| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततो मृगसहस्राणि हत्वा विपुलवाहनः । राजा मृगप्रसङ्गेन वनमन्यद्विवेश ह ॥१॥
ततस् मृग-सहस्राणि हत्वा विपुल-वाहनः । राजा मृग-प्रसङ्गेन वनम् अन्यत् विवेश ह ॥१॥
tatas mṛga-sahasrāṇi hatvā vipula-vāhanaḥ . rājā mṛga-prasaṅgena vanam anyat viveśa ha ..1..
एक एवोत्तमबलः क्षुत्पिपासासमन्वितः । स वनस्यान्तमासाद्य महदीरिणमासदत् ॥२॥
एकः एव उत्तम-बलः क्षुध्-पिपासा-समन्वितः । स वनस्य अन्तम् आसाद्य महत्-ईरिणम् आसदत् ॥२॥
ekaḥ eva uttama-balaḥ kṣudh-pipāsā-samanvitaḥ . sa vanasya antam āsādya mahat-īriṇam āsadat ..2..
तच्चाप्यतीत्य नृपतिरुत्तमाश्रमसंयुतम् । मनःप्रह्लादजननं दृष्टिकान्तमतीव च ॥३॥ ( शीतमारुतसंयुक्तं जगामान्यन्महद्वनम् ॥३॥ )
तत् च अपि अतीत्य नृपतिः उत्तम-आश्रम-संयुतम् । मनः-प्रह्लाद-जननम् दृष्टि-कान्तम् अतीव च ॥३॥ ( शीत-मारुत-संयुक्तम् जगाम अन्यत् महत् वनम् ॥३॥ )
tat ca api atītya nṛpatiḥ uttama-āśrama-saṃyutam . manaḥ-prahlāda-jananam dṛṣṭi-kāntam atīva ca ..3.. ( śīta-māruta-saṃyuktam jagāma anyat mahat vanam ..3.. )
पुष्पितैः पादपैः कीर्णमतीव सुखशाद्वलम् । विपुलं मधुरारावैर्नादितं विहगैस्तथा ॥४॥
पुष्पितैः पादपैः कीर्णम् अतीव सुख-शाद्वलम् । विपुलम् मधुर-आरावैः नादितम् विहगैः तथा ॥४॥
puṣpitaiḥ pādapaiḥ kīrṇam atīva sukha-śādvalam . vipulam madhura-ārāvaiḥ nāditam vihagaiḥ tathā ..4..
प्रवृद्धविटपैर्वृक्षैः सुखच्छायैः समावृतम् । षट्पदाघूर्णितलतं लक्ष्म्या परमया युतम् ॥५॥
प्रवृद्ध-विटपैः वृक्षैः सुख-छायैः समावृतम् । षट्पद-आघूर्णित-लतम् लक्ष्म्या परमया युतम् ॥५॥
pravṛddha-viṭapaiḥ vṛkṣaiḥ sukha-chāyaiḥ samāvṛtam . ṣaṭpada-āghūrṇita-latam lakṣmyā paramayā yutam ..5..
नापुष्पः पादपः कश्चिन्नाफलो नापि कण्टकी । षट्पदैर्वाप्यनाकीर्णस्तस्मिन्वै काननेऽभवत् ॥६॥
न अपुष्पः पादपः कश्चिद् न अफलः ना अपि कण्टकी । षट्पदैः वा अपि अन् आकीर्णः तस्मिन् वै कानने अभवत् ॥६॥
na apuṣpaḥ pādapaḥ kaścid na aphalaḥ nā api kaṇṭakī . ṣaṭpadaiḥ vā api an ākīrṇaḥ tasmin vai kānane abhavat ..6..
विहगैर्नादितं पुष्पैरलङ्कृतमतीव च । सर्वर्तुकुसुमैर्वृक्षैरतीव सुखशाद्वलम् ॥७॥ ( मनोरमं महेष्वासो विवेश वनमुत्तमम् ॥७॥ )
विहगैः नादितम् पुष्पैः अलङ्कृतम् अतीव च । सर्व-ऋतु-कुसुमैः वृक्षैः अतीव सुख-शाद्वलम् ॥७॥ ( मनोरमम् महा-इष्वासः विवेश वनम् उत्तमम् ॥७॥ )
vihagaiḥ nāditam puṣpaiḥ alaṅkṛtam atīva ca . sarva-ṛtu-kusumaiḥ vṛkṣaiḥ atīva sukha-śādvalam ..7.. ( manoramam mahā-iṣvāsaḥ viveśa vanam uttamam ..7.. )
मारुतागलितास्तत्र द्रुमाः कुसुमशालिनः । पुष्पवृष्टिं विचित्रां स्म व्यसृजंस्ते पुनः पुनः ॥८॥
मारुत-आगलिताः तत्र द्रुमाः कुसुम-शालिनः । पुष्प-वृष्टिम् विचित्राम् स्म व्यसृजन् ते पुनर् पुनर् ॥८॥
māruta-āgalitāḥ tatra drumāḥ kusuma-śālinaḥ . puṣpa-vṛṣṭim vicitrām sma vyasṛjan te punar punar ..8..
