नाम तेजस्वी वसुमित्रः अभवत् नृपः ॥३९॥
anāyuṣaḥ tu putrāṇām caturṇām pravaraḥ asuraḥ . vikṣaraḥ nāma tejasvī vasumitraḥ abhavat nṛpaḥ ..39..
द्वितीयो विक्षराद्यस्तु नराधिप महासुरः । पांसुराष्ट्राधिप इति विश्रुतः सोऽभवन्नृपः ॥४०॥
द्वितीयः विक्षराद्यः तु नराधिप महा-असुरः । पांसुराष्ट्र-अधिपः इति विश्रुतः सः अभवत् नृपः ॥४०॥
dvitīyaḥ vikṣarādyaḥ tu narādhipa mahā-asuraḥ . pāṃsurāṣṭra-adhipaḥ iti viśrutaḥ saḥ abhavat nṛpaḥ ..40..
बलवीर इति ख्यातो यस्त्वासीदसुरोत्तमः । पौण्ड्रमत्स्यक इत्येव स बभूव नराधिपः ॥४१॥
बलवीरः इति ख्यातः यः तु आसीत् असुर-उत्तमः । पौण्ड्रमत्स्यकः इति एव स बभूव नराधिपः ॥४१॥
balavīraḥ iti khyātaḥ yaḥ tu āsīt asura-uttamaḥ . pauṇḍramatsyakaḥ iti eva sa babhūva narādhipaḥ ..41..
वृत्र इत्यभिविख्यातो यस्तु राजन्महासुरः । मणिमान्नाम राजर्षिः स बभूव नराधिपः ॥४२॥
वृत्रः इति अभिविख्यातः यः तु राजन् महा-असुरः । मणिमान् नाम राजर्षिः स बभूव नर-अधिपः ॥४२॥
vṛtraḥ iti abhivikhyātaḥ yaḥ tu rājan mahā-asuraḥ . maṇimān nāma rājarṣiḥ sa babhūva nara-adhipaḥ ..42..
क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः । दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ ॥४३॥
क्रोधहन्ता इति यः तस्य बभूव अवरजः असुरः । दण्डः इति अभिविख्यातः सः आसीत् नृपतिः क्षितौ ॥४३॥
krodhahantā iti yaḥ tasya babhūva avarajaḥ asuraḥ . daṇḍaḥ iti abhivikhyātaḥ saḥ āsīt nṛpatiḥ kṣitau ..43..
क्रोधवर्धन इत्येव यस्त्वन्यः परिकीर्तितः । दण्डधार इति ख्यातः सोऽभवन्मनुजेश्वरः ॥४४॥
क्रोधवर्धनः इति एव यः तु अन्यः परिकीर्तितः । दण्डधारः इति ख्यातः सः अभवत् मनुज-ईश्वरः ॥४४॥
krodhavardhanaḥ iti eva yaḥ tu anyaḥ parikīrtitaḥ . daṇḍadhāraḥ iti khyātaḥ saḥ abhavat manuja-īśvaraḥ ..44..
कालकायास्तु ये पुत्रास्तेषामष्टौ नराधिपाः । जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः ॥४५॥
कालकायाः तु ये पुत्राः तेषाम् अष्टौ नराधिपाः । जज्ञिरे राज-शार्दूल शार्दूल-सम-विक्रमाः ॥४५॥
kālakāyāḥ tu ye putrāḥ teṣām aṣṭau narādhipāḥ . jajñire rāja-śārdūla śārdūla-sama-vikramāḥ ..45..
मगधेषु जयत्सेनः श्रीमानासीत्स पार्थिवः । अष्टानां प्रवरस्तेषां कालेयानां महासुरः ॥४६॥
मगधेषु जयत्सेनः श्रीमान् आसीत् स पार्थिवः । अष्टानाम् प्रवरः तेषाम् कालेयानाम् महा-असुरः ॥४६॥
magadheṣu jayatsenaḥ śrīmān āsīt sa pārthivaḥ . aṣṭānām pravaraḥ teṣām kāleyānām mahā-asuraḥ ..46..
द्वितीयस्तु ततस्तेषां श्रीमान्हरिहयोपमः । अपराजित इत्येव स बभूव नराधिपः ॥४७॥
द्वितीयः तु ततस् तेषाम् श्रीमान् हरि-हय-उपमः । अपराजितः इति एव स बभूव नराधिपः ॥४७॥
dvitīyaḥ tu tatas teṣām śrīmān hari-haya-upamaḥ . aparājitaḥ iti eva sa babhūva narādhipaḥ ..47..
