| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

शकुन्तलोवाच॥
राजन्सर्षपमात्राणि परच्छिद्राणि पश्यसि । आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि ॥१॥ 1.74.82
राजन् सर्षप-मात्राणि पर-छिद्राणि पश्यसि । आत्मनः बिल्व-मात्राणि पश्यन् अपि न पश्यसि ॥१॥ १।७४।८२
rājan sarṣapa-mātrāṇi para-chidrāṇi paśyasi . ātmanaḥ bilva-mātrāṇi paśyan api na paśyasi ..1.. 1.74.82
मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम् । ममैवोद्रिच्यते जन्म दुःषन्त तव जन्मतः ॥२॥
मेनका त्रिदशेषु एव त्रिदशाः च अनु मेनकाम् । मम एव उद्रिच्यते जन्म दुःषन्त तव जन्मतः ॥२॥
menakā tridaśeṣu eva tridaśāḥ ca anu menakām . mama eva udricyate janma duḥṣanta tava janmataḥ ..2..
क्षितावटसि राजंस्त्वमन्तरिक्षे चराम्यहम् । आवयोरन्तरं पश्य मेरुसर्षपयोरिव ॥३॥
क्षितौ अटसि राजन् त्वम् अन्तरिक्षे चरामि अहम् । आवयोः अन्तरम् पश्य मेरु-सर्षपयोः इव ॥३॥
kṣitau aṭasi rājan tvam antarikṣe carāmi aham . āvayoḥ antaram paśya meru-sarṣapayoḥ iva ..3..
महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च । भवनान्यनुसंयामि प्रभावं पश्य मे नृप ॥४॥
महा-इन्द्रस्य कुबेरस्य यमस्य वरुणस्य च । भवनानि अनुसंयामि प्रभावम् पश्य मे नृप ॥४॥
mahā-indrasya kuberasya yamasya varuṇasya ca . bhavanāni anusaṃyāmi prabhāvam paśya me nṛpa ..4..
सत्यश्चापि प्रवादोऽयं यं प्रवक्ष्यामि तेऽनघ । निदर्शनार्थं न द्वेषात्तच्छ्रुत्वा क्षन्तुमर्हसि ॥५॥
सत्यः च अपि प्रवादः अयम् यम् प्रवक्ष्यामि ते अनघ । निदर्शन-अर्थम् न द्वेषात् तत् श्रुत्वा क्षन्तुम् अर्हसि ॥५॥
satyaḥ ca api pravādaḥ ayam yam pravakṣyāmi te anagha . nidarśana-artham na dveṣāt tat śrutvā kṣantum arhasi ..5..
विरूपो यावदादर्शे नात्मनः पश्यते मुखम् । मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम् ॥६॥
विरूपः यावत् आदर्शे न आत्मनः पश्यते मुखम् । मन्यते तावत् आत्मानम् अन्येभ्यः रूपवत्तरम् ॥६॥
virūpaḥ yāvat ādarśe na ātmanaḥ paśyate mukham . manyate tāvat ātmānam anyebhyaḥ rūpavattaram ..6..
यदा तु मुखमादर्शे विकृतं सोऽभिवीक्षते । तदेतरं विजानाति आत्मानं नेतरं जनम् ॥७॥
यदा तु मुखम् आदर्शे विकृतम् सः अभिवीक्षते । तदा इतरम् विजानाति आत्मानम् न इतरम् जनम् ॥७॥
yadā tu mukham ādarśe vikṛtam saḥ abhivīkṣate . tadā itaram vijānāti ātmānam na itaram janam ..7..
अतीव रूपसम्पन्नो न किञ्चिदवमन्यते । अतीव जल्पन्दुर्वाचो भवतीह विहेठकः ॥८॥
अतीव रूप-सम्पन्नः न किञ्चिद् अवमन्यते । अतीव जल्पन् दुर्वाचः भवति इह विहेठकः ॥८॥
atīva rūpa-sampannaḥ na kiñcid avamanyate . atīva jalpan durvācaḥ bhavati iha viheṭhakaḥ ..8..
मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः । अशुभं वाक्यमादत्ते पुरीषमिव सूकरः ॥९॥
मूर्खः हि जल्पताम् पुंसाम् श्रुत्वा वाचः शुभ-अशुभाः । अशुभम् वाक्यम् आदत्ते पुरीषम् इव सूकरः ॥९॥
mūrkhaḥ hi jalpatām puṃsām śrutvā vācaḥ śubha-aśubhāḥ . aśubham vākyam ādatte purīṣam iva sūkaraḥ ..9..
प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः । गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसः ॥१०॥
प्राज्ञः तु जल्पताम् पुंसाम् श्रुत्वा वाचः शुभ-अशुभाः । गुणवत्-वाक्यम् आदत्ते हंसः क्षीरम् इव अम्भसः ॥१०॥
prājñaḥ tu jalpatām puṃsām śrutvā vācaḥ śubha-aśubhāḥ . guṇavat-vākyam ādatte haṃsaḥ kṣīram iva ambhasaḥ ..10..
अन्यान्परिवदन्साधुर्यथा हि परितप्यते । तथा परिवदन्नन्यांस्तुष्टो भवति दुर्जनः ॥११॥
अन्यान् परिवदन् साधुः यथा हि परितप्यते । तथा परिवदन् अन्यान् तुष्टः भवति दुर्जनः ॥११॥
anyān parivadan sādhuḥ yathā hi paritapyate . tathā parivadan anyān tuṣṭaḥ bhavati durjanaḥ ..11..
अभिवाद्य यथा वृद्धान्सन्तो गच्छन्ति निर्वृतिम् । एवं सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः ॥१२॥
अभिवाद्य यथा वृद्धान् सन्तः गच्छन्ति निर्वृतिम् । एवम् सत्-जनम् आक्रुश्य मूर्खः भवति निर्वृतः ॥१२॥
abhivādya yathā vṛddhān santaḥ gacchanti nirvṛtim . evam sat-janam ākruśya mūrkhaḥ bhavati nirvṛtaḥ ..12..
सुखं जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः । यत्र वाच्याः परैः सन्तः परानाहुस्तथाविधान् ॥१३॥
सुखम् जीवन्ति अदोष-ज्ञाः मूर्खाः दोष-अनुदर्शिनः । यत्र वाच्याः परैः सन्तः परान् आहुः तथाविधान् ॥१३॥
sukham jīvanti adoṣa-jñāḥ mūrkhāḥ doṣa-anudarśinaḥ . yatra vācyāḥ paraiḥ santaḥ parān āhuḥ tathāvidhān ..13..
अतो हास्यतरं लोके किञ्चिदन्यन्न विद्यते । यत्र दुर्जन इत्याह दुर्जनः सज्जनं स्वयम् ॥१४॥
अतस् हास्यतरम् लोके किञ्चिद् अन्यत् न विद्यते । यत्र दुर्जनः इति आह दुर्जनः सत्-जनम् स्वयम् ॥१४॥
atas hāsyataram loke kiñcid anyat na vidyate . yatra durjanaḥ iti āha durjanaḥ sat-janam svayam ..14..
सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव । अनास्तिकोऽप्युद्विजते जनः किं पुनरास्तिकः ॥१५॥
सत्य-धर्म-च्युतात् पुंसः क्रुद्धात् आशीविषात् इव । अनास्तिकः अपि उद्विजते जनः किम् पुनर् आस्तिकः ॥१५॥
satya-dharma-cyutāt puṃsaḥ kruddhāt āśīviṣāt iva . anāstikaḥ api udvijate janaḥ kim punar āstikaḥ ..15..
स्वयमुत्पाद्य वै पुत्रं सदृशं योऽवमन्यते । तस्य देवाः श्रियं घ्नन्ति न च लोकानुपाश्नुते ॥१६॥
स्वयम् उत्पाद्य वै पुत्रम् सदृशम् यः अवमन्यते । तस्य देवाः श्रियम् घ्नन्ति न च लोकान् उपाश्नुते ॥१६॥
svayam utpādya vai putram sadṛśam yaḥ avamanyate . tasya devāḥ śriyam ghnanti na ca lokān upāśnute ..16..
