| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततो गच्छन्महाबाहुरेकोऽमात्यान्विसृज्य तान् । नापश्यदाश्रमे तस्मिंस्तमृषिं संशितव्रतम् ॥१॥
ततस् गच्छन् महा-बाहुः एकः अमात्यान् विसृज्य तान् । न अपश्यत् आश्रमे तस्मिन् तम् ऋषिम् संशित-व्रतम् ॥१॥
tatas gacchan mahā-bāhuḥ ekaḥ amātyān visṛjya tān . na apaśyat āśrame tasmin tam ṛṣim saṃśita-vratam ..1..
सोऽपश्यमानस्तमृषिं शून्यं दृष्ट्वा तमाश्रमम् । उवाच क इहेत्युच्चैर्वनं संनादयन्निव ॥२॥
सः अपश्यमानः तम् ऋषिम् शून्यम् दृष्ट्वा तम् आश्रमम् । उवाच कः इह इति उच्चैस् वनम् संनादयन् इव ॥२॥
saḥ apaśyamānaḥ tam ṛṣim śūnyam dṛṣṭvā tam āśramam . uvāca kaḥ iha iti uccais vanam saṃnādayan iva ..2..
श्रुत्वाथ तस्य तं शब्दं कन्या श्रीरिव रूपिणी । निश्चक्रामाश्रमात्तस्मात्तापसीवेषधारिणी ॥३॥
श्रुत्वा अथ तस्य तम् शब्दम् कन्या श्रीः इव रूपिणी । निश्चक्राम आश्रमात् तस्मात् तापसी-वेष-धारिणी ॥३॥
śrutvā atha tasya tam śabdam kanyā śrīḥ iva rūpiṇī . niścakrāma āśramāt tasmāt tāpasī-veṣa-dhāriṇī ..3..
सा तं दृष्ट्वैव राजानं दुःषन्तमसितेक्षणा । स्वागतं त इति क्षिप्रमुवाच प्रतिपूज्य च ॥४॥
सा तम् दृष्ट्वा एव राजानम् दुःषन्तम् असित-ईक्षणा । स्वागतम् ते इति क्षिप्रम् उवाच प्रतिपूज्य च ॥४॥
sā tam dṛṣṭvā eva rājānam duḥṣantam asita-īkṣaṇā . svāgatam te iti kṣipram uvāca pratipūjya ca ..4..
आसनेनार्चयित्वा च पाद्येनार्घ्येण चैव हि । पप्रच्छानामयं राजन्कुशलं च नराधिपम् ॥५॥
आसनेन अर्चयित्वा च पाद्येन अर्घ्येण च एव हि । पप्रच्छ अनामयम् राजन् कुशलम् च नराधिपम् ॥५॥
āsanena arcayitvā ca pādyena arghyeṇa ca eva hi . papraccha anāmayam rājan kuśalam ca narādhipam ..5..
यथावदर्चयित्वा सा पृष्ट्वा चानामयं तदा । उवाच स्मयमानेव किं कार्यं क्रियतामिति ॥६॥
यथावत् अर्चयित्वा सा पृष्ट्वा च अनामयम् तदा । उवाच स्मयमाना इव किम् कार्यम् क्रियताम् इति ॥६॥
yathāvat arcayitvā sā pṛṣṭvā ca anāmayam tadā . uvāca smayamānā iva kim kāryam kriyatām iti ..6..
तामब्रवीत्ततो राजा कन्यां मधुरभाषिणीम् । दृष्ट्वा सर्वानवद्याङ्गीं यथावत्प्रतिपूजितः ॥७॥
ताम् अब्रवीत् ततस् राजा कन्याम् मधुर-भाषिणीम् । दृष्ट्वा सर्व-अनवद्य-अङ्गीम् यथावत् प्रतिपूजितः ॥७॥
tām abravīt tatas rājā kanyām madhura-bhāṣiṇīm . dṛṣṭvā sarva-anavadya-aṅgīm yathāvat pratipūjitaḥ ..7..
