| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

दुःषन्त उवाच॥
सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसे । भार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते ॥१॥
सु व्यक्तम् राज-पुत्री त्वम् यथा कल्याणि भाषसे । भार्या मे भव सुश्रोणि ब्रूहि किम् करवाणि ते ॥१॥
su vyaktam rāja-putrī tvam yathā kalyāṇi bhāṣase . bhāryā me bhava suśroṇi brūhi kim karavāṇi te ..1..
सुवर्णमाला वासांसि कुण्डले परिहाटके । नानापत्तनजे शुभ्रे मणिरत्ने च शोभने ॥२॥
सुवर्ण-मालाः वासांसि कुण्डले परिहाटके । नाना पत्तन-जे शुभ्रे मणि-रत्ने च शोभने ॥२॥
suvarṇa-mālāḥ vāsāṃsi kuṇḍale parihāṭake . nānā pattana-je śubhre maṇi-ratne ca śobhane ..2..
आहरामि तवाद्याहं निष्कादीन्यजिनानि च । सर्वं राज्यं तवाद्यास्तु भार्या मे भव शोभने ॥३॥
आहरामि तव अद्य अहम् निष्क-आदीनि अजिनानि च । सर्वम् राज्यम् तव अद्य अस्तु भार्या मे भव शोभने ॥३॥
āharāmi tava adya aham niṣka-ādīni ajināni ca . sarvam rājyam tava adya astu bhāryā me bhava śobhane ..3..
शकुन्तलोवाच॥
फलाहारो गतो राजन्पिता मे इत आश्रमात् । तं मुहूर्तं प्रतीक्षस्व स मां तुभ्यं प्रदास्यति ॥५॥
फल-आहारः गतः राजन् पिता मे इतस् आश्रमात् । तम् मुहूर्तम् प्रतीक्षस्व स माम् तुभ्यम् प्रदास्यति ॥५॥
phala-āhāraḥ gataḥ rājan pitā me itas āśramāt . tam muhūrtam pratīkṣasva sa mām tubhyam pradāsyati ..5..
दुःषन्त उवाच॥
इच्छामि त्वां वरारोहे भजमानामनिन्दिते । त्वदर्थं मां स्थितं विद्धि त्वद्गतं हि मनो मम ॥६॥
इच्छामि त्वाम् वरारोहे भजमानाम् अनिन्दिते । त्वद्-अर्थम् माम् स्थितम् विद्धि त्वद्-गतम् हि मनः मम ॥६॥
icchāmi tvām varārohe bhajamānām anindite . tvad-artham mām sthitam viddhi tvad-gatam hi manaḥ mama ..6..
आत्मनो बन्धुरात्मैव गतिरात्मैव चात्मनः । आत्मनैवात्मनो दानं कर्तुमर्हसि धर्मतः ॥७॥
आत्मनः बन्धुः आत्मा एव गतिः आत्मा एव च आत्मनः । आत्मना एव आत्मनः दानम् कर्तुम् अर्हसि धर्मतः ॥७॥
ātmanaḥ bandhuḥ ātmā eva gatiḥ ātmā eva ca ātmanaḥ . ātmanā eva ātmanaḥ dānam kartum arhasi dharmataḥ ..7..
अष्टावेव समासेन विवाहा धर्मतः स्मृताः । ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः ॥८॥
अष्टौ एव समासेन विवाहाः धर्मतः स्मृताः । ब्राह्मः दैवः तथा एव आर्षः प्राजापत्यः तथा आसुरः ॥८॥
aṣṭau eva samāsena vivāhāḥ dharmataḥ smṛtāḥ . brāhmaḥ daivaḥ tathā eva ārṣaḥ prājāpatyaḥ tathā āsuraḥ ..8..
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः । तेषां धर्मान्यथापूर्वं मनुः स्वायम्भुवोऽब्रवीत् ॥९॥
गान्धर्वः राक्षसः च एव पैशाचः च अष्टमः स्मृतः । तेषाम् धर्म-अन्यथापूर्वम् मनुः स्वायम्भुवः अब्रवीत् ॥९॥
gāndharvaḥ rākṣasaḥ ca eva paiśācaḥ ca aṣṭamaḥ smṛtaḥ . teṣām dharma-anyathāpūrvam manuḥ svāyambhuvaḥ abravīt ..9..