कुलवंशप्रतिष्ठां हि पितरः पुत्रमब्रुवन् । उत्तमं सर्वधर्माणां तस्मात्पुत्रं न सन्त्यजेत् ॥१७॥
कुल-वंश-प्रतिष्ठाम् हि पितरः पुत्रम् अब्रुवन् । उत्तमम् सर्व-धर्माणाम् तस्मात् पुत्रम् न सन्त्यजेत् ॥१७॥
kula-vaṃśa-pratiṣṭhām hi pitaraḥ putram abruvan . uttamam sarva-dharmāṇām tasmāt putram na santyajet ..17..
स्वपत्नीप्रभवान्पञ्च लब्धान्क्रीतान्विवर्धितान् । कृतानन्यासु चोत्पन्नान्पुत्रान्वै मनुरब्रवीत् ॥१८॥
स्व-पत्नी-प्रभवान् पञ्च लब्धान् क्रीतान् विवर्धितान् । कृतान् अन्यासु च उत्पन्नान् पुत्रान् वै मनुः अब्रवीत् ॥१८॥
sva-patnī-prabhavān pañca labdhān krītān vivardhitān . kṛtān anyāsu ca utpannān putrān vai manuḥ abravīt ..18..
धर्मकीर्त्यावहा नृणां मनसः प्रीतिवर्धनाः । त्रायन्ते नरकाज्जाताः पुत्रा धर्मप्लवाः पितृन् ॥१९॥
धर्म-कीर्ति-आवहाः नृणाम् मनसः प्रीति-वर्धनाः । त्रायन्ते नरकात् जाताः पुत्राः धर्म-प्लवाः पितृन् ॥१९॥
dharma-kīrti-āvahāḥ nṛṇām manasaḥ prīti-vardhanāḥ . trāyante narakāt jātāḥ putrāḥ dharma-plavāḥ pitṛn ..19..
स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुमर्हसि । आत्मानं सत्यधर्मौ च पालयानो महीपते ॥२०॥ ( नरेन्द्रसिंह कपटं न वोढुं त्वमिहार्हसि ॥२०॥ )
स त्वम् नृपति-शार्दूल न पुत्रम् त्यक्तुम् अर्हसि । आत्मानम् सत्य-धर्मौ च पालयानः महीपते ॥२०॥ ( नरेन्द्र-सिंह कपटम् न वोढुम् त्वम् इह अर्हसि ॥२०॥ )
sa tvam nṛpati-śārdūla na putram tyaktum arhasi . ātmānam satya-dharmau ca pālayānaḥ mahīpate ..20.. ( narendra-siṃha kapaṭam na voḍhum tvam iha arhasi ..20.. )
वरं कूपशताद्वापी वरं वापीशतात्क्रतुः । वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् ॥२१॥
वरम् कूप-शतात् वापी वरम् वापी-शतात् क्रतुः । वरम् क्रतु-शतात् पुत्रः सत्यम् पुत्र-शतात् वरम् ॥२१॥
varam kūpa-śatāt vāpī varam vāpī-śatāt kratuḥ . varam kratu-śatāt putraḥ satyam putra-śatāt varam ..21..
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥२२॥
अश्वमेध-सहस्रम् च सत्यम् च तुलया धृतम् । अश्वमेध-सहस्रात् हि सत्यम् एव विशिष्यते ॥२२॥
aśvamedha-sahasram ca satyam ca tulayā dhṛtam . aśvamedha-sahasrāt hi satyam eva viśiṣyate ..22..
सर्ववेदाधिगमनं सर्वतीर्थावगाहनम् । सत्यं च वदतो राजन्समं वा स्यान्न वा समम् ॥२३॥
सर्व-वेद-अधिगमनम् सर्व-तीर्थ-अवगाहनम् । सत्यम् च वदतः राजन् समम् वा स्यात् न वा समम् ॥२३॥
sarva-veda-adhigamanam sarva-tīrtha-avagāhanam . satyam ca vadataḥ rājan samam vā syāt na vā samam ..23..