तृतीयस्तु महाराज महाबाहुर्महासुरः । निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः ॥४८॥
तृतीयः तु महा-राज महाबाहुः महा-असुरः । निषाद-अधिपतिः जज्ञे भुवि भीम-पराक्रमः ॥४८॥
tṛtīyaḥ tu mahā-rāja mahābāhuḥ mahā-asuraḥ . niṣāda-adhipatiḥ jajñe bhuvi bhīma-parākramaḥ ..48..
तेषामन्यतमो यस्तु चतुर्थः परिकीर्तितः । श्रेणिमानिति विख्यातः क्षितौ राजर्षिसत्तमः ॥४९॥
तेषाम् अन्यतमः यः तु चतुर्थः परिकीर्तितः । श्रेणिमान् इति विख्यातः क्षितौ राजर्षि-सत्तमः ॥४९॥
teṣām anyatamaḥ yaḥ tu caturthaḥ parikīrtitaḥ . śreṇimān iti vikhyātaḥ kṣitau rājarṣi-sattamaḥ ..49..
पञ्चमस्तु बभूवैषां प्रवरो यो महासुरः । महौजा इति विख्यातो बभूवेह परन्तपः ॥५०॥1.67.52
पञ्चमः तु बभूव एषाम् प्रवरः यः महा-असुरः । महौजाः इति विख्यातः बभूव इह परन्तपः ॥५०॥१।६७।५२
pañcamaḥ tu babhūva eṣām pravaraḥ yaḥ mahā-asuraḥ . mahaujāḥ iti vikhyātaḥ babhūva iha parantapaḥ ..50..1.67.52
षष्ठस्तु मतिमान्यो वै तेषामासीन्महासुरः । अभीरुरिति विख्यातः क्षितौ राजर्षिसत्तमः ॥५१॥
षष्ठः तु मतिमान् यः वै तेषाम् आसीत् महा-असुरः । अभीरुः इति विख्यातः क्षितौ राजर्षि-सत्तमः ॥५१॥
ṣaṣṭhaḥ tu matimān yaḥ vai teṣām āsīt mahā-asuraḥ . abhīruḥ iti vikhyātaḥ kṣitau rājarṣi-sattamaḥ ..51..
समुद्रसेनश्च नृपस्तेषामेवाभवद्गणात् । विश्रुतः सागरान्तायां क्षितौ धर्मार्थतत्त्ववित् ॥५२॥
समुद्रसेनः च नृपः तेषाम् एव अभवत् गणात् । विश्रुतः सागर-अन्तायाम् क्षितौ धर्म-अर्थ-तत्त्व-विद् ॥५२॥
samudrasenaḥ ca nṛpaḥ teṣām eva abhavat gaṇāt . viśrutaḥ sāgara-antāyām kṣitau dharma-artha-tattva-vid ..52..
बृहन्नामाष्टमस्तेषां कालेयानां परन्तपः । बभूव राजन्धर्मात्मा सर्वभूतहिते रतः ॥५३॥
बृहन्नामा अष्टमः तेषाम् कालेयानाम् परन्तपः । बभूव राजन् धर्म-आत्मा सर्व-भूत-हिते रतः ॥५३॥
bṛhannāmā aṣṭamaḥ teṣām kāleyānām parantapaḥ . babhūva rājan dharma-ātmā sarva-bhūta-hite rataḥ ..53..
गणः क्रोधवशो नाम यस्ते राजन्प्रकीर्तितः । ततः सञ्जज्ञिरे वीराः क्षिताविह नराधिपाः ॥५४॥
गणः क्रोध-वशः नाम यः ते राजन् प्रकीर्तितः । ततस् सञ्जज्ञिरे वीराः क्षितौ इह नराधिपाः ॥५४॥
gaṇaḥ krodha-vaśaḥ nāma yaḥ te rājan prakīrtitaḥ . tatas sañjajñire vīrāḥ kṣitau iha narādhipāḥ ..54..
नन्दिकः कर्णवेष्टश्च सिद्धार्थः कीटकस्तथा । सुवीरश्च सुबाहुश्च महावीरोऽथ बाह्लिकः ॥५५॥
नन्दिकः कर्णवेष्टः च सिद्धार्थः कीटकः तथा । सुवीरः च सुबाहुः च महावीरः अथ बाह्लिकः ॥५५॥
nandikaḥ karṇaveṣṭaḥ ca siddhārthaḥ kīṭakaḥ tathā . suvīraḥ ca subāhuḥ ca mahāvīraḥ atha bāhlikaḥ ..55..