प्रशस्तांश्चतुरः पूर्वान्ब्राह्मणस्योपधारय । षडानुपूर्व्या क्षत्रस्य विद्धि धर्म्याननिन्दिते ॥१०॥
प्रशस्तान् चतुरः पूर्वान् ब्राह्मणस्य उपधारय । षट् आनुपूर्व्या क्षत्रस्य विद्धि धर्म्यान् अनिन्दिते ॥१०॥
praśastān caturaḥ pūrvān brāhmaṇasya upadhāraya . ṣaṭ ānupūrvyā kṣatrasya viddhi dharmyān anindite ..10..
राज्ञां तु राक्षसोऽप्युक्तो विट्शूद्रेष्वासुरः स्मृतः । पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह ॥११॥
राज्ञाम् तु राक्षसः अपि उक्तः विश्-शूद्रेषु आसुरः स्मृतः । पञ्चानाम् तु त्रयः धर्म्याः द्वौ अधर्म्यौ स्मृतौ इह ॥११॥
rājñām tu rākṣasaḥ api uktaḥ viś-śūdreṣu āsuraḥ smṛtaḥ . pañcānām tu trayaḥ dharmyāḥ dvau adharmyau smṛtau iha ..11..
पैशाचश्चासुरश्चैव न कर्तव्यौ कथञ्चन । अनेन विधिना कार्यो धर्मस्यैषा गतिः स्मृता ॥१२॥
पैशाचः च आसुरः च एव न कर्तव्यौ कथञ्चन । अनेन विधिना कार्यः धर्मस्य एषा गतिः स्मृता ॥१२॥
paiśācaḥ ca āsuraḥ ca eva na kartavyau kathañcana . anena vidhinā kāryaḥ dharmasya eṣā gatiḥ smṛtā ..12..
गान्धर्वराक्षसौ क्षत्रे धर्म्यौ तौ मा विशङ्किथाः । पृथग्वा यदि वा मिश्रौ कर्तव्यौ नात्र संशयः ॥१३॥
गान्धर्व-राक्षसौ क्षत्रे धर्म्यौ तौ मा विशङ्किथाः । पृथक् वा यदि वा मिश्रौ कर्तव्यौ न अत्र संशयः ॥१३॥
gāndharva-rākṣasau kṣatre dharmyau tau mā viśaṅkithāḥ . pṛthak vā yadi vā miśrau kartavyau na atra saṃśayaḥ ..13..
सा त्वं मम सकामस्य सकामा वरवर्णिनि । गान्धर्वेण विवाहेन भार्या भवितुमर्हसि ॥१४॥
सा त्वम् मम स कामस्य स कामा वरवर्णिनि । गान्धर्वेण विवाहेन भार्या भवितुम् अर्हसि ॥१४॥
sā tvam mama sa kāmasya sa kāmā varavarṇini . gāndharveṇa vivāhena bhāryā bhavitum arhasi ..14..
शकुन्तलोवाच॥
यदि धर्मपथस्त्वेष यदि चात्मा प्रभुर्मम । प्रदाने पौरवश्रेष्ठ शृणु मे समयं प्रभो ॥१५॥
यदि धर्म-पथः तु एष यदि च आत्मा प्रभुः मम । प्रदाने पौरव-श्रेष्ठ शृणु मे समयम् प्रभो ॥१५॥
yadi dharma-pathaḥ tu eṣa yadi ca ātmā prabhuḥ mama . pradāne paurava-śreṣṭha śṛṇu me samayam prabho ..15..
सत्यं मे प्रतिजानीहि यत्त्वां वक्ष्याम्यहं रहः । मम जायेत यः पुत्रः स भवेत्त्वदनन्तरम् ॥१६॥
सत्यम् मे प्रतिजानीहि यत् त्वाम् वक्ष्यामि अहम् रहः । मम जायेत यः पुत्रः स भवेत् त्वद्-अनन्तरम् ॥१६॥
satyam me pratijānīhi yat tvām vakṣyāmi aham rahaḥ . mama jāyeta yaḥ putraḥ sa bhavet tvad-anantaram ..16..
युवराजो महाराज सत्यमेतद्ब्रवीहि मे । यद्येतदेवं दुःषन्त अस्तु मे सङ्गमस्त्वया ॥१७॥
युवराजः महा-राज सत्यम् एतत् ब्रवीहि मे । यदि एतत् एवम् दुःषन्त अस्तु मे सङ्गमः त्वया ॥१७॥
yuvarājaḥ mahā-rāja satyam etat bravīhi me . yadi etat evam duḥṣanta astu me saṅgamaḥ tvayā ..17..