नास्ति सत्यात्परो धर्मो न सत्याद्विद्यते परम् । न हि तीव्रतरं किञ्चिदनृतादिह विद्यते ॥२४॥
न अस्ति सत्यात् परः धर्मः न सत्यात् विद्यते परम् । न हि तीव्रतरम् किञ्चिद् अनृतात् इह विद्यते ॥२४॥
na asti satyāt paraḥ dharmaḥ na satyāt vidyate param . na hi tīvrataram kiñcid anṛtāt iha vidyate ..24..
राजन्सत्यं परं ब्रह्म सत्यं च समयः परः । मा त्याक्षीः समयं राजन्सत्यं सङ्गतमस्तु ते ॥२५॥
राजन् सत्यम् परम् ब्रह्म सत्यम् च समयः परः । मा त्याक्षीः समयम् राजन् सत्यम् सङ्गतम् अस्तु ते ॥२५॥
rājan satyam param brahma satyam ca samayaḥ paraḥ . mā tyākṣīḥ samayam rājan satyam saṅgatam astu te ..25..
अनृते चेत्प्रसङ्गस्ते श्रद्दधासि न चेत्स्वयम् । आत्मनो हन्त गच्छामि त्वादृशे नास्ति सङ्गतम् ॥२६॥
अनृते चेद् प्रसङ्गः ते श्रद्दधासि न चेद् स्वयम् । आत्मनः हन्त गच्छामि त्वादृशे ना अस्ति सङ्गतम् ॥२६॥
anṛte ced prasaṅgaḥ te śraddadhāsi na ced svayam . ātmanaḥ hanta gacchāmi tvādṛśe nā asti saṅgatam ..26..
ऋतेऽपि त्वयि दुःषन्त शैलराजावतंसकाम् । चतुरन्तामिमामुर्वीं पुत्रो मे पालयिष्यति ॥२७॥ ( वैशम्पायन उवाच॥ )
ऋते अपि त्वयि दुःषन्त शैलराज-अवतंसकाम् । चतुर्-अन्ताम् इमाम् उर्वीम् पुत्रः मे पालयिष्यति ॥२७॥ ( वैशम्पायनः उवाच॥ )
ṛte api tvayi duḥṣanta śailarāja-avataṃsakām . catur-antām imām urvīm putraḥ me pālayiṣyati ..27.. ( vaiśampāyanaḥ uvāca.. )
एतावदुक्त्वा वचनं प्रातिष्ठत शकुन्तला । अथान्तरिक्षे दुःषन्तं वागुवाचाशरीरिणी ॥२८॥ ( ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्चावृतं तदा ॥२८॥ )
एतावत् उक्त्वा वचनम् प्रातिष्ठत शकुन्तला । अथ अन्तरिक्षे दुःषन्तम् वाच् उवाच अशरीरिणी ॥२८॥ ( ऋत्विज्-पुरोहित-आचार्यैः मन्त्रिभिः च आवृतम् तदा ॥२८॥ )
etāvat uktvā vacanam prātiṣṭhata śakuntalā . atha antarikṣe duḥṣantam vāc uvāca aśarīriṇī ..28.. ( ṛtvij-purohita-ācāryaiḥ mantribhiḥ ca āvṛtam tadā ..28.. )
भस्त्रा माता पितुः पुत्रो येन जातः स एव सः । भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् ॥२९॥
भस्त्रा माता पितुः पुत्रः येन जातः सः एव सः । भरस्व पुत्रम् दुःषन्त मा अवमंस्थाः शकुन्तलाम् ॥२९॥
bhastrā mātā pituḥ putraḥ yena jātaḥ saḥ eva saḥ . bharasva putram duḥṣanta mā avamaṃsthāḥ śakuntalām ..29..
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् । त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥३०॥
रेतः-धाः पुत्रः उन्नयति नरदेव यम-क्षयात् । त्वम् च अस्य धाता गर्भस्य सत्यम् आह शकुन्तला ॥३०॥
retaḥ-dhāḥ putraḥ unnayati naradeva yama-kṣayāt . tvam ca asya dhātā garbhasya satyam āha śakuntalā ..30..