दिवस्पृशोऽथ सङ्घुष्टाः पक्षिभिर्मधुरस्वरैः । विरेजुः पादपास्तत्र विचित्रकुसुमाम्बराः ॥९॥
दिव-स्पृशः अथ सङ्घुष्टाः पक्षिभिः मधुर-स्वरैः । विरेजुः पादपाः तत्र विचित्र-कुसुम-अम्बराः ॥९॥
diva-spṛśaḥ atha saṅghuṣṭāḥ pakṣibhiḥ madhura-svaraiḥ . virejuḥ pādapāḥ tatra vicitra-kusuma-ambarāḥ ..9..
तेषां तत्र प्रवालेषु पुष्पभारावनामिषु । रुवन्ति रावं विहगाः षट्पदैः सहिता मृदु ॥१०॥
तेषाम् तत्र प्रवालेषु पुष्प-भार-अवनामिषु । रुवन्ति रावम् विहगाः षट्पदैः सहिताः मृदु ॥१०॥
teṣām tatra pravāleṣu puṣpa-bhāra-avanāmiṣu . ruvanti rāvam vihagāḥ ṣaṭpadaiḥ sahitāḥ mṛdu ..10..
तत्र प्रदेशांश्च बहून्कुसुमोत्करमण्डितान् । लतागृहपरिक्षिप्तान्मनसः प्रीतिवर्धनान् ॥११॥ ( सम्पश्यन्स महातेजा बभूव मुदितस्तदा ॥११॥ )
तत्र प्रदेशान् च बहून् कुसुम-उत्कर-मण्डितान् । लता-गृह-परिक्षिप्तान् मनसः प्रीति-वर्धनान् ॥११॥ ( सम्पश्यन् स महा-तेजाः बभूव मुदितः तदा ॥११॥ )
tatra pradeśān ca bahūn kusuma-utkara-maṇḍitān . latā-gṛha-parikṣiptān manasaḥ prīti-vardhanān ..11.. ( sampaśyan sa mahā-tejāḥ babhūva muditaḥ tadā ..11.. )
परस्पराश्लिष्टशाखैः पादपैः कुसुमाचितैः । अशोभत वनं तत्तैर्महेन्द्रध्वजसंनिभैः ॥१२॥
परस्पर-आश्लिष्ट-शाखैः पादपैः कुसुम-आचितैः । अशोभत वनम् तत् तैः महा-इन्द्र-ध्वज-संनिभैः ॥१२॥
paraspara-āśliṣṭa-śākhaiḥ pādapaiḥ kusuma-ācitaiḥ . aśobhata vanam tat taiḥ mahā-indra-dhvaja-saṃnibhaiḥ ..12..
सुखशीतः सुगन्धी च पुष्परेणुवहोऽनिलः । परिक्रामन्वने वृक्षानुपैतीव रिरंसया ॥१३॥
सुख-शीतः सुगन्धी च पुष्प-रेणु-वहः अनिलः । परिक्रामन् वने वृक्षान् उपैति इव रिरंसया ॥१३॥
sukha-śītaḥ sugandhī ca puṣpa-reṇu-vahaḥ anilaḥ . parikrāman vane vṛkṣān upaiti iva riraṃsayā ..13..
एवङ्गुणसमायुक्तं ददर्श स वनं नृपः । नदीकच्छोद्भवं कान्तमुच्छ्रितध्वजसंनिभम् ॥१४॥
एवङ्गुण-समायुक्तम् ददर्श स वनम् नृपः । नदी-कच्छ-उद्भवम् कान्तम् उच्छ्रित-ध्वज-संनिभम् ॥१४॥
evaṅguṇa-samāyuktam dadarśa sa vanam nṛpaḥ . nadī-kaccha-udbhavam kāntam ucchrita-dhvaja-saṃnibham ..14..
