| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

शकुन्तलोवाच॥
एवमुक्तस्तया शक्रः संदिदेश सदागतिम् । प्रातिष्ठत तदा काले मेनका वायुना सह ॥१॥
एवम् उक्तः तया शक्रः संदिदेश सदागतिम् । प्रातिष्ठत तदा काले मेनका वायुना सह ॥१॥
evam uktaḥ tayā śakraḥ saṃdideśa sadāgatim . prātiṣṭhata tadā kāle menakā vāyunā saha ..1..
अथापश्यद्वरारोहा तपसा दग्धकिल्बिषम् । विश्वामित्रं तपस्यन्तं मेनका भीरुराश्रमे ॥२॥
अथा अपश्यत् वरारोहा तपसा दग्ध-किल्बिषम् । विश्वामित्रम् तपस्यन्तम् मेनका भीरुः आश्रमे ॥२॥
athā apaśyat varārohā tapasā dagdha-kilbiṣam . viśvāmitram tapasyantam menakā bhīruḥ āśrame ..2..
अभिवाद्य ततः सा तं प्राक्रीडदृषिसंनिधौ । अपोवाह च वासोऽस्या मारुतः शशिसंनिभम् ॥३॥
अभिवाद्य ततस् सा तम् प्राक्रीडत् ऋषि-संनिधौ । अपोवाह च वासः अस्याः मारुतः शशि-संनिभम् ॥३॥
abhivādya tatas sā tam prākrīḍat ṛṣi-saṃnidhau . apovāha ca vāsaḥ asyāḥ mārutaḥ śaśi-saṃnibham ..3..
सागच्छत्त्वरिता भूमिं वासस्तदभिलिङ्गती । उत्स्मयन्तीव सव्रीडं मारुतं वरवर्णिनी ॥४॥
सा अगच्छत् त्वरिता भूमिम् वासः तत् अभिलिङ्गती । उत्स्मयन्ती इव स व्रीडम् मारुतम् वरवर्णिनी ॥४॥
sā agacchat tvaritā bhūmim vāsaḥ tat abhiliṅgatī . utsmayantī iva sa vrīḍam mārutam varavarṇinī ..4..
गृद्धां वाससि सम्भ्रान्तां मेनकां मुनिसत्तमः । अनिर्देश्यवयोरूपामपश्यद्विवृतां तदा ॥५॥
गृद्धाम् वाससि सम्भ्रान्ताम् मेनकाम् मुनि-सत्तमः । अनिर्देश्य-वयः-रूपाम् अपश्यत् विवृताम् तदा ॥५॥
gṛddhām vāsasi sambhrāntām menakām muni-sattamaḥ . anirdeśya-vayaḥ-rūpām apaśyat vivṛtām tadā ..5..
तस्या रूपगुणं दृष्ट्वा स तु विप्रर्षभस्तदा । चकार भावं संसर्गे तया कामवशं गतः ॥६॥
तस्याः रूप-गुणम् दृष्ट्वा स तु विप्र-ऋषभः तदा । चकार भावम् संसर्गे तया काम-वशम् गतः ॥६॥
tasyāḥ rūpa-guṇam dṛṣṭvā sa tu vipra-ṛṣabhaḥ tadā . cakāra bhāvam saṃsarge tayā kāma-vaśam gataḥ ..6..
न्यमन्त्रयत चाप्येनां सा चाप्यैच्छदनिन्दिता । तौ तत्र सुचिरं कालं वने व्यहरतामुभौ ॥७॥ ( रममाणौ यथाकामं यथैकदिवसं तथा ॥७॥ )
न्यमन्त्रयत च अपि एनाम् सा च अपि ऐच्छत् अनिन्दिता । तौ तत्र सु चिरम् कालम् वने व्यहरताम् उभौ ॥७॥ ( रममाणौ यथाकामम् यथा एक-दिवसम् तथा ॥७॥ )
nyamantrayata ca api enām sā ca api aicchat aninditā . tau tatra su ciram kālam vane vyaharatām ubhau ..7.. ( ramamāṇau yathākāmam yathā eka-divasam tathā ..7.. )
जनयामास स मुनिर्मेनकायां शकुन्तलाम् । प्रस्थे हिमवतो रम्ये मालिनीमभितो नदीम् ॥८॥
जनयामास स मुनिः मेनकायाम् शकुन्तलाम् । प्रस्थे हिमवतः रम्ये मालिनीम् अभितस् नदीम् ॥८॥
janayāmāsa sa muniḥ menakāyām śakuntalām . prasthe himavataḥ ramye mālinīm abhitas nadīm ..8..
जातमुत्सृज्य तं गर्भं मेनका मालिनीमनु । कृतकार्या ततस्तूर्णमगच्छच्छक्रसंसदम् ॥९॥
जातम् उत्सृज्य तम् गर्भम् मेनका मालिनीम् अनु । कृत-कार्या ततस् तूर्णम् अगच्छत् शक्र-संसदम् ॥९॥
jātam utsṛjya tam garbham menakā mālinīm anu . kṛta-kāryā tatas tūrṇam agacchat śakra-saṃsadam ..9..