जाया जनयते पुत्रमात्मनोऽङ्गं द्विधा कृतम् । तस्माद्भरस्व दुःषन्त पुत्रं शाकुन्तलं नृप ॥३१॥
जाया जनयते पुत्रम् आत्मनः अङ्गम् द्विधा कृतम् । तस्मात् भरस्व दुःषन्त पुत्रम् शाकुन्तलम् नृप ॥३१॥
jāyā janayate putram ātmanaḥ aṅgam dvidhā kṛtam . tasmāt bharasva duḥṣanta putram śākuntalam nṛpa ..31..
अभूतिरेषा कस्त्यज्याज्जीवञ्जीवन्तमात्मजम् । शाकुन्तलं महात्मानं दौःषन्तिं भर पौरव ॥३२॥
अभूतिः एषा कः त्यज्यात् जीवन् जीवन्तम् आत्मजम् । शाकुन्तलम् महात्मानम् दौःषन्तिम् भर पौरव ॥३२॥
abhūtiḥ eṣā kaḥ tyajyāt jīvan jīvantam ātmajam . śākuntalam mahātmānam dauḥṣantim bhara paurava ..32..
भर्तव्योऽयं त्वया यस्मादस्माकं वचनादपि । तस्माद्भवत्वयं नाम्ना भरतो नाम ते सुतः ॥३३॥
भर्तव्यः अयम् त्वया यस्मात् अस्माकम् वचनात् अपि । तस्मात् भवतु अयम् नाम्ना भरतः नाम ते सुतः ॥३३॥
bhartavyaḥ ayam tvayā yasmāt asmākam vacanāt api . tasmāt bhavatu ayam nāmnā bharataḥ nāma te sutaḥ ..33..
तच्छ्रुत्वा पौरवो राजा व्याहृतं वै दिवौकसाम् । पुरोहितममात्यांश्च सम्प्रहृष्टोऽब्रवीदिदम् ॥३४॥
तत् श्रुत्वा पौरवः राजा व्याहृतम् वै दिवौकसाम् । पुरोहितम् अमात्यान् च सम्प्रहृष्टः अब्रवीत् इदम् ॥३४॥
tat śrutvā pauravaḥ rājā vyāhṛtam vai divaukasām . purohitam amātyān ca samprahṛṣṭaḥ abravīt idam ..34..
शृण्वन्त्वेतद्भवन्तोऽस्य देवदूतस्य भाषितम् । अहमप्येवमेवैनं जानामि स्वयमात्मजम् ॥३५॥
शृण्वन्तु एतत् भवन्तः अस्य देव-दूतस्य भाषितम् । अहम् अपि एवम् एव एनम् जानामि स्वयम् आत्मजम् ॥३५॥
śṛṇvantu etat bhavantaḥ asya deva-dūtasya bhāṣitam . aham api evam eva enam jānāmi svayam ātmajam ..35..
यद्यहं वचनादेव गृह्णीयामिममात्मजम् । भवेद्धि शङ्का लोकस्य नैवं शुद्धो भवेदयम् ॥३६॥
यदि अहम् वचनात् एव गृह्णीयाम् इमम् आत्मजम् । भवेत् हि शङ्का लोकस्य ना एवम् शुद्धः भवेत् अयम् ॥३६॥
yadi aham vacanāt eva gṛhṇīyām imam ātmajam . bhavet hi śaṅkā lokasya nā evam śuddhaḥ bhavet ayam ..36..
तं विशोध्य तदा राजा देवदूतेन भारत । हृष्टः प्रमुदितश्चापि प्रतिजग्राह तं सुतम् ॥३७॥
तम् विशोध्य तदा राजा देव-दूतेन भारत । हृष्टः प्रमुदितः च अपि प्रतिजग्राह तम् सुतम् ॥३७॥
tam viśodhya tadā rājā deva-dūtena bhārata . hṛṣṭaḥ pramuditaḥ ca api pratijagrāha tam sutam ..37..