आगतोऽहं महाभागमृषिं कण्वमुपासितुम् । क्व गतो भगवान्भद्रे तन्ममाचक्ष्व शोभने ॥८॥
आगतः अहम् महाभागम् ऋषिम् कण्वम् उपासितुम् । क्व गतः भगवान् भद्रे तत् मम आचक्ष्व शोभने ॥८॥
āgataḥ aham mahābhāgam ṛṣim kaṇvam upāsitum . kva gataḥ bhagavān bhadre tat mama ācakṣva śobhane ..8..
शकुन्तलोवाच॥
गतः पिता मे भगवान्फलान्याहर्तुमाश्रमात् । मुहूर्तं सम्प्रतीक्षस्व द्रक्ष्यस्येनमिहागतम् ॥९॥
गतः पिता मे भगवान् फलानि आहर्तुम् आश्रमात् । मुहूर्तम् सम्प्रतीक्षस्व द्रक्ष्यसि एनम् इह आगतम् ॥९॥
gataḥ pitā me bhagavān phalāni āhartum āśramāt . muhūrtam sampratīkṣasva drakṣyasi enam iha āgatam ..9..
वैशम्पायन उवाच॥
अपश्यमानस्तमृषिं तया चोक्तस्तथा नृपः । तां च दृष्ट्वा वरारोहां श्रीमतीं चारुहासिनीम् ॥१०॥
अपश्यमानः तम् ऋषिम् तया च उक्तः तथा नृपः । ताम् च दृष्ट्वा वरारोहाम् श्रीमतीम् चारु-हासिनीम् ॥१०॥
apaśyamānaḥ tam ṛṣim tayā ca uktaḥ tathā nṛpaḥ . tām ca dṛṣṭvā varārohām śrīmatīm cāru-hāsinīm ..10..
विभ्राजमानां वपुषा तपसा च दमेन च । रूपयौवनसम्पन्नामित्युवाच महीपतिः ॥११॥
विभ्राजमानाम् वपुषा तपसा च दमेन च । रूप-यौवन-सम्पन्नाम् इति उवाच महीपतिः ॥११॥
vibhrājamānām vapuṣā tapasā ca damena ca . rūpa-yauvana-sampannām iti uvāca mahīpatiḥ ..11..
कासि कस्यासि सुश्रोणि किमर्थं चागता वनम् । एवंरूपगुणोपेता कुतस्त्वमसि शोभने ॥१२॥
का असि कस्य असि सुश्रोणि किमर्थम् च आगता वनम् । एवंरूप-गुण-उपेता कुतस् त्वम् असि शोभने ॥१२॥
kā asi kasya asi suśroṇi kimartham ca āgatā vanam . evaṃrūpa-guṇa-upetā kutas tvam asi śobhane ..12..
दर्शनादेव हि शुभे त्वया मेऽपहृतं मनः । इच्छामि त्वामहं ज्ञातुं तन्ममाचक्ष्व शोभने ॥१३॥
दर्शनात् एव हि शुभे त्वया मे अपहृतम् मनः । इच्छामि त्वाम् अहम् ज्ञातुम् तत् मम आचक्ष्व शोभने ॥१३॥
darśanāt eva hi śubhe tvayā me apahṛtam manaḥ . icchāmi tvām aham jñātum tat mama ācakṣva śobhane ..13..
एवमुक्ता तदा कन्या तेन राज्ञा तदाश्रमे । उवाच हसती वाक्यमिदं सुमधुराक्षरम् ॥१४॥
एवम् उक्ता तदा कन्या तेन राज्ञा तद्-आश्रमे । उवाच हसती वाक्यम् इदम् सुमधुर-अक्षरम् ॥१४॥
evam uktā tadā kanyā tena rājñā tad-āśrame . uvāca hasatī vākyam idam sumadhura-akṣaram ..14..
कण्वष्याहं भगवतो दुःषन्त दुहिता मता । तपस्विनो धृतिमतो धर्मज्ञस्य यशस्विनः ॥१५॥
भगवतः दुःषन्त दुहिता मता । तपस्विनः धृतिमतः धर्म-ज्ञस्य यशस्विनः ॥१५॥
bhagavataḥ duḥṣanta duhitā matā . tapasvinaḥ dhṛtimataḥ dharma-jñasya yaśasvinaḥ ..15..
