| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
स कदाचिन्महाबाहुः प्रभूतबलवाहनः । वनं जगाम गहनं हयनागशतैर्वृतः ॥१॥
स कदाचिद् महा-बाहुः प्रभूत-बल-वाहनः । वनम् जगाम गहनम् हय-नाग-शतैः वृतः ॥१॥
sa kadācid mahā-bāhuḥ prabhūta-bala-vāhanaḥ . vanam jagāma gahanam haya-nāga-śataiḥ vṛtaḥ ..1..
खड्गशक्तिधरैर्वीरैर्गदामुसलपाणिभिः । प्रासतोमरहस्तैश्च ययौ योधशतैर्वृतः ॥२॥
खड्ग-शक्ति-धरैः वीरैः गदा-मुसल-पाणिभिः । प्रास-तोमर-हस्तैः च ययौ योध-शतैः वृतः ॥२॥
khaḍga-śakti-dharaiḥ vīraiḥ gadā-musala-pāṇibhiḥ . prāsa-tomara-hastaiḥ ca yayau yodha-śataiḥ vṛtaḥ ..2..
सिंहनादैश्च योधानां शङ्खदुन्दुभिनिस्वनैः । रथनेमिस्वनैश्चापि सनागवरबृंहितैः ॥३॥
सिंहनादैः च योधानाम् शङ्ख-दुन्दुभि-निस्वनैः । रथ-नेमि-स्वनैः च अपि स नाग-वर-बृंहितैः ॥३॥
siṃhanādaiḥ ca yodhānām śaṅkha-dundubhi-nisvanaiḥ . ratha-nemi-svanaiḥ ca api sa nāga-vara-bṛṃhitaiḥ ..3..
हेषितस्वनमिश्रैश्च क्ष्वेडितास्फोटितस्वनैः । आसीत्किलकिलाशब्दस्तस्मिन्गच्छति पार्थिवे ॥४॥
हेषित-स्वन-मिश्रैः च क्ष्वेडित-आस्फोटित-स्वनैः । आसीत् किलकिला-शब्दः तस्मिन् गच्छति पार्थिवे ॥४॥
heṣita-svana-miśraiḥ ca kṣveḍita-āsphoṭita-svanaiḥ . āsīt kilakilā-śabdaḥ tasmin gacchati pārthive ..4..
प्रासादवरशृङ्गस्थाः परया नृपशोभया । ददृशुस्तं स्त्रियस्तत्र शूरमात्मयशस्करम् ॥५॥
प्रासाद-वर-शृङ्ग-स्थाः परया नृप-शोभया । ददृशुः तम् स्त्रियः तत्र शूरम् आत्म-यशस्करम् ॥५॥
prāsāda-vara-śṛṅga-sthāḥ parayā nṛpa-śobhayā . dadṛśuḥ tam striyaḥ tatra śūram ātma-yaśaskaram ..5..
शक्रोपमममित्रघ्नं परवारणवारणम् । पश्यन्तः स्त्रीगणास्तत्र शस्त्रपाणिं स्म मेनिरे ॥६॥
शक्र-उपमम् अमित्र-घ्नम् पर-वारण-वारणम् । पश्यन्तः स्त्री-गणाः तत्र शस्त्र-पाणिम् स्म मेनिरे ॥६॥
śakra-upamam amitra-ghnam para-vāraṇa-vāraṇam . paśyantaḥ strī-gaṇāḥ tatra śastra-pāṇim sma menire ..6..
अयं स पुरुषव्याघ्रो रणेऽद्भुतपराक्रमः । यस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः ॥७॥
अयम् स पुरुष-व्याघ्रः रणे अद्भुत-पराक्रमः । यस्य बाहु-बलम् प्राप्य न भवन्ति असुहृद्-गणाः ॥७॥
ayam sa puruṣa-vyāghraḥ raṇe adbhuta-parākramaḥ . yasya bāhu-balam prāpya na bhavanti asuhṛd-gaṇāḥ ..7..
इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा नराधिपम् । तुष्टुवुः पुष्पवृष्टीश्च ससृजुस्तस्य मूर्धनि ॥८॥
इति वाचः ब्रुवन्त्यः ताः स्त्रियः प्रेम्णा नराधिपम् । तुष्टुवुः पुष्प-वृष्टीः च ससृजुः तस्य मूर्धनि ॥८॥
iti vācaḥ bruvantyaḥ tāḥ striyaḥ premṇā narādhipam . tuṣṭuvuḥ puṣpa-vṛṣṭīḥ ca sasṛjuḥ tasya mūrdhani ..8..
तत्र तत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः । निर्ययौ परया प्रीत्या वनं मृगजिघांसया ॥९॥
तत्र तत्र च विप्र-इन्द्रैः स्तूयमानः समन्ततः । निर्ययौ परया प्रीत्या वनम् मृग-जिघांसया ॥९॥
tatra tatra ca vipra-indraiḥ stūyamānaḥ samantataḥ . niryayau parayā prītyā vanam mṛga-jighāṃsayā ..9..