क्रोधो विचित्यः सुरसः श्रीमान्नीलश्च भूमिपः । वीरधामा च कौरव्य भूमिपालश्च नामतः ॥५६॥
क्रोधः विचित्यः सुरसः श्रीमान् नीलः च भूमिपः । वीरधामा च कौरव्य भूमिपालः च नामतः ॥५६॥
krodhaḥ vicityaḥ surasaḥ śrīmān nīlaḥ ca bhūmipaḥ . vīradhāmā ca kauravya bhūmipālaḥ ca nāmataḥ ..56..
दन्तवक्त्रश्च नामासीद्दुर्जयश्चैव नामतः । रुक्मी च नृपशार्दूलो राजा च जनमेजयः ॥५७॥
दन्तवक्त्रः च नाम आसीत् दुर्जयः च एव नामतः । रुक्मी च नृप-शार्दूलः राजा च जनमेजयः ॥५७॥
dantavaktraḥ ca nāma āsīt durjayaḥ ca eva nāmataḥ . rukmī ca nṛpa-śārdūlaḥ rājā ca janamejayaḥ ..57..
आषाढो वायुवेगश्च भूरितेजास्तथैव च । एकलव्यः सुमित्रश्च वाटधानोऽथ गोमुखः ॥५८॥
आषाढः वायुवेगः च भूरितेजाः तथा एव च । एकलव्यः सुमित्रः च वाटधानः अथ गोमुखः ॥५८॥
āṣāḍhaḥ vāyuvegaḥ ca bhūritejāḥ tathā eva ca . ekalavyaḥ sumitraḥ ca vāṭadhānaḥ atha gomukhaḥ ..58..
कारूषकाश्च राजानः क्षेमधूर्तिस्तथैव च । श्रुतायुरुद्धवश्चैव बृहत्सेनस्तथैव च ॥५९॥
कारूषकाः च राजानः क्षेमधूर्तिः तथा एव च । श्रुतायुः उद्धवः च एव बृहत्सेनः तथा एव च ॥५९॥
kārūṣakāḥ ca rājānaḥ kṣemadhūrtiḥ tathā eva ca . śrutāyuḥ uddhavaḥ ca eva bṛhatsenaḥ tathā eva ca ..59..
क्षेमोग्रतीर्थः कुहरः कलिङ्गेषु नराधिपः । मतिमांश्च मनुष्येन्द्र ईश्वरश्चेति विश्रुतः ॥६०॥
क्षेमोग्रतीर्थः कुहरः कलिङ्गेषु नर-अधिपः । मतिमान् च मनुष्य-इन्द्रः ईश्वरः च इति विश्रुतः ॥६०॥
kṣemogratīrthaḥ kuharaḥ kaliṅgeṣu nara-adhipaḥ . matimān ca manuṣya-indraḥ īśvaraḥ ca iti viśrutaḥ ..60..
गणात्क्रोधवशादेवं राजपूगोऽभवत्क्षितौ । जातः पुरा महाराज महाकीर्तिर्महाबलः ॥६१॥
गणात् क्रोध-वशात् एवम् राजपूगः अभवत् क्षितौ । जातः पुरा महा-राज महा-कीर्तिः महा-बलः ॥६१॥
gaṇāt krodha-vaśāt evam rājapūgaḥ abhavat kṣitau . jātaḥ purā mahā-rāja mahā-kīrtiḥ mahā-balaḥ ..61..
यस्त्वासीद्देवको नाम देवराजसमद्युतिः । स गन्धर्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः ॥६२॥
यः तु आसीत् देवकः नाम देवराज-सम-द्युतिः । स गन्धर्व-पतिः मुख्यः क्षितौ जज्ञे नर-अधिपः ॥६२॥
yaḥ tu āsīt devakaḥ nāma devarāja-sama-dyutiḥ . sa gandharva-patiḥ mukhyaḥ kṣitau jajñe nara-adhipaḥ ..62..
बृहस्पतेर्बृहत्कीर्तेर्देवर्षेर्विद्धि भारत । अंशाद्द्रोणं समुत्पन्नं भारद्वाजमयोनिजम् ॥६३॥
बृहस्पतेः बृहत्-कीर्तेः देवर्षेः विद्धि भारत । अंशात् द्रोणम् समुत्पन्नम् भारद्वाजम् अयोनिजम् ॥६३॥
bṛhaspateḥ bṛhat-kīrteḥ devarṣeḥ viddhi bhārata . aṃśāt droṇam samutpannam bhāradvājam ayonijam ..63..
