| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
प्रतिज्ञाय तु दुःषन्ते प्रतियाते शकुन्तला । गर्भं सुषाव वामोरुः कुमारममितौजसम् ॥१॥
प्रतिज्ञाय तु दुःषन्ते प्रतियाते शकुन्तला । गर्भम् सुषाव वाम-ऊरुः कुमारम् अमित-ओजसम् ॥१॥
pratijñāya tu duḥṣante pratiyāte śakuntalā . garbham suṣāva vāma-ūruḥ kumāram amita-ojasam ..1..
त्रिषु वर्षेषु पूर्णेषु दिप्तानलसमद्युतिम् । रूपौदार्यगुणोपेतं दौःषन्तिं जनमेजय ॥२॥
त्रिषु वर्षेषु पूर्णेषु दिप्त-अनल-सम-द्युतिम् । रूप-औदार्य-गुण-उपेतम् दौःषन्तिम् जनमेजय ॥२॥
triṣu varṣeṣu pūrṇeṣu dipta-anala-sama-dyutim . rūpa-audārya-guṇa-upetam dauḥṣantim janamejaya ..2..
जातकर्मादिसंस्कारं कण्वः पुण्यकृतां वरः । तस्याथ कारयामास वर्धमानस्य धीमतः ॥३॥
जातकर्म-आदि-संस्कारम् कण्वः पुण्य-कृताम् वरः । तस्य अथ कारयामास वर्धमानस्य धीमतः ॥३॥
jātakarma-ādi-saṃskāram kaṇvaḥ puṇya-kṛtām varaḥ . tasya atha kārayāmāsa vardhamānasya dhīmataḥ ..3..
दन्तैः शुक्लैः शिखरिभिः सिंहसंहननो युवा । चक्राङ्कितकरः श्रीमान्महामूर्धा महाबलः ॥४॥ ( कुमारो देवगर्भाभः स तत्राशु व्यवर्धत ॥४॥ )
दन्तैः शुक्लैः शिखरिभिः सिंह-संहननः युवा । चक्र-अङ्कित-करः श्रीमान् महा-मूर्धा महा-बलः ॥४॥ ( कुमारः देव-गर्भ-आभः स तत्र आशु व्यवर्धत ॥४॥ )
dantaiḥ śuklaiḥ śikharibhiḥ siṃha-saṃhananaḥ yuvā . cakra-aṅkita-karaḥ śrīmān mahā-mūrdhā mahā-balaḥ ..4.. ( kumāraḥ deva-garbha-ābhaḥ sa tatra āśu vyavardhata ..4.. )
षड्वर्ष एव बालः स कण्वाश्रमपदं प्रति । व्याघ्रान्सिंहान्वराहांश्च गजांश्च महिषांस्तथा ॥५॥
षष्-वर्षः एव बालः स कण्व-आश्रम-पदम् प्रति । व्याघ्रान् सिंहान् वराहान् च गजान् च महिषान् तथा ॥५॥
ṣaṣ-varṣaḥ eva bālaḥ sa kaṇva-āśrama-padam prati . vyāghrān siṃhān varāhān ca gajān ca mahiṣān tathā ..5..
बद्ध्वा वृक्षेषु बलवानाश्रमस्य समन्ततः । आरोहन्दमयंश्चैव क्रीडंश्च परिधावति ॥६॥
बद्ध्वा वृक्षेषु बलवान् आश्रमस्य समन्ततः । आरोहन् दमयन् च एव क्रीडन् च परिधावति ॥६॥
baddhvā vṛkṣeṣu balavān āśramasya samantataḥ . ārohan damayan ca eva krīḍan ca paridhāvati ..6..
ततोऽस्य नाम चक्रुस्ते कण्वाश्रमनिवासिनः । अस्त्वयं सर्वदमनः सर्वं हि दमयत्ययम् ॥७॥
ततस् अस्य नाम चक्रुः ते कण्व-आश्रम-निवासिनः । अस्तु अयम् सर्वदमनः सर्वम् हि दमयति अयम् ॥७॥
tatas asya nāma cakruḥ te kaṇva-āśrama-nivāsinaḥ . astu ayam sarvadamanaḥ sarvam hi damayati ayam ..7..
स सर्वदमनो नाम कुमारः समपद्यत । विक्रमेणौजसा चैव बलेन च समन्वितः ॥८॥
स सर्वदमनः नाम कुमारः समपद्यत । विक्रमेण ओजसा च एव बलेन च समन्वितः ॥८॥
sa sarvadamanaḥ nāma kumāraḥ samapadyata . vikrameṇa ojasā ca eva balena ca samanvitaḥ ..8..
तं कुमारमृषिर्दृष्ट्वा कर्म चास्यातिमानुषम् । समयो यौवराज्यायेत्यब्रवीच्च शकुन्तलाम् ॥९॥
तम् कुमारम् ऋषिः दृष्ट्वा कर्म च अस्य अति मानुषम् । समयः यौवराज्याय इति अब्रवीत् च शकुन्तलाम् ॥९॥
tam kumāram ṛṣiḥ dṛṣṭvā karma ca asya ati mānuṣam . samayaḥ yauvarājyāya iti abravīt ca śakuntalām ..9..
