| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

जनमेजय उवाच॥
त्वत्तः श्रुतमिदं ब्रह्मन्देवदानवरक्षसाम् । अंशावतरणं सम्यग्गन्धर्वाप्सरसां तथा ॥१॥
त्वत्तः श्रुतम् इदम् ब्रह्मन् देव-दानव-रक्षसाम् । अंशावतरणम् सम्यक् गन्धर्व-अप्सरसाम् तथा ॥१॥
tvattaḥ śrutam idam brahman deva-dānava-rakṣasām . aṃśāvataraṇam samyak gandharva-apsarasām tathā ..1..
इमं तु भूय इच्छामि कुरूणां वंशमादितः । कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ ॥२॥
इमम् तु भूयस् इच्छामि कुरूणाम् वंशम् आदितस् । कथ्यमानम् त्वया विप्र विप्र-ऋषि-गण-संनिधौ ॥२॥
imam tu bhūyas icchāmi kurūṇām vaṃśam āditas . kathyamānam tvayā vipra vipra-ṛṣi-gaṇa-saṃnidhau ..2..
वैशम्पायन उवाच॥
पौरवाणां वंशकरो दुःषन्तो नाम वीर्यवान् । पृथिव्याश्चतुरन्ताया गोप्ता भरतसत्तम ॥३॥
पौरवाणाम् वंश-करः दुःषन्तः नाम वीर्यवान् । पृथिव्याः चतुर्-अन्तायाः गोप्ता भरत-सत्तम ॥३॥
pauravāṇām vaṃśa-karaḥ duḥṣantaḥ nāma vīryavān . pṛthivyāḥ catur-antāyāḥ goptā bharata-sattama ..3..
चतुर्भागं भुवः कृत्स्नं स भुङ्क्ते मनुजेश्वरः । समुद्रावरणांश्चापि देशान्स समितिञ्जयः ॥४॥
चतुर्-भागम् भुवः कृत्स्नम् स भुङ्क्ते मनुज-ईश्वरः । समुद्र-आवरणान् च अपि देशान् स समितिञ्जयः ॥४॥
catur-bhāgam bhuvaḥ kṛtsnam sa bhuṅkte manuja-īśvaraḥ . samudra-āvaraṇān ca api deśān sa samitiñjayaḥ ..4..
आम्लेच्छाटविकान्सर्वान्स भुङ्क्ते रिपुमर्दनः । रत्नाकरसमुद्रान्तांश्चातुर्वर्ण्यजनावृतान् ॥५॥
आ म्लेच्छ-आटविकान् सर्वान् स भुङ्क्ते रिपु-मर्दनः । रत्नाकर-समुद्र-अन्तान् चातुर्वर्ण्य-जन-आवृतान् ॥५॥
ā mleccha-āṭavikān sarvān sa bhuṅkte ripu-mardanaḥ . ratnākara-samudra-antān cāturvarṇya-jana-āvṛtān ..5..
न वर्णसङ्करकरो नाकृष्यकरकृज्जनः । न पापकृत्कश्चिदासीत्तस्मिन्राजनि शासति ॥६॥
न वर्ण-सङ्कर-करः न अकृषी अकर-कृत् जनः । न पाप-कृत् कश्चिद् आसीत् तस्मिन् राजनि शासति ॥६॥
na varṇa-saṅkara-karaḥ na akṛṣī akara-kṛt janaḥ . na pāpa-kṛt kaścid āsīt tasmin rājani śāsati ..6..
धर्म्यां रतिं सेवमाना धर्मार्थावभिपेदिरे । तदा नरा नरव्याघ्र तस्मिञ्जनपदेश्वरे ॥७॥
धर्म्याम् रतिम् सेवमानाः धर्म-अर्थौ अभिपेदिरे । तदा नराः नर-व्याघ्र तस्मिन् जनपद-ईश्वरे ॥७॥
dharmyām ratim sevamānāḥ dharma-arthau abhipedire . tadā narāḥ nara-vyāghra tasmin janapada-īśvare ..7..