धन्विनां नृपशार्दूल यः स सर्वास्त्रवित्तमः । बृहत्कीर्तिर्महातेजाः सञ्जज्ञे मनुजेष्विह ॥६४॥
धन्विनाम् नृप-शार्दूल यः स सर्व-अस्त्र-वित्तमः । बृहत्-कीर्तिः महा-तेजाः सञ्जज्ञे मनुजेषु इह ॥६४॥
dhanvinām nṛpa-śārdūla yaḥ sa sarva-astra-vittamaḥ . bṛhat-kīrtiḥ mahā-tejāḥ sañjajñe manujeṣu iha ..64..
धनुर्वेदे च वेदे च यं तं वेदविदो विदुः । वरिष्ठमिन्द्रकर्माणं द्रोणं स्वकुलवर्धनम् ॥६५॥
धनुर्वेदे च वेदे च यम् तम् वेद-विदः विदुः । वरिष्ठम् इन्द्र-कर्माणम् द्रोणम् स्व-कुल-वर्धनम् ॥६५॥
dhanurvede ca vede ca yam tam veda-vidaḥ viduḥ . variṣṭham indra-karmāṇam droṇam sva-kula-vardhanam ..65..
महादेवान्तकाभ्यां च कामात्क्रोधाच्च भारत । एकत्वमुपपन्नानां जज्ञे शूरः परन्तपः ॥६६॥
महादेव-अन्तकाभ्याम् च कामात् क्रोधात् च भारत । एक-त्वम् उपपन्नानाम् जज्ञे शूरः परन्तपः ॥६६॥
mahādeva-antakābhyām ca kāmāt krodhāt ca bhārata . eka-tvam upapannānām jajñe śūraḥ parantapaḥ ..66..
अश्वत्थामा महावीर्यः शत्रुपक्षक्षयङ्करः । वीरः कमलपत्राक्षः क्षितावासीन्नराधिप ॥६७॥
। वीरः कमल-पत्र-अक्षः क्षितौ आसीत् नराधिप ॥६७॥
. vīraḥ kamala-patra-akṣaḥ kṣitau āsīt narādhipa ..67..
जज्ञिरे वसवस्त्वष्टौ गङ्गायां शन्तनोः सुताः । वसिष्ठस्य च शापेन नियोगाद्वासवस्य च ॥६८॥
जज्ञिरे वसवः तु अष्टौ गङ्गायाम् शन्तनोः सुताः । वसिष्ठस्य च शापेन नियोगात् वासवस्य च ॥६८॥
jajñire vasavaḥ tu aṣṭau gaṅgāyām śantanoḥ sutāḥ . vasiṣṭhasya ca śāpena niyogāt vāsavasya ca ..68..
तेषामवरजो भीष्मः कुरूणामभयङ्करः । मतिमान्वेदविद्वाग्मी शत्रुपक्षक्षयङ्करः ॥६९॥
तेषाम् अवरजः भीष्मः कुरूणाम् अभयङ्करः । मतिमान् वेद-विद् वाग्मी शत्रु-पक्ष-क्षयङ्करः ॥६९॥
teṣām avarajaḥ bhīṣmaḥ kurūṇām abhayaṅkaraḥ . matimān veda-vid vāgmī śatru-pakṣa-kṣayaṅkaraḥ ..69..
जामदग्न्येन रामेण यः स सर्वविदां वरः । अयुध्यत महातेजा भार्गवेण महात्मना ॥७०॥
जामदग्न्येन रामेण यः स सर्व-विदाम् वरः । अयुध्यत महा-तेजाः भार्गवेण महात्मना ॥७०॥
jāmadagnyena rāmeṇa yaḥ sa sarva-vidām varaḥ . ayudhyata mahā-tejāḥ bhārgaveṇa mahātmanā ..70..
यस्तु राजन्कृपो नाम ब्रह्मर्षिरभवत्क्षितौ । रुद्राणां तं गणाद्विद्धि सम्भूतमतिपौरुषम् ॥७१॥
यः तु राजन् कृपः नाम ब्रह्मर्षिः अभवत् क्षितौ । रुद्राणाम् तम् गणात् विद्धि सम्भूतम् अतिपौरुषम् ॥७१॥
yaḥ tu rājan kṛpaḥ nāma brahmarṣiḥ abhavat kṣitau . rudrāṇām tam gaṇāt viddhi sambhūtam atipauruṣam ..71..