तस्य तद्बलमाज्ञाय कण्वः शिष्यानुवाच ह । शकुन्तलामिमां शीघ्रं सहपुत्रामितोऽऽश्रमात् ॥१०॥ ( भर्त्रे प्रापयताद्यैव सर्वलक्षणपूजिताम् ॥१०॥ )
तस्य तत् बलम् आज्ञाय कण्वः शिष्यान् उवाच ह । शकुन्तलाम् इमाम् शीघ्रम् सह पुत्राम् इतस् आश्रमात् ॥१०॥ ( भर्त्रे प्रापयत अद्य एव सर्व-लक्षण-पूजिताम् ॥१०॥ )
tasya tat balam ājñāya kaṇvaḥ śiṣyān uvāca ha . śakuntalām imām śīghram saha putrām itas āśramāt ..10.. ( bhartre prāpayata adya eva sarva-lakṣaṇa-pūjitām ..10.. )
नारीणां चिरवासो हि बान्धवेषु न रोचते । कीर्तिचारित्रधर्मघ्नस्तस्मान्नयत माचिरम् ॥११॥
नारीणाम् चिर-वासः हि बान्धवेषु न रोचते । कीर्ति-चारित्र-धर्म-घ्नः तस्मात् नयत माचिरम् ॥११॥
nārīṇām cira-vāsaḥ hi bāndhaveṣu na rocate . kīrti-cāritra-dharma-ghnaḥ tasmāt nayata māciram ..11..
तथेत्युक्त्वा तु ते सर्वे प्रातिष्ठन्तामितौजसः । शकुन्तलां पुरस्कृत्य सपुत्रां गजसाह्वयम् ॥१२॥
तथा इति उक्त्वा तु ते सर्वे प्रातिष्ठन्त अमित-ओजसः । शकुन्तलाम् पुरस्कृत्य स पुत्राम् गजसाह्वयम् ॥१२॥
tathā iti uktvā tu te sarve prātiṣṭhanta amita-ojasaḥ . śakuntalām puraskṛtya sa putrām gajasāhvayam ..12..
गृहीत्वामरगर्भाभं पुत्रं कमललोचनम् । आजगाम ततः शुभ्रा दुःषन्तविदिताद्वनात् ॥१३॥
गृहीत्वा अमर-गर्भ-आभम् पुत्रम् कमल-लोचनम् । आजगाम ततस् शुभ्रा दुःषन्त-विदितात् वनात् ॥१३॥
gṛhītvā amara-garbha-ābham putram kamala-locanam . ājagāma tatas śubhrā duḥṣanta-viditāt vanāt ..13..
अभिसृत्य च राजानं विदिता सा प्रवेशिता । सह तेनैव पुत्रेण तरुणादित्यवर्चसा ॥१४॥
अभिसृत्य च राजानम् विदिता सा प्रवेशिता । सह तेन एव पुत्रेण तरुण-आदित्य-वर्चसा ॥१४॥
abhisṛtya ca rājānam viditā sā praveśitā . saha tena eva putreṇa taruṇa-āditya-varcasā ..14..
पूजयित्वा यथान्यायमब्रवीत्तं शकुन्तला । अयं पुत्रस्त्वया राजन्यौवराज्येऽभिषिच्यताम् ॥१५॥
पूजयित्वा यथान्यायम् अब्रवीत् तम् शकुन्तला । अयम् पुत्रः त्वया राजन् यौवराज्ये अभिषिच्यताम् ॥१५॥
pūjayitvā yathānyāyam abravīt tam śakuntalā . ayam putraḥ tvayā rājan yauvarājye abhiṣicyatām ..15..
त्वया ह्ययं सुतो राजन्मय्युत्पन्नः सुरोपमः । यथासमयमेतस्मिन्वर्तस्व पुरुषोत्तम ॥१६॥
त्वया हि अयम् सुतः राजन् मयि उत्पन्नः सुर-उपमः । यथासमयम् एतस्मिन् वर्तस्व पुरुषोत्तम ॥१६॥
tvayā hi ayam sutaḥ rājan mayi utpannaḥ sura-upamaḥ . yathāsamayam etasmin vartasva puruṣottama ..16..
यथा समागमे पूर्वं कृतः स समयस्त्वया । तं स्मरस्व महाभाग कण्वाश्रमपदं प्रति ॥१७॥
यथा समागमे पूर्वम् कृतः स समयः त्वया । तम् स्मरस्व महाभाग कण्व-आश्रम-पदम् प्रति ॥१७॥
yathā samāgame pūrvam kṛtaḥ sa samayaḥ tvayā . tam smarasva mahābhāga kaṇva-āśrama-padam prati ..17..
सोऽथ श्रुत्वैव तद्वाक्यं तस्या राजा स्मरन्नपि । अब्रवीन्न स्मरामीति कस्य त्वं दुष्टतापसि ॥१८॥
सः अथ श्रुत्वा एव तत् वाक्यम् तस्याः राजा स्मरन् अपि । अब्रवीत् न स्मरामि इति कस्य त्वम् दुष्ट-तापसि ॥१८॥
saḥ atha śrutvā eva tat vākyam tasyāḥ rājā smaran api . abravīt na smarāmi iti kasya tvam duṣṭa-tāpasi ..18..
धर्मकामार्थसम्बन्धं न स्मरामि त्वया सह । गच्छ वा तिष्ठ वा कामं यद्वापीच्छसि तत्कुरु ॥१९॥
धर्म-काम-अर्थ-सम्बन्धम् न स्मरामि त्वया सह । गच्छ वा तिष्ठ वा कामम् यत् वा अपि इच्छसि तत् कुरु ॥१९॥
dharma-kāma-artha-sambandham na smarāmi tvayā saha . gaccha vā tiṣṭha vā kāmam yat vā api icchasi tat kuru ..19..