प्रेक्षमाणो वनं तत्तु सुप्रहृष्टविहङ्गमम् । आश्रमप्रवरं रम्यं ददर्श च मनोरमम् ॥१५॥
प्रेक्षमाणः वनम् तत् तु सु प्रहृष्ट-विहङ्गमम् । आश्रम-प्रवरम् रम्यम् ददर्श च मनोरमम् ॥१५॥
prekṣamāṇaḥ vanam tat tu su prahṛṣṭa-vihaṅgamam . āśrama-pravaram ramyam dadarśa ca manoramam ..15..
नानावृक्षसमाकीर्णं सम्प्रज्वलितपावकम् । यतिभिर्वालखिल्यैश्च वृतं मुनिगणान्वितम् ॥१६॥
नाना वृक्ष-समाकीर्णम् सम्प्रज्वलित-पावकम् । यतिभिः वालखिल्यैः च वृतम् मुनि-गण-अन्वितम् ॥१६॥
nānā vṛkṣa-samākīrṇam samprajvalita-pāvakam . yatibhiḥ vālakhilyaiḥ ca vṛtam muni-gaṇa-anvitam ..16..
अग्न्यागारैश्च बहुभिः पुष्पसंस्तरसंस्तृतम् । महाकच्छैर्बृहद्भिश्च विभ्राजितमतीव च ॥१७॥
अग्न्यागारैः च बहुभिः पुष्प-संस्तर-संस्तृतम् । महाकच्छैः बृहद्भिः च विभ्राजितम् अतीव च ॥१७॥
agnyāgāraiḥ ca bahubhiḥ puṣpa-saṃstara-saṃstṛtam . mahākacchaiḥ bṛhadbhiḥ ca vibhrājitam atīva ca ..17..
मालिनीमभितो राजन्नदीं पुण्यां सुखोदकाम् । नैकपक्षिगणाकीर्णां तपोवनमनोरमाम् ॥१८॥ ( तत्र व्यालमृगान्सौम्यान्पश्यन्प्रीतिमवाप सः ॥१८॥ )
मालिनीम् अभितस् राजन् नदीम् पुण्याम् सुख-उदकाम् । न एक-पक्षि-गण-आकीर्णाम् तपः-वन-मनोरमाम् ॥१८॥ ( तत्र व्याल-मृगान् सौम्यान् पश्यन् प्रीतिम् अवाप सः ॥१८॥ )
mālinīm abhitas rājan nadīm puṇyām sukha-udakām . na eka-pakṣi-gaṇa-ākīrṇām tapaḥ-vana-manoramām ..18.. ( tatra vyāla-mṛgān saumyān paśyan prītim avāpa saḥ ..18.. )
तं चाप्यतिरथः श्रीमानाश्रमं प्रत्यपद्यत । देवलोकप्रतीकाशं सर्वतः सुमनोहरम् ॥१९॥
तम् च अपि अतिरथः श्रीमान् आश्रमम् प्रत्यपद्यत । देव-लोक-प्रतीकाशम् सर्वतस् सु मनोहरम् ॥१९॥
tam ca api atirathaḥ śrīmān āśramam pratyapadyata . deva-loka-pratīkāśam sarvatas su manoharam ..19..
नदीमाश्रमसंश्लिष्टां पुण्यतोयां ददर्श सः । सर्वप्राणभृतां तत्र जननीमिव विष्ठिताम् ॥२०॥
नदीम् आश्रम-संश्लिष्टाम् पुण्य-तोयाम् ददर्श सः । सर्व-प्राणभृताम् तत्र जननीम् इव विष्ठिताम् ॥२०॥
nadīm āśrama-saṃśliṣṭām puṇya-toyām dadarśa saḥ . sarva-prāṇabhṛtām tatra jananīm iva viṣṭhitām ..20..
सचक्रवाकपुलिनां पुष्पफेनप्रवाहिनीम् । सकिंनरगणावासां वानरर्क्षनिषेविताम् ॥२१॥
स चक्रवाक-पुलिनाम् पुष्प-फेन-प्रवाहिनीम् । स किंनर-गण-आवासाम् वानर-ऋक्ष-निषेविताम् ॥२१॥
sa cakravāka-pulinām puṣpa-phena-pravāhinīm . sa kiṃnara-gaṇa-āvāsām vānara-ṛkṣa-niṣevitām ..21..