दुःषन्त उवाच॥
ऊर्ध्वरेता महाभागो भगवाँल्लोकपूजितः । चलेद्धि वृत्ताद्धर्मोऽपि न चलेत्संशितव्रतः ॥१६॥
ऊर्ध्वरेताः महाभागः भगवान् लोक-पूजितः । चलेत् हि वृत्तात् धर्मः अपि न चलेत् संशित-व्रतः ॥१६॥
ūrdhvaretāḥ mahābhāgaḥ bhagavān loka-pūjitaḥ . calet hi vṛttāt dharmaḥ api na calet saṃśita-vrataḥ ..16..
कथं त्वं तस्य दुहिता सम्भूता वरवर्णिनी । संशयो मे महानत्र तं मे छेत्तुमिहार्हसि ॥१७॥
कथम् त्वम् तस्य दुहिता सम्भूता वरवर्णिनी । संशयः मे महान् अत्र तम् मे छेत्तुम् इह अर्हसि ॥१७॥
katham tvam tasya duhitā sambhūtā varavarṇinī . saṃśayaḥ me mahān atra tam me chettum iha arhasi ..17..
शकुन्तलोवाच॥
यथायमागमो मह्यं यथा चेदमभूत्पुरा । शृणु राजन्यथातत्त्वं यथास्मि दुहिता मुनेः ॥१८॥
यथा अयम् आगमः मह्यम् यथा च इदम् अभूत् पुरा । शृणु राजन् यथातत्त्वम् यथा अस्मि दुहिता मुनेः ॥१८॥
yathā ayam āgamaḥ mahyam yathā ca idam abhūt purā . śṛṇu rājan yathātattvam yathā asmi duhitā muneḥ ..18..
ऋषिः कश्चिदिहागम्य मम जन्माभ्यचोदयत् । तस्मै प्रोवाच भगवान्यथा तच्छृणु पार्थिव ॥१९॥
ऋषिः कश्चिद् इह आगम्य मम जन्म अभ्यचोदयत् । तस्मै प्रोवाच भगवान् यथा तत् शृणु पार्थिव ॥१९॥
ṛṣiḥ kaścid iha āgamya mama janma abhyacodayat . tasmai provāca bhagavān yathā tat śṛṇu pārthiva ..19..
तप्यमानः किल पुरा विश्वामित्रो महत्तपः । सुभृशं तापयामास शक्रं सुरगणेश्वरम् ॥२०॥
तप्यमानः किल पुरा विश्वामित्रः महत् तपः । सु भृशम् तापयामास शक्रम् सुर-गण-ईश्वरम् ॥२०॥
tapyamānaḥ kila purā viśvāmitraḥ mahat tapaḥ . su bhṛśam tāpayāmāsa śakram sura-gaṇa-īśvaram ..20..
तपसा दीप्तवीर्योऽयं स्थानान्मां च्यावयेदिति । भीतः पुरंदरस्तस्मान्मेनकामिदमब्रवीत् ॥२१॥
तपसा दीप्त-वीर्यः अयम् स्थानात् माम् च्यावयेत् इति । भीतः पुरंदरः तस्मात् मेनकाम् इदम् अब्रवीत् ॥२१॥
tapasā dīpta-vīryaḥ ayam sthānāt mām cyāvayet iti . bhītaḥ puraṃdaraḥ tasmāt menakām idam abravīt ..21..
गुणैर्दिव्यैरप्सरसां मेनके त्वं विशिष्यसे । श्रेयो मे कुरु कल्याणि यत्त्वां वक्ष्यामि तच्छृणु ॥२२॥
गुणैः दिव्यैः अप्सरसाम् मेनके त्वम् विशिष्यसे । श्रेयः मे कुरु कल्याणि यत् त्वाम् वक्ष्यामि तत् शृणु ॥२२॥
guṇaiḥ divyaiḥ apsarasām menake tvam viśiṣyase . śreyaḥ me kuru kalyāṇi yat tvām vakṣyāmi tat śṛṇu ..22..