सैवमुक्ता वरारोहा व्रीडितेव मनस्विनी । विसञ्ज्ञेव च दुःखेन तस्थौ स्थाणुरिवाचला ॥२०॥
सा एवम् उक्ता वरारोहा व्रीडिता इव मनस्विनी । विसञ्ज्ञा इव च दुःखेन तस्थौ स्थाणुः इव अचला ॥२०॥
sā evam uktā varārohā vrīḍitā iva manasvinī . visañjñā iva ca duḥkhena tasthau sthāṇuḥ iva acalā ..20..
संरम्भामर्षताम्राक्षी स्फुरमाणोष्ठसम्पुटा । कटाक्षैर्निर्दहन्तीव तिर्यग्राजानमैक्षत ॥२१॥
संरम्भ-अमर्ष-ताम्र-अक्षी स्फुरमाण-उष्ठ-सम्पुटा । कटाक्षैः निर्दहन्ती इव तिर्यक् राजानम् ऐक्षत ॥२१॥
saṃrambha-amarṣa-tāmra-akṣī sphuramāṇa-uṣṭha-sampuṭā . kaṭākṣaiḥ nirdahantī iva tiryak rājānam aikṣata ..21..
आकारं गूहमाना च मन्युनाभिसमीरिता । तपसा सम्भृतं तेजो धारयामास वै तदा ॥२२॥
आकारम् गूहमाना च मन्युना अभिसमीरिता । तपसा सम्भृतम् तेजः धारयामास वै तदा ॥२२॥
ākāram gūhamānā ca manyunā abhisamīritā . tapasā sambhṛtam tejaḥ dhārayāmāsa vai tadā ..22..
सा मुहूर्तमिव ध्यात्वा दुःखामर्षसमन्विता । भर्तारमभिसम्प्रेक्ष्य क्रुद्धा वचनमब्रवीत् ॥२३॥
सा मुहूर्तम् इव ध्यात्वा दुःख-अमर्ष-समन्विता । भर्तारम् अभिसम्प्रेक्ष्य क्रुद्धा वचनम् अब्रवीत् ॥२३॥
sā muhūrtam iva dhyātvā duḥkha-amarṣa-samanvitā . bhartāram abhisamprekṣya kruddhā vacanam abravīt ..23..
जानन्नपि महाराज कस्मादेवं प्रभाषसे । न जानामीति निःसङ्गं यथान्यः प्राकृतस्तथा ॥२४॥
जानन् अपि महा-राज कस्मात् एवम् प्रभाषसे । न जानामि इति निःसङ्गम् यथा अन्यः प्राकृतः तथा ॥२४॥
jānan api mahā-rāja kasmāt evam prabhāṣase . na jānāmi iti niḥsaṅgam yathā anyaḥ prākṛtaḥ tathā ..24..
अत्र ते हृदयं वेद सत्यस्यैवानृतस्य च । कल्याण बत साक्षी त्वं मात्मानमवमन्यथाः ॥२५॥
अत्र ते हृदयम् वेद सत्यस्य एव अनृतस्य च । कल्याण बत साक्षी त्वम् मा आत्मानम् अवमन्यथाः ॥२५॥
atra te hṛdayam veda satyasya eva anṛtasya ca . kalyāṇa bata sākṣī tvam mā ātmānam avamanyathāḥ ..25..
योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥२६॥
यः अन्यथा सन्तम् आत्मानम् अन्यथा प्रतिपद्यते । किम् तेन न कृतम् पापम् चोरेण आत्म-अपहारिणा ॥२६॥
yaḥ anyathā santam ātmānam anyathā pratipadyate . kim tena na kṛtam pāpam coreṇa ātma-apahāriṇā ..26..
एकोऽहमस्मीति च मन्यसे त्वं; न हृच्छयं वेत्सि मुनिं पुराणम् । यो वेदिता कर्मणः पापकस्य; तस्यान्तिके त्वं वृजिनं करोषि ॥२७॥
एकः अहम् अस्मि इति च मन्यसे त्वम्; न हृच्छयम् वेत्सि मुनिम् पुराणम् । यः वेदिता कर्मणः पापकस्य; तस्य अन्तिके त्वम् वृजिनम् करोषि ॥२७॥
ekaḥ aham asmi iti ca manyase tvam; na hṛcchayam vetsi munim purāṇam . yaḥ veditā karmaṇaḥ pāpakasya; tasya antike tvam vṛjinam karoṣi ..27..
मन्यते पापकं कृत्वा न कश्चिद्वेत्ति मामिति । विदन्ति चैनं देवाश्च स्वश्चैवान्तरपूरुषः ॥२८॥
मन्यते पापकम् कृत्वा न कश्चिद् वेत्ति माम् इति । विदन्ति च एनम् देवाः च स्वः च एव अन्तरपूरुषः ॥२८॥
manyate pāpakam kṛtvā na kaścid vetti mām iti . vidanti ca enam devāḥ ca svaḥ ca eva antarapūruṣaḥ ..28..
आदित्यचन्द्रावनिलानलौ च; द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये; धर्मश्च जानाति नरस्य वृत्तम् ॥२९॥
आदित्य-चन्द्रौ अनिल-अनलौ च; द्यौः भूमिः आपः हृदयम् यमः च । अहर् च रात्रिः च उभे च सन्ध्ये; धर्मः च जानाति नरस्य वृत्तम् ॥२९॥
āditya-candrau anila-analau ca; dyauḥ bhūmiḥ āpaḥ hṛdayam yamaḥ ca . ahar ca rātriḥ ca ubhe ca sandhye; dharmaḥ ca jānāti narasya vṛttam ..29..
यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम् । हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति ॥३०॥
यमः वैवस्वतः तस्य निर्यातयति दुष्कृतम् । हृदि स्थितः कर्म-साक्षी क्षेत्रज्ञः यस्य तुष्यति ॥३०॥
yamaḥ vaivasvataḥ tasya niryātayati duṣkṛtam . hṛdi sthitaḥ karma-sākṣī kṣetrajñaḥ yasya tuṣyati ..30..
न तु तुष्यति यस्यैष पुरुषस्य दुरात्मनः । तं यमः पापकर्माणं निर्यातयति दुष्कृतम् ॥३१॥
न तु तुष्यति यस्य एष पुरुषस्य दुरात्मनः । तम् यमः पाप-कर्माणम् निर्यातयति दुष्कृतम् ॥३१॥
na tu tuṣyati yasya eṣa puruṣasya durātmanaḥ . tam yamaḥ pāpa-karmāṇam niryātayati duṣkṛtam ..31..
अवमन्यात्मनात्मानमन्यथा प्रतिपद्यते । देवा न तस्य श्रेयांसो यस्यात्मापि न कारणम् ॥३२॥
अवमन्य आत्मना आत्मानम् अन्यथा प्रतिपद्यते । देवाः न तस्य श्रेयांसः यस्य आत्मा अपि न कारणम् ॥३२॥
avamanya ātmanā ātmānam anyathā pratipadyate . devāḥ na tasya śreyāṃsaḥ yasya ātmā api na kāraṇam ..32..
स्वयं प्राप्तेति मामेवं मावमंस्थाः पतिव्रताम् । अर्घ्यार्हां नार्चयसि मां स्वयं भार्यामुपस्थिताम् ॥३३॥
स्वयम् प्राप्ता इति माम् एवम् मा अवमंस्थाः पतिव्रताम् । अर्घ्य-अर्हाम् ना अर्चयसि माम् स्वयम् भार्याम् उपस्थिताम् ॥३३॥
svayam prāptā iti mām evam mā avamaṃsthāḥ pativratām . arghya-arhām nā arcayasi mām svayam bhāryām upasthitām ..33..
किमर्थं मां प्राकृतवदुपप्रेक्षसि संसदि । न खल्वहमिदं शून्ये रौमि किं न शृणोषि मे ॥३४॥
किमर्थम् माम् प्राकृत-वत् उपप्रेक्षसि संसदि । न खलु अहम् इदम् शून्ये रौमि किम् न शृणोषि मे ॥३४॥
kimartham mām prākṛta-vat upaprekṣasi saṃsadi . na khalu aham idam śūnye raumi kim na śṛṇoṣi me ..34..
यदि मे याचमानाया वचनं न करिष्यसि । दुःषन्त शतधा मूर्धा ततस्तेऽद्य फलिष्यति ॥३५॥
यदि मे याचमानायाः वचनम् न करिष्यसि । दुःषन्त शतधा मूर्धा ततस् ते अद्य फलिष्यति ॥३५॥
yadi me yācamānāyāḥ vacanam na kariṣyasi . duḥṣanta śatadhā mūrdhā tatas te adya phaliṣyati ..35..
भार्यां पतिः सम्प्रविश्य स यस्माज्जायते पुनः । जायाया इति जायात्वं पुराणाः कवयो विदुः ॥३६॥
भार्याम् पतिः सम्प्रविश्य स यस्मात् जायते पुनर् । जायायाः इति जाया-त्वम् पुराणाः कवयः विदुः ॥३६॥
bhāryām patiḥ sampraviśya sa yasmāt jāyate punar . jāyāyāḥ iti jāyā-tvam purāṇāḥ kavayaḥ viduḥ ..36..
यदागमवतः पुंसस्तदपत्यं प्रजायते । तत्तारयति सन्तत्या पूर्वप्रेतान्पितामहान् ॥३७॥
यत् आगमवतः पुंसः तत् अपत्यम् प्रजायते । तत् तारयति सन्तत्या पूर्वप्रेतान् पितामहान् ॥३७॥
yat āgamavataḥ puṃsaḥ tat apatyam prajāyate . tat tārayati santatyā pūrvapretān pitāmahān ..37..
पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः । तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ॥३८॥
पुन्नाम्नः नरकात् यस्मात् पितरम् त्रायते सुतः । तस्मात् पुत्रः इति प्रोक्तः स्वयम् एव स्वयम्भुवा ॥३८॥
punnāmnaḥ narakāt yasmāt pitaram trāyate sutaḥ . tasmāt putraḥ iti proktaḥ svayam eva svayambhuvā ..38..
सा भार्या या गृहे दक्षा सा भार्या या प्रजावती । सा भार्या या पतिप्राणा सा भार्या या पतिव्रता ॥३९॥
सा भार्या या गृहे दक्षा सा भार्या या प्रजावती । सा भार्या या पतिप्राणा सा भार्या या पतिव्रता ॥३९॥
sā bhāryā yā gṛhe dakṣā sā bhāryā yā prajāvatī . sā bhāryā yā patiprāṇā sā bhāryā yā pativratā ..39..
अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा । भार्या मूलं त्रिवर्गस्य भार्या मित्रं मरिष्यतः ॥४०॥
अर्धम् भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा । भार्या मूलम् त्रिवर्गस्य भार्या मित्रम् मरिष्यतः ॥४०॥
ardham bhāryā manuṣyasya bhāryā śreṣṭhatamaḥ sakhā . bhāryā mūlam trivargasya bhāryā mitram mariṣyataḥ ..40..
भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः । भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियान्विताः ॥४१॥
भार्यावन्तः क्रियावन्तः स भार्याः गृहमेधिनः । भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रिया अन्विताः ॥४१॥
bhāryāvantaḥ kriyāvantaḥ sa bhāryāḥ gṛhamedhinaḥ . bhāryāvantaḥ pramodante bhāryāvantaḥ śriyā anvitāḥ ..41..
सखायः प्रविविक्तेषु भवन्त्येताः प्रियंवदाः । पितरो धर्मकार्येषु भवन्त्यार्तस्य मातरः ॥४२॥
सखायः प्रविविक्तेषु भवन्ति एताः प्रियंवदाः । पितरः धर्म-कार्येषु भवन्ति आर्तस्य मातरः ॥४२॥
sakhāyaḥ pravivikteṣu bhavanti etāḥ priyaṃvadāḥ . pitaraḥ dharma-kāryeṣu bhavanti ārtasya mātaraḥ ..42..
कान्तारेष्वपि विश्रामो नरस्याध्वनिकस्य वै । यः सदारः स विश्वास्यस्तस्माद्दाराः परा गतिः ॥४३॥
कान्तारेषु अपि विश्रामः नरस्य आध्वनिकस्य वै । यः स दारः स विश्वास्यः तस्मात् दाराः परा गतिः ॥४३॥
kāntāreṣu api viśrāmaḥ narasya ādhvanikasya vai . yaḥ sa dāraḥ sa viśvāsyaḥ tasmāt dārāḥ parā gatiḥ ..43..
संसरन्तमपि प्रेतं विषमेष्वेकपातिनम् । भार्यैवान्वेति भर्तारं सततं या पतिव्रता ॥४४॥
संसरन्तम् अपि प्रेतम् विषमेषु एकपातिनम् । भार्या एव अन्वेति भर्तारम् सततम् या पतिव्रता ॥४४॥
saṃsarantam api pretam viṣameṣu ekapātinam . bhāryā eva anveti bhartāram satatam yā pativratā ..44..
प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते । पूर्वं मृतं च भर्तारं पश्चात्साध्व्यनुगच्छति ॥४५॥
प्रथमम् संस्थिता भार्या पतिम् प्रेत्य प्रतीक्षते । पूर्वम् मृतम् च भर्तारम् पश्चात् साध्वी अनुगच्छति ॥४५॥
prathamam saṃsthitā bhāryā patim pretya pratīkṣate . pūrvam mṛtam ca bhartāram paścāt sādhvī anugacchati ..45..
एतस्मात्कारणाद्राजन्पाणिग्रहणमिष्यते । यदाप्नोति पतिर्भार्यामिह लोके परत्र च ॥४६॥
एतस्मात् कारणात् राजन् पाणिग्रहणम् इष्यते । यदा आप्नोति पतिः भार्याम् इह लोके परत्र च ॥४६॥
etasmāt kāraṇāt rājan pāṇigrahaṇam iṣyate . yadā āpnoti patiḥ bhāryām iha loke paratra ca ..46..
आत्मात्मनैव जनितः पुत्र इत्युच्यते बुधैः । तस्माद्भार्यां नरः पश्येन्मातृवत्पुत्रमातरम् ॥४७॥
आत्म-आत्मना एव जनितः पुत्रः इति उच्यते बुधैः । तस्मात् भार्याम् नरः पश्येत् मातृ-वत् पुत्र-मातरम् ॥४७॥
ātma-ātmanā eva janitaḥ putraḥ iti ucyate budhaiḥ . tasmāt bhāryām naraḥ paśyet mātṛ-vat putra-mātaram ..47..
भार्यायां जनितं पुत्रमादर्शे स्वमिवाननम् । ह्लादते जनिता प्रेष्क्य स्वर्गं प्राप्येव पुण्यकृत् ॥४८॥
भार्यायाम् जनितम् पुत्रम् आदर्शे स्वम् इव आननम् । ह्लादते जनिता स्वर्गम् प्राप्य इव पुण्य-कृत् ॥४८॥
bhāryāyām janitam putram ādarśe svam iva ānanam . hlādate janitā svargam prāpya iva puṇya-kṛt ..48..
दह्यमाना मनोदुःखैर्व्याधिभिश्चातुरा नराः । ह्लादन्ते स्वेषु दारेषु घर्मार्ताः सलिलेष्विव ॥४९॥
दह्यमानाः मनः-दुःखैः व्याधिभिः च आतुराः नराः । ह्लादन्ते स्वेषु दारेषु घर्म-आर्ताः सलिलेषु इव ॥४९॥
dahyamānāḥ manaḥ-duḥkhaiḥ vyādhibhiḥ ca āturāḥ narāḥ . hlādante sveṣu dāreṣu gharma-ārtāḥ salileṣu iva ..49..
सुसंरब्धोऽपि रामाणां न ब्रूयादप्रियं बुधः । रतिं प्रीतिं च धर्मं च तास्वायत्तमवेक्ष्य च ॥५०॥
सु संरब्धः अपि रामाणाम् न ब्रूयात् अप्रियम् बुधः । रतिम् प्रीतिम् च धर्मम् च तासु आयत्तम् अवेक्ष्य च ॥५०॥
su saṃrabdhaḥ api rāmāṇām na brūyāt apriyam budhaḥ . ratim prītim ca dharmam ca tāsu āyattam avekṣya ca ..50..