सुदूरमनुजग्मुस्तं पौरजानपदास्तदा । न्यवर्तन्त ततः पश्चादनुज्ञाता नृपेण ह ॥१०॥
सु दूरम् अनुजग्मुः तम् पौर-जानपदाः तदा । न्यवर्तन्त ततस् पश्चात् अनुज्ञाताः नृपेण ह ॥१०॥
su dūram anujagmuḥ tam paura-jānapadāḥ tadā . nyavartanta tatas paścāt anujñātāḥ nṛpeṇa ha ..10..
सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः । महीमापूरयामास घोषेण त्रिदिवं तथा ॥११॥
सुपर्ण-प्रतिमेन अथ रथेन वसुधाधिपः । महीम् आपूरयामास घोषेण त्रिदिवम् तथा ॥११॥
suparṇa-pratimena atha rathena vasudhādhipaḥ . mahīm āpūrayāmāsa ghoṣeṇa tridivam tathā ..11..
स गच्छन्ददृशे धीमान्नन्दनप्रतिमं वनम् । बिल्वार्कखदिराकीर्णं कपित्थधवसङ्कुलम् ॥१२॥
स गच्छन् ददृशे धीमान् नन्दन-प्रतिमम् वनम् । बिल्व-अर्क-खदिर-आकीर्णम् कपित्थ-धव-सङ्कुलम् ॥१२॥
sa gacchan dadṛśe dhīmān nandana-pratimam vanam . bilva-arka-khadira-ākīrṇam kapittha-dhava-saṅkulam ..12..
विषमं पर्वतप्रस्थैरश्मभिश्च समावृतम् । निर्जलं निर्मनुष्यं च बहुयोजनमायतम् ॥१३॥ ( मृगसङ्घैर्वृतं घोरैरन्यैश्चापि वनेचरैः ॥१३॥ )
विषमम् पर्वत-प्रस्थैः अश्मभिः च समावृतम् । निर्जलम् निर्मनुष्यम् च बहु-योजनम् आयतम् ॥१३॥ ( मृग-सङ्घैः वृतम् घोरैः अन्यैः च अपि वनेचरैः ॥१३॥ )
viṣamam parvata-prasthaiḥ aśmabhiḥ ca samāvṛtam . nirjalam nirmanuṣyam ca bahu-yojanam āyatam ..13.. ( mṛga-saṅghaiḥ vṛtam ghoraiḥ anyaiḥ ca api vanecaraiḥ ..13.. )
तद्वनं मनुजव्याघ्रः सभृत्यबलवाहनः । लोडयामास दुःषन्तः सूदयन्विविधान्मृगान् ॥१४॥
तत् वनम् मनुज-व्याघ्रः स भृत्य-बल-वाहनः । लोडयामास दुःषन्तः सूदयन् विविधान् मृगान् ॥१४॥
tat vanam manuja-vyāghraḥ sa bhṛtya-bala-vāhanaḥ . loḍayāmāsa duḥṣantaḥ sūdayan vividhān mṛgān ..14..
बाणगोचरसम्प्राप्तांस्तत्र व्याघ्रगणान्बहून् । पातयामास दुःषन्तो निर्बिभेद च सायकैः ॥१५॥
बाण-गोचर-सम्प्राप्तान् तत्र व्याघ्र-गणान् बहून् । पातयामास दुःषन्तः निर्बिभेद च सायकैः ॥१५॥
bāṇa-gocara-samprāptān tatra vyāghra-gaṇān bahūn . pātayāmāsa duḥṣantaḥ nirbibheda ca sāyakaiḥ ..15..
दूरस्थान्सायकैः कांश्चिदभिनत्स नरर्षभः । अभ्याशमागतांश्चान्यान्खड्गेन निरकृन्तत ॥१६॥
दूर-स्थान् सायकैः कांश्चिद् अभिनत् स नर-ऋषभः । अभ्याशम् आगतान् च अन्यान् खड्गेन निरकृन्तत ॥१६॥
dūra-sthān sāyakaiḥ kāṃścid abhinat sa nara-ṛṣabhaḥ . abhyāśam āgatān ca anyān khaḍgena nirakṛntata ..16..
कांश्चिदेणान्स निर्जघ्ने शक्त्या शक्तिमतां वरः । गदामण्डलतत्त्वज्ञश्चचारामितविक्रमः ॥१७॥
कांश्चिद् एणान् स निर्जघ्ने शक्त्या शक्तिमताम् वरः । गदा-मण्डल-तत्त्व-ज्ञः चचार अमित-विक्रमः ॥१७॥
kāṃścid eṇān sa nirjaghne śaktyā śaktimatām varaḥ . gadā-maṇḍala-tattva-jñaḥ cacāra amita-vikramaḥ ..17..