असावादित्यसङ्काशो विश्वामित्रो महातपाः । तप्यमानस्तपो घोरं मम कम्पयते मनः ॥२३॥
असौ आदित्य-सङ्काशः विश्वामित्रः महा-तपाः । तप्यमानः तपः घोरम् मम कम्पयते मनः ॥२३॥
asau āditya-saṅkāśaḥ viśvāmitraḥ mahā-tapāḥ . tapyamānaḥ tapaḥ ghoram mama kampayate manaḥ ..23..
मेनके तव भारोऽयं विश्वामित्रः सुमध्यमे । संशितात्मा सुदुर्धर्ष उग्रे तपसि वर्तते ॥२४॥
मेनके तव भारः अयम् विश्वामित्रः सुमध्यमे । संशित-आत्मा सु दुर्धर्षः उग्रे तपसि वर्तते ॥२४॥
menake tava bhāraḥ ayam viśvāmitraḥ sumadhyame . saṃśita-ātmā su durdharṣaḥ ugre tapasi vartate ..24..
स मां न च्यावयेत्स्थानात्तं वै गत्वा प्रलोभय । चर तस्य तपोविघ्नं कुरु मे प्रियमुत्तमम् ॥२५॥
स माम् न च्यावयेत् स्थानात् तम् वै गत्वा प्रलोभय । चर तस्य तपः-विघ्नम् कुरु मे प्रियम् उत्तमम् ॥२५॥
sa mām na cyāvayet sthānāt tam vai gatvā pralobhaya . cara tasya tapaḥ-vighnam kuru me priyam uttamam ..25..
रूपयौवनमाधुर्यचेष्टितस्मितभाषितैः । लोभयित्वा वरारोहे तपसः संनिवर्तय ॥२६॥
रूप-यौवन-माधुर्य-चेष्टित-स्मित-भाषितैः । लोभयित्वा वरारोहे तपसः संनिवर्तय ॥२६॥
rūpa-yauvana-mādhurya-ceṣṭita-smita-bhāṣitaiḥ . lobhayitvā varārohe tapasaḥ saṃnivartaya ..26..
मेनकोवाच॥
महातेजाः स भगवान्सदैव च महातपाः । कोपनश्च तथा ह्येनं जानाति भगवानपि ॥२७॥
महा-तेजाः स भगवान् सदा एव च महा-तपाः । कोपनः च तथा हि एनम् जानाति भगवान् अपि ॥२७॥
mahā-tejāḥ sa bhagavān sadā eva ca mahā-tapāḥ . kopanaḥ ca tathā hi enam jānāti bhagavān api ..27..
तेजसस्तपसश्चैव कोपस्य च महात्मनः । त्वमप्युद्विजसे यस्य नोद्विजेयमहं कथम् ॥२८॥
तेजसः तपसः च एव कोपस्य च महात्मनः । त्वम् अपि उद्विजसे यस्य न उद्विजेयम् अहम् कथम् ॥२८॥
tejasaḥ tapasaḥ ca eva kopasya ca mahātmanaḥ . tvam api udvijase yasya na udvijeyam aham katham ..28..
महाभागं वसिष्ठं यः पुत्रैरिष्टैर्व्ययोजयत् । क्षत्रे जातश्च यः पूर्वमभवद्ब्राह्मणो बलात् ॥२९॥
महाभागम् वसिष्ठम् यः पुत्रैः इष्टैः व्ययोजयत् । क्षत्रे जातः च यः पूर्वम् अभवत् ब्राह्मणः बलात् ॥२९॥
mahābhāgam vasiṣṭham yaḥ putraiḥ iṣṭaiḥ vyayojayat . kṣatre jātaḥ ca yaḥ pūrvam abhavat brāhmaṇaḥ balāt ..29..