नासीच्चोरभयं तात न क्षुधाभयमण्वपि । नासीद्व्याधिभयं चापि तस्मिञ्जनपदेश्वरे ॥८॥
न आसीत् चोर-भयम् तात न क्षुधा-भयम् अणु अपि । न आसीत् व्याधि-भयम् च अपि तस्मिन् जनपद-ईश्वरे ॥८॥
na āsīt cora-bhayam tāta na kṣudhā-bhayam aṇu api . na āsīt vyādhi-bhayam ca api tasmin janapada-īśvare ..8..
स्वैर्धर्मै रेमिरे वर्णा दैवे कर्मणि निःस्पृहाः । तमाश्रित्य महीपालमासंश्चैवाकुतोभयाः ॥९॥
स्वैः धर्मैः रेमिरे वर्णाः दैवे कर्मणि निःस्पृहाः । तम् आश्रित्य महीपालम् आसन् च एव अकुतोभयाः ॥९॥
svaiḥ dharmaiḥ remire varṇāḥ daive karmaṇi niḥspṛhāḥ . tam āśritya mahīpālam āsan ca eva akutobhayāḥ ..9..
कालवर्षी च पर्जन्यः सस्यानि फलवन्ति च । सर्वरत्नसमृद्धा च मही वसुमती तदा ॥१०॥
काल-वर्षी च पर्जन्यः सस्यानि फलवन्ति च । सर्व-रत्न-समृद्धा च मही वसुमती तदा ॥१०॥
kāla-varṣī ca parjanyaḥ sasyāni phalavanti ca . sarva-ratna-samṛddhā ca mahī vasumatī tadā ..10..
स चाद्भुतमहावीर्यो वज्रसंहननो युवा । उद्यम्य मन्दरं दोर्भ्यां हरेत्सवनकाननम् ॥११॥
स च अद्भुत-महा-वीर्यः वज्र-संहननः युवा । उद्यम्य मन्दरम् दोर्भ्याम् हरेत् स वन-काननम् ॥११॥
sa ca adbhuta-mahā-vīryaḥ vajra-saṃhananaḥ yuvā . udyamya mandaram dorbhyām haret sa vana-kānanam ..11..
धनुष्यथ गदायुद्धे त्सरुप्रहरणेषु च । नागपृष्ठेऽश्वपृष्ठे च बभूव परिनिष्ठितः ॥१२॥
धनुषि अथ गदा-युद्धे त्सरु-प्रहरणेषु च । नाग-पृष्ठे अश्व-पृष्ठे च बभूव परिनिष्ठितः ॥१२॥
dhanuṣi atha gadā-yuddhe tsaru-praharaṇeṣu ca . nāga-pṛṣṭhe aśva-pṛṣṭhe ca babhūva pariniṣṭhitaḥ ..12..
बले विष्णुसमश्चासीत्तेजसा भास्करोपमः । अक्षुब्धत्वेऽर्णवसमः सहिष्णुत्वे धरासमः ॥१३॥
बले विष्णु-समः च आसीत् तेजसा भास्कर-उपमः । अ क्षुब्ध-त्वे अर्णव-समः सहिष्णु-त्वे धरा-समः ॥१३॥
bale viṣṇu-samaḥ ca āsīt tejasā bhāskara-upamaḥ . a kṣubdha-tve arṇava-samaḥ sahiṣṇu-tve dharā-samaḥ ..13..
संमतः स महीपालः प्रसन्नपुरराष्ट्रवान् । भूयो धर्मपरैर्भावैर्विदितं जनमावसत् ॥१४॥1.68.14
संमतः स महीपालः प्रसन्न-पुर-राष्ट्रवान् । भूयस् धर्म-परैः भावैः विदितम् जनम् आवसत् ॥१४॥१।६८।१४
saṃmataḥ sa mahīpālaḥ prasanna-pura-rāṣṭravān . bhūyas dharma-paraiḥ bhāvaiḥ viditam janam āvasat ..14..1.68.14

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In