आत्मनो जन्मनः क्षेत्रं पुण्यं रामाः सनातनम् । ऋषीणामपि का शक्तिः स्रष्टुं रामामृते प्रजाः ॥५१॥
आत्मनः जन्मनः क्षेत्रम् पुण्यम् रामाः सनातनम् । ऋषीणाम् अपि का शक्तिः स्रष्टुम् रामाम् ऋते प्रजाः ॥५१॥
ātmanaḥ janmanaḥ kṣetram puṇyam rāmāḥ sanātanam . ṛṣīṇām api kā śaktiḥ sraṣṭum rāmām ṛte prajāḥ ..51..
परिपत्य यदा सूनुर्धरणीरेणुगुण्ठितः । पितुराश्लिष्यतेऽङ्गानि किमिवास्त्यधिकं ततः ॥५२॥
परिपत्य यदा सूनुः धरणी-रेणु-गुण्ठितः । पितुः आश्लिष्यते अङ्गानि किम् इव अस्ति अधिकम् ततस् ॥५२॥
paripatya yadā sūnuḥ dharaṇī-reṇu-guṇṭhitaḥ . pituḥ āśliṣyate aṅgāni kim iva asti adhikam tatas ..52..
स त्वं स्वयमनुप्राप्तं साभिलाषमिमं सुतम् । प्रेक्षमाणं च काक्षेण किमर्थमवमन्यसे ॥५३॥
स त्वम् स्वयम् अनुप्राप्तम् स अभिलाषम् इमम् सुतम् । प्रेक्षमाणम् च काक्षेण किमर्थम् अवमन्यसे ॥५३॥
sa tvam svayam anuprāptam sa abhilāṣam imam sutam . prekṣamāṇam ca kākṣeṇa kimartham avamanyase ..53..
अण्डानि बिभ्रति स्वानि न भिन्दन्ति पिपीलिकाः । न भरेथाः कथं नु त्वं धर्मज्ञः सन्स्वमात्मजम् ॥५४॥
अण्डानि बिभ्रति स्वानि न भिन्दन्ति पिपीलिकाः । न भरेथाः कथम् नु त्वम् धर्म-ज्ञः सन् स्वम् आत्मजम् ॥५४॥
aṇḍāni bibhrati svāni na bhindanti pipīlikāḥ . na bharethāḥ katham nu tvam dharma-jñaḥ san svam ātmajam ..54..
न वाससां न रामाणां नापां स्पर्शस्तथा सुखः । शिशोरालिङ्ग्यमानस्य स्पर्शः सूनोर्यथा सुखः ॥५५॥
न वाससाम् न रामाणाम् न अपाम् स्पर्शः तथा सुखः । शिशोः आलिङ्ग्यमानस्य स्पर्शः सूनोः यथा सुखः ॥५५॥
na vāsasām na rāmāṇām na apām sparśaḥ tathā sukhaḥ . śiśoḥ āliṅgyamānasya sparśaḥ sūnoḥ yathā sukhaḥ ..55..
ब्राह्मणो द्विपदां श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् । गुरुर्गरीयसां श्रेष्ठः पुत्रः स्पर्शवतां वरः ॥५६॥
ब्राह्मणः द्विपदाम् श्रेष्ठः गौः वरिष्ठा चतुष्पदाम् । गुरुः गरीयसाम् श्रेष्ठः पुत्रः स्पर्शवताम् वरः ॥५६॥
brāhmaṇaḥ dvipadām śreṣṭhaḥ gauḥ variṣṭhā catuṣpadām . guruḥ garīyasām śreṣṭhaḥ putraḥ sparśavatām varaḥ ..56..
स्पृशतु त्वां समाश्लिष्य पुत्रोऽयं प्रियदर्शनः । पुत्रस्पर्शात्सुखतरः स्पर्शो लोके न विद्यते ॥५७॥
स्पृशतु त्वाम् समाश्लिष्य पुत्रः अयम् प्रिय-दर्शनः । पुत्र-स्पर्शात् सुखतरः स्पर्शः लोके न विद्यते ॥५७॥
spṛśatu tvām samāśliṣya putraḥ ayam priya-darśanaḥ . putra-sparśāt sukhataraḥ sparśaḥ loke na vidyate ..57..
त्रिषु वर्षेषु पूर्णेषु प्रजाताहमरिंदम । इमं कुमारं राजेन्द्र तव शोकप्रणाशनम् ॥५८॥
त्रिषु वर्षेषु पूर्णेषु प्रजाता अहम् अरिंदम । इमम् कुमारम् राज-इन्द्र तव शोक-प्रणाशनम् ॥५८॥
triṣu varṣeṣu pūrṇeṣu prajātā aham ariṃdama . imam kumāram rāja-indra tava śoka-praṇāśanam ..58..
आहर्ता वाजिमेधस्य शतसङ्ख्यस्य पौरव । इति वागन्तरिक्षे मां सूतकेऽभ्यवदत्पुरा ॥५९॥
आहर्ता वाजिमेधस्य शत-सङ्ख्यस्य पौरव । इति वाच् अन्तरिक्षे माम् सूतके अभ्यवदत् पुरा ॥५९॥
āhartā vājimedhasya śata-saṅkhyasya paurava . iti vāc antarikṣe mām sūtake abhyavadat purā ..59..
ननु नामाङ्कमारोप्य स्नेहाद्ग्रामान्तरं गताः । मूर्ध्नि पुत्रानुपाघ्राय प्रतिनन्दन्ति मानवाः ॥६०॥
ननु नाम अङ्कम् आरोप्य स्नेहात् ग्राम-अन्तरम् गताः । मूर्ध्नि पुत्रान् उपाघ्राय प्रतिनन्दन्ति मानवाः ॥६०॥
nanu nāma aṅkam āropya snehāt grāma-antaram gatāḥ . mūrdhni putrān upāghrāya pratinandanti mānavāḥ ..60..