तोमरैरसिभिश्चापि गदामुसलकर्पणैः । चचार स विनिघ्नन्वै वन्यांस्तत्र मृगद्विजान् ॥१८॥
तोमरैः असिभिः च अपि गदा-मुसल-कर्पणैः । चचार स विनिघ्नन् वै वन्यान् तत्र मृग-द्विजान् ॥१८॥
tomaraiḥ asibhiḥ ca api gadā-musala-karpaṇaiḥ . cacāra sa vinighnan vai vanyān tatra mṛga-dvijān ..18..
राज्ञा चाद्भुतवीर्येण योधैश्च समरप्रियैः । लोड्यमानं महारण्यं तत्यजुश्च महामृगाः ॥१९॥
राज्ञा च अद्भुत-वीर्येण योधैः च समर-प्रियैः । लोड्यमानम् महा-अरण्यम् तत्यजुः च महामृगाः ॥१९॥
rājñā ca adbhuta-vīryeṇa yodhaiḥ ca samara-priyaiḥ . loḍyamānam mahā-araṇyam tatyajuḥ ca mahāmṛgāḥ ..19..
तत्र विद्रुतसङ्घानि हतयूथपतीनि च । मृगयूथान्यथौत्सुक्याच्छब्दं चक्रुस्ततस्ततः ॥२०॥
तत्र विद्रुत-सङ्घानि हत-यूथ-पतीनि च । मृग-यूथानि अथ औत्सुक्यात् शब्दम् चक्रुः ततस् ततस् ॥२०॥
tatra vidruta-saṅghāni hata-yūtha-patīni ca . mṛga-yūthāni atha autsukyāt śabdam cakruḥ tatas tatas ..20..
शुष्कां चापि नदीं गत्वा जलनैराश्यकर्शिताः । व्यायामक्लान्तहृदयाः पतन्ति स्म विचेतसः ॥२१॥
शुष्काम् च अपि नदीम् गत्वा जल-नैराश्य-कर्शिताः । व्यायाम-क्लान्त-हृदयाः पतन्ति स्म विचेतसः ॥२१॥
śuṣkām ca api nadīm gatvā jala-nairāśya-karśitāḥ . vyāyāma-klānta-hṛdayāḥ patanti sma vicetasaḥ ..21..
क्षुत्पिपासापरीताश्च श्रान्ताश्च पतिता भुवि । केचित्तत्र नरव्याघ्रैरभक्ष्यन्त बुभुक्षितैः ॥२२॥
क्षुध्-पिपासा-परीताः च श्रान्ताः च पतिताः भुवि । केचिद् तत्र नर-व्याघ्रैः अभक्ष्यन्त बुभुक्षितैः ॥२२॥
kṣudh-pipāsā-parītāḥ ca śrāntāḥ ca patitāḥ bhuvi . kecid tatra nara-vyāghraiḥ abhakṣyanta bubhukṣitaiḥ ..22..
केचिदग्निमथोत्पाद्य समिध्य च वनेचराः । भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत्तदा ॥२३॥
केचिद् अग्निम् अथ उत्पाद्य समिध्य च वनेचराः । भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत् तदा ॥२३॥
kecid agnim atha utpādya samidhya ca vanecarāḥ . bhakṣayanti sma māṃsāni prakuṭya vidhivat tadā ..23..
तत्र केचिद्गजा मत्ता बलिनः शस्त्रविक्षताः । सङ्कोच्याग्रकरान्भीताः प्रद्रवन्ति स्म वेगिताः ॥२४॥
तत्र केचिद् गजाः मत्ताः बलिनः शस्त्र-विक्षताः । सङ्कोच्य अग्र-करान् भीताः प्रद्रवन्ति स्म वेगिताः ॥२४॥
tatra kecid gajāḥ mattāḥ balinaḥ śastra-vikṣatāḥ . saṅkocya agra-karān bhītāḥ pradravanti sma vegitāḥ ..24..
शकृन्मूत्रं सृजन्तश्च क्षरन्तः शोणितं बहु । वन्या गजवरास्तत्र ममृदुर्मनुजान्बहून् ॥२५॥
शकृत्-मूत्रम् सृजन्तः च क्षरन्तः शोणितम् बहु । वन्याः गज-वराः तत्र ममृदुः मनुजान् बहून् ॥२५॥
śakṛt-mūtram sṛjantaḥ ca kṣarantaḥ śoṇitam bahu . vanyāḥ gaja-varāḥ tatra mamṛduḥ manujān bahūn ..25..
तद्वनं बलमेघेन शरधारेण संवृतम् । व्यरोचन्महिषाकीर्णं राज्ञा हतमहामृगम् ॥२६॥1.69.31
तत् वनम् बल-मेघेन शर-धारेण संवृतम् । व्यरोचत् महिष-आकीर्णम् राज्ञा हत-महामृगम् ॥२६॥१।६९।३१
tat vanam bala-meghena śara-dhāreṇa saṃvṛtam . vyarocat mahiṣa-ākīrṇam rājñā hata-mahāmṛgam ..26..1.69.31

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In