शकुनिर्नाम यस्त्वासीद्राजा लोके महारथः । द्वापरं विद्धि तं राजन्सम्भूतमरिमर्दनम् ॥७२॥
शकुनिः नाम यः तु आसीत् राजा लोके महा-रथः । द्वापरम् विद्धि तम् राजन् सम्भूतम् अरि-मर्दनम् ॥७२॥
śakuniḥ nāma yaḥ tu āsīt rājā loke mahā-rathaḥ . dvāparam viddhi tam rājan sambhūtam ari-mardanam ..72..
सात्यकिः सत्यसन्धस्तु योऽसौ वृष्णिकुलोद्वहः । पक्षात्स जज्ञे मरुतां देवानामरिमर्दनः ॥७३॥
सात्यकिः सत्य-सन्धः तु यः असौ वृष्णि-कुल-उद्वहः । पक्षात् स जज्ञे मरुताम् देवानाम् अरि-मर्दनः ॥७३॥
sātyakiḥ satya-sandhaḥ tu yaḥ asau vṛṣṇi-kula-udvahaḥ . pakṣāt sa jajñe marutām devānām ari-mardanaḥ ..73..
द्रुपदश्चापि राजर्षिस्तत एवाभवद्गणात् । मानुषे नृप लोकेऽस्मिन्सर्वशस्त्रभृतां वरः ॥७४॥
द्रुपदः च अपि राजर्षिः ततस् एव अभवत् गणात् । मानुषे नृप लोके अस्मिन् सर्व-शस्त्रभृताम् वरः ॥७४॥
drupadaḥ ca api rājarṣiḥ tatas eva abhavat gaṇāt . mānuṣe nṛpa loke asmin sarva-śastrabhṛtām varaḥ ..74..
ततश्च कृतवर्माणं विद्धि राजञ्जनाधिपम् । जातमप्रतिकर्माणं क्षत्रियर्षभसत्तमम् ॥७५॥1.67.81
ततस् च कृतवर्माणम् विद्धि राजन् जनाधिपम् । जातम् अप्रतिकर्माणम् क्षत्रिय-ऋषभ-सत्तमम् ॥७५॥१।६७।८१
tatas ca kṛtavarmāṇam viddhi rājan janādhipam . jātam apratikarmāṇam kṣatriya-ṛṣabha-sattamam ..75..1.67.81
मरुतां तु गणाद्विद्धि सञ्जातमरिमर्दनम् । विराटं नाम राजर्षिं परराष्ट्रप्रतापनम् ॥७६॥
मरुताम् तु गणात् विद्धि सञ्जात-मरि-मर्दनम् । विराटम् नाम राजर्षिम् पर-राष्ट्र-प्रतापनम् ॥७६॥
marutām tu gaṇāt viddhi sañjāta-mari-mardanam . virāṭam nāma rājarṣim para-rāṣṭra-pratāpanam ..76..
अरिष्टायास्तु यः पुत्रो हंस इत्यभिविश्रुतः । स गन्धर्वपतिर्जज्ञे कुरुवंशविवर्धनः ॥७७॥
अरिष्टायाः तु यः पुत्रः हंसः इति अभिविश्रुतः । स गन्धर्व-पतिः जज्ञे कुरु-वंश-विवर्धनः ॥७७॥
ariṣṭāyāḥ tu yaḥ putraḥ haṃsaḥ iti abhiviśrutaḥ . sa gandharva-patiḥ jajñe kuru-vaṃśa-vivardhanaḥ ..77..
धृतराष्ट्र इति ख्यातः कृष्णद्वैपायनादपि । दीर्घबाहुर्महातेजाः प्रज्ञाचक्षुर्नराधिपः ॥७८॥ ( मातुर्दोषादृषेः कोपादन्ध एव व्यजायत ॥७८॥ )
धृतराष्ट्रः इति ख्यातः कृष्णद्वैपायनात् अपि । दीर्घ-बाहुः महा-तेजाः प्रज्ञाचक्षुः नराधिपः ॥७८॥ ( मातुः दोषात् ऋषेः कोपात् अन्धः एव व्यजायत ॥७८॥ )
dhṛtarāṣṭraḥ iti khyātaḥ kṛṣṇadvaipāyanāt api . dīrgha-bāhuḥ mahā-tejāḥ prajñācakṣuḥ narādhipaḥ ..78.. ( mātuḥ doṣāt ṛṣeḥ kopāt andhaḥ eva vyajāyata ..78.. )
अत्रेस्तु सुमहाभागं पुत्रं पुत्रवतां वरम् । विदुरं विद्धि लोकेऽस्मिञ्जातं बुद्धिमतां वरम् ॥७९॥
अत्रेः तु सु महाभागम् पुत्रम् पुत्रवताम् वरम् । विदुरम् विद्धि लोके अस्मिन् जातम् बुद्धिमताम् वरम् ॥७९॥
atreḥ tu su mahābhāgam putram putravatām varam . viduram viddhi loke asmin jātam buddhimatām varam ..79..