मूर्ध्नि चैनमुपाघ्राय सस्नेहं परिषस्वजे । सभाज्यमानो विप्रैश्च स्तूयमानश्च बन्दिभिः ॥३८॥ ( स मुदं परमां लेभे पुत्रसंस्पर्शजां नृपः ॥३८॥ )
मूर्ध्नि च एनम् उपाघ्राय स स्नेहम् परिषस्वजे । सभाज्यमानः विप्रैः च स्तूयमानः च बन्दिभिः ॥३८॥ ( स मुदम् परमाम् लेभे पुत्र-संस्पर्श-जाम् नृपः ॥३८॥ )
mūrdhni ca enam upāghrāya sa sneham pariṣasvaje . sabhājyamānaḥ vipraiḥ ca stūyamānaḥ ca bandibhiḥ ..38.. ( sa mudam paramām lebhe putra-saṃsparśa-jām nṛpaḥ ..38.. )
तां चैव भार्यां धर्मज्ञः पूजयामास धर्मतः । अब्रवीच्चैव तां राजा सान्त्वपूर्वमिदं वचः ॥३९॥
ताम् च एव भार्याम् धर्म-ज्ञः पूजयामास धर्मतः । अब्रवीत् च एव ताम् राजा सान्त्व-पूर्वम् इदम् वचः ॥३९॥
tām ca eva bhāryām dharma-jñaḥ pūjayāmāsa dharmataḥ . abravīt ca eva tām rājā sāntva-pūrvam idam vacaḥ ..39..
कृतो लोकपरोक्षोऽयं सम्बन्धो वै त्वया सह । तस्मादेतन्मया देवि त्वच्छुद्ध्यर्थं विचारितम् ॥४०॥
कृतः लोक-परोक्षः अयम् सम्बन्धः वै त्वया सह । तस्मात् एतत् मया देवि त्वद्-शुद्धि-अर्थम् विचारितम् ॥४०॥
kṛtaḥ loka-parokṣaḥ ayam sambandhaḥ vai tvayā saha . tasmāt etat mayā devi tvad-śuddhi-artham vicāritam ..40..
मन्यते चैव लोकस्ते स्त्रीभावान्मयि सङ्गतम् । पुत्रश्चायं वृतो राज्ये मया तस्माद्विचारितम् ॥४१॥
मन्यते च एव लोकः ते स्त्री-भावात् मयि सङ्गतम् । पुत्रः च अयम् वृतः राज्ये मया तस्मात् विचारितम् ॥४१॥
manyate ca eva lokaḥ te strī-bhāvāt mayi saṅgatam . putraḥ ca ayam vṛtaḥ rājye mayā tasmāt vicāritam ..41..
यच्च कोपितयात्यर्थं त्वयोक्तोऽस्म्यप्रियं प्रिये । प्रणयिन्या विशालाक्षि तत्क्षान्तं ते मया शुभे ॥४२॥
यत् च कोपितया अत्यर्थम् त्वया उक्तः अस्मि अप्रियम् प्रिये । प्रणयिन्याः विशाल-अक्षि तत् क्षान्तम् ते मया शुभे ॥४२॥
yat ca kopitayā atyartham tvayā uktaḥ asmi apriyam priye . praṇayinyāḥ viśāla-akṣi tat kṣāntam te mayā śubhe ..42..
तामेवमुक्त्वा राजर्षिर्दुःषन्तो महिषीं प्रियाम् । वासोभिरन्नपानैश्च पूजयामास भारत ॥४३॥
ताम् एवम् उक्त्वा राजर्षिः दुःषन्तः महिषीम् प्रियाम् । वासोभिः अन्न-पानैः च पूजयामास भारत ॥४३॥
tām evam uktvā rājarṣiḥ duḥṣantaḥ mahiṣīm priyām . vāsobhiḥ anna-pānaiḥ ca pūjayāmāsa bhārata ..43..
दुःषन्तश्च ततो राजा पुत्रं शाकुन्तलं तदा । भरतं नामतः कृत्वा यौवराज्येऽभ्यषेचयत् ॥४४॥
दुःषन्तः च ततस् राजा पुत्रम् शाकुन्तलम् तदा । भरतम् नामतः कृत्वा यौवराज्ये अभ्यषेचयत् ॥४४॥
duḥṣantaḥ ca tatas rājā putram śākuntalam tadā . bharatam nāmataḥ kṛtvā yauvarājye abhyaṣecayat ..44..