वैशम्पायन उवाच॥
एवमस्त्विति तां राजा प्रत्युवाचाविचारयन् । अपि च त्वां नयिष्यामि नगरं स्वं शुचिस्मिते ॥१८॥ ( यथा त्वमर्हा सुश्रोणि सत्यमेतद्ब्रवीमि ते ॥१८॥ )
एवम् अस्तु इति ताम् राजा प्रत्युवाच अ विचारयन् । अपि च त्वाम् नयिष्यामि नगरम् स्वम् शुचि-स्मिते ॥१८॥ ( यथा त्वम् अर्हा सुश्रोणि सत्यम् एतत् ब्रवीमि ते ॥१८॥ )
evam astu iti tām rājā pratyuvāca a vicārayan . api ca tvām nayiṣyāmi nagaram svam śuci-smite ..18.. ( yathā tvam arhā suśroṇi satyam etat bravīmi te ..18.. )
एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम् । जग्राह विधिवत्पाणावुवास च तया सह ॥१९॥
एवम् उक्त्वा स राजर्षिः ताम् अनिन्दित-गामिनीम् । जग्राह विधिवत् पाणौ उवास च तया सह ॥१९॥
evam uktvā sa rājarṣiḥ tām anindita-gāminīm . jagrāha vidhivat pāṇau uvāsa ca tayā saha ..19..
विश्वास्य चैनां स प्रायादब्रवीच्च पुनः पुनः । प्रेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम् ॥२०॥ ( तया त्वामानयिष्यामि निवासं स्वं शुचिस्मिते ॥२०॥ )
विश्वास्य च एनाम् स प्रायात् अब्रवीत् च पुनर् पुनर् । प्रेषयिष्ये तव अर्थाय वाहिनीम् चतुरङ्गिणीम् ॥२०॥ ( तया त्वाम् आनयिष्यामि निवासम् स्वम् शुचि-स्मिते ॥२०॥ )
viśvāsya ca enām sa prāyāt abravīt ca punar punar . preṣayiṣye tava arthāya vāhinīm caturaṅgiṇīm ..20.. ( tayā tvām ānayiṣyāmi nivāsam svam śuci-smite ..20.. )
इति तस्याः प्रतिश्रुत्य स नृपो जनमेजय । मनसा चिन्तयन्प्रायात्काश्यपं प्रति पार्थिवः ॥२१॥
इति तस्याः प्रतिश्रुत्य स नृपः जनमेजय । मनसा चिन्तयन् प्रायात् काश्यपम् प्रति पार्थिवः ॥२१॥
iti tasyāḥ pratiśrutya sa nṛpaḥ janamejaya . manasā cintayan prāyāt kāśyapam prati pārthivaḥ ..21..
भगवांस्तपसा युक्तः श्रुत्वा किं नु करिष्यति । एवं सञ्चिन्तयन्नेव प्रविवेश स्वकं पुरम् ॥२२॥
भगवान् तपसा युक्तः श्रुत्वा किम् नु करिष्यति । एवम् सञ्चिन्तयन् एव प्रविवेश स्वकम् पुरम् ॥२२॥
bhagavān tapasā yuktaḥ śrutvā kim nu kariṣyati . evam sañcintayan eva praviveśa svakam puram ..22..
मुहूर्तयाते तस्मिंस्तु कण्वोऽप्याश्रममागमत् । शकुन्तला च पितरं ह्रिया नोपजगाम तम् ॥२३॥
मुहूर्त-याते तस्मिन् तु कण्वः अपि आश्रमम् आगमत् । शकुन्तला च पितरम् ह्रियाः ना उपजगाम तम् ॥२३॥
muhūrta-yāte tasmin tu kaṇvaḥ api āśramam āgamat . śakuntalā ca pitaram hriyāḥ nā upajagāma tam ..23..
विज्ञायाथ च तां कण्वो दिव्यज्ञानो महातपाः । उवाच भगवान्प्रीतः पश्यन्दिव्येन चक्षुषा ॥२४॥
विज्ञाय अथ च ताम् कण्वः दिव्य-ज्ञानः महा-तपाः । उवाच भगवान् प्रीतः पश्यन् दिव्येन चक्षुषा ॥२४॥
vijñāya atha ca tām kaṇvaḥ divya-jñānaḥ mahā-tapāḥ . uvāca bhagavān prītaḥ paśyan divyena cakṣuṣā ..24..
त्वयाद्य राजान्वयया मामनादृत्य यत्कृतः । पुंसा सह समायोगो न स धर्मोपघातकः ॥२५॥
त्वया अद्य राज-अन्वयया माम् अन् आदृत्य यद्-कृतः । पुंसा सह समायोगः न स धर्म-उपघातकः ॥२५॥
tvayā adya rāja-anvayayā mām an ādṛtya yad-kṛtaḥ . puṃsā saha samāyogaḥ na sa dharma-upaghātakaḥ ..25..