शौचार्थं यो नदीं चक्रे दुर्गमां बहुभिर्जलैः । यां तां पुण्यतमां लोके कौशिकीति विदुर्जनाः ॥३०॥
शौच-अर्थम् यः नदीम् चक्रे दुर्गमाम् बहुभिः जलैः । याम् ताम् पुण्यतमाम् लोके कौशिकी इति विदुः जनाः ॥३०॥
śauca-artham yaḥ nadīm cakre durgamām bahubhiḥ jalaiḥ . yām tām puṇyatamām loke kauśikī iti viduḥ janāḥ ..30..
बभार यत्रास्य पुरा काले दुर्गे महात्मनः । दारान्मतङ्गो धर्मात्मा राजर्षिर्व्याधतां गतः ॥३१॥
बभार यत्र अस्य पुरा काले दुर्गे महात्मनः । दारान् मतङ्गः धर्म-आत्मा राजर्षिः व्याध-ताम् गतः ॥३१॥
babhāra yatra asya purā kāle durge mahātmanaḥ . dārān mataṅgaḥ dharma-ātmā rājarṣiḥ vyādha-tām gataḥ ..31..
अतीतकाले दुर्भिक्षे यत्रैत्य पुनराश्रमम् । मुनिः पारेति नद्या वै नाम चक्रे तदा प्रभुः ॥३२॥
अतीत-काले दुर्भिक्षे यत्र एत्य पुनर् आश्रमम् । मुनिः पार-इति नद्याः वै नाम चक्रे तदा प्रभुः ॥३२॥
atīta-kāle durbhikṣe yatra etya punar āśramam . muniḥ pāra-iti nadyāḥ vai nāma cakre tadā prabhuḥ ..32..
मतङ्गं याजयां चक्रे यत्र प्रीतमनाः स्वयम् । त्वं च सोमं भयाद्यस्य गतः पातुं शुरेश्वर ॥३३॥
मतङ्गम् चक्रे यत्र प्रीत-मनाः स्वयम् । त्वम् च सोमम् भयात् यस्य गतः पातुम् शुर-ईश्वर ॥३३॥
mataṅgam cakre yatra prīta-manāḥ svayam . tvam ca somam bhayāt yasya gataḥ pātum śura-īśvara ..33..
अति नक्षत्रवंशांश्च क्रुद्धो नक्षत्रसम्पदा । प्रति श्रवणपूर्वाणि नक्षत्राणि ससर्ज यः ॥३४॥
अति नक्षत्र-वंशान् च क्रुद्धः नक्षत्र-सम्पदा । प्रति श्रवण-पूर्वाणि नक्षत्राणि ससर्ज यः ॥३४॥
ati nakṣatra-vaṃśān ca kruddhaḥ nakṣatra-sampadā . prati śravaṇa-pūrvāṇi nakṣatrāṇi sasarja yaḥ ..34..
एतानि यस्य कर्माणि तस्याहं भृशमुद्विजे । यथा मां न दहेत्क्रुद्धस्तथाज्ञापय मां विभो ॥३५॥
एतानि यस्य कर्माणि तस्य अहम् भृशम् उद्विजे । यथा माम् न दहेत् क्रुद्धः तथा आज्ञापय माम् विभो ॥३५॥
etāni yasya karmāṇi tasya aham bhṛśam udvije . yathā mām na dahet kruddhaḥ tathā ājñāpaya mām vibho ..35..
तेजसा निर्दहेल्लोकान्कम्पयेद्धरणीं पदा । सङ्क्षिपेच्च महामेरुं तूर्णमावर्तयेत्तथा ॥३६॥
तेजसा निर्दहेत् लोकान् कम्पयेत् धरणीम् पदा । सङ्क्षिपेत् च महा-मेरुम् तूर्णम् आवर्तयेत् तथा ॥३६॥
tejasā nirdahet lokān kampayet dharaṇīm padā . saṅkṣipet ca mahā-merum tūrṇam āvartayet tathā ..36..