कलेरंशात्तु सञ्जज्ञे भुवि दुर्योधनो नृपः । दुर्बुद्धिर्दुर्मतिश्चैव कुरूणामयशस्करः ॥८०॥1.67.87
कलेः अंशात् तु सञ्जज्ञे भुवि दुर्योधनः नृपः । दुर्बुद्धिः दुर्मतिः च एव कुरूणाम् अयशस्करः ॥८०॥१।६७।८७
kaleḥ aṃśāt tu sañjajñe bhuvi duryodhanaḥ nṛpaḥ . durbuddhiḥ durmatiḥ ca eva kurūṇām ayaśaskaraḥ ..80..1.67.87
जगतो यः स सर्वस्य विद्विष्टः कलिपूरुषः । यः सर्वां घातयामास पृथिवीं पुरुषाधमः ॥८१॥ ( येन वैरं समुद्दीप्तं भूतान्तकरणं महत् ॥८१॥ )
जगतः यः स सर्वस्य विद्विष्टः कलि-पूरुषः । यः सर्वाम् घातयामास पृथिवीम् पुरुष-अधमः ॥८१॥ ( येन वैरम् समुद्दीप्तम् भूत-अन्त-करणम् महत् ॥८१॥ )
jagataḥ yaḥ sa sarvasya vidviṣṭaḥ kali-pūruṣaḥ . yaḥ sarvām ghātayāmāsa pṛthivīm puruṣa-adhamaḥ ..81.. ( yena vairam samuddīptam bhūta-anta-karaṇam mahat ..81.. )
पौलस्त्या भ्रातरः सर्वे जज्ञिरे मनुजेष्विह । शतं दुःशासनादीनां सर्वेषां क्रूरकर्मणाम् ॥८२॥
पौलस्त्याः भ्रातरः सर्वे जज्ञिरे मनुजेषु इह । शतम् दुःशासन-आदीनाम् सर्वेषाम् क्रूर-कर्मणाम् ॥८२॥
paulastyāḥ bhrātaraḥ sarve jajñire manujeṣu iha . śatam duḥśāsana-ādīnām sarveṣām krūra-karmaṇām ..82..
दुर्मुखो दुःसहश्चैव ये चान्ये नानुशब्दिताः । दुर्योधनसहायास्ते पौलस्त्या भरतर्षभ ॥८३॥
दुर्मुखः दुःसहः च एव ये च अन्ये न अनुशब्दिताः । दुर्योधन-सहायाः ते पौलस्त्याः भरत-ऋषभ ॥८३॥
durmukhaḥ duḥsahaḥ ca eva ye ca anye na anuśabditāḥ . duryodhana-sahāyāḥ te paulastyāḥ bharata-ṛṣabha ..83..
धर्मस्यांशं तु राजानं विद्धि राजन्युधिष्ठिरम् । भीमसेनं तु वातस्य देवराजस्य चार्जुनम् ॥८४॥
धर्मस्य अंशम् तु राजानम् विद्धि राजन् युधिष्ठिरम् । भीमसेनम् तु वातस्य देवराजस्य च अर्जुनम् ॥८४॥
dharmasya aṃśam tu rājānam viddhi rājan yudhiṣṭhiram . bhīmasenam tu vātasya devarājasya ca arjunam ..84..
अश्विनोस्तु तथैवांशौ रूपेणाप्रतिमौ भुवि । नकुलः सहदेवश्च सर्वलोकमनोहरौ ॥८५॥
अश्विनोः तु तथा एव अंशौ रूपेण अप्रतिमौ भुवि । नकुलः सहदेवः च सर्व-लोक-मनोहरौ ॥८५॥
aśvinoḥ tu tathā eva aṃśau rūpeṇa apratimau bhuvi . nakulaḥ sahadevaḥ ca sarva-loka-manoharau ..85..
यः सुवर्चा इति ख्यातः सोमपुत्रः प्रतापवान् । अभिमन्युर्बृहत्कीर्तिरर्जुनस्य सुतोऽभवत् ॥८६॥
यः सुवर्चाः इति ख्यातः सोम-पुत्रः प्रतापवान् । अभिमन्युः बृहत्-कीर्तिः अर्जुनस्य सुतः अभवत् ॥८६॥
yaḥ suvarcāḥ iti khyātaḥ soma-putraḥ pratāpavān . abhimanyuḥ bṛhat-kīrtiḥ arjunasya sutaḥ abhavat ..86..