पुण्यस्वाध्यायसङ्घुष्टां पुलिनैरुपशोभिताम् । मत्तवारणशार्दूलभुजगेन्द्रनिषेविताम् ॥२२॥
पुण्य-स्वाध्याय-सङ्घुष्टाम् पुलिनैः उपशोभिताम् । मत्त-वारण-शार्दूल-भुजग-इन्द्र-निषेविताम् ॥२२॥
puṇya-svādhyāya-saṅghuṣṭām pulinaiḥ upaśobhitām . matta-vāraṇa-śārdūla-bhujaga-indra-niṣevitām ..22..
नदीमाश्रमसम्बद्धां दृष्ट्वाश्रमपदं तथा । चकाराभिप्रवेशाय मतिं स नृपतिस्तदा ॥२३॥
नदीम् आश्रम-सम्बद्धाम् दृष्ट्वा आश्रम-पदम् तथा । चकार अभिप्रवेशाय मतिम् स नृपतिः तदा ॥२३॥
nadīm āśrama-sambaddhām dṛṣṭvā āśrama-padam tathā . cakāra abhipraveśāya matim sa nṛpatiḥ tadā ..23..
अलङ्कृतं द्वीपवत्या मालिन्या रम्यतीरया । नरनारायणस्थानं गङ्गयेवोपशोभितम् ॥२४॥ ( मत्तबर्हिणसङ्घुष्टं प्रविवेश महद्वनम् ॥२४॥ )
अलङ्कृतम् द्वीपवत्या मालिन्या रम्य-तीरया । नर-नारायण-स्थानम् गङ्गया इव उपशोभितम् ॥२४॥ ( मत्त-बर्हिण-सङ्घुष्टम् प्रविवेश महत् वनम् ॥२४॥ )
alaṅkṛtam dvīpavatyā mālinyā ramya-tīrayā . nara-nārāyaṇa-sthānam gaṅgayā iva upaśobhitam ..24.. ( matta-barhiṇa-saṅghuṣṭam praviveśa mahat vanam ..24.. )
तत्स चैत्ररथप्रख्यं समुपेत्य नरेश्वरः । अतीव गुणसम्पन्नमनिर्देश्यं च वर्चसा ॥२५॥ ( महर्षिं काश्यपं द्रष्टुमथ कण्वं तपोधनम् ॥२५॥ )
तत् स चैत्ररथ-प्रख्यम् समुपेत्य नरेश्वरः । अतीव गुण-सम्पन्नम् अनिर्देश्यम् च वर्चसा ॥२५॥ ( महा-ऋषिम् काश्यपम् द्रष्टुम् अथ कण्वम् तपोधनम् ॥२५॥ )
tat sa caitraratha-prakhyam samupetya nareśvaraḥ . atīva guṇa-sampannam anirdeśyam ca varcasā ..25.. ( mahā-ṛṣim kāśyapam draṣṭum atha kaṇvam tapodhanam ..25.. )
रथिनीमश्वसम्बाधां पदातिगणसङ्कुलाम् । अवस्थाप्य वनद्वारि सेनामिदमुवाच सः ॥२६॥
रथिनीम् अश्व-सम्बाधाम् पदाति-गण-सङ्कुलाम् । अवस्थाप्य वन-द्वारि सेनाम् इदम् उवाच सः ॥२६॥
rathinīm aśva-sambādhām padāti-gaṇa-saṅkulām . avasthāpya vana-dvāri senām idam uvāca saḥ ..26..
मुनिं विरजसं द्रष्टुं गमिष्यामि तपोधनम् । काश्यपं स्थीयतामत्र यावदागमनं मम ॥२७॥
मुनिम् विरजसम् द्रष्टुम् गमिष्यामि तपोधनम् । काश्यपम् स्थीयताम् अत्र यावत् आगमनम् मम ॥२७॥
munim virajasam draṣṭum gamiṣyāmi tapodhanam . kāśyapam sthīyatām atra yāvat āgamanam mama ..27..
तद्वनं नन्दनप्रख्यमासाद्य मनुजेश्वरः । क्षुत्पिपासे जहौ राजा हर्षं चावाप पुष्कलम् ॥२८॥
तत् वनम् नन्दन-प्रख्यम् आसाद्य मनुज-ईश्वरः । क्षुध्-पिपासे जहौ राजा हर्षम् च अवाप पुष्कलम् ॥२८॥
tat vanam nandana-prakhyam āsādya manuja-īśvaraḥ . kṣudh-pipāse jahau rājā harṣam ca avāpa puṣkalam ..28..