वेदेष्वपि वदन्तीमं मन्त्रवादं द्विजातयः । जातकर्मणि पुत्राणां तवापि विदितं तथा ॥६१॥
वेदेषु अपि वदन्ति इमम् मन्त्र-वादम् द्विजातयः । जातकर्मणि पुत्राणाम् तव अपि विदितम् तथा ॥६१॥
vedeṣu api vadanti imam mantra-vādam dvijātayaḥ . jātakarmaṇi putrāṇām tava api viditam tathā ..61..
अङ्गादङ्गात्सम्भवसि हृदयादभिजायसे । आत्मा वै पुत्रनामासि स जीव शरदः शतम् ॥६२॥
अङ्गात् अङ्गात् सम्भवसि हृदयात् अभिजायसे । आत्मा वै पुत्र-नामा असि स जीव शरदः शतम् ॥६२॥
aṅgāt aṅgāt sambhavasi hṛdayāt abhijāyase . ātmā vai putra-nāmā asi sa jīva śaradaḥ śatam ..62..
पोषो हि त्वदधीनो मे सन्तानमपि चाक्षयम् । तस्मात्त्वं जीव मे वत्स सुसुखी शरदां शतम् ॥६३॥
पोषः हि त्वद्-अधीनः मे सन्तानम् अपि च अक्षयम् । तस्मात् त्वम् जीव मे वत्स सु सुखी शरदाम् शतम् ॥६३॥
poṣaḥ hi tvad-adhīnaḥ me santānam api ca akṣayam . tasmāt tvam jīva me vatsa su sukhī śaradām śatam ..63..
त्वदङ्गेभ्यः प्रसूतोऽयं पुरुषात्पुरुषोऽपरः । सरसीवामलेऽऽत्मानं द्वितीयं पश्य मे सुतम् ॥६४॥
त्वद्-अङ्गेभ्यः प्रसूतः अयम् पुरुषात् पुरुषः अपरः । सरसि इव अमले आत्मानम् द्वितीयम् पश्य मे सुतम् ॥६४॥
tvad-aṅgebhyaḥ prasūtaḥ ayam puruṣāt puruṣaḥ aparaḥ . sarasi iva amale ātmānam dvitīyam paśya me sutam ..64..
यथा ह्याहवनीयोऽग्निर्गार्हपत्यात्प्रणीयते । तथा त्वत्तः प्रसूतोऽयं त्वमेकः सन्द्विधा कृतः ॥६५॥
यथा हि आहवनीयः अग्निः गार्हपत्यात् प्रणीयते । तथा त्वत्तः प्रसूतः अयम् त्वम् एकः सन् द्विधा कृतः ॥६५॥
yathā hi āhavanīyaḥ agniḥ gārhapatyāt praṇīyate . tathā tvattaḥ prasūtaḥ ayam tvam ekaḥ san dvidhā kṛtaḥ ..65..
मृगापकृष्टेन हि ते मृगयां परिधावता । अहमासादिता राजन्कुमारी पितुराश्रमे ॥६६॥
मृग-अपकृष्टेन हि ते मृगयाम् परिधावता । अहम् आसादिता राजन् कुमारी पितुः आश्रमे ॥६६॥
mṛga-apakṛṣṭena hi te mṛgayām paridhāvatā . aham āsāditā rājan kumārī pituḥ āśrame ..66..
उर्वशी पूर्वचित्तिश्च सहजन्या च मेनका । विश्वाची च घृताची च षडेवाप्सरसां वराः ॥६७॥
उर्वशी पूर्वचित्तिः च सहजन्या च मेनका । विश्वाची च घृताची च षड् एव अप्सरसाम् वराः ॥६७॥
urvaśī pūrvacittiḥ ca sahajanyā ca menakā . viśvācī ca ghṛtācī ca ṣaḍ eva apsarasām varāḥ ..67..
तासां मां मेनका नाम ब्रह्मयोनिर्वराप्सराः । दिवः सम्प्राप्य जगतीं विश्वामित्रादजीजनत् ॥६८॥
तासाम् माम् मेनका नाम ब्रह्म-योनिः वर-अप्सराः । दिवः सम्प्राप्य जगतीम् विश्वामित्रात् अजीजनत् ॥६८॥
tāsām mām menakā nāma brahma-yoniḥ vara-apsarāḥ . divaḥ samprāpya jagatīm viśvāmitrāt ajījanat ..68..
सा मां हिमवतः पृष्ठे सुषुवे मेनकाप्सराः । अवकीर्य च मां याता परात्मजमिवासती ॥६९॥
सा माम् हिमवतः पृष्ठे सुषुवे मेनका अप्सराः । अवकीर्य च माम् याता पर-आत्मजम् इव असती ॥६९॥
sā mām himavataḥ pṛṣṭhe suṣuve menakā apsarāḥ . avakīrya ca mām yātā para-ātmajam iva asatī ..69..
किं नु कर्माशुभं पूर्वं कृतवत्यस्मि जन्मनि । यदहं बान्धवैस्त्यक्ता बाल्ये सम्प्रति च त्वया ॥७०॥
किम् नु कर्म अशुभम् पूर्वम् कृतवती अस्मि जन्मनि । यत् अहम् बान्धवैः त्यक्ता बाल्ये सम्प्रति च त्वया ॥७०॥
kim nu karma aśubham pūrvam kṛtavatī asmi janmani . yat aham bāndhavaiḥ tyaktā bālye samprati ca tvayā ..70..