तादृशं तपसा युक्तं प्रदीप्तमिव पावकम् । कथमस्मद्विधा बाला जितेन्द्रियमभिस्पृशेत् ॥३७॥
तादृशम् तपसा युक्तम् प्रदीप्तम् इव पावकम् । कथम् अस्मद्विधा बाला जित-इन्द्रियम् अभिस्पृशेत् ॥३७॥
tādṛśam tapasā yuktam pradīptam iva pāvakam . katham asmadvidhā bālā jita-indriyam abhispṛśet ..37..
हुताशनमुखं दीप्तं सूर्यचन्द्राक्षितारकम् । कालजिह्वं सुरश्रेष्ठ कथमस्मद्विधा स्पृशेत् ॥३८॥
हुताशन-मुखम् दीप्तम् सूर्य-चन्द्र-अक्षि-तारकम् । काल-जिह्वम् सुरश्रेष्ठ कथम् अस्मद्विधा स्पृशेत् ॥३८॥
hutāśana-mukham dīptam sūrya-candra-akṣi-tārakam . kāla-jihvam suraśreṣṭha katham asmadvidhā spṛśet ..38..
यमश्च सोमश्च महर्षयश्च; साध्या विश्वे वालखिल्याश्च सर्वे । एतेऽपि यस्योद्विजन्ते प्रभावा; त्कस्मात्तस्मान्मादृशी नोद्विजेत ॥३९॥
यमः च सोमः च महा-ऋषयः च; साध्याः विश्वे वालखिल्याः च सर्वे । एते अपि यस्य उद्विजन्ते; त्कस्मात् तस्मात् मादृशी न उद्विजेत ॥३९॥
yamaḥ ca somaḥ ca mahā-ṛṣayaḥ ca; sādhyāḥ viśve vālakhilyāḥ ca sarve . ete api yasya udvijante; tkasmāt tasmāt mādṛśī na udvijeta ..39..
त्वयैवमुक्ता च कथं समीप; मृषेर्न गच्छेयमहं सुरेन्द्र । रक्षां तु मे चिन्तय देवराज; यथा त्वदर्थं रक्षिताहं चरेयम् ॥४०॥
त्वया एवम् उक्ता च कथम् समीप; मृषेः न गच्छेयम् अहम् सुर-इन्द्र । रक्षाम् तु मे चिन्तय देवराज; यथा त्वद्-अर्थम् रक्षिता अहम् चरेयम् ॥४०॥
tvayā evam uktā ca katham samīpa; mṛṣeḥ na gaccheyam aham sura-indra . rakṣām tu me cintaya devarāja; yathā tvad-artham rakṣitā aham careyam ..40..
कामं तु मे मारुतस्तत्र वासः; प्रक्रीडिताया विवृणोतु देव । भवेच्च मे मन्मथस्तत्र कार्ये; सहायभूतस्तव देवप्रसादात् ॥४१॥
कामम् तु मे मारुतः तत्र वासः; प्रक्रीडितायाः विवृणोतु देव । भवेत् च मे मन्मथः तत्र कार्ये; सहाय-भूतः तव देव-प्रसादात् ॥४१॥
kāmam tu me mārutaḥ tatra vāsaḥ; prakrīḍitāyāḥ vivṛṇotu deva . bhavet ca me manmathaḥ tatra kārye; sahāya-bhūtaḥ tava deva-prasādāt ..41..
वनाच्च वायुः सुरभिः प्रवाये; त्तस्मिन्काले तमृषिं लोभयन्त्याः । तथेत्युक्त्वा विहिते चैव तस्मिं; स्ततो ययौ साश्रमं कौशिकस्य ॥४२॥ 1.71.42
वनात् च वायुः सुरभिः प्रवाये; त् तस्मिन् काले तम् ऋषिम् लोभयन्त्याः । तथा इति उक्त्वा विहिते च एव तस्मिन्; स्ततस् ययौ स आश्रमम् कौशिकस्य ॥४२॥ १।७१।४२
vanāt ca vāyuḥ surabhiḥ pravāye; t tasmin kāle tam ṛṣim lobhayantyāḥ . tathā iti uktvā vihite ca eva tasmin; statas yayau sa āśramam kauśikasya ..42.. 1.71.42

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In