अग्नेरंशं तु विद्धि त्वं धृष्टद्युम्नं महारथम् । शिखण्डिनमथो राजन्स्त्रीपुंसं विद्धि राक्षसम् ॥८७॥
अग्नेः अंशम् तु विद्धि त्वम् धृष्टद्युम्नम् महा-रथम् । शिखण्डिनम् अथो राजन् स्त्री-पुंसम् विद्धि राक्षसम् ॥८७॥
agneḥ aṃśam tu viddhi tvam dhṛṣṭadyumnam mahā-ratham . śikhaṇḍinam atho rājan strī-puṃsam viddhi rākṣasam ..87..
द्रौपदेयाश्च ये पञ्च बभूवुर्भरतर्षभ । विश्वेदेवगणान्राजंस्तान्विद्धि भरतर्षभ ॥८८॥
द्रौपदेयाः च ये पञ्च बभूवुः भरत-ऋषभ । विश्वेदेव-गणान् राजन् तान् विद्धि भरत-ऋषभ ॥८८॥
draupadeyāḥ ca ye pañca babhūvuḥ bharata-ṛṣabha . viśvedeva-gaṇān rājan tān viddhi bharata-ṛṣabha ..88..
आमुक्तकवचः कर्णो यस्तु जज्ञे महारथः । दिवाकरस्य तं विद्धि देवस्यांशमनुत्तमम् ॥८९॥
आमुक्त-कवचः कर्णः यः तु जज्ञे महा-रथः । दिवाकरस्य तम् विद्धि देवस्य अंशम् अनुत्तमम् ॥८९॥
āmukta-kavacaḥ karṇaḥ yaḥ tu jajñe mahā-rathaḥ . divākarasya tam viddhi devasya aṃśam anuttamam ..89..
यस्तु नारायणो नाम देवदेवः सनातनः । तस्यांशो मानुषेष्वासीद्वासुदेवः प्रतापवान् ॥९०॥
यः तु नारायणः नाम देवदेवः सनातनः । तस्य अंशः मानुषेषु आसीत् वासुदेवः प्रतापवान् ॥९०॥
yaḥ tu nārāyaṇaḥ nāma devadevaḥ sanātanaḥ . tasya aṃśaḥ mānuṣeṣu āsīt vāsudevaḥ pratāpavān ..90..
शेषस्यांशस्तु नागस्य बलदेवो महाबलः । सनत्कुमारं प्रद्युम्नं विद्धि राजन्महौजसम् ॥९१॥
शेषस्य अंशः तु नागस्य बलदेवः महा-बलः । सनत्कुमारम् प्रद्युम्नम् विद्धि राजन् महा-ओजसम् ॥९१॥
śeṣasya aṃśaḥ tu nāgasya baladevaḥ mahā-balaḥ . sanatkumāram pradyumnam viddhi rājan mahā-ojasam ..91..
एवमन्ये मनुष्येन्द्र बहवोंऽशा दिवौकसाम् । जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः ॥९२॥
एवम् अन्ये मनुष्य-इन्द्र बहवः ॐऽशाः दिवौकसाम् । जज्ञिरे वसुदेवस्य कुले कुल-विवर्धनाः ॥९२॥
evam anye manuṣya-indra bahavaḥ oṃ'śāḥ divaukasām . jajñire vasudevasya kule kula-vivardhanāḥ ..92..
गणस्त्वप्सरसां यो वै मया राजन्प्रकीर्तितः । तस्य भागः क्षितौ जज्ञे नियोगाद्वासवस्य च ॥९३॥
गणः तु अप्सरसाम् यः वै मया राजन् प्रकीर्तितः । तस्य भागः क्षितौ जज्ञे नियोगात् वासवस्य च ॥९३॥
gaṇaḥ tu apsarasām yaḥ vai mayā rājan prakīrtitaḥ . tasya bhāgaḥ kṣitau jajñe niyogāt vāsavasya ca ..93..
तानि षोडश देवीनां सहस्राणि नराधिप । बभूवुर्मानुषे लोके नारायणपरिग्रहः ॥९४॥
तानि षोडश देवीनाम् सहस्राणि नराधिप । बभूवुः मानुषे लोके नारायण-परिग्रहः ॥९४॥
tāni ṣoḍaśa devīnām sahasrāṇi narādhipa . babhūvuḥ mānuṣe loke nārāyaṇa-parigrahaḥ ..94..