सामात्यो राजलिङ्गानि सोऽपनीय नराधिपः । पुरोहितसहायश्च जगामाश्रममुत्तमम् ॥२९॥ ( दिदृक्षुस्तत्र तमृषिं तपोराशिमथाव्ययम् ॥२९॥ )
स अमात्यः राज-लिङ्गानि सः अपनीय नराधिपः । पुरोहित-सहायः च जगाम आश्रमम् उत्तमम् ॥२९॥ ( दिदृक्षुः तत्र तम् ऋषिम् तपोराशिम् अथ अव्ययम् ॥२९॥ )
sa amātyaḥ rāja-liṅgāni saḥ apanīya narādhipaḥ . purohita-sahāyaḥ ca jagāma āśramam uttamam ..29.. ( didṛkṣuḥ tatra tam ṛṣim taporāśim atha avyayam ..29.. )
ब्रह्मलोकप्रतीकाशमाश्रमं सोऽभिवीक्ष्य च । षट्पदोद्गीतसङ्घुष्टं नानाद्विज गणायुतम् ॥३०॥
ब्रह्म-लोक-प्रतीकाशम् आश्रमम् सः अभिवीक्ष्य च । षट्पद-उद्गीत-सङ्घुष्टम् नाना द्विज गण-आयुतम् ॥३०॥
brahma-loka-pratīkāśam āśramam saḥ abhivīkṣya ca . ṣaṭpada-udgīta-saṅghuṣṭam nānā dvija gaṇa-āyutam ..30..
ऋचो बह्वृचमुख्यैश्च प्रेर्यमाणाः पदक्रमैः । शुश्राव मनुजव्याघ्रो विततेष्विह कर्मसु ॥३१॥
ऋचः बह्वृच-मुख्यैः च प्रेर्यमाणाः पदक्रमैः । शुश्राव मनुज-व्याघ्रः विततेषु इह कर्मसु ॥३१॥
ṛcaḥ bahvṛca-mukhyaiḥ ca preryamāṇāḥ padakramaiḥ . śuśrāva manuja-vyāghraḥ vitateṣu iha karmasu ..31..
यज्ञविद्याङ्गविद्भिश्च क्रमद्भिश्च क्रमानपि । अमितात्मभिः सुनियतैः शुशुभे स तदाश्रमः ॥३२॥
यज्ञ-विद्या-अङ्ग-विद्भिः च क्रमद्भिः च क्रमान् अपि । अमित-आत्मभिः सु नियतैः शुशुभे स तदा आश्रमः ॥३२॥
yajña-vidyā-aṅga-vidbhiḥ ca kramadbhiḥ ca kramān api . amita-ātmabhiḥ su niyataiḥ śuśubhe sa tadā āśramaḥ ..32..
अथर्ववेदप्रवराः पूगयाज्ञिक संमताः । संहितामीरयन्ति स्म पदक्रमयुतां तु ते ॥३३॥
अथर्ववेद-प्रवराः पूग-याज्ञिक संमताः । संहिताम् ईरयन्ति स्म पदक्रम-युताम् तु ते ॥३३॥
atharvaveda-pravarāḥ pūga-yājñika saṃmatāḥ . saṃhitām īrayanti sma padakrama-yutām tu te ..33..
शब्दसंस्कारसंयुक्तं ब्रुवद्भिश्चापरैर्द्विजैः । नादितः स बभौ श्रीमान्ब्रह्मलोक इवाश्रमः ॥३४॥
शब्द-संस्कार-संयुक्तम् ब्रुवद्भिः च अपरैः द्विजैः । नादितः स बभौ श्रीमान् ब्रह्म-लोकः इव आश्रमः ॥३४॥
śabda-saṃskāra-saṃyuktam bruvadbhiḥ ca aparaiḥ dvijaiḥ . nāditaḥ sa babhau śrīmān brahma-lokaḥ iva āśramaḥ ..34..
यज्ञसंस्कारविद्भिश्च क्रमशिक्षा विशारदैः । न्यायतत्त्वार्थविज्ञानसम्पन्नैर्वेदपारगैः ॥३५॥
यज्ञ-संस्कार-विद्भिः च क्रम-शिक्षा विशारदैः । न्याय-तत्त्व-अर्थ-विज्ञान-सम्पन्नैः वेदपारगैः ॥३५॥
yajña-saṃskāra-vidbhiḥ ca krama-śikṣā viśāradaiḥ . nyāya-tattva-artha-vijñāna-sampannaiḥ vedapāragaiḥ ..35..