कामं त्वया परित्यक्ता गमिष्याम्यहमाश्रमम् । इमं तु बालं सन्त्यक्तुं नार्हस्यात्मजमात्मना ॥७१॥
कामम् त्वया परित्यक्ता गमिष्यामि अहम् आश्रमम् । इमम् तु बालम् सन् त्यक्तुम् ना अर्हसि आत्मजम् आत्मना ॥७१॥
kāmam tvayā parityaktā gamiṣyāmi aham āśramam . imam tu bālam san tyaktum nā arhasi ātmajam ātmanā ..71..
दुःषन्त उवाच॥
न पुत्रमभिजानामि त्वयि जातं शकुन्तले । असत्यवचना नार्यः कस्ते श्रद्धास्यते वचः ॥७२॥
न पुत्रम् अभिजानामि त्वयि जातम् शकुन्तले । असत्य-वचनाः नार्यः कः ते श्रद्धास्यते वचः ॥७२॥
na putram abhijānāmi tvayi jātam śakuntale . asatya-vacanāḥ nāryaḥ kaḥ te śraddhāsyate vacaḥ ..72..
मेनका निरनुक्रोशा बन्धकी जननी तव । यया हिमवतः पृष्ठे निर्माल्येव प्रवेरिता ॥७३॥
मेनका निरनुक्रोशा बन्धकी जननी तव । यया हिमवतः पृष्ठे निर्माल्या इव प्रवेरिता ॥७३॥
menakā niranukrośā bandhakī jananī tava . yayā himavataḥ pṛṣṭhe nirmālyā iva praveritā ..73..
स चापि निरनुक्रोशः क्षत्रयोनिः पिता तव । विश्वामित्रो ब्राह्मणत्वे लुब्धः कामपरायणः ॥७४॥
स च अपि निरनुक्रोशः क्षत्र-योनिः पिता तव । विश्वामित्रः ब्राह्मण-त्वे लुब्धः काम-परायणः ॥७४॥
sa ca api niranukrośaḥ kṣatra-yoniḥ pitā tava . viśvāmitraḥ brāhmaṇa-tve lubdhaḥ kāma-parāyaṇaḥ ..74..
मेनकाप्सरसां श्रेष्ठा महर्षीणां च ते पिता । तयोरपत्यं कस्मात्त्वं पुंश्चलीवाभिधास्यसि ॥७५॥
मेनका-अप्सरसाम् श्रेष्ठाः महा-ऋषीणाम् च ते पिता । तयोः अपत्यम् कस्मात् त्वम् पुंश्चली इव अभिधास्यसि ॥७५॥
menakā-apsarasām śreṣṭhāḥ mahā-ṛṣīṇām ca te pitā . tayoḥ apatyam kasmāt tvam puṃścalī iva abhidhāsyasi ..75..
अश्रद्धेयमिदं वाक्यं कथयन्ती न लज्जसे । विशेषतो मत्सकाशे दुष्टतापसि गम्यताम् ॥७६॥
अश्रद्धेयम् इदम् वाक्यम् कथयन्ती न लज्जसे । विशेषतः मद्-सकाशे दुष्ट-तापसि गम्यताम् ॥७६॥
aśraddheyam idam vākyam kathayantī na lajjase . viśeṣataḥ mad-sakāśe duṣṭa-tāpasi gamyatām ..76..
क्व महर्षिः सदैवोग्रः साप्सरा क्व च मेनका । क्व च त्वमेवं कृपणा तापसीवेषधारिणी ॥७७॥
क्व महा-ऋषिः सदा एव उग्रः सा अप्सराः क्व च मेनका । क्व च त्वम् एवम् कृपणा तापसी-वेष-धारिणी ॥७७॥
kva mahā-ṛṣiḥ sadā eva ugraḥ sā apsarāḥ kva ca menakā . kva ca tvam evam kṛpaṇā tāpasī-veṣa-dhāriṇī ..77..
अतिकायश्च पुत्रस्ते बालोऽपि बलवानयम् । कथमल्पेन कालेन शालस्कन्ध इवोद्गतः ॥७८॥
अतिकायः च पुत्रः ते बालः अपि बलवान् अयम् । कथम् अल्पेन कालेन शाल-स्कन्धः इव उद्गतः ॥७८॥
atikāyaḥ ca putraḥ te bālaḥ api balavān ayam . katham alpena kālena śāla-skandhaḥ iva udgataḥ ..78..
सुनिकृष्टा च योनिस्ते पुंश्चली प्रतिभासि मे । यदृच्छया कामरागाज्जाता मेनकया ह्यसि ॥७९॥
सुनिकृष्टा च योनिः ते पुंश्चली प्रतिभासि मे । यदृच्छया काम-रागात् जाता मेनकया हि असि ॥७९॥
sunikṛṣṭā ca yoniḥ te puṃścalī pratibhāsi me . yadṛcchayā kāma-rāgāt jātā menakayā hi asi ..79..
सर्वमेतत्परोक्षं मे यत्त्वं वदसि तापसि । नाहं त्वामभिजानामि यथेष्टं गम्यतां त्वया ॥८०॥ 1.74.81
सर्वम् एतत् परोक्षम् मे यत् त्वम् वदसि तापसि । न अहम् त्वाम् अभिजानामि यथेष्टम् गम्यताम् त्वया ॥८०॥ १।७४।८१
sarvam etat parokṣam me yat tvam vadasi tāpasi . na aham tvām abhijānāmi yatheṣṭam gamyatām tvayā ..80.. 1.74.81

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In