तस्य तत्प्रथितं चक्रं प्रावर्तत महात्मनः । भास्वरं दिव्यमजितं लोकसंनादनं महत् ॥४५॥
तस्य तत् प्रथितम् चक्रम् प्रावर्तत महात्मनः । भास्वरम् दिव्यम् अजितम् लोक-संनादनम् महत् ॥४५॥
tasya tat prathitam cakram prāvartata mahātmanaḥ . bhāsvaram divyam ajitam loka-saṃnādanam mahat ..45..
स विजित्य महीपालांश्चकार वशवर्तिनः । चचार च सतां धर्मं प्राप चानुत्तमं यशः ॥४६॥
स विजित्य महीपालान् चकार वश-वर्तिनः । चचार च सताम् धर्मम् प्राप च अनुत्तमम् यशः ॥४६॥
sa vijitya mahīpālān cakāra vaśa-vartinaḥ . cacāra ca satām dharmam prāpa ca anuttamam yaśaḥ ..46..
स राजा चक्रवर्त्यासीत्सार्वभौमः प्रतापवान् । ईजे च बहुभिर्यज्ञैर्यथा शक्रो मरुत्पतिः ॥४७॥
स राजा चक्रवर्ती आसीत् सार्वभौमः प्रतापवान् । ईजे च बहुभिः यज्ञैः यथा शक्रः मरुत्पतिः ॥४७॥
sa rājā cakravartī āsīt sārvabhaumaḥ pratāpavān . īje ca bahubhiḥ yajñaiḥ yathā śakraḥ marutpatiḥ ..47..
याजयामास तं कण्वो दक्षवद्भूरिदक्षिणम् । श्रीमान्गोविततं नाम वाजिमेधमवाप सः ॥४८॥ ( यस्मिन्सहस्रं पद्मानां कण्वाय भरतो ददौ ॥४८॥ )
याजयामास तम् कण्वः दक्ष-वत् भूरि-दक्षिणम् । श्रीमान् गो-विततम् नाम वाजिमेधम् अवाप सः ॥४८॥ ( यस्मिन् सहस्रम् पद्मानाम् कण्वाय भरतः ददौ ॥४८॥ )
yājayāmāsa tam kaṇvaḥ dakṣa-vat bhūri-dakṣiṇam . śrīmān go-vitatam nāma vājimedham avāpa saḥ ..48.. ( yasmin sahasram padmānām kaṇvāya bharataḥ dadau ..48.. )
भरताद्भारती कीर्तिर्येनेदं भारतं कुलम् । अपरे ये च पूर्वे च भारता इति विश्रुताः ॥४९॥
भरतात् भारती कीर्तिः येन इदम् भारतम् कुलम् । अपरे ये च पूर्वे च भारताः इति विश्रुताः ॥४९॥
bharatāt bhāratī kīrtiḥ yena idam bhāratam kulam . apare ye ca pūrve ca bhāratāḥ iti viśrutāḥ ..49..
भरतस्यान्ववाये हि देवकल्पा महौजसः । बभूवुर्ब्रह्मकल्पाश्च बहवो राजसत्तमाः ॥५०॥
भरतस्य अन्ववाये हि देव-कल्पाः महा-ओजसः । बभूवुः ब्रह्म-कल्पाः च बहवः राज-सत्तमाः ॥५०॥
bharatasya anvavāye hi deva-kalpāḥ mahā-ojasaḥ . babhūvuḥ brahma-kalpāḥ ca bahavaḥ rāja-sattamāḥ ..50..
येषामपरिमेयानि नामधेयानि सर्वशः । तेषां तु ते यथामुख्यं कीर्तयिष्यामि भारत ॥५१॥ ( महाभागान्देवकल्पान्सत्यार्जवपरायणान् ॥५१॥ 1.74.133 )
येषाम् अपरिमेयानि नामधेयानि सर्वशस् । तेषाम् तु ते यथामुख्यम् कीर्तयिष्यामि भारत ॥५१॥ ( महाभागान् देव-कल्पान् सत्य-आर्जव-परायणान् ॥५१॥ १।७४।१३३ )
yeṣām aparimeyāni nāmadheyāni sarvaśas . teṣām tu te yathāmukhyam kīrtayiṣyāmi bhārata ..51.. ( mahābhāgān deva-kalpān satya-ārjava-parāyaṇān ..51.. 1.74.133 )

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In