क्षत्रियस्य हि गान्धर्वो विवाहः श्रेष्ठ उच्यते । सकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः ॥२६॥
क्षत्रियस्य हि गान्धर्वः विवाहः श्रेष्ठः उच्यते । स कामायाः स कामेन निर्मन्त्रः रहसि स्मृतः ॥२६॥
kṣatriyasya hi gāndharvaḥ vivāhaḥ śreṣṭhaḥ ucyate . sa kāmāyāḥ sa kāmena nirmantraḥ rahasi smṛtaḥ ..26..
धर्मात्मा च महात्मा च दुःषन्तः पुरुषोत्तमः । अभ्यगच्छः पतिं यं त्वं भजमानं शकुन्तले ॥२७॥
धर्म-आत्मा च महात्मा च दुःषन्तः पुरुष-उत्तमः । अभ्यगच्छः पतिम् यम् त्वम् भजमानम् शकुन्तले ॥२७॥
dharma-ātmā ca mahātmā ca duḥṣantaḥ puruṣa-uttamaḥ . abhyagacchaḥ patim yam tvam bhajamānam śakuntale ..27..
महात्मा जनिता लोके पुत्रस्तव महाबलः । य इमां सागरापाङ्गां कृत्स्नां भोक्ष्यति मेदिनीम् ॥२८॥
महात्मा जनिता लोके पुत्रः तव महा-बलः । यः इमाम् सागर-अपाङ्गाम् कृत्स्नाम् भोक्ष्यति मेदिनीम् ॥२८॥
mahātmā janitā loke putraḥ tava mahā-balaḥ . yaḥ imām sāgara-apāṅgām kṛtsnām bhokṣyati medinīm ..28..
परं चाभिप्रयातस्य चक्रं तस्य महात्मनः । भविष्यत्यप्रतिहतं सततं चक्रवर्तिनः ॥२९॥
परम् च अभिप्रयातस्य चक्रम् तस्य महात्मनः । भविष्यति अप्रतिहतम् सततम् चक्रवर्तिनः ॥२९॥
param ca abhiprayātasya cakram tasya mahātmanaḥ . bhaviṣyati apratihatam satatam cakravartinaḥ ..29..
ततः प्रक्षाल्य पादौ सा विश्रान्तं मुनिमब्रवीत् । विनिधाय ततो भारं संनिधाय फलानि च ॥३०॥
ततस् प्रक्षाल्य पादौ सा विश्रान्तम् मुनिम् अब्रवीत् । विनिधाय ततस् भारम् संनिधाय फलानि च ॥३०॥
tatas prakṣālya pādau sā viśrāntam munim abravīt . vinidhāya tatas bhāram saṃnidhāya phalāni ca ..30..
मया पतिर्वृतो योऽसौ दुःषन्तः पुरुषोत्तमः । तस्मै ससचिवाय त्वं प्रसादं कर्तुमर्हसि ॥३१॥
मया पतिः वृतः यः असौ दुःषन्तः पुरुष-उत्तमः । तस्मै स सचिवाय त्वम् प्रसादम् कर्तुम् अर्हसि ॥३१॥
mayā patiḥ vṛtaḥ yaḥ asau duḥṣantaḥ puruṣa-uttamaḥ . tasmai sa sacivāya tvam prasādam kartum arhasi ..31..
कण्व उवाच॥
प्रसन्न एव तस्याहं त्वत्कृते वरवर्णिनि । गृहाण च वरं मत्तस्तत्कृते यदभीप्सितम् ॥३२॥
प्रसन्नः एव तस्य अहम् त्वद्-कृते वरवर्णिनि । गृहाण च वरम् मत्तः तद्-कृते यत् अभीप्सितम् ॥३२॥
prasannaḥ eva tasya aham tvad-kṛte varavarṇini . gṛhāṇa ca varam mattaḥ tad-kṛte yat abhīpsitam ..32..
वैशम्पायन उवाच॥
ततो धर्मिष्ठतां वव्रे राज्याच्चास्खलनं तथा । शकुन्तला पौरवाणां दुःषन्तहितकाम्यया ॥३३॥1.73.34
ततस् धर्मिष्ठ-ताम् वव्रे राज्यात् च अस्खलनम् तथा । शकुन्तला पौरवाणाम् दुःषन्त-हित-काम्यया ॥३३॥१।७३।३४
tatas dharmiṣṭha-tām vavre rājyāt ca askhalanam tathā . śakuntalā pauravāṇām duḥṣanta-hita-kāmyayā ..33..1.73.34

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In