श्रियस्तु भागः सञ्जज्ञे रत्यर्थं पृथिवीतले । द्रुपदस्य कुले कन्या वेदिमध्यादनिन्दिता ॥९५॥
श्रियः तु भागः सञ्जज्ञे रति-अर्थम् पृथिवी-तले । द्रुपदस्य कुले कन्या वेदि-मध्यात् अनिन्दिता ॥९५॥
śriyaḥ tu bhāgaḥ sañjajñe rati-artham pṛthivī-tale . drupadasya kule kanyā vedi-madhyāt aninditā ..95..
नातिह्रस्वा न महती नीलोत्पलसुगन्धिनी । पद्मायताक्षी सुश्रोणी असितायतमूर्धजा ॥९६॥
न अति ह्रस्वा न महती नीलोत्पल-सुगन्धिनी । पद्म-आयत-अक्षी सुश्रोणी असित-आयत-मूर्धजा ॥९६॥
na ati hrasvā na mahatī nīlotpala-sugandhinī . padma-āyata-akṣī suśroṇī asita-āyata-mūrdhajā ..96..
सर्वलक्षणसम्पन्ना वैडूर्यमणिसंनिभा । पञ्चानां पुरुषेन्द्राणां चित्तप्रमथिनी रहः ॥९७॥
सर्व-लक्षण-सम्पन्ना वैडूर्य-मणि-संनिभा । पञ्चानाम् पुरुष-इन्द्राणाम् चित्त-प्रमथिनी रहः ॥९७॥
sarva-lakṣaṇa-sampannā vaiḍūrya-maṇi-saṃnibhā . pañcānām puruṣa-indrāṇām citta-pramathinī rahaḥ ..97..
सिद्धिर्धृतिश्च ये देव्यौ पञ्चानां मातरौ तु ते । कुन्ती माद्री च जज्ञाते मतिस्तु सुबलात्मजा ॥९८॥
सिद्धिः धृतिः च ये देव्यौ पञ्चानाम् मातरौ तु ते । कुन्ती माद्री च जज्ञाते मतिः तु सुबल-आत्मजा ॥९८॥
siddhiḥ dhṛtiḥ ca ye devyau pañcānām mātarau tu te . kuntī mādrī ca jajñāte matiḥ tu subala-ātmajā ..98..
इति देवासुराणां ते गन्धर्वाप्सरसां तथा । अंशावतरणं राजन्राक्षसानां च कीर्तितम् ॥९९॥
इति देव-असुराणाम् ते गन्धर्व-अप्सरसाम् तथा । अंशावतरणम् राजन् राक्षसानाम् च कीर्तितम् ॥९९॥
iti deva-asurāṇām te gandharva-apsarasām tathā . aṃśāvataraṇam rājan rākṣasānām ca kīrtitam ..99..
ये पृथिव्यां समुद्भूता राजानो युद्धदुर्मदाः । महात्मानो यदूनां च ये जाता विपुले कुले ॥१००॥1.67.162
ये पृथिव्याम् समुद्भूताः राजानः युद्ध-दुर्मदाः । महात्मानः यदूनाम् च ये जाताः विपुले कुले ॥१००॥१।६७।१६२
ye pṛthivyām samudbhūtāḥ rājānaḥ yuddha-durmadāḥ . mahātmānaḥ yadūnām ca ye jātāḥ vipule kule ..100..1.67.162
धन्यं यशस्यं पुत्रीयमायुष्यं विजयावहम् । इदमंशावतरणं श्रोतव्यमनसूयता ॥१०१॥
धन्यम् यशस्यम् पुत्रीयम् आयुष्यम् विजय-आवहम् । इदम् अंशावतरणम् श्रोतव्यम् अनसूयता ॥१०१॥
dhanyam yaśasyam putrīyam āyuṣyam vijaya-āvaham . idam aṃśāvataraṇam śrotavyam anasūyatā ..101..
अंशावतरणं श्रुत्वा देवगन्धर्वरक्षसाम् । प्रभवाप्ययवित्प्राज्ञो न कृच्छ्रेष्ववसीदति ॥१०२॥1.67.164
अंशावतरणम् श्रुत्वा देव-गन्धर्व-रक्षसाम् । प्रभव-अप्यय-विद् प्राज्ञः न कृच्छ्रेषु अवसीदति ॥१०२॥१।६७।१६४
aṃśāvataraṇam śrutvā deva-gandharva-rakṣasām . prabhava-apyaya-vid prājñaḥ na kṛcchreṣu avasīdati ..102..1.67.164

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In