तं वने विजने गर्भं सिंहव्याघ्रसमाकुले । दृष्ट्वा शयानं शकुनाः समन्तात्पर्यवारयन् ॥१०॥
तम् वने विजने गर्भम् सिंह-व्याघ्र-समाकुले । दृष्ट्वा शयानम् शकुनाः समन्तात् पर्यवारयन् ॥१०॥
tam vane vijane garbham siṃha-vyāghra-samākule . dṛṣṭvā śayānam śakunāḥ samantāt paryavārayan ..10..
नेमां हिंस्युर्वने बालां क्रव्यादा मांसगृद्धिनः । पर्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम् ॥११॥
न इमाम् हिंस्युः वने बालाम् क्रव्यादाः मांस-गृद्धिनः । पर्यरक्षन्त ताम् तत्र शकुन्ताः मेनका-आत्मजाम् ॥११॥
na imām hiṃsyuḥ vane bālām kravyādāḥ māṃsa-gṛddhinaḥ . paryarakṣanta tām tatra śakuntāḥ menakā-ātmajām ..11..
उपस्प्रष्टुं गतश्चाहमपश्यं शयितामिमाम् । निर्जने विपिनेऽरण्ये शकुन्तैः परिवारिताम् ॥१२॥ ( आनयित्वा ततश्चैनां दुहितृत्वे न्ययोजयम् ॥१२॥ )
उपस्प्रष्टुम् गतः च अहम् अपश्यम् शयिताम् इमाम् । निर्जने विपिने अरण्ये शकुन्तैः परिवारिताम् ॥१२॥ ( आनयित्वा ततस् च एनाम् दुहितृ-त्वे न्ययोजयम् ॥१२॥ )
upaspraṣṭum gataḥ ca aham apaśyam śayitām imām . nirjane vipine araṇye śakuntaiḥ parivāritām ..12.. ( ānayitvā tatas ca enām duhitṛ-tve nyayojayam ..12.. )
शरीरकृत्प्राणदाता यस्य चान्नानि भुञ्जते । क्रमेण ते त्रयोऽप्युक्ताः पितरो धर्मनिश्चये ॥१३॥
शरीर-कृत् प्राण-दाता यस्य च अन्नानि भुञ्जते । क्रमेण ते त्रयः अपि उक्ताः पितरः धर्म-निश्चये ॥१३॥
śarīra-kṛt prāṇa-dātā yasya ca annāni bhuñjate . krameṇa te trayaḥ api uktāḥ pitaraḥ dharma-niścaye ..13..
निर्जने च वने यस्माच्छकुन्तैः परिरक्षिता । शकुन्तलेति नामास्याः कृतं चापि ततो मया ॥१४॥
निर्जने च वने यस्मात् शकुन्तैः परिरक्षिता । शकुन्तला इति नाम अस्याः कृतम् च अपि ततस् मया ॥१४॥
nirjane ca vane yasmāt śakuntaiḥ parirakṣitā . śakuntalā iti nāma asyāḥ kṛtam ca api tatas mayā ..14..
एवं दुहितरं विद्धि मम सौम्य शकुन्तलाम् । शकुन्तला च पितरं मन्यते मामनिन्दिता ॥१५॥
एवम् दुहितरम् विद्धि मम सौम्य शकुन्तलाम् । शकुन्तला च पितरम् मन्यते माम् अनिन्दिता ॥१५॥
evam duhitaram viddhi mama saumya śakuntalām . śakuntalā ca pitaram manyate mām aninditā ..15..
एतदाचष्ट पृष्टः सन्मम जन्म महर्षये । सुतां कण्वस्य मामेवं विद्धि त्वं मनुजाधिप ॥१६॥
एतत् आचष्ट पृष्टः सन् मम जन्म महा-ऋषये । सुताम् कण्वस्य माम् एवम् विद्धि त्वम् मनुज-अधिप ॥१६॥
etat ācaṣṭa pṛṣṭaḥ san mama janma mahā-ṛṣaye . sutām kaṇvasya mām evam viddhi tvam manuja-adhipa ..16..
कण्वं हि पितरं मन्ये पितरं स्वमजानती । इति ते कथितं राजन्यथावृत्तं श्रुतं मया ॥१७॥ 1.72.19
कण्वम् हि पितरम् मन्ये पितरम् स्वम् अ जानती । इति ते कथितम् राजन् यथावृत्तम् श्रुतम् मया ॥१७॥ १।७२।१९
kaṇvam hi pitaram manye pitaram svam a jānatī . iti te kathitam rājan yathāvṛttam śrutam mayā ..17.. 1.72.19

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In