नानावाक्यसमाहारसमवायविशारदैः । विशेषकार्यविद्भिश्च मोक्षधर्मपरायणैः ॥३६॥
नाना वाक्य-समाहार-समवाय-विशारदैः । विशेष-कार्य-विद्भिः च मोक्ष-धर्म-परायणैः ॥३६॥
nānā vākya-samāhāra-samavāya-viśāradaiḥ . viśeṣa-kārya-vidbhiḥ ca mokṣa-dharma-parāyaṇaiḥ ..36..
स्थापनाक्षेपसिद्धान्तपरमार्थज्ञतां गतैः । लोकायतिकमुख्यैश्च समन्तादनुनादितम् ॥३७॥
स्थापन-आक्षेप-सिद्धान्त-परम-अर्थ-ज्ञ-ताम् गतैः । लोकायतिक-मुख्यैः च समन्तात् अनुनादितम् ॥३७॥
sthāpana-ākṣepa-siddhānta-parama-artha-jña-tām gataiḥ . lokāyatika-mukhyaiḥ ca samantāt anunāditam ..37..
तत्र तत्र च विप्रेन्द्रान्नियतान्संशितव्रतान् । जपहोमपरान्सिद्धान्ददर्श परवीरहा ॥३८॥
तत्र तत्र च विप्र-इन्द्रान् नियतान् संशित-व्रतान् । जप-होम-परान् सिद्धान् ददर्श पर-वीर-हा ॥३८॥
tatra tatra ca vipra-indrān niyatān saṃśita-vratān . japa-homa-parān siddhān dadarśa para-vīra-hā ..38..
आसनानि विचित्राणि पुष्पवन्ति महीपतिः । प्रयत्नोपहितानि स्म दृष्ट्वा विस्मयमागमत् ॥३९॥
आसनानि विचित्राणि पुष्पवन्ति महीपतिः । प्रयत्न-उपहितानि स्म दृष्ट्वा विस्मयम् आगमत् ॥३९॥
āsanāni vicitrāṇi puṣpavanti mahīpatiḥ . prayatna-upahitāni sma dṛṣṭvā vismayam āgamat ..39..
देवतायतनानां च पूजां प्रेक्ष्य कृतां द्विजैः । ब्रह्मलोकस्थमात्मानं मेने स नृपसत्तमः ॥४०॥
देवतायतनानाम् च पूजाम् प्रेक्ष्य कृताम् द्विजैः । ब्रह्म-लोक-स्थम् आत्मानम् मेने स नृप-सत्तमः ॥४०॥
devatāyatanānām ca pūjām prekṣya kṛtām dvijaiḥ . brahma-loka-stham ātmānam mene sa nṛpa-sattamaḥ ..40..
स काश्यपतपोगुप्तमाश्रमप्रवरं शुभम् । नातृप्यत्प्रेक्षमाणो वै तपोधनगणैर्युतम् ॥४१॥
स काश्यप-तपः-गुप्तम् आश्रम-प्रवरम् शुभम् । न अतृप्यत् प्रेक्षमाणः वै तपोधन-गणैः युतम् ॥४१॥
sa kāśyapa-tapaḥ-guptam āśrama-pravaram śubham . na atṛpyat prekṣamāṇaḥ vai tapodhana-gaṇaiḥ yutam ..41..
स काश्यपस्यायतनं महाव्रतै; र्वृतं समन्तादृषिभिस्तपोधनैः । विवेश सामात्यपुरोहितोऽरिहा; विविक्तमत्यर्थमनोहरं शिवम् ॥४२॥ 1.70.51
स काश्यपस्य आयतनम् महाव्रतैः; र्वृतम् समन्तात् ऋषिभिः तपोधनैः । विवेश स अमात्य-पुरोहितः अरि-हा; विविक्तम् अत्यर्थ-मनोहरम् शिवम् ॥४२॥ १।७०।५१
sa kāśyapasya āyatanam mahāvrataiḥ; rvṛtam samantāt ṛṣibhiḥ tapodhanaiḥ . viveśa sa amātya-purohitaḥ ari-hā; viviktam atyartha-manoharam śivam ..42.. 